वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
२४६ वरिवस्यारहस्ये
'मन्त्र' हुआ करते हैं । 'योगिनीहृदय' में कहा गया है—अक्षरार्थो हि भावार्थः
केवलः परमेश्वरी । योगिनीभिस्तथा वीरै वीरेन्द्रैः सर्वदा प्रिये । शिवशक्ति
समायोगाज्जनितो मन्त्रराजकः ॥'
एतमेर्वा मनसिनिधायाह—
यद्वा गीःसकलब्रह्मप्रभृतीनां त्रयं त्रयम् ।
त्रिकूटवाच्यं मायायास्तुरीयं मिथुनं मतम् ॥ ६६ ॥
(मिथुनत्रय एवं कूटत्रय में अंतसंबंध)
अथवा भारती एवं अन्य, सकल एवं अन्य, तथा ब्रह्मा एवं अन्य के त्रिकों
का त्रिक ('माया' = 'ह्रीं' शब्द से रहित) कूटत्रय का वाचक है । माया (ह्रींकार)
का (अर्थात् ह्रींकार के द्वारा इंगित) चतुर्थ मिथुन (शिवशक्तिरूप) है !। ६६ ।।
- प्रकाश *
अथ वा, वीरपदं योगिनीनामेव विशेषणमतल्लिङ्गम् । अत एव ब्रह्मादीनां
वीरपतिवाचकवीरेन्द्रपदेन निर्देशः । योगिनीवीरेन्द्रपदाभ्यां च शाक्तार्थे वक्ष्यमाणानां
षण्णामक्षराणां ब्रह्मभारत्यादिवाचकानां परामर्शः । शिवशक्तिसमायोगपदेन काम-
कलायाः परामर्शः, तस्यामुभयोगस्यानुपदं वक्ष्यमाणत्वात् । एवं सप्तभिरक्षरैस्त्रिरा-
वृत्तैर्मन्त्रराजो जनितः प्रादुर्भूत इत्यर्थः एतत्सप्तकपरिणामत्वान्मन्त्रो ऽपि तदात्मकः
प्रसारपरमार्थन्यायादिति भावः । न च मन्त्रयोत्पत्त्यङ्गीकारे ऽनादित्वभङ्गः, निर्विशेष-
ब्रह्मातिरिक्तस्य निखिलस्यापि सृष्टिप्रतिपादकशास्त्रप्रामाण्याज्जन्यत्वस्येष्टत्वेन सविशेष-
शक्तिवदजन्यत्वरूपानादित्वस्यानभिमतत्वात् । प्रवाहानादित्वं तु जन्यत्वाङ्गीकारे ऽपि
नानुपपन्नम्, कार्यमात्रस्य स्थूलसूक्ष्मरूपद्वयस्वीकारेणोत्पत्तेः पूर्वमपि कारणान्तः
सूक्ष्मरूपेणावस्थानस्य सत्कार्यवादिरभिरस्माभिरङ्गीकारेणानादित्वप्रतिपादकवचनानां
तत्परत्वेनाप्युपपत्तेः । प्रथमपक्षद्वये तु जनितपदादेरर्थो न स्वरसः । अत एवोत्तरग्रन्थे
भारत्यादिसप्तकसमष्टिरूपायाः परदेवताया मन्त्राभेदप्रतिपादनं सङ्गच्छते, वाचकाक्षर-
समष्ट्यात्मकमन्त्रस्य वाच्यार्थ समष्ट्यात्मकपरदेवताभेदस्य वाच्यवाचकयोरभेदवादि-
नामस्माकं न्यायसिद्धत्वेन संदर्भशुद्धेः । यथा—
'तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् ।
निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥
शिवशक्त्यात्मसंघट्टरूपे ब्रह्मणि शाश्वते ।
तत्तथाप्रसराश्लेषशालिन्यैन्द्रोपलक्षिते ॥
ज्ञातुर्ज्ञानमयाकारकरणात्मनरूपिणीम् ।
तेषां समष्टिरूपेण परा शक्तिस्तु मातृका ॥'
इति । तन्मयीं मन्त्रराजाभिन्नाम् । 'आनन्दमयः', 'चिन्मयः', इतिवदभेदेमयट् ।
अन्ये तु 'तुरीयकूटस्यार्थमाह—तन्मयीमिति । चतुर्थमिथुनवाचकत्रिबीजसमष्टिरूपमन्त्र-
द्वितीयोऽंशः २४७
वाच्यमित्यर्थः' इति व्याचक्षते । तन्नातीव संदर्भशुद्धं वाच्यार्थे मयदभावश्चेत्युपेक्ष्यम् ।
स्पन्दः षट्त्रिंशत्तत्वात्मना परिणामः, तद्रूपिणीं तदभिन्नाम् । एतेन देवताभिन्नविश्वस्यापि
मन्त्राभेदः सूचितः । अव्याकृतनामरूपप्रपञ्चस्योत्पत्त्युन्मुखतैव स्पन्दोन्मेषव्याकरणादि-
शब्दैर्व्यवह्रियते 'नान्यत् किञ्चन मिषत्', 'नामरूपे व्याकरण्वाणि', 'न खलु कुशलः
स्पन्दितुमपि' इत्यादौ । तेनाव्याकृतनामरूपजगत एव स्पन्द इति प्रायेण तन्त्रेषु
व्यवहारः । इत्थं मन्त्रदेवताजगतामभेदमनुसंदधानो मन्त्रं जपेदिति विधत्ते—स्वैरमुपासत
इति । पञ्चमो ऽयं लकारो लिङर्थे । 'मुखं व्यादाय स्वपिति' इतिवत् समानकालिकत्वे
ऽपि 'ज्ञात्वा' इत्यत्र क्त्वाप्रत्ययः । एवं देवतायां मन्त्राभेदं युक्तिभिः प्रतिपाद्य
मन्त्रपदस्यावयवशक्त्तिरपि समस्तीति प्रदर्शयति—शिवेत्यादिसार्धश्लोकेन । शिव-
शक्त्यात्मनोः संघट्टः सामरस्यं तद्रूपे । शाश्वते ऽनादिनिधने । तस्य प्रथायाः पृथुत्वेन
प्रसरो जगद्रूपः, तदाश्लेषशालिन्यप्यैन्द्रेण जगदैश्वर्येण काकेनेवोपलक्ष्यते, न तु विशिष्टे ।
विषयत्व सप्तम्यर्थः । तथा च सत्यत्वज्ञानत्वाद्युपलक्षितशुद्धब्रह्मैकविषयक-
निर्विकल्पकज्ञानवतः साधकपुंगवस्य ज्ञानमयः स्वसंविद्रूपो ब्रह्मभावो य आकार-
स्तत्करणान्मन्तारमुक्तज्ञानरूपमननशालिनं त्रायते भयजनकद्वितीयपदार्थमात्रनिरासादिति
मन्त्रपदावयवार्थः । तद्रूपिणीमिति विध्यन्तर्गतदेवीपदस्य विशेषणम् । मन्त्र इति पदस्य
देव्यामनुगत्तिमुपपाद्य तत्पदार्थभूतं पञ्चदश्यभिन्नत्वं संमुग्धाकारेण प्रतिज्ञातपूर्वमपि हेतुना
द्रढयति—तेषामिति । तुशब्दो ऽत्र हेत्वर्थकः । यतो भारत्यादीनां समष्टिरूपेणोपलक्षिता
माता, ततस्तस्यां तद्वाचकाक्षरसमष्ट्यात्मकविद्याभेद उपपद्यत इति भावः । अथ वा,
मन्त्रपदस्यावयवशक्त्या प्रवृत्तिमपपाद्य समुदायशक्त्यापि तामुपपादयितुं मन्त्रराज-
पदशक्यतावच्छेदकं भारत्यादिसप्तकसमिष्टत्वं(?) परदेवतायामाह—तेषामिति ।
समष्टीति भावप्रधानो निर्देशः । समष्टित्वेन शक्यतावच्छेदकरूपेण युक्ता यतः
परदेवता, ततो रूढ्यापि मन्त्रराजपदवाच्यत्वं युक्तम् । तेन च तयोरभेदो ऽपि युज्यत
इति भावः ।। ६६ ।।
- सरोजिनी *
मिथुनत्रय एवं कूटत्रय में अभेदात्मकता प्रतिपादन
१. ब्रह्मा और भारती (अर्थात् वामा + इच्छाशक्ति) ┐
२. हरि और क्षिति (अर्थात् ज्येष्ठा + ज्ञानशक्ति) ├ 'मिथुनत्रय' कहे गए हैं ।
३. शिव और अपर्णा (अर्थात् रौद्री + क्रियाशक्ति) ┘
३ कूट : १. वाग्भवकूट ┐
२. कामराजकूट ├ मिथुनत्रय कूटत्रय के वाच्य हैं ।
३. शक्तिकूट ┘
