सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)

Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan

केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा

DevanagariHindipublished138 पृष्ठ

प्रकरणम्-१३ ] वसन्तलक्ष्मीसहितम् । ८६
सुहृच्छुभैक्षितः शुभः शशी मयूखमांसलः ॥ २ ॥
सं०—अतुर्यकायकेन्द्रगः (तुर्यकायाभ्यां चतुर्थलग्नाभ्यामन्यत् तत्केन्द्रं
चेत्यतुर्यकायकेन्द्रं तन्नगतः सप्तमदशमभावस्थः ) सुहृत्स्वसौम्यवर्गयुक्
सुहृच्छुभैक्षितः मयूखमांसलः ( अंशपूर्णः ) शशी शुभः स्यात् ॥ २ ॥
भा०—सप्तम और दशमभाव में चन्द्रमा यदि मित्र, शुभग्रह या अपने
वर्ग में हो मित्र और शुभग्रह से देखा जाता हो और सम्पूर्ण किरणवाला हो तो
शुभ होता है ॥ २ ॥
वि०—"त्रिकोणसप्तमाम्बरव्ययोपगो विलग्नतः । हिमद्युतिः शुभर्क्षगः
शुभेक्षितश्च शोभनः ॥" इस प्रकार शौनक मुनि ने द्वादश स्थान में भी शुभ
कहा है । परञ्च द्वादशस्थानस्थ चन्द्र को नारदजी ने महादोष में कहा है अतः
आचार्य ने उसे त्याग कर दिया है ॥ २ ॥
अथ शुभयोगान् कथयति—
शशितनयसिताभ्यां नन्दभद्रावुभाभ्यां
जय इति तनुयाते जीव इत्येष जीवे ।
असुरसुरगुरुभ्यां स्थावरो ज्ञेज्यशुक्रै-
र्विजय इति विशुक्रं तं च जीमूतमाहुः ॥ ३ ॥
सं०—शशितनयसिताभ्यां ( बुध-शुक्राभ्यां ) 'तनुगताभ्यां' 'क्रमेण'
नन्द-भद्रौ योगौ भवेताम् । बुधेन लग्नगतेन नन्दः, शुक्रेण भद्र इत्यर्थः ।
उभाभ्यां बुधशुक्राभ्यां लग्नगताभ्यां जय इति योगः स्यात् । जीवे गुरौ
तनुयाते लग्नगते इत्येष जीवो नाम योगः स्यात् । असुरसुरगुरुभ्यां
तनुगताभ्यां स्थावरो नामयोगः, ज्ञेज्यशुक्रैः तनुगतैः विजयो नाम योगः
स्यात् । विशुक्रं तं विजयं जीमूतं योगमाहुराचार्याः । बुधगुरुभ्यां लग्नगता-
भ्यां जीमूतो नामयोग इत्यर्थः ॥ ३ ॥
भा०—लग्न में बुध हो तो नन्द नामक योग, और शुक्र हो तो भद्र नामक
योग, तथा बुध शुक्र दोनों हों तो जय नामक योग, बृहस्पति हो तो जीव नामक,
बृहस्पति शुक्र दोनों हों तो स्थावर; बुध बृहस्पति शुक्र तीनों हों तो विजय, और
बुध बृहस्पति हों तो जीमूत नामक योग होता है ॥ ३ ॥
१२

