सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 350, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 350

२४८ वरिवस्यारहस्ये
'वामादिषट्क' = कामकला से अभिन्न है ।
वामादिकामकलान्तसप्तक—मन्त्र से अभिन्न है ।
अमुमेवार्थं सुनिष्कृष्टं श्लोकतो निबध्नाति—
वामेच्छाद्याः षडीकार इति सप्तभिरक्षरैः ।
त्रिरावृत्तैरियं विद्या सञ्जाता तेन तन्मयी ॥ ६७ ॥
वामादिसप्तशक्तीनां समष्टिः परदेवता ।
षट्त्रिंशत्तत्त्वरूपास्मान्मात्रयापि न भिद्यते ॥ ६८ ॥
(पञ्चदशाक्षरी विद्या का स्वस्वरूप)
यह विद्या सात अक्षरों से निर्मित हुई है । इसमें वामा, इच्छा आदि छः
शक्तियाँ एवं ईकार सम्मिलित हैं जिनकी तीन बार पुनरावृत्ति की जाती है । अतः
(यह विद्या, इनके द्वारा व्यक्तीभूत) उन (शक्तियों) से युक्त हैं ॥ ६७ ॥
(परात्परशक्ति का सप्त शक्तियों एवं छत्तीस तत्त्वों से तादात्म्यभाव)
परदेवता (परात्परशक्ति) वामादिक सात शक्तियों की समष्टि है । और छत्तीस
तत्त्वों का मूर्तिमानस्वरूप है । (यह)मन्त्र किंचिन्मात्रा में भी भिन्न नहीं है ॥ ६८ ॥

  • प्रकाश *
    अस्मात् तन्मन्त्रात्, मात्रयापि लेशेनापि न भिद्यते । मन्त्रे तृतीयवर्णस्य ज्येष्ठा-
    शक्तिवाचकत्वेन वामादिषट्कान्तः पातित्वेनावशिष्टानां हृल्लेखास्थानामेव कामकला-
    नामीकारपदेन परामर्शान्न त्रिरावृत्तैरिति संख्याविरोधः । न च शाक्तार्थेन पौनरुक्त्यम्,
    तत्र वामादिषट्कं कामकलाया अभिन्नमिति वाक्यार्थः, अत्र तु वामादिकामकलान्त-
    सप्तकाभिन्नो मन्त्रः षट्त्रिंशत्तत्त्वाभिन्नमात्रभिन्न इत्यर्थ इति महतो भेदात् । अथ वा,
    शिवशक्तिसमायोगरूपसमष्टिजन्यत्वान्मन्त्रराजः स्पन्दश्च तद्व्यष्टिरूपौ शिवशक्तिमयौ ।
    तेन जगन्मन्त्रदेवीनामभेद इति भावनं भावार्थः । अत एवोपसंहृतं योगिनीहृदये—
    ‘.....................चलतासंस्थितस्य तु ।
    धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ।
    वाचकाक्षरसंयुक्तैः कथिता विश्वरूपिणी ।
    तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ।
    कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणीम् ।
    आद्यां शक्तिं भावयन्तो भावार्थ इति मन्वते ।'
    इति । पराहंतेत्यादिभावार्थकत्वतलादिवाच्यत्वाद्धर्मः शक्तिः । निर्धर्मकत्वादधर्मः
    शिवः । स्पन्दजननं प्रति शक्तिबहिर्भूतस्य शिवस्याक्षमत्वादन्वयव्यतिरेकयोराचार्य-
    भगवत्पादैः सौन्दर्यलहर्या प्रथमश्लोके तथैव तद्व्याख्यानकर्तृभिश्च प्रदर्शितत्वाच्च शक्तेः