मिथुनत्रय = कूटत्रय ।।
'कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणीम्' कहकर कूटत्रय की देव्यात्मकता का
प्रतिपादन भी किया गया है ।
२४८ वरिवस्यारहस्ये
'वामादिषट्क' = कामकला से अभिन्न है ।
वामादिकामकलान्तसप्तक—मन्त्र से अभिन्न है ।
अमुमेवार्थं सुनिष्कृष्टं श्लोकतो निबध्नाति—
वामेच्छाद्याः षडीकार इति सप्तभिरक्षरैः ।
त्रिरावृत्तैरियं विद्या सञ्जाता तेन तन्मयी ॥ ६७ ॥
वामादिसप्तशक्तीनां समष्टिः परदेवता ।
षट्त्रिंशत्तत्त्वरूपास्मान्मात्रयापि न भिद्यते ॥ ६८ ॥
(पञ्चदशाक्षरी विद्या का स्वस्वरूप)
यह विद्या सात अक्षरों से निर्मित हुई है । इसमें वामा, इच्छा आदि छः
शक्तियाँ एवं ईकार सम्मिलित हैं जिनकी तीन बार पुनरावृत्ति की जाती है । अतः
(यह विद्या, इनके द्वारा व्यक्तीभूत) उन (शक्तियों) से युक्त हैं ॥ ६७ ॥
(परात्परशक्ति का सप्त शक्तियों एवं छत्तीस तत्त्वों से तादात्म्यभाव)
परदेवता (परात्परशक्ति) वामादिक सात शक्तियों की समष्टि है । और छत्तीस
तत्त्वों का मूर्तिमानस्वरूप है । (यह)मन्त्र किंचिन्मात्रा में भी भिन्न नहीं है ॥ ६८ ॥
- प्रकाश *
अस्मात् तन्मन्त्रात्, मात्रयापि लेशेनापि न भिद्यते । मन्त्रे तृतीयवर्णस्य ज्येष्ठा-
शक्तिवाचकत्वेन वामादिषट्कान्तः पातित्वेनावशिष्टानां हृल्लेखास्थानामेव कामकला-
नामीकारपदेन परामर्शान्न त्रिरावृत्तैरिति संख्याविरोधः । न च शाक्तार्थेन पौनरुक्त्यम्,
तत्र वामादिषट्कं कामकलाया अभिन्नमिति वाक्यार्थः, अत्र तु वामादिकामकलान्त-
सप्तकाभिन्नो मन्त्रः षट्त्रिंशत्तत्त्वाभिन्नमात्रभिन्न इत्यर्थ इति महतो भेदात् । अथ वा,
शिवशक्तिसमायोगरूपसमष्टिजन्यत्वान्मन्त्रराजः स्पन्दश्च तद्व्यष्टिरूपौ शिवशक्तिमयौ ।
तेन जगन्मन्त्रदेवीनामभेद इति भावनं भावार्थः । अत एवोपसंहृतं योगिनीहृदये—
‘.....................चलतासंस्थितस्य तु ।
धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ।
वाचकाक्षरसंयुक्तैः कथिता विश्वरूपिणी ।
तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ।
कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणीम् ।
आद्यां शक्तिं भावयन्तो भावार्थ इति मन्वते ।'
इति । पराहंतेत्यादिभावार्थकत्वतलादिवाच्यत्वाद्धर्मः शक्तिः । निर्धर्मकत्वादधर्मः
शिवः । स्पन्दजननं प्रति शक्तिबहिर्भूतस्य शिवस्याक्षमत्वादन्वयव्यतिरेकयोराचार्य-
भगवत्पादैः सौन्दर्यलहर्या प्रथमश्लोके तथैव तद्व्याख्यानकर्तृभिश्च प्रदर्शितत्वाच्च शक्तेः
द्वितीयोंऽशः २४९
कारणतावच्छेदकत्वं कारणत्वं भवचक्रात्मकस्पन्दं प्रति स्वीकार्यम् । तेन जनन-
मरणादिक्लेशमयसंसारजनकत्वाद्विषं शक्तिः । तद्विनिर्मोकादमृतं शिवः । तदुभयस्य
वाच्यस्य वाचके ये अक्षरे वक्ष्यमाणरीत्या हकाराकाररूपे, ताभ्यां व्यस्ताभ्यां
तदुभयसमावेशरूपकामकलाक्षरेण चास्य चलतासंस्थितस्य नश्वरतायुक्तस्य जगतः,
प्रकृतत्वान्मन्त्रराजस्य च सम्यक्परिणामपरिणामिभावेन युक्तेः संबन्धादेषां१ विद्या
विश्वरूपिणी कथिता, एकाकारेणोत्पन्नयोरभेदादिति२ शिवशक्तिसामरस्यरूपस्य
पराशक्तिजगदम्बादिपदवाच्यस्य कारणस्य कार्याभ्यां विश्वविद्याभ्यामभेदं सूचयं-
स्त्रयाणामभेदमुपसंहरति तेषामित्यादिनेति तदर्थः । अस्मिन् पक्षे योगिन्यादिभिर्भावित
इति शेषपूरणेनोपक्रमश्लोकार्थो वर्णनीयः । भावार्थस्वरूपं तु शिवशक्तिसमायोग-
जन्यत्वादिकमात्रम्, न पुनर्योगिन्यादेर्जनककोटौ निवेशः । अक्षरार्थत्वं च तादृशाक्षर-
द्वयजन्यत्वादेवेति दिक् । अत्रेदमवधेयम् — इयं सृष्टिः परब्रह्मपरिणाम इति पूर्वमुक्तम्,
सा च सृष्टिर्द्विधा, अर्थमयी शब्दमयी चेति । चक्रमयी देहमयी चेति सृष्टिद्वयं तु
बालक्रीडनकार्थं स्थूलगृहसमानाकारत्वेन सूक्ष्मगृहनिर्माणतुल्यमर्थसृष्टावेवान्तर्गतम्, न
पुनरत्यन्तं भिद्यते । सा च द्विविधापि सृष्टिः समकालीनोत्पत्तिका समकालीना-
भिवृद्धि-शालिनी च, यथा बीजादङ्कुरतच्छाया । तत्र च छायादर्शनेन वृक्षानुमिति-
रनुभवसिद्धा । स च छायायां वृक्षसमानाकारत्वं वृक्षाविनाभावं च विना अनुपपन्नेति
तद्द्वयमपि तत्र कल्प्यम् । प्रत्यक्षसंवादविषयश्च तद्वच्छब्दः सर्वो ऽप्यर्थाविनाभूतः,
अर्थज्ञानजनकज्ञानविषयत्वात् 'वागर्थाविव संपृक्तौ' इत्याद्यभियुक्तोक्तेश्च । तथार्थ-
समानाकारो ऽपि । तथा हि—यावन्तः शब्दे ऽवयवास्तावन्त एवार्थे तज्ज्ञाने
चाभ्युपेयाः । 'चैत्रस्तण्डुलं पचति' इत्यत्र चैत्रपदं सुप्रत्ययस्तण्डुलपदमम्प्रत्ययः
पचिधातुस्तिप्रत्ययश्चेति षडवयवात्मकस्य शब्दसमूहस्य चैत्रः कर्तृत्वं तण्डुलः कर्मत्वं
तेजःसंयोगः कृतिश्चेति विशकलिताः षडर्थाः । तेषां च परस्परसमभिव्याहारस्य तु
परस्परसंबन्धविशेषोऽर्थः । तत्तत्पदार्थविशिष्टा भावनैव वाक्यार्थ इति मीमांसकाः ।
तत्तदितरव्यावृत्तिर्वाक्यार्थ इत्यपि केचित् । एवं तज्ज्ञानमपि षट् पदार्थांस्तत्संबन्धादींश्च
विषयीकुर्वत् तत्समानाकार भवति अन्यथा ज्ञानानां परस्परवैलक्षण्यानुपपत्तेः ।
अन्तःकरणपरिणामविशेषरूपे ज्ञाने तत्तदाकारत्वेन परिणतवकल्पनसंभवाच्च । अत
एव 'चैत्रस्तण्डुलं पचतीत्याकारकं ज्ञानम्' इत्येव सकलतान्त्रिकाणां निराकारवादिना-
मपि व्यवहारः । अनयोः सृष्ट्योर्ज्ञानजनकं तु मन एव । तच्च शब्द श्रोत्रेन्द्रियद्वारैव
गृह्णाति, अर्थं तु कञ्चन साक्षात् कञ्चन चक्षुरादिद्वारेति विशेषः । ते च द्वे अपि सृष्टी