६० विवाहवृन्दावनम्- [ बलाबला-
अथैषां योगानां फलं कथयति-
इति शुभफलयोगाः सप्त सप्तर्षिमुख्यै-
र्मुनिभिरभिहितास्ते जन्मयात्रास्वपि स्युः।
भजति युवतिरेभिर्भूपसीमन्तिनीत्वं
ग्रहयुतिबलयोगादुत्तराधर्यमस्मिन् ॥ ४ ॥
सं०-इत्येवं सप्तर्षिमुख्यैः विवाहे सप्त शुभफलयोगा अभिहिताः
कथिताः। ते योगा जन्मयात्रास्वपि शुभफलाः स्युः। एभिर्नन्दादिभिर्योगैः
युवतिः भूपसीमन्तिनीत्वं राजपत्नीत्वं भजति। अस्मिन् शुभफले ग्रहयुति-
बलयोगात् उत्तराधर्यं आधिक्यं न्यूनत्वं च स्यात् ॥ ४ ॥
भा०-इस प्रकार विवाह में सप्तर्षि आदि मुनीन्द्रों ने ७ शुभ फलयोग कहे
हैं। ये योग जन्म और यात्रा समय में भी शुभप्रद होते हैं। इन योगों से
स्त्री राजपत्नी होती है। इन योगों के फल में ग्रहों के योग और बल के अनुसार
अधिकता और न्यूनता समझनी चाहिये ॥ ४ ॥
अथाऽशुभयोगान् कथयति-
दिनकररुधिराभ्यां व्यालपातालवक्त्रौ
क्षय इति रविपुत्रे सैंहिकेये तमस्कम्।
तनुगृहयुजि केतावन्तकस्तेषु शोक-
व्यसननिधनताभिस्तप्यते पङ्कजाक्षी ॥ ५ ॥
सं०-दिनकर-रुधिराभ्यां (रवि-कुजाभ्यां) तनुगृहयुक्ताभ्यां 'क्रमेण'
व्याल-पातालवक्त्रौ योगौ भवतः। रविणा व्यालः, कुजेन पातालवक्त्र
इत्यर्थः। रविपुत्रे तनुगृहयुजि (लग्नगते) क्षय इति योगः, सैंहिकेये (राहौ)
लग्नगते 'अन्तक' इति योगः स्यात्। तेषु व्यालादियोगेषु पङ्कजाक्षी स्त्री
शोकव्यसननिधनताभिः तप्यते ॥ ५ ॥
भा०-लग्न में सूर्य हो तो व्याल, मङ्गल हो तो पातालवक्त्र, शनि हों
तो क्षय, राहु हो तो तमस्क, केतु हो तो अन्तक नामक योग होता है। इन योगों
में विवाहिता कुमारी शोक, दुःख, और निर्धनता से तप्त रहती है ॥ ५ ॥

प्रकरणम् १३ ] वसन्तलक्ष्मीसहितम् । ६१
अथान्यौ दुष्टयोगौ कथयति-
तनुतुहिनमरीच्योरङ्गनाखेटदृष्टौ
चरगृहगतयोः स्यात्कान्तयुग्मं कुमार्याः ।
अविदिशि बलिनश्चेद्यायिनो युग्म इन्दा-
वशुभदृशमुपेते कन्यका त्वन्यकाम्या ॥ ६ ॥
सं०-तनुतुहिनमरीच्योः लग्नचन्द्रयोः चरगृहगतयोः अङ्गनाखेटदृष्टौ
( शुक्र-दृष्टौ ) सत्यां चेद् यायिनो ग्रहाः बलिनोऽविदिशि ( विदिशोऽन्याऽ-
विदिक् तस्यां, लग्न-चतुर्थ-सप्तम-दशमेष्वित्यर्थः ) स्थितास्तदा-कुमार्याः
कन्यायाः कान्तयुग्मं पतिद्वयं भवति । तथा इन्दौ चन्द्रे युग्मे समराशौ
स्थिते अशुभदृशमुपेते सति कन्यकाऽन्यकाम्या ( अन्यः काम्यो यस्याः सा
तथोक्ता ) भवति ॥ ६ ॥
भा०-लग्न और चन्द्रमा दोनों चर राशि में हों उन पर शुक्र की दृष्टि हो
और यायी ग्रह बलवान् होकर केन्द्र में हों तो कन्या को दो पति होते हैं । तथा
चन्द्रमा समराशि में हो उस पर पापग्रह की दृष्टि हो तो कन्या दूसरे पुरुष की
कामना करनेवाली होती है ॥ ६ ॥
विशेष-"यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते ।
प्राचि पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे ॥”
वि० - इस वचन से लग्न, चतुर्थ, सप्तम, दशम भाव पूर्वादि दिशाओं में
और शेष भाव विदिशा में पड़ते हैं । तथा-यायी, स्थायी और आक्रन्द तीन
प्रकार के ग्रह होते हैं । यथा वराह-
रविराक्रन्दो मध्ये पौरः पूर्वे परे स्थितो यायी ।
पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दः ।
केतुकुजराहुशुक्रा यायिन इत्याहुराचार्याः ॥"
अर्थात् सूर्य मध्य ( चतुर्थ दशमभाव ) में आक्रन्द, प्रथम लग्न में स्थायी तथा
सप्तम में यायी होता है । और बुध गुरु शनि स्थायी, चन्द्रमा आक्रन्द, तथा
केतु, मंगल, राहु, शुक्र ये यायी ग्रह हैं । शौनक मुनि ने इन दोनों योग को
स्पष्ट कहा है-
"लग्नेन्दू चरराशौ केन्द्रस्था यायिनो यदा बलिनः ।
योषिद्ग्रहसंदृष्ट्या पतिद्वयं गच्छते नारी ॥”

