सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 130, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 130

निर्देशः ] प्रथमं कोशस्थानम् १११
कायवाक्कर्म । तस्मान्न दर्शनप्रहातव्यम् । किं¹ पुन: कारणम्¹ ? सत्येष्वविप्रति-
पत्तेः, अनालम्बकत्वाच्च² । दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसङ्गाच्च ।
षष्ठमुच्यते मनआयतनम्, तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियं च यत्
तदपि नास्ति दर्शनप्रहातव्यम् ॥ ४० ॥
जनत्वेन तु समन्वागता । यस्मात्ते पृथग्जना इष्यन्ते, तस्मान्न कुशलं पृथग्-
जनत्वम् । क्लिष्टमपि तन्न भवति, वीतरागाणामपि तेन समन्वागमात् ।
क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणमिष्यते । प्राप्तिच्छेदः प्रहाणमित्यर्थः ।
तद्यदि पृथग्जनत्वं क्लिष्टं स्यात्, लौकिकवीतरागाणां तस्य प्राप्तिच्छेद इति
तेनासमन्वागमः स्यात्, इष्यते च तेषां तेन समन्वागमः । तथा हि ते लौकिक-
वीतरागा पृथग्जना एवेष्यन्ते । अक्लिष्टाव्याकृतत्वैकत्वेऽदोषः । छन्दराग-
प्रहाणं ह्यक्लिष्टस्येष्यते । तदालम्बनक्लेशप्राप्तिच्छेद इत्यर्थः । न तु तदात्मीय-
प्राप्तिच्छेद इष्यते । तथा ह्युक्तं भगवता—“यो भिक्षवो रूपे छन्दरागस्तं
प्रजहीत । एवं तद्रूपं प्रहीणं भवति” ( ) इति विस्तरः ।
तस्मादक्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणमपि चक्षुरादिवत् समुदाचरति ।
अतस्तेन समन्वागमो भवति ।
[के पुन: कारणम् ? अक्लिष्टाव्याकृतत्वात् पृथग्जनत्वं न दर्शनप्रहातव्यम् ।
रूपत्वाच्च कायवाक्कर्म । इत्याह—सत्येष्वविप्रतिपत्तेः। अक्लेशदुष्टत्वात् पृथग्-
जनत्वं न दुःखादिषु सत्येषु विप्रतिपद्यते । न विपरीतरूपेण प्रवर्तत इत्यर्थः ।
अनालम्बकत्वाच्च । कायवाक्कर्माप्यनालम्बकत्वादेव न विप्रतिपद्यते । तस्मात्
तदुभयं न दर्शनहेयम् । अयं च 'सत्येष्वविप्रतिपत्ते' इति हेतुरषष्ठजेऽप्यनु-
वर्तयितव्यः । दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसङ्गाच्चेति । अयमुपचयहेतुः ।
पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थमुच्यते, कायवाक्कर्मणोऽनभिसम्बन्धात् ।
दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश्छिद्यते, न तु छिन्ना, तत्प्रहेयक्लेशप्राप्ति-
वत्; “निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम्” ( अभि० को० ६ ८१ )
इति वचनात् । दुःखे धर्मज्ञाने तु तत्प्राप्तिश्छिन्ना । तेन तत्प्राप्तिसद्भावाद्
दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात् । न चासौ तस्याम-
वस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुम्, अधिगतार्यमार्गत्वात् । तथा
हि—“पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभः” इति पृथग्जनत्वलक्षणम् ।
स चार्यधर्माणां लाभेनालाभो व्याववर्त्यते । तस्मादार्य एवासाविति ।
१-१. का० पुस्तके नास्ति । २. का० पुस्तके नास्ति ।