स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमभेदात् प्रातिस्विकं चतुर्विधे । श्रोत्रमनसोस्त्वर्थान्तःपातित्वादेव
चातुर्विध्यम् । एवं च स्थूलश्रोत्रेण स्थूलशब्दश्रवणात् स्थूलार्थस्य स्थूलमनसा ज्ञानम्,
सूक्ष्मश्रोत्रेण सूक्ष्मशब्दश्रवणात् सूक्ष्मार्थस्य सूक्ष्ममनसा ज्ञानमित्यादि द्रष्टव्यम् ।
...Wait, what is line 12? Let's read line 12 from the scan:ब्रह्मैव । तच्चप्रकthen spaceशैकाकारस्यार्थादत्यन्तभिन्नस्य शब्दब्रह्मादिपदनिर्देशविशेषस्याभावात्Wait, look at line 12: Is thatतच्च प्रकाशैकाकारस्यार्थादत्यन्तभिन्नस्य? Wait! Look at the words: तच्च प्रकाशैकाकारस्य- the 'ा' between 'क' and 'श' is broken/missing, soतच्चप्रक शैकाकारस्यorतच्च प्रकाशैकाकारस्य? Wait, why does it say प्रकाशैकाकारस्यार्थादत्यन्तभिन्नस्य? Wait, in line 12, is it प्रकाशैकाकारस्यorप्रकाशैकस्वरूपस्य? Wait, it says: ...र्थादत्यन्तभिन्नस्य(arthād atyantabhinnasya) Then:शब्दब्रह्मादिपदनिर्देशविशेषस्याभावात्! Wait, look at: शब्दब्रह्मय दिपद...- no, look at the character after 'ह्म': It is 'ा' with a smudge or 'ादिपद'! Yes,शब्दब्रह्मादिपदनिर्देशविशेषस्याभावात्. Wait, look at line 13: ‘अनिर्देश्यम्’, ‘अग्राह्य
एवान्ते यस्येति विग्रहप्रदर्शनपूर्वकं हकारविशिष्टादकारादिति व्याचक्षते । तन्मते हकारे
शून्यत्वलाभो दुर्घटः । अत्रायं सृष्टिक्रमः—यथा हि कश्चित् पुरुष उत्पत्स्यमानपुत्राद्य-
दृष्टवशादुत्पादनेच्छाविशिष्टः स्वीयामुत्पादनशक्तिमवलोक्य स्वार्धशरीरात्मिकायां
भार्यायां स्वयमन्तः प्रविशति शुक्लरूपेण, 'पतिमेकादशं कृधि', 'आत्मा वै
पुत्रनामासि' इति श्रुतेः । प्रवेश्यमानस्य स्वभिन्नत्वात् स्थूलतरभेदाक्रान्तत्वाच्च नाभैद-
मानम् । ततस्तस्य शुक्लस्यान्तः शोणितबिन्दुरूपेण भार्या प्रविशति । तेन च स
बिन्दुरुच्छूनो भवति । स एष वटोदुम्बरादिबीजस्थानीयः । तस्मादङ्कुर-
विशेषाद्युत्पत्तिक्रमेण कालान्तरे पुत्राद्युत्पत्तिरिति । यथा वा सूर्याभिमुखदर्पणे तदन्तः
प्रविष्टकिरणादुभयकिरणसङ्कलनरूपस्तेजोबिन्दुविशेषः कुड्यादौ प्रादुर्भवति, तथा
प्राण्यदृष्टवशात् स्वान्तःसंहतविश्वसिसृक्षया प्रकाशरूपं ब्रह्म स्वीयां शक्तिमवलोकयितुं
तदभिमुखोभूय तदन्तस्तेजोरूपेण प्रविश्य शुक्लबिन्दुभावमयते । ततस्तं बिन्दुं रक्तरूपा
शक्तिः प्रविशति । तेन संमिश्रबिन्दुरुच्छूनो भवति । तत्र च हार्दकलारूपो ऽप्येकः
पदार्थविशेषो भवति । स पुनर्गुरुमुखादेवावगन्तव्यः, न पुनः पुस्तके लेख्यः । स च
बिन्दुः समष्टिरूपेणैकः स्फुटशिवशक्तिसामरस्यनामा 'कामो रविरग्नीषोमात्मकः'
इत्यादिशब्दैर्व्यवह्रियते । व्यष्टिरूपेण द्वयम् । तत्र शुक्ल इन्दू रक्तो ऽग्निरिति
बिन्दुद्वयात्मकत्वाद्विसर्ग इति च व्यवह्रियते । अत एव च रवे रात्रावग्नावमावास्यायां
चन्द्रे च प्रवेशस्य श्रुत्यादिसिद्धत्वात् समष्टिबिन्दो रवित्वम् । एवं च कामाख्यो बिन्दु-
र्विसर्गो हार्दकला चेति त्र्यवयवक एकः पदार्थो ऽणादिप्रत्याहारवत् कामकलेत्युच्यते ।
इदमेव च १समस्तसृष्टिबीजम् । अत एवाकारहकारयोर्मध्ये सर्ववर्णपाठः । ळकारस्य
लकारादभिन्नत्वात्, क्षकारस्य कषयोगरूपत्वान्न तद्बहिर्भावः शङ्क्यः । एतन्मूलभूतं
ब्रह्म तु तुरीयबिन्दुरित्युच्यते । तद्रूपाभ्यां शून्यस्वरूपाभ्यामकारहकाराभ्यामुत्पन्ना
कामकला व्यक्ताव्यक्तविलक्षणा अहंपदवाच्या । अकारहकारोभयात्मकत्वं शिवशक्ति-
द्वयरूपत्वं चाहंपदस्य निष्कृष्टो ऽर्थः । अत एव तज्जन्यानां सूक्ष्मादिस्थूलान्तानामखिल-
सृष्टीनामहंपदवाच्यत्वम् । यथा ह्युदुम्बरपदवाच्यबीजाज्जनितानां परस्परविलक्षणानामपि
पर्णकाष्ठकुसुमफलक्रिमीणां सर्वेषामुदुम्बरत्वम्, 'उदुम्बरपर्णम्', 'उदुम्बरक्रिमिः',
इत्यादिव्यवहारात् । तथा च श्रुतयः—'ब्रह्म वा इदमग्र आसीत्; तदात्मानमेवावेदहं
ब्रह्मास्मीति' इति बृहदारण्यके; 'त्वं वा अहमहं वै त्वम्' इत्याैतरेयके; 'कस्त्वमित्यह-
मिति होवाच त्वमेवेदं सर्वं तस्मादहमिति सर्वाभिधानम्' इति तापनीये । पाणिनिनाप्य-
स्मच्छब्दस्य सर्वनामतोक्ता । तत्रैवान्यत्र 'तद्वा एतद्ब्रह्माद्वयम्' इत्यादिना ब्रह्मस्वरूपम-
भिधाया तदुपासनां पूर्णाहंभावभावनारूपां विस्पष्टम् 'हंसः सोऽहम्' इत्यादिना
विदधाति । तन्त्रकारस्त्वतिरहस्यत्वाद् गुरुचरणैकलभ्यः । उक्तं च कादिमते—
'बन्धनं योनिमुद्राया मन्त्राणां वीर्ययोजनम् ।
गुरोर्लक्षणमेतावदादिमान्त्यं तु वेदयेत् ॥'
इति । आदिमो ऽकारः, अन्त्यो हकारः, तयोः समाहारः 'अहम्' ।
बिन्दुलाभायैवेत रेतरयोगद्वन्द्वपरित्यागेन समाहारद्वन्द्वोक्तिः । छान्दोग्ये ऽपि 'अहमेवाध-
स्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतो ऽहमुत्तरतो ऽहमेवेदं सर्वम्' इति ।
१. समष्टि
२५२ वरिवस्यारहस्ये
विरूपाक्षपञ्चाशिकायामपि—
'स्वपरावभासनक्षम आत्मा विश्वस्य यः प्रकाशो ऽसौ ।
अहमिति स एक उक्तोऽहंतास्थितिरीदृशी तस्य ॥'
इत्यादीनि परःसहस्रं वचनानि । एतादृशस्याहंपदार्थस्य यथा ऽहमिति पदं वाचकं
तथोत्तमपुरुषैकवचनमपि वाचकम् । तस्य च परस्मैपदात्मनेपद भेदेन द्वैविध्ये ऽपि मिप
दृष्टश्रैकारत्वेनानुगमादित्वमेव शक्ततावच्छेदकम्, 'अन्यायश्चानेकशब्दत्वम्' इति