६२ विवाहवृन्दावनम्— [ बलाबला-

तथा—"क्रूरग्रहसंदृष्टे समर्क्षगे शशिनि भजति पतिमन्यम् ।
स्त्रीणामन्यत्र गते सौम्यैर्दृष्टे शुभं भवति ॥” इति ॥६॥
अथ पुंस्त्रीग्रहबलवशेन फलान्तरमाह—
नरः प्रियो नीरजलोचनानां नरग्रहैरुत्कटकान्तिवीर्यैः ।
नारी नृणां चित्तहरा स्वभोगैर्नारीनभोगैर्बलशालिभिस्तु ॥ ७ ॥
सं०—नरग्रहैः (गुरुरविकुजैः) उत्कटकान्तिवीर्यैः (अतिप्रकाश-
बलयुतैः) सद्भिः नीरजलोचनानां कन्यानां नरो भर्त्ता प्रियो भवति ।
नारीनभोगैः स्त्रीग्रहैः (चन्द्रशुकैः पूज्यार्थत्वाद्वहुवचनम्) बलशालि-
भिस्तु नारी स्त्री स्वभोगैः नृणां स्वामिनां चित्तहरा प्रिया भवति ॥ ७ ॥
भा०—विवाह समय पुरुषग्रह (गुरु·रवि·मंगल) बली हों तो स्त्री को स्वामी
प्रिय होता है। तथा स्त्री ग्रह बली हो तो स्वामी को स्त्री प्रिया होती है ॥ ७ ॥
अथ पतिश्वशुरादीनां फलान्तराण्याह—
पतिरस्तपतिर्विरोचनः श्वशुरस्तत्प्रमदा मदग्रहः ।
अबला बलिनो दिशन्त्यमी सुदृशां तेष्वशुभं शुभं क्रमात् ॥ ८ ॥
सं०—सुदृशां (सुलोचनस्त्रीणां) अस्तपतिः सप्तमेशः पतिः, विरोचनः
सूर्यः श्वशुरः, मदग्रहः शुक्रः तत्प्रमदा (श्वशुरस्त्री श्वश्रूः) भवति । अमी
पत्यादिग्रहाः अबला बलिनः क्रमात् तेषु पत्यादिषु अशुभं शुभं च दिशन्ति,
अबला अशुभं, बलिनः शुभं दिशन्तीत्यर्थः ॥ ८ ॥
भा०—सप्तमेश स्त्रियों का स्वामी, सूर्य श्वशुर और शुक्र सास है। ये निर्बल
हों तो पति आदि के अशुभफल और बली हों तो शुभफल देते हैं ॥ ८ ॥
शशिसूर्यसुतावनीसुतैर्‌रिनीचास्तगतैः करग्रहे ।
अपि तन्वधिपेन तप्यते निरपत्या नियतं नितम्बिनी ॥ ६ ॥
सं०—करग्रहे विवाहे शशिसूर्यसुतावनीसुतैः अरिनीचास्तगतैः
तन्वधिपेन लग्नेशेनापि अरिनीचास्तगतेन नितम्बिनी स्त्री निरपत्या
सन्तानरहिता सती तप्यते । इदं फलं सप्तमभावे हीनबले सति बोध्यं यतः
शौनकः—"लग्नपतौ रिपुभवने नीचे वा रविसुतावनीजैः । बलरहिते च
द्यूने स्त्रीणां न भवन्त्यपत्यानि ॥" इति ॥ ९ ॥

