सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 119, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 119

१०० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
त्रिधाऽन्ये,
अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः । ते विपाकजा अपि, औप-
चयिका अपि, नैःष्यन्दिका अपि ।
द्रव्यवानेकः,
असंस्कृतं हि सारत्वाद् द्रव्यम् । तच्च धर्मधातावस्ति, अतो धर्मधातुरेको
द्रव्ययुक्तः ।
क्षणिकाः पश्चिमास्त्रयः ।
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः । ते प्रथमानास्रवे
दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्ति, अतः क्षणिका इत्यु-
च्यन्ते। अन्यसम्भूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः। तत्र दुःखे धर्मज्ञानक्षान्ति-
सम्प्रयुक्तं चित्तं मनोधातुः, मनोविज्ञानधातुश्च । शेषास्तत्सहभुवो धर्मधातुः ॥
त्रिधान्ये इति । त्रिधैवान्य अन्य एव त्रिधेत्यवधार्यते । तत्र विपाकजा
इन्द्रियाविनिर्भागिण एव । "विपाकोऽव्याकृतो धर्म, सत्त्वाख्य" ( अभि० को०
२।५१) इति वचनात् । नैष्यन्दिकौपचयिकास्त्विन्द्रियविनिर्भागिणोऽपि । कथं
पुनर्गेम्यते—इन्द्रियविनिर्भागिणोऽपि नैष्यन्दिका. सन्तीति ? मृतस्यापि तदनु-
वृत्तिदर्शनात् । न ह्यसत्त्वसंख्याता विपाकजा इष्यन्ते ।
“द्रव्यवानेकः” इति । एक एव द्रव्यवानित्यवधारणम् । सारत्वाद् द्रव्य-
मिति । अविनाशात् ।
क्षणमेकमनैष्यन्दिका भवन्तीति । क्षणमेकमसभागहेतुनिर्वर्तिताः । पूर्वक्षणा-
नास्रवाभावात् क्षणिका , न तु क्षणान्तरविनाशिन इत्ययमर्थोऽभिप्रेतः ।
अन्यथा, हि 'पश्चिमा एव धातव. क्षणिका' इत्यवधारणात् तदितरेषा धातू-
नामक्षणिकत्वप्रसङ्गः । कथं पुनर्दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर्मनोविज्ञान-
धातुश्च युगपद्भवत., न हि विज्ञानद्वयसमवधानमिष्यते ? नोच्यते—युगपत्तौ
भवत इति, किं तर्हि ? एकमत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते । नाम-
द्वयेन कथ्यत इत्यर्थ तेन व्याचष्टे—दुःखधर्मज्ञानक्षान्तिसम्प्रयुक्तं चित्तं मनो-
धातुर्मनोविज्ञानधातुश्चेति । शेषास्तत्सहभुवो धर्मधातुरिति । तत्र क्षान्तिकलापे
चित्तादन्ये धर्माः शेषाः । तत्सहभुव. तया क्षान्त्या सहभुवः । तद्यथा—
अनास्रवसंवरो रूपम् । वेदनासंज्ञाचेतनादयः सम्प्रयुक्ता. । तेषां च प्राप्तिजात्या-
दयो धर्मधातुरिति ।