न्यायात् । तस्य च धातूत्तरत्वेनोत्तमपुरुषत्वादिना वोपस्थितिः पदार्थस्मारकत्वे तन्त्रम् ।
एर्णलादावपि लुप्तस्य स्मरणम्१ । तदभावे शक्तिभ्रमाद्बोध इत्यादि यथायथमूह्यम् । तत्र
चाकारहकारयोरवयवयोर्दर्शने ऽपि शास्त्रप्रामाण्यात् सूक्ष्मरूपौ तौ स्त इति
स्वीकार्यम् । तस्यैव च हार्दकलायोगे दीर्घतापि संपद्यत इति तुरीयस्वरस्य कामकला
द्वितीयोऽंशः २५३
रूपा सृष्टिरित्यर्थः । तद्रूपं व्योम हकार इत्यर्थो युक्तः, ‘हः शिवो गगनं प्राणः’ इति
मातृकाकोशात् । मध्यम इत्यस्य द्विरन्वयः । तत्रैकं पदं मन्त्रपिण्डेन सह सामानाधि-
करण्येनान्वेति, अपरं वैधिकरण्येन । मध्यमकूटस्य मध्यमव्यञ्जने । द्वितीयंहकार
इत्यर्थः, द्वितीयगेषु सप्तसु व्यञ्जनेषु तस्य चतुर्थत्वेन मध्यमत्वात् । तत्र स्थिता ।
स्त्रीलिङ्गाच्छक्तिर्विशेष्या । तृतीयकूटे तु सकारे ऽकारो मूलबीजीय इत्याह—
राहुकूटेति । लघुषोढान्यासान्तर्गतग्रहन्यासे राहोः शषसहाख्यवर्णचतुष्टयसहितस्य वक्त्रे
न्यासः, ‘वक्त्रे शादिचतुर्वर्णैः सहितं राहुमेव च’ इति वचनात् । तेन शादिचतुष्कं राहु-
कूटम् । तत्र द्वयादिद्भिन्नो ऽद्वयस्तृतीयः सकारः । तस्मिन् स्फूर्जच्छोभमानम् । नपुंसक-
लिङ्गबलाद् ब्रह्म विशेष्यम् । शिव इत्यर्थः । इत्यलमतिरहस्यार्थप्रकाशनेन ॥ ६७-६८ ॥
- सरोजिनी *
‘सप्तभिरक्षरैः’—‘पञ्चदशाक्षरी विद्या’ जिसमें १५ वर्ण हैं वह अक्षर-पुनरावृत्ति
से रहित गिनने पर मात्र ७ वर्णों से ही निर्मित हुए हैं—
(क) पञ्चदशीविद्या के १५ अक्षर—
‘क ए ई ल ह्रीं, ह स क ह ल ह्रीं, स क ल ह्रीं’ = १५ वर्ण
(५) (६) (४)
(ख) पञ्चदशी विद्या में मात्र ७ अक्षर—
क, ए, ई, ल, ह, स, ‘ह्रीं’ = ७ वर्ण
(ग) सावृत्तिपूर्ण वर्ण—१३ वर्ण
क ए ई ल ह्री, ह स क ह ल ह्रीं, स क ल ह्री । में ‘क’ = ३ बार
आया । ‘ल’ = ३ बार आया । ‘ह’ = २ बार आया । ‘स’ = २ बार आया ।
‘ह्री’ = ३ बार आया ।
सारांश—(क) ए, ई, = २ वर्णों की पुनरावृत्ति नहीं हुई ।
(ख) १३ वर्णों की पुनरावृत्ति हुई ।
(ग) वैसे तो ‘ह्री’ में ‘इ’ है अतः उसे भी मान लिया जाय तो ‘ई’ की
पुनरावृत्ति = ४ बार हुई ।
(घ) इस दृष्टि से ‘ए’ (वाग्भव बीज = सरस्वती बीज) ही ऐसा वर्ण है जो
आवृत्ति से पूर्णतया मुक्त है ।
‘पञ्चदशी’ के इन अक्षरों में वामा, इच्छा आदि ६ शक्तियाँ एवं ईकार
सम्मिलित हैं । अतः इन वर्णों में इन शक्तियों का निवास है अर्थात् वर्णाक्षरों के
साथ शक्तियों की अभेदात्मकता है ।
‘तेन तन्मयी’—मन्त्रों में शक्तियाँ निवास करती हैं । पञ्चदशी मन्त्र के इन ७
अक्षरों में ७ शक्तियाँ निवास करती हैं ।
२५४ वरिवस्यारहस्ये
'योगिनीहृदय' में भी इसका प्रतिपादन किया गया है—'धर्माधर्मस्य वाच्यस्य
विषामृतमयस्य च । वाचकाक्षरसंयुक्तेः कथिता विश्वरूपिणी । तेषां समष्टिरूपेण
पराशक्ति तु मातृकाम् । कूटत्रयात्मिकां देवी समष्टिव्यष्टि रूपिणीम् । आद्यां शक्ति
भावयन्तो भावार्थ इति मन्वते ॥'—इसकी पुष्टि में कहा गया है—'परदेवता' वामा
आदि सात शक्तियों की समष्टि है । यह ३६ तत्त्वों वाली एवं किसी भी माने में
इस मन्त्र से भिन्न नहीं है—'षटत्रिंशत्तत्त्वरूपास्मान्मात्रयापि न भिद्यते ॥'१ 'भावार्थ'
इसी भाव को व्यक्त करता है कि देवी, मन्त्र एवं जगत् में अभेद है—
'तेनाम्बामनुजगतामभेद एवात्र भावार्थः ।'२
१. परात्परशक्ति सप्तशक्तियों से अभिन्न है । ⎤
२. वह शक्ति छत्तीस तत्त्वों से भी अभिन्न है । ⎥ त्रिविध अभेद
३. वह पराशक्ति मन्त्र से भी पूर्णतया अभिन्न है । ⎦
पराशक्ति का सप्त शक्तियों से ३६ तत्त्वों से एवं मन्त्र से अभेद है ।
तदेतत् सर्वमभिसंधायाह—
अहकारौ शिवशक्ती शून्याकारौ परस्परार्श्लिष्टौ ।
स्फुरणप्रकाशरूपावुपनिषदुक्तं परं ब्रह्म ॥ ६९ ॥
विश्वसिसृक्षावशतः स्वार्धी शक्तिं विलोकयद्ब्रह्म ।
बिन्दूभवति तमिन्दुं प्रविशति शक्तिस्तु रक्तबिन्दुतया ॥ ७० ॥
एतत् पिण्डद्वितयं विसर्गसंज्ञं हकारचैतन्यम् ।
मिश्रस्तु तत्समष्टिः कामाख्यो रविरकारचैतन्यम् ॥ ७१ ॥
एषाहंपदतुर्यस्वरकामकलादिशब्दनिर्देश्या ।
वागर्थसृष्टिबीजं तेनाहंतामयं विश्वम् ॥ ७२ ॥
अन्त्यप्रथमे मध्यचतुर्थे मन्त्रेऽपि तौ व्यक्तौ ।
तेनाम्बामनुजगतामभेद एवात्र भावार्थः ॥ ७३ ॥
(अकार एवं हकार की ब्रह्मरूपता)
'अकार' एवं 'हकार' शिवशक्तिस्वरूप, शून्याकार, परस्पर आश्लिष्ट, स्फुरणा-
स्वरूप एवं प्रकाशरूप हैं तथा उपनिषदप्रोक्त परब्रह्म के स्वरूप वाले हैं ॥ ६९ ॥
(सिसृक्षुब्रह्म की सृजन-प्रक्रिया)
विश्व-सर्जन की आकांक्षा के वशीभूत होकर (सिसृक्षु) ब्रह्म अपनी अर्धांगिनी
शक्ति का प्रेक्षण करता हुआ 'बिन्दु' का स्वरूप धारण कर लेता है । उस बिन्दु में
शक्ति 'रक्तबिन्दु' के रूप में प्रवेश करती है ॥ ७० ॥
१-२. वरिवस्यारहस्यम्
द्वितीयोऽशः २५५
('विसर्ग', 'काम' एवं 'रति' का स्वरूप)
हकार की आध्यात्मिक चैतन्य-शक्ति से समन्वित बिन्दुओं का यह मिथुन
'विसर्ग' कहलाता है । उनकी समष्टि से निर्मित (उनका) यह मिश्रण 'कामतत्त्व'
नाम से अभिहित किया जाने वाला 'सूर्य' है और 'अकार' चैतन्य-समन्वित है
(यह अकार की आध्यात्मिक चैतन्य-शक्ति से समन्वित है ।) ॥ ७१ ॥
(शाब्दीसृष्टि एवं आर्थी सृष्टि का मूल कारण)
'अहंपद', 'चतुर्थस्वर' एवं 'कामकला' आदि शब्दों से निर्देशित यह शाब्दी
सृष्टि एवं आर्थी सृष्टि का बीज (मूल कारण) है इसलिए निःशेष सृष्टि अहंता—