चतुर्थ खण्ड: पाणिग्रहण विधि एवं मङ्गलाष्टक निरूपण

प्रकरणम् १३ ] वसन्तलक्ष्मीसहितम् । ६३
भा०-चन्द्र, रवि भौम और लग्नेश ये शत्रुगृह, नीचराशि, में वा अस्त हों
तथा सप्तमभाव निर्बल हो तो स्त्री सन्तानहीन होकर दुःखिनी होती है ॥ ९ ॥
लोकेषु काचिद्रीतिः शास्त्रविरुद्धास्ति तां निन्दति—
कवेस्तृतीयस्य शुभाय रेखा लग्नं नभस्थो न भनक्ति भौमः ।
तद्वद्द्व्यये सौरिरपीति रीतिर्जनेषु जागर्तिंतरां कुतस्त्या ॥१०॥
सं०-तृतीयस्य कवेः शुक्रस्य शुभाय रेखा भवति, नभस्थो दशमस्थो
भौमो लग्नं न भनक्ति, तद्वत् सौरिः शनिः अपि व्यये लग्नं न भनक्ति,
इतीयं रीतिः जनेषु लोकेषु कुतस्त्या जागर्तिंतराम् ? इति न जाने, अर्थादियं
रीतिः शास्त्रविरुद्धा निर्मूलास्तीति ॥ १० ॥
भा०—लोक में तृतीय शुक्र की शुभार्थ रेखा होती है। तथा दशम मंगल
और द्वादश शनि भी लग्न के भङ्गकारक नहीं माने जाते, यह रीति कहाँ से
आकर अत्यन्त प्रसिद्ध हुई ? इसका पता नहीं अर्थात् इस लोकरीति का प्रमाण
शास्त्र में नहीं मिलता है ॥ १० ॥
अथ जामित्रदोषे विशेषमाह—
उशना गुरुरिन्दुनन्दनः शशिजामित्रगपापतापहृत् ।
नवपञ्चमकेन्द्रमित्रभप्रणयी पुष्टदृशा विधुं स्पृशन् ॥११॥
सं०-उशनाः शुक्रः, गुरुः, इन्दुनन्दनो बुधः नवपञ्चमकेन्द्रमित्रभ-
प्रणयी (नवमपञ्चमकेन्द्रस्थो मित्रराशिगतः ) पुष्टदृशा विधुं चन्द्रं
स्पृशन् पश्यन् शशिजामित्रगपापतापहृद् ( पापकृतचन्द्रजामित्रदोषाप-
हारको ) भवति । अत्र केन्द्रं सप्तमरहितं ज्ञेयं तथा चोक्तम्—“हरिज-
दिवसचन्द्रात् सप्तमक्रूरदोषक्षयकृदमरपूज्यः सोमपुत्रः सितो वा । उदयहि-
बुकधर्मव्योमपुत्रालयस्थो यदि च सकलदृष्ट्यालोकयेच्छीतरश्मिम् ॥”
भा०-शुक्र, बृहस्पति, बुध इनमें से एक भी ९।५।१।४।१० भावगत
होकर मित्र की राशि में हो और पूर्णदृष्टि से चन्द्रमा को देखता हो तो चन्द्रमा
से सप्तमस्थ पापग्रह जनित दोष को नाश कर देता है ॥ ११ ॥
हिमरश्मिनवांशकात् खलो यदि खेटः शरसायकांशके ।
अयमन्यगुणैर्न हन्यते निविडैरप्युपसर्गडम्बरः ॥ १२ ॥
सं०-हिमरश्मिनवांशकात् खलः खेटो यदि शरसायकांशके पञ्च-

