वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 354, कुल 530 में से
संदर्भ में पढ़ें२५२ वरिवस्यारहस्ये
विरूपाक्षपञ्चाशिकायामपि—
'स्वपरावभासनक्षम आत्मा विश्वस्य यः प्रकाशो ऽसौ ।
अहमिति स एक उक्तोऽहंतास्थितिरीदृशी तस्य ॥'
इत्यादीनि परःसहस्रं वचनानि । एतादृशस्याहंपदार्थस्य यथा ऽहमिति पदं वाचकं
तथोत्तमपुरुषैकवचनमपि वाचकम् । तस्य च परस्मैपदात्मनेपद भेदेन द्वैविध्ये ऽपि मिप
दृष्टश्रैकारत्वेनानुगमादित्वमेव शक्ततावच्छेदकम्, 'अन्यायश्चानेकशब्दत्वम्' इति
न्यायात् । तस्य च धातूत्तरत्वेनोत्तमपुरुषत्वादिना वोपस्थितिः पदार्थस्मारकत्वे तन्त्रम् ।
एर्णलादावपि लुप्तस्य स्मरणम्१ । तदभावे शक्तिभ्रमाद्बोध इत्यादि यथायथमूह्यम् । तत्र
चाकारहकारयोरवयवयोर्दर्शने ऽपि शास्त्रप्रामाण्यात् सूक्ष्मरूपौ तौ स्त इति
स्वीकार्यम् । तस्यैव च हार्दकलायोगे दीर्घतापि संपद्यत इति तुरीयस्वरस्य कामकला