समन्वित है (अहंतामय है ।) ॥ ७२ ॥
('भावार्थ' का स्वरूप)
ये दोनों मन्त्र में ही अन्तिम कूट के प्रथम एवं मध्यकूट के चतुर्थवर्ण के
रूप में अभिव्यक्त हैं । इस प्रकार देवी, मन्त्र एवं विश्व की अभेदात्मकता (का
प्रतिपादन ही) यहाँ 'भावार्थ' है ॥ ७३ ॥
- प्रकाश *
अत्र शिवबिन्दोः शुक्लत्वाच्चन्द्रात्मकत्वाद्विन्दुवाचकत्वाच्चन्द्रपदाना- मिन्दुपदेन
बिन्दुनिर्देशः कृतः । भावार्थ इति । भावो जन्म । 'भावः सत्तास्वभावाभिप्राय-
चेष्टात्मजन्मसु' इत्यमरः । स एवार्थः प्रयोजनं ज्ञेयत्वाद्यत्र सः, अर्थो ज्ञेयो यत्रेति वा ।
'अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः ॥ ६९-७३ ॥ - सरोजिनी *
समस्त वर्णमाला में सर्वप्रथम आने वाला सर्वाग्रणी अक्षर 'अ' प्रकाश रूप
परमशिव है कलारूप 'ह' 'विमर्श' नाम की सनातनी आद्यशक्ति है—
'अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिव ।
हकारोऽन्त्यकलारूपो विमर्शाख्यः प्रकीर्तितः ॥'१
'बृहन्नारदीयपुराण' में कहा गया है—
'अकारं ब्रह्मणोरूपं उकारं विष्णुरूपवत् ।
मकारं रुद्ररूपं स्यादर्धमात्रं परात्मकम् ॥'२
जो लोहित रङ्ग से प्रकाशमान है एवं दीप्त अनुत्तर धाम है वह अग्नि है ।
वह प्रमातारूप है । उसका ज्ञान क्रियात्मक शाक्तस्फार है, वह प्रमाण प्रमेयात्मक
सूर्य एवं सोम है । वही वीर्य है । इन दोनों अर्थात् लोहित एवं वीर्य शक्तियों के
संघट्ट की दशा में जिस शाश्वत उदित तत्त्व का प्रस्फुरण होता है, वही 'अकार'
१. संकेत पद्धति २ बृहन्नारदीयपुराण
२५६ वरिवस्यारहस्ये
एवं 'हकार' से युक्त शिवशक्ति सामरस्य वाला परब्रह्म है। 'अहं' रूप परप्रमाता के
परामर्श का ही यह उदय है। उसी की महत्ता से वाच्य वाचक रूप सृष्टि का
अवभास होता है। श्रीकृष्ण गीता में कहते हैं—
'अक्षर ही परब्रह्म है। उसका 'स्व' भाव ही अध्यात्म है ॥'१
यल्लोहित तदग्निर्यद्वीर्यं सूर्यैन्दुविग्रहम् ।
अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥ २२७ ॥२
'अकार' एवं 'हकार' एकत्र अवस्थित हैं। इसमें विभाजन नहीं होता। जैसे
वायु एवं आकाश' यह 'अ' रूप शिव (पर प्रमाता) ५० वर्णों में भी व्याप्त है।
यह अनुत्तरकर्ता है।
“अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ।
विभक्ति र्नयोरस्ति मारुताम्बरयोरिव ॥”३
यह अनुत्तर परमेश्वर का ही शाक्त विसर्ग है जो कि 'हकार' पर्यन्त स्थूल रूप
से प्रस्फुरित है। वहाँ से इसके प्रत्यावर्तन की स्थिति में शिव, बिन्दु
द्वितीयोंऽशः २५७
'ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ।। (ई०प्रत्य०) 'ईश्वर' = बहिरुन्मेष ।
'सदाशिव' = अन्तः निमेष ।
३. 'शुद्धविद्या या सद्विद्या तत्त्व' में- 'अहम्' एवं 'इदम्' इन दोनों रूपों में
ऐक्य की प्रतीति रहती है । 'मै = यह हूँ'' यही भावना शुद्धविद्या में जागृत रहती
है । इसमें क्रियाशक्ति को प्राधान्य है ।
४. 'मायातत्त्व' — इस भूमि पूर्वभूमि की ऐक्य प्रतीति पृथक्-पृथक् हो जाती
है । 'अहं' अहं पुरुष रूप में एवं 'इदम्' अंश प्रकृति के रूप में अभिव्यक्त हो
जाता है । यहाँ 'अचित' में प्रमातृत्व का आभास होने लगता है । इस भूमि में
परमेश्वर माया शक्ति द्वारा अपने रूप को आच्छादित कर लेते हैं और पुरुष तत्त्व
के रूप में पृथक हो जाते हैं । परमशिव सर्वकर्ता, सर्वज्ञ, पूर्ण, नित्य, व्यापक
एवं असंकुचित शक्ति वाला होकर भी स्वेच्छावश 'कला' 'विद्या' 'राग' 'काल' एवं
'नियति' रूप ५ कञ्चुकों से आवेष्टित होकर अभिव्यक्त होता है इन्हीं पाँचों से
आच्छादित होकर यह चैतन्य 'पुरुषतत्त्व' बन जाता है ।
शङ्कराचार्य के कथनानुसार "अहं (अस्मत् प्रत्यय) प्रत्यक् चैतन्य है ।।"
"अहं" = अ = शिव ।। "ह" = शक्ति ।।
'अहं' = अ से लेकर क वर्ग, च वर्ग, ट वर्ग, त वर्ग, प वर्ग एवं य, व,
र, ल, श, ष, स, ह—पर्यन्त अर्थात् अशब्दादि एवं हकारान्त सम्पूर्ण वर्णमाला
एवं उसके समस्त वर्ण 'अहं' के वाच्य हैं । पाणिनि सूत्र 'आदिरन्त्येन सहेता ।।
२।२।७२' भी आदि (अ) अन्त्य (ह) की अभेदात्मकता एवं सर्वव्यापकता की ओर
इंगित करता है ।
१. क म वर्ग की उत्पत्ति— 'अकार' से ही होती है । हकार एवं विसर्ग भी
अ से ही उत्पन्न होते हैं— 'कवर्गस्य च अकाराज्जन्म द्योतयितुं उक्तम् 'अकुह
विसर्जनीयानां कण्ठः'' इत्यादीनीत्या क वर्ग—हकार—विसर्जनीयानामकाराद-
वोत्पत्तिः ।।'१ हकारात्मिका इस कला से ही सारे वर्ण समुदाय का आविर्भाव होता
हैं— 'हकारात्मा वैसर्गिकी कला जाता, निखिलमेव वर्णजातमुदिम्'२
समस्त प्रपञ्च को प्रत्याहत करके पर प्रमाता एवं मन्त्र वीर्यात्मा अहं परामर्श
सर्वत्र उल्लसित है कहा भी गया है— प्रकाश की आत्मविश्रान्ति ही 'अहं' भाव
है— 'प्रत्याहताशेषविश्वः प्रमात्रैकरूपः परमन्त्रवीर्यात्मा अयमहंपरामर्शः-
'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।। (अजड प०) गुरु कौन है?
'अहंपरामर्श रहस्यविज्ञः गुरुः ।। आदिम अनुत्तर वर्ण (अ) एवं अन्त्य वर्ण 'ह'—
दोनों अहं परामर्शात्मक हैं । इन दोनों से रहित एवं इनकी रहस्यात्मकता के न
होने पर कोई भी मन्त्र साधक के लिए व्यर्थ हो जाता है यथा शरद का बादल
'आदिमान्त्यविहीन नास्तु मन्त्राः स्युः शरदभ्रवत् ।।'३ ऐसे मन्त्र जो अहं परामर्श
१-३. तन्त्रालोक—'विवेक'
१७ वरि.