६४ विवाहवृन्दावनम्— [ बलाबल-
पञ्चाशत्तमे नवांशके स्यात् तदा अयं उपसर्गडम्बरः पूर्णजामित्रदोषा-
डम्बरः निबिडैः सम्पूर्णैरप्यन्यगुणैर्न हन्यते ॥ १२ ॥
भा०—जिस नवांश में चन्द्रमा हो उससे ५५ वाँ नवांश में यदि पापग्रह
हो तो यह पूर्णजामित्रदोष परिपूर्ण भी अन्य गुणों से नाश नहीं होता है ॥१२॥
अथोक्तयोगानां सफलत्वमफलत्वं चाह—
मोघाः शिखिदग्धबीजवद्योगाः केपि शरीरधारिणः ।
दृढगूढफलोदयाः परे पर्णाकीर्णहुताशराशिवत् ॥१३॥
सं०—केऽपि योगाः शरीरधारिणः (प्रत्यक्षा अपि) शिखिदग्धबीज-
वत् मोघाः (विफलाः) भवन्ति । परे (अन्ये केचित् योगाः) पर्णा-
कीर्णहुताशराशिवत् (पर्णाच्छादिताग्निसमूह इव) दृढगूढफलोदयाः (दृढ-
गूढः प्राच्छन्नः फलोदयो येषां ते तथोक्ताः) भवन्ति । सबलग्रहसम्बन्धि-
योगाः सफलाः, विबलग्रहसम्बन्धियोगा विफला भवन्तीत्यर्थः ॥ १३ ॥
भा०—जैसे अग्नि से जले हुए बीज विफल होते हैं उसी प्रकार कितने
(निर्बल ग्रहों के) योग प्रत्यक्ष रहने पर भी विफल होते हैं । तथा—कितने
योग 'जो देखने में नहीं भी आते' वे तृणपत्रादि से आच्छादित अग्नि के समान
अवश्यही फलप्रद होते हैं। अर्थात् सबल ग्रहों का अल्पयोग भी फलप्रद, और
निर्बल ग्रहों का संपूर्णयोग भी विफल होता है ॥ १३ ॥
इति यः प्रतिकूलकारकग्रहभावांशनिवेशदृष्टिभिः ।
तन्वादिफलेषु दत्तदृक्स प्राप्नोत्यवतंसतां सताम् ॥१४॥
सं०—इत्युपरोक्तप्रकारेण यः 'दैवज्ञः' प्रतिकूलकारकग्रहभावांश-
निवेशदृष्टिभिः तन्वादिफलेषु दत्तदृक् भवति स 'दैवज्ञः' सतां अवतंसतां
भूषणत्वं प्राप्नोति ॥१४॥
भा०—इस प्रकार जो ज्योतिषी प्रतिकूलकारक (दुष्ट फलप्रद) ग्रह, भाव,
नवांश आदि के स्थानों पर दृष्टि देकर लग्नादि भावों का फल देखता है 'अर्थात्
ग्रहादिकों का बलाबल विचार कर जो फल कहता है' वह विद्वानों में भूषण अर्थात्
पूज्य समझा जाता है ॥१४॥

