सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 125, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 125

१०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे
धर्मसंज्ञकः ।
सभागः,
यो हि विषयो यस्य विज्ञानस्य नियतः, यदि तत्र तद्विज्ञानमुत्पन्नं भवत्यु-
त्पत्तिधर्मि वा, एवं स विषयः सभाग इत्युच्यते। न च सोऽस्ति कश्चिद्धर्मधातु-
र्यत्र नानन्तं मनोविज्ञानमुत्पन्नम्, उत्पत्स्यते वा। तथा हि सर्वार्यपुद्गलानामिदं
चित्तमवश्यमुत्पद्यते—"सर्वधर्मा अनात्मानः" इति।
तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम्, स पुनश्चित्तक्षणो-
ऽन्यस्य चित्तक्षणस्यालम्बनम्—इति द्वयोः क्षणयोः सर्वधर्मा आलम्बनं भवन्ति।
तस्माद् धर्मधातुर्नित्यं सभागः।
तत्सभागाश्च शेषाः,
सभागश्चेति चशब्दः। कोऽयं तत्सभागो नाम !
"धर्मसंज्ञकः सभागः" इति। धर्मसंज्ञकः सभाग एवेत्यवधार्यते। यो हि
विषयो यस्य विज्ञानस्य नियत इति। तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विषयः,
यावन्मनोविज्ञानस्य धर्माः। यदि तत्र तच्चक्षुर्विज्ञानमुत्पन्नमुत्पत्तिधर्मि वा। यावद्
यदि तत्र मनोविज्ञानमुत्पन्नम्, उत्पत्तिधर्मि वा। स विषयः सभाग इत्युच्यते।
तस्य च स्वभावसहभूनिर्मुक्ता इति। स्वभावेन सहभूभिश्च निर्मुक्ताः
स्वभावसहभूनिर्मुक्ताः। सर्वधर्मास्तस्य विज्ञानस्यालम्बनम्, न स्वभावः,
स्वात्मनि वृत्तिविरोधात्। न हि तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यते, न
सैवासिधारा तयैवासिधारया छिद्यते। न सहभुवः सम्प्रयुक्ता विप्रयुक्ता वा,
अतिसन्निकृष्टत्वात्। न ह्यक्षिस्थमञ्जनं तेन गृह्यते। स पुनश्चित्तक्षणोऽन्यस्य
चित्तक्षणस्यालम्बनमिति। ये पूर्वस्मिन् क्षणे स्वभावसहभुवो धर्मा नालम्बिता
अभूवँस्तेऽप्यालम्बिता इति द्वयोः क्षणयोः सर्वधर्मा आलम्बनं भवन्ति। तस्माद्धर्म-
धातुर्नित्यं सभागः। धर्मधातुर्हि नियतो मनस एव।
"तत्सभागाश्च शेषाः"। चशब्देन सभागाश्चेति शेषा एव सभागतत्सभागा
इत्यवधार्यते। ननु च धर्मधातुरेव सभाग एवेत्यवधारणे शेषा न सभागा
इति सभागतत्सभागाः सेत्स्यन्ति ? न सेत्स्यन्ति। यद्यपि न सभागा एव हि
भवेयुः, तत्सभागा एवेति तु सम्भवेयुः। तन्निवृत्त्यर्थमिदमारभ्यते—सभाग-
तत्सभागा एव शेषा., न तु सभागा एव, नापि तत्सभागा एवेति।