२५८ वरिवस्यारहस्ये
रहित हैं या मूल कारण ज्ञान शून्य हैं साधक के लिए सिद्धिप्रद नहीं होते । 'आदि
मान्त्यविहीनानि मन्त्राणि च तथैव च । निष्कलानि भवन्त्येवं पिवतो मृगतृष्णिकाम् ॥
कोई पुरुष सन्तानेच्छावश अपनी उत्पादन शक्ति (अपने शरीर के अर्धभाग
रूपा भार्या) में स्वयं अपने बिन्दु (शुक्र) के द्वारा प्रवेश कर जाता है—('शुक्ल
बिन्दु' के माध्यम से प्रवृष्टि हो जाता है)१—'शुक्लबिन्दु' एवं पुरुष में तत्त्वतः कोई
भेद नहीं रहता अतः पति ही पत्नी द्वारा पुत्र बनकर जन्म लेता है उसके बाद उस
शुक्लबिन्दु के भीतर भार्या का 'शोणितबिन्दु' भी प्रविष्ट हो जाता है । इससे दोनों
मिलकर बिन्दु फूल उठता है । यह 'वटोदुम्बरादिबीजस्थानीय' होता है । उसके बाद
बीज से निकलने वाले अंकुर की भाँति कालान्तर में सन्तानोत्पत्ति हो जाती है ।
यह उसी प्रकार है यथा सूर्याभिमुख दर्पण के भीतर प्रविष्ट किरणों से एवं
बाह्यकिरणों के सङ्कलन से कुड्य आदि में तेजो बिन्दु उत्पन्न हो उठता
द्वितीयोंऽश: २५९
मात्रावशेषं ब्रह्मैव भासत ॥'१
२. श्रुतियों में भी इसकी पुष्टि करते हुए कहा गया है—'यथा प्रियया
संपरिष्वक्तोन बाह्यं किञ्चन वेदनान्तरम्'२
३. यो ब्रह्मरन्ध्रस्थितो बिन्दुः स निःशेषेण न कामालयं प्रविशति किन्त्वंशेन ।
बिन्दुः तुरीय बिन्दुः ।। तदंशो मन्दिरस्थितस्तु कामाख्यो बिन्दुः कामेश्वरः ।।३
४. कामबिन्दोः शोणबिन्दुना सहपरस्परानुपविष्टत्वे बिन्दुद्वयं विसर्गो हकारो
विमर्शः ।। हकार रूपा शक्तिरेव च कला "हकारोऽन्यः कलारूपः ।। सेयं
'कामकला' भवति ।।४
५. मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो ।
हरार्धं ध्यायेद्यो हरमहिषि. ते मन्मथकलाम् ।।
मुख बिन्दुः कामबिन्दुः ।। कुचयुगं = विमर्शबिन्दु द्वयम् ।। हकारः विमर्शः ।।५
६. पति का पत्नी के साथ संभोग करने से उसका जो शुक्ल बिन्दु पत्नी के
अन्दर प्रवेश करता है पति उसके माध्यम से स्वयं पत्नी के गर्भ में प्रवेश करता
है। 'आत्मा वै पुत्रनामासि' ।। (श्रुति)
७. 'शुक्लबिन्दु' में भार्या का शोणित बिन्दु प्रवेश करता है अतः—
'शुक्लस्यान्तः शोणितबिन्दुरूपेण भार्या प्रविशति' 'यथा हि कश्चित पुरुषः ........
स्त्रीयामुत्पादनशक्तिमालोक्य स्वार्धशरीरात्मकायां भार्यायां स्वयमन्तः प्रविशति
शुक्लरूपेण ।।'
सारांश—१. पुरुष का अपने श्वेत वीर्य द्वारा पत्नी के गर्भ में प्रविष्ट होना ।
२. पत्नी का, अपने गर्भ में पतित पति के शुक्लबिन्दु में अपने लाल रङ्ग
के रज के प्रवेश द्वारा—मानो स्वयं प्रवेश कर जाना ।। 'बिन्दुं रक्तरूपा शक्तिः
प्रविशति ।। तेन संभिन्नो बिन्दुरुच्छूनो भवति ।।
'कामकलाविलास' में कहा गया है—
'सितशोणबिन्दुयुगलं विविक्तशिवशक्तिसंकुचत्प्रसरम् ।
वागर्थसृष्टि हेतुः परस्परानुपविष्टः विस्पष्टम् ।।
बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः ।
कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू ।।६
नटनानन्दनाथ कहते हैं—'शब्दोत्पादकोऽनुत्त राक्षराभिधेयः परमेश्वरः स्वात्म-
भूताखिलप्रपञ्च निलयात्मक विमर्शशक्तिमनुप्रविश्य बिन्दुभाव मयते ।। ततः सा विमर्श
शक्तिरपि स्वान्तर्गत प्रकाशमय बिन्दु मनुप्रविशति ।। ततश्च बिन्दुरुच्छूनो भवति ।७
१-५. सेतुबन्ध ६. कामकलाविलास
७. चिद्वल्ली—नटनानन्दनाथ
२६० वरिवस्यारहस्ये
स्फुरत्तात्मक लहरी से युक्त, पारमार्थिक प्रकाश रूप उस अहमात्मक बिन्दु से,
इच्छा, ज्ञान एवं क्रियास्वरूप मातृत्रयात्मक अनन्त सृष्टि उद्भूत हुई है । यथा
सूर्याभिमुख दर्पण में अन्तःप्रविष्ट किरणों द्वारा दोनों ओर से प्राप्त किरणों के
सम्मेलन से, भित्ति परतेजोबिन्दुविशेष प्रादुर्भूत होता है उसी प्रकार प्राणियों के
अदृष्टवश अपने में उपसंहृत विश्व की रचना की इच्छा से प्रकाशरूप ब्रह्म, अपनी
शक्ति को देखने के लिए अभिमुख होकर उसके अन्तराल में तेजरूप से प्रविष्ट
होकर शुक्लबिन्दु का रूप ग्रहण करता है । फिर उस बिन्दु में रक्तरूपा शक्ति
प्रविष्ट होती है जिससे कि संमिश्रित बिन्दु यत्किंचित अभिवृद्धि करता है । वही
'हार्धकला' रूप पदार्थ विशेष के रूप में परिचित होता है । वह बिन्दु, समष्टि रूप
से एक एवं स्फुट शिवशक्तिसामरस्य नामक अग्नीषोमात्मक 'काम' 'रवि' आदि कहा
जाता है । व्यष्टि रूप में वे दो रहते हैं । 'शुक्लबिन्दु' चन्द्रमा एवं रक्त बिन्दु
अग्नि है । इस बिन्दुद्वय को विसर्ग भी कहते हैं । सूर्य रात्रि को अग्नि में तथा
अमावस्या को चन्द्र में प्रवेश करता है । समष्टि बिन्दु की इसीलिए 'रवि' आख्या
है ।
१. 'काम' नामक बिन्दु २. 'विसर्ग' ३. 'हार्धकला'—इन तीन अवयवों से
युक्त एक अखण्ड पदार्थ अण् आदि प्रत्याहार के सदृश 'कामकला' कहा जाता है।
यही सम्पूर्ण सृष्टि का बीज है । 'कामकला' तुरीय (चतुर्थ) बिन्दु मूलभूत ब्रह्म है ।
चतुर्थ बिन्दुरूप एवं शून्यस्वरूप अकार एवं हकार से उत्पन्न 'कामकला' अहं कही
जाती है । 'अहं' पद का अर्थ है—अकार हकारोभयात्मकता एवं शिवशक्तिद्वय-
रूपता। 'अहं' = अखिल सृष्टि का वाचक है । विश्वात्मारूप प्रकाश ही 'अहं' है ।
'कामकला' में पहले तुरीय बिन्दु, उसके नीचे 'काम' नामक 'बिन्दु' उसके
नीचे विसर्गाख्य बिन्दुद्वय एवं उसके नीचे 'हार्धकला' स्थित है । तुरीय एवं विसर्ग
के मध्य चैतन्यरूप से अकार एवं हकार स्थित हैं । ये 'अ' एवं 'ह' वैखरी रूप
से नहीं प्रत्युत् पर एवं परा मातृकारूप शून्याकार सदृश स्थित हैं । ये अ + ह
कुटिलात्मक हैं । सृष्टि की माता वक्रा वामा शक्ति कुटिला है । काम + विसर्ग या
अकार + हकार कुण्डलिनी के प्रतिबिम्ब हैं । अकार + हकार कुण्डलिनी से
अभिन्न हैं । पर ब्रह्म के दो रूप हैं—१. अर्थ २. शब्द अ + ह = शिवशक्ति;
अकुल + कुण्डलिनी ॥
अहन्तामय त्रिबिन्दु तत्त्वस्वरूप वर्णात्मा 'कामकला' त्रिगुणात्मक त्रिकोणरूप में
परिणत हो जाती हैं और जगन्माता बनती हैं । १. शुक्ल २. रक्त ३. मिश्र बिन्दु