प्रकरणम्. १४ ] वसन्तलक्ष्मोसहितम् । ४५
अथ मिश्राध्यायः ।
तत्रादौ कीदृशं वरं कीदृशीं कन्यां च वृणुयादित्याह-
उल्लिख्य सामुद्रिकलक्षणानि वरः कुमारीं वृणुयान्निमित्तैः ।
एवं कुमारी वरमप्युदकों न ह्येकधारं निरधारि धीरैः ॥१॥
सं०-वरःनिमित्तैः वक्ष्यमाणैः कृत्वा सामुद्रिकलक्षणानि उल्लिख्य
सम्यग्ज्ञात्वा कुमारीं वृणुयात् । कुमारी कन्यापि एवं निमित्तैः सामुद्रिक-
लक्षणानि उल्लिख्य वरं वृणुयात् वरयेत् । हि यतः धीरैः गर्गादिमुनिभिः
उदर्कः भविष्यकालः एकधा अरं न निरधारि न निर्धारित इत्यर्थः ॥ १ ॥
भा०-वर को चाहिये कि-वक्ष्यमाणनिमित्तों से, सामुद्रिकलक्षणों को
समझ कर कन्या का वरण करै । इसी प्रकार कन्या भी वर का वरण करे ।
क्योंकि गर्गादिमुनियों ने उत्तरकालीन फल एकही प्रकार का नहीं कहा है, अर्थात्
भविष्य फल अनेक प्रकार से होते हैं ॥ १ ॥
स्वप्नो निमित्तं शकुनाः स्वकर्म शरीरमागन्तुकमद्भुतानि ।
दोषाभिचारग्रहचारकालकाम्यानि चैवं विविधः फलाध्वा ॥ २ ॥
सं०-स्वप्नः निद्राविशेषोद्भवं ज्ञानं, निमित्तानि क्षुतादीनि, शकुनाः
पूर्णकलशादयः, स्वकर्म प्राक्तनस्वकर्मविपाकः, शरीरं सामुद्रिकलक्षणा-
दिकम्, आगन्तुकं भविष्यवस्तु जातकादि, अद्भुतानि त्रिविधोत्पाताः,
दोषाः कफपित्तवातोद्भववास्तेषामभिचारः प्रचारः, ग्रहचारः स्वरसाधनादिकः,
कालः संवत्सरादिः, काम्यानि ऐहिकानि पुरुषचेष्टादीनि एवं विविधः नाना-
प्रकारकः फलाध्वा फलमार्गोऽस्ति ॥ २ ॥
भा०-स्वप्न, क्षुत आदि निमित्त, शकुन, पूर्वार्जित कर्म, शरीरलक्षण,
आगन्तुक ( जातक ), दिव्य, भौम, आन्तरिक्ष उत्पात, कफ वातादिजन्य शारीरिक
दोष का प्रचार, ग्रहों का चार, संवत्सर, मास, दिन, लग्न आदि काल और काम्य
( ऐहिक चेष्टादि ) इत्यादि फल कहने के मार्ग अनेक हैं । अर्थात् अनेक मुनियों
ने अनेक प्रकार से फल कहे हैं ॥ यथा-शौनक के वाक्य-
"तिथिकरणर्त्तनिशाकर-विलग्नपरिकल्पना मयं गर्गः ।
पाणिग्रहणेषु फलं वदन्ति यवना वसिष्ठश्च ॥
प्रहराशिगोचरभवं जातकविहितं च देवलः प्राह ।