(बिन्दुत्रय) सिंघाड़े के आकार का त्रिकोण है ।
बिन्दुत्रयात्मकं स्वात्म शृङ्गारं विद्धि सुन्दरम् ।
मिश्रं शुक्लं च रक्तं च पुराणं प्रणवात्मकम् ॥१
'विसर्ग'—विसर्ग शब्द अनेकार्थक है । योग के अनुसार 'महानाद' के ऊपर
१. कामकलाविलास
द्वितीयोऽंशः २६१
शंखिनी नाड़ी के शिखर प्रदेश में 'विसर्ग' नामक शक्ति है—उसी के नीचे
सहस्रदल कमल है—
'तदूर्ध्वं शंखिन्या निवसति शिखरे शून्यदेशे प्रकाशं ।
विसर्गाधः पद्मं दशशतदलं पूर्णचन्द्रातिशुभ्रम् ॥'
शंखिनी नाड़ी का शिखर प्रदेश ही 'शून्यस्थान' है । यही स्थान सुषुम्णा का
भी ऊर्ध्व देश है । इसी शून्य प्रदेश में सहस्रार भी स्थित है । इस शून्य प्रदेश के
ऊपर 'विसर्ग' नामक शक्ति का अवस्थान है । सहस्रदलकमल विसर्ग के नीचे है ।¹
इस श्लोक में कहा गया है कि हकार चैतन्य से समन्वित बिन्दुओं का मिथुन
'विसर्ग' कहा जाता है । इन सभी की मिश्रित समष्टि 'रवि' है । इसी 'रवि' को
'काम' भी कहते हैं । 'अकार' चैतन्ययुक्त है । 'अकार' एवं 'हकार' शिव-शक्ति
है । हः शिवो गगनं प्राणः ॥ (मातृकाकोश) 'ह'—ह—व्योम । 'हकाराद् व्योम
सम्भूतम् ॥
अकार एवं हकार का स्वरूप—'अहमित्येकमद्वैतं यत्प्रकाशात्मविभ्रमः ।
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः । हकारोऽन्त्यः कालरूपो विमर्शाख्यः
प्रकीर्तितः । अनयोः सामरस्यं यत् परस्मिन्नहमि स्फुटम् ॥ गीता में भी कहा गया
है—'अक्षराणामकारोऽस्मि ।।²
'अहं' का अर्थ—१. 'मैं' = अस्मत् प्रत्यय । जीव, शिव ॥ २. 'अ' से
'ह' पर्यन्त समस्त वर्ण माला ॥ ३. 'अ' माने शिव 'ह' माने शक्ति = अर्थात्
शिवशक्त्यात्मक निःशेष सत्ता ॥ ४. 'अकारहकारोभयात्मकत्वं शिव शक्तिद्वयरूपत्वं
चाहं पदस्य निष्कृष्टो अर्थः ॥' 'अहं' का वाच्य क्या है? 'तज्जन्यानां सूक्ष्मादि-
स्थूलान्तानामखिल सृष्टीनामहं पदवाच्यत्वम् ॥³ अर्थात् अहं पद से उत्पन्न समस्त
स्थूल-सूक्ष्म सृष्टि 'अहं' का वाच्य है । 'आदिमो अकारः अन्त्यो हकारः तयोः
समाहारः अहम् ॥ अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतो
ऽहमुत्तरतोऽहमेवं सर्वम् ॥'⁴
अकारहकारस्वभावा ही कामकला भी है—'एवमकार हकारैकस्वरूपा
कामकला ।।'⁵
चन्द्ररूप 'शुक्लबिन्दु' एवं अग्निरूप 'रक्तबिन्दु'—अर्थात् बिन्दुद्वय—को
'विसर्ग' भी कहते हैं । १. कामबिन्दु २. विसर्ग ३. हार्धकला—से युक्त अखण्ड
पदार्थ 'कामकला' कहलाता है । अकार एवं हकार से उत्पन्न 'कामकला' अहंपद
का वाच्य है ।
योगशास्त्र में कहा गया है कि शंखिनी नाड़ी के शिखर प्रदेश अर्थात्
'शून्यस्थान' (सुषुम्णा का ऊर्ध्व देश) में स्थित सहस्रार के ऊर्ध्व देश में 'विसर्ग'
१. षट्चक्रनिरूपण २-३. भास्करराय—'प्रकाश'
४. छान्दोग्य० ५. भास्करराय—'प्रकाश'
२६२ वरिवस्यारहस्ये
नामक शक्ति है । इसी 'विसर्ग' के नीचे १००० दलों वाला कमल है—
'विसर्गाधः पद्मं दशशतदलं पूर्णचन्द्रातिशुभ्रम्'१ ब्रह्मरंध्र का ऊर्ध्वदेश ही
'विसर्ग' है ।२
'अहं' एवं 'कामकला'—'अहं' 'सङ्केतपद्धति' में 'अहं' की व्याख्या इस
प्रकार की गई है—
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ।
हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तित ॥
अहं का स्वरूप—
'अहमित्येकमद्वैतं यत्प्रकाशात्मविभ्रमः ।
अकारः सर्ववर्णाग्र्यः प्रकाशः परम शिवः ॥
हकारोऽन्त्यः कालरूपो विमर्शाख्यः प्रकीर्तितः ।
अनयोः सामरस्यं यत् परस्मिन्नहमि स्फुटम् ॥'
श्रीकृष्ण ने अपने को अक्षरों में अकार कहा है—'अक्षराणामकारोऽस्मि'
'कामकला'—भास्करराय कहते हैं कि जिस प्रकार सूर्याभिमुख दर्पण में
उसके भीतर प्रविष्ट किरणों से दो किरणों के सङ्कलन रूप 'तेजोबिन्दु' विशेष
कुड्यादि में प्रादुर्भूत हो जाता है उसी प्रकार प्राणी अदृष्ट के कारण स्वान्तःसंहत
विश्व की सिसृक्षा द्वारा प्रकाशरूप ब्रह्म अपनी स्वयं की शक्ति को देखने के लिए
उसके अभिमुख होकर तदन्तस्तेज रूप में प्रवेश करके शुक्लबिन्दु भाव प्राप्त करता
है और उसके अनन्तर उस बिन्दु में रक्तरूपा शक्ति प्रवेश करती है । उससे
'संमिश्रबिन्दु' उच्छून (फूला हुआ) हो जाता है । वहाँ 'हार्दकला' के रूप में एक
पदार्थ विशेष उत्पन्न हो जाता है । वह गुरुमुखमात्रैक अवगन्तव्य है । वह बिन्दु
समष्टिरूप से एक है—स्फुट है और शिव शक्ति सामरस्य रूप 'काम'-'रवि'—
'अग्निषोमात्मक रवि' कहा जाता है । व्यष्टि रूप में वह दो है । एक रूप है
शुक्ल इन्दु । दूसरा है—रक्त बिन्दु या अग्नि । “बिन्दु” द्वयात्मक होने के कारण
'विसर्ग' कहा जाता है । समष्टि बिन्दु रवि है क्योंकि श्रुतियों में कहा गया है
कि—“रवे रात्रावग्नावमावास्यायां चन्द्रे च प्रवेशस्य” । इस प्रकार १. काम नामक
बिन्दु २. विसर्ग ३. हार्दकला—इन तीन अवयवों से 'कामकला' का आविर्भाव
होता है । यही है 'समस्त सृष्टि बीज' कहलाता है । ('कामकला' = 'समस्त सृष्टि
बीज') ॥ 'अकार हकारयोर्मध्ये सर्ववर्णपाठः' 'अहं'—अ से 'ह' तक की समस्त
वर्णमाला ॥ एतन्मूल ब्रह्म—'तुरीयबिन्दु' कहलाता है ।३
'कामकला' एवं 'अहं' में सम्बन्ध—'तद्रूपाभ्यां शून्य स्वरूपाभ्यामकार
१. षट्चक्रनिरूपण (पूर्णानन्दयति) २. सर्पेण्टपावर—सर जॉनवुडरफ
३. वरिवस्यारहस्यम्—'प्रकाश'
हकाराभ्यामुत्पन्ना 'कामकला' व्यक्ताव्यक्तविलक्षणा 'अहं' पद वाच्या । अकार हकारो-
भ्यात्मकत्वं शिव शक्तिद्वयरूपत्व चाहंपदस्य निष्कृष्टोऽर्थः । अतएव तज्जन्यानां
सूक्ष्मादिस्थूलान्तानामखिलसृष्टीनामहंपद वाच्यत्वम् ।। वेदों में कहा गया है—'ब्रह्म वा
इदमग्र आसीत् तदात्मानमेवादहं ब्रह्मास्मीति' । 'बृहदारण्यकोपनिषद' में कहा गया
है—'त्वं वा अहमहं वै त्वम्' (ऐतरेयो०) 'कस्त्वमित्यहमिति होवाच त्वमेवेदं सर्वं
तस्मादहमिति सर्वाभिधानम् ।। (तापनीयोपनिषद) ।। 'तद्वा एतद्ब्रह्माद्वयम् ।।—इत्यादि
वाक्यों द्वारा ब्रह्मस्वरूप की व्याख्या करके उसकी उपासना पूर्णांहंभावभावनारूप है—
“हंसः सोऽहं” है । 'अहं' क्या है?
'आदिमोऽकारः, अन्त्यो हकारः, तयोः समाहारः 'अहम्' ।
'स्वपरावभासनक्षमे आत्माविश्वस्य यः प्रकाशोऽसौ ।
अहमिति स एक उक्तोऽहंतास्थितिरीदृशी तस्य ।।'
'कामकला' अकार हकारस्वभावा है—"एवमकारहकारैक स्वरूपा कामकला"
मध्यबिन्दु काम है—"मध्यबिन्दुः कामाख्यः ।” 'अकार' = शिव । 'हकार' =
शक्ति ।। 'मन्मथकला' का स्वरूप निम्नानुसार है—'मुखं बिन्दुं कृत्वा
कुचयुगमधस्तस्य तदधो । हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।।' मुखबिन्दु ही
कामबिन्दु है ।
'कामकलाविलास' में 'कामकला' का स्वरूप इस प्रकार व्यक्त किया गया
है—सितशोणबिन्दुयुगलं विविक्तशिवशक्ति संकुचत्प्रसरम् । वागर्थसृष्टि हेतुः परस्परानु-
प्रविष्ट विस्पष्टम् । बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः । कामः कमनीयतया
कला च दहेनेन्दुविग्रहौ बिन्दू । इति कामकला विद्या देवी चक्रात्मिका सेयम् ।
विदिता येन स मुक्तो भवति महात्रिपुरसुन्दरीरूपा ।।' अमृतानन्दनाथ कहते हैं—
"बिन्दोः प्रस्पन्द संविदः बिन्दुरग्नीषोमात्मकः कामाख्यो रविः शिव
शक्तिसामरस्यवाच्यात्मा जातः ।।१ हकाररूपा शक्ति ही 'कला' है 'हकारोऽन्त्यः
कलारूपः ।।' (सङ्केतपद्धति) ।। 'सेयं कामकला भवति ।।" समष्टिरूपकामकला में
ईकार की शक्ति हैं । ईकार का नाम भी 'कामकला' है—'समष्टिरूप कामकलायामी-
कारस्य शक्तिः । ईकारस्य कामकलेत्यत एव नाम'
जिस बिन्दु से त्रिकोण उत्पन्न हुआ है वही 'कामकला' है—"यस्माद
बिन्दोस्त्रिकोणमुत्पन्नं स कामकला'२ 'अकार' सम्पूर्ण वाणियों का अग्रगामी एवं
प्रकाशात्मक 'परमशिव' है 'हकार' चरमवर्ण रूप विमर्श तत्त्व है । इन दोनों का
सामरस्य ही पराहन्ता है—
"अहमित्येकमद्वैतं यत्प्रकाशात्मविभ्रमः ।
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ।।
हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः ।
अनयोः सामरस्यं यत्पस्मिन्नहयि स्फुटम् ।।'३
१-२. योगिनीहृदयदीपिका—अमृतानन्दनाथ ३. वरिवस्यारहस्यम्—'प्रकाश'
२६४ वरिवस्यारहस्ये
'अहं' एक अद्वैत तत्त्व है और अ एवं ह का सामरस्य ही 'पराहन्ता' है ।
सर्वोच्च 'अहं' का यही स्वरूप है ।
'अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥'१ पञ्चदशी के अवयवभूत मन्त्राक्षरों
का अर्थ ही भावार्थ है—
श्रीसौभाग्यविद्याऽवयवपञ्चदशाक्षराणामर्थो भावार्थः ॥२
भास्करराय इसकी व्याख्या करते हुए 'सेतुबंध' में कहते है—'यः
केवलस्तात्पर्यादिनाऽनवगतोऽक्षराणां वृत्यैव लभ्योऽक्षरार्थोऽक्षरस्वभावलभ्यत्वात् स
भावार्थः ॥'३
भास्करराय की दृष्टि में—१. भगवती एवं मन्त्र २. तथा भगवती एवं जगत्
में अभेद का प्रतिपादन ही 'भावार्थ' है ।
अथ संप्रदायार्थमाह—
व्योमादिजनकहकरसलाणैर्घटनेन पञ्चभूतमयी ।
पञ्चतुस्त्रिद्व्येकगशब्दादिगुणात्मपञ्चदशवर्णा ॥ ७४ ॥
(ह क र स ल—वर्ण तथा इनका पञ्चभूतों से सम्बंध एवं संप्रदायार्थ)
(यह विद्या) आकाशादिक पञ्चभूतों के स्रष्टा 'ह क र स ल' वर्णों से संसृष्ट
होने के कारण पञ्चभूतात्मिका है । इसके पंद्रह अक्षर पञ्चतत्त्वों के गुणों—शब्द,
स्पर्श, रूप, रस एवं गंध—के वाचक हैं जो कि (पञ्चतत्त्वों में क्रमशः) पाँच, चार,
तीन, दो एवं एक की संख्या में विद्यमान हैं ॥ ७४ ॥
- प्रकाश *
व्योमाकाशः । आदिना वाय्वग्निजलभूमिपरिग्रहः । एतत्पञ्चकस्य जनका ये
हकरसलार्णा हकारादिवर्णास्तैर्घटनेनेयं विद्या पञ्चभूतमयी पञ्चभूताभिन्ना । उक्तं च—
'हकाराद् व्योम संभूतं ककारात्तु प्रभञ्जनः ।
रेफादग्निः सकराच्च जलतत्त्वस्य संभवः ।
लकारात् पृथिवी जाता तस्माद्विश्वमयी च सा ॥'
इति । अत्र यद्यपि प्रकाशविमर्शसामरस्यात्मकवस्तुविशेषस्यैव शब्दार्थसृष्टि-
जनकत्वमविशिष्टं थापि प्रकाशांशस्यैवार्थसृष्टौ विमर्शांशस्यैव शब्दसृष्टौ जनकत्वम्,
तयोः परस्परसापेक्षत्वेनैव स्वस्वकार्यजनकत्वस्य श्रुतिस्मृतिसिद्धत्वात्, एकस्य
स्वकार्यजनकत्वेऽपरस्य तत्कारणतावच्छेदकत्वमावश्यकम् । एवं च कारणतावच्छेद-
ककारणतयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण द्वयोरपि प्रातिस्विककारणत्व-
सिद्धिः तदभिपायेणैव हि तन्त्रेष्वन्यतरस्यैव कारणताबोधकानि वचनानीति ज्ञेयम् ।
भगवता व्यासेनापि 'शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्' इति सूत्रे जगतः
१-२. योगिनीहृदयदीपिका—अमृतानन्दनाथ ३. सेतुबन्ध
: प-ञ्चा-दि-सं-ख्या-का-नां-मा-का-शा-दी-नां.
- Look at 'नां': yes, there is a dot on ना, then a मा! "पञ्चादिसंख्याकानांमाकाशादीनां"
- Wait, or is it "पञ्चादिसंख्याकानां आकाशादीनां"? No space, but there's a dot over ना and then मा! It's a double representation (anusvara + m), common in Indian prints:
पञ्चादिसंख्याकानांमाकाशादीनां. - Line 13:
तादृशसंख्याकाः । तेन व्योमादिषु पञ्चसु पञ्च शब्दाः, वाय्वादिषु चतुर्षु चत्वारः
- Line 14:
स्पर्शाः, अग्न्यादिषु त्रिषु त्रीणि रूपाणि, जलभूम्योर्द्वौ रसौ, पृथिव्यामेको गन्ध इत्येवं
- Line 15:
संहत्य पञ्चदश गुणा विद्यास्थैः पञ्चदशभिर्वर्णैरभिन्ना इति पञ्चदशानां वर्णानामुपपत्तिरिति
- Line 16:
- `भावः । अथ पञ्चदशभिर्गुणैः