६६ विवाहवृन्दावनम्- .[मिश्रा-

शकुनिरुतज्ञाः शकुनैर्निमित्तकुशला निमित्तैश्च ॥
कर्मसमुत्थं चान्ये कुलदेशस्त्रीस्वभावमपरे तु ।
इच्छन्त्यन्ये मुनयः कालविशेषाद् विशेषफलमिति ॥” २ ॥
अथ यत्नादेव फलप्राप्तिरित्याह—
प्राक्कर्म बीजं सलिलानिलोर्वीसंस्कारवत्कर्म विधीयमानम् ।
शोषाय पोषाय च तस्य तस्मात्सदा सदाचारवतां न हानिः ॥ ३ ॥
सं०—प्राक्कर्म (पूर्वजन्मकृतं यत् सदसत् कर्म) तस्य (प्राक्कर्मणः) विधीयमानं ( सम्प्रति क्रियमाणं ) कर्म उद्योगः शोषाय नाशाय, पोषाय पुष्ट्यै च भवति । किं वत् बीजं सलिलानिलोर्वी संस्कारवत् । यथा सद्-बीजं जलवायुभूमिसंस्कारेण उत्पद्यते वर्धते च तथैव प्राक्कर्म ( प्रारब्धं ) विधीयमानेन कर्मणा उद्योगेन वर्धतेऽन्यथा क्षीयते तद्वदित्यर्थः । तस्मात् कारणात् सदा चारवतां ( श्रुतिस्मृतिविहितकर्म सदाचारस्तद्वतां ) जनानां कदाचिदपि हानिर्न स्यात् । एतेन स्वप्नादयोऽपि विलोकनीया एवेति सिद्धम् ॥ ३ ॥
भा०—जैसे जल, वायु और पृथ्वी के संस्कार से बीज की उत्पत्ति और वृद्धि होती है, उसी प्रकार वर्तमान समय में क्रियमाण कर्म ( उद्योग ) पूर्वकृतं कर्म का शोषक ( नाश करनेवाला ) और पोषक ( बढ़ानेवाला ) होता है। अर्थात् उद्योग से ही शुभ फल का लाभ, और अशुभ फल का नाश हो सकता है अन्यथा नहीं । इसलिये सदाचारवान् ( श्रुति स्मृति विहित धर्म के पालन करने वालों ) की कभी हानि नहीं हो सकती है ॥ ३ ॥
उद्योगेन विना प्राक्तनकर्म न फलतीत्याह —
फलेद्यदि प्राक्तनमेव तत्किं कृष्याद्युपायेषु परः प्रयत्नः ।
श्रुतिः स्मृतिश्चापि नृणां निषेधविध्यात्मके कर्मणि किं निषण्णा ॥
सं०—यदि प्राक्तनं पूर्वकृतं कर्मैव फलेत् तत् तदा कृष्याद्युपायेषु परः प्रयत्नः किं स्यात् ? । तथा श्रुतिः स्मृतिश्चापि नृणां निषेधविध्यात्मके कर्मणि किं निषण्णा प्रवृत्ता ? । अतः सत्फललाभाय, असत् फलनाशाय चावश्यमेव प्रयत्नः कर्तव्य एवेति ॥ ४ ॥
भा०—अगर प्रारब्ध ही फलीभूत होता तो कृषि वाणिज्य आदि के उपायों में लोग यत्न क्यों करते हैं, लोग ही नहीं, श्रुति स्मृति भी लोगों के निषेध और

प्रकरणम् १४ ] वसन्तलक्ष्मीसहितम् । ६७
विधि कर्मों में क्यों प्रवृत्त है । इससे सिद्ध हुआ कि शुभफल लाभ और पापफल
नाश के लिये सर्वदा यत्नशील रहना चाहिये ॥ ४ ॥
अथ सप्तभिः श्लोकैः स्वस्वजनस्यारिष्टलक्षणान्याह—
छायां विधोर्न ध्रुवमृक्षमालामालोकयेद्यो न च मातृचक्रम् ।
खण्डम्पदं यस्य च कर्द्दमादौ कफश्च्युतो मज्जति चाम्बुचुम्बी ॥५॥
सं०—यो जनः विधोश्छायां कलङ्कलेखां न आलोकयेत्, ध्रुवं,
ऋक्षमालां नक्षत्रमण्डलम्, मातृचक्रं मातृसंज्ञकताराणां चक्रं मण्डलम्
नालोकयेत्, यस्य जनस्य च कर्द्दमादौ खण्डं पदं भवति, यस्य कफः च्युतः
सन् अम्बुचुम्बी मज्जति—‘अमुं एवंभूतं नेदिष्ठदिष्टान्तं ( आसन्नमृत्युं )
वरं कुमार्याः प्रदानाय आर्या न वृणीरन् न वरयेयुः’ इत्येकादशश्लोकेन
[L12

६८ विवाहवृन्दावनम्- -[ मिश्र-
मुख में तर्जनी मध्यमा और अनामिका ये तीनों अङ्गुली साथ जोड़कर न समाय,
स्नान करने पर जिसके मस्तक से धूमशिखा चले, अथवा जिसके मस्तक पर
खाली मुँहवाला पक्षी बैठे, जो कान झापने पर अन्तर का शब्द न सुने,
बहुत खाने पर भी जिसकी तृप्ति न हो, जो कान्तिमान अकस्मात् कान्तिरहित वा
कान्तिरहित भी कान्तियुक्त हो जाय, जो अकस्मात् दुबला से मोटा वा मोटा से
दुबला हो जाय, इस प्रकार के वरों का बरण नहीं करना चाहिये ॥६-७॥
अतीव तुच्छं बहु चाप्यहेतोरतीतसात्म्यः सदसत्प्रवृत्तौ ।
अप्यंगुलिक्रान्तविलोचनान्तो न मेचकं चान्द्रकमीक्षते यः ॥८॥
मध्येल्ललाटं मणिबन्धधारी न चाल्पिकां पश्यति यः कलावीम् ।
अहेतुकं यः शवगन्धिगात्रः सर्वत्र सीमन्तितमूर्धजो वा ॥६॥
सं०-यश्च अहेतोः ज्वरादिकारणं विनैव अतीवतुच्छं अतिशयाल्पं
अत्ति, यश्चाहेतोः भस्मकादिरोगहेतुं विनापि बहु अत्यधिकं अत्ति भक्षयति,
यश्च सदसत्प्रवृत्तौ अतीतसात्म्यः त्यक्तस्वभावगुणः, यश्च अङ्गुलिक्रान्तवि-
लोचनान्तः सन्नपि चान्द्रकं मेचकं मेचकवर्णवद्भासमानं नेक्षते । यश्च
मध्येल्ललाटं ललाटस्य मध्ये मणिबन्धधारी अल्पिकां कलावीं (मणिबन्धाधो
वलयधारणस्थानं ) न पश्यति, यश्च अहेतुकं शवगन्धिगात्रः, यश्च वा
सर्वत्र सीमन्तितमूर्धजः ( सीमन्तिता मूर्धजाः केशा यस्य स तथोक्तः )
अमुं वरं न वृणीरन् ॥ ८-९ ॥
भा०-जो ज्वर आदि बिना कारण के बहुत थोड़ा भोजन करै, वा भस्मक
आदि रोग बिना बहुत खाय, उचित अनुचित में जिसका स्वभाव बदल जाय
'अर्थात् जो सर्वदा उचित करनेवाला हो वह अनुचित करने लगे, वा सर्वदा
अनुचित करनेवाला उचित करने लगे; जो अङ्गुलियों से नेत्रप्रान्त को झाँपकर
मेचकवर्ण चान्द्रक ( खद्योतवत् भासमान ) न देखे, जो ललाट मध्य में मणिबन्ध
( तलहथ के नीचे का गाँठ ) को रखकर दुबला पहुँचा को न देखे, वा बिना
कारण मुर्दे के समान गन्ध शरीर में हो जावै, अथवा जिसके केश में सब जगह
सीमन्त ( ककवा से बनाई रेखा के समान रेखायें ) हो जायँ, इस प्रकार के वरों
का वरण नहीं करना चाहिये ॥ ८-९ ॥
अपि क्षरद्रोमनखः शरीरात् स्वप्ने स्रवद्दामविलोचनो वा ।
निरीक्षते सत्त्वममानुषं वा विस्रस्तनासानयनश्रुतिर्वा ॥१०॥

प्रकरणम् १४ ] वसन्तलक्ष्मीसहितम् । ६६
आक्षिप्यमाणो दिशि दक्षिणस्यां जागर्ति यानेऽधिकृतः खरादौ ।
नेदिष्ठदिष्टान्तममुं कुमार्या नाऽऽर्य्याः प्रदानाय वरं वृणीरन् ॥११॥
सं०—अपि वा यः स्वप्ने शरीरात् क्षरद्रोमनखः, वा स्रवद्वामविलो-
चनः, वा अमानुषं ( मनुष्यभिन्नं ) सत्त्वं जन्तुं निरीक्षते, अपिवा विस्र-
स्तनासानयनश्रुतिः वा खरादौ यानेऽधिकृतः दक्षिणस्यां दिशि आक्षिप्य-
माणः सन् जागर्ति, अमुं एवंभूतं नेदिष्ठदिष्टान्तं ( नेदिष्ठः अत्यासन्नो
नेदिष्टो मृत्युर्यस्य तं तथोक्तं ) वरं कुमार्याः कन्याकायाः प्रदानाय आर्याः
श्रेष्ठा ज्ञातारो न वृणीरन् ( न वरयेयुः ) ॥१०-११॥
भा०—जिसके स्वप्न में शरीर से रोम, नह वा वामनेत्र गिर पड़े, वा मनुष्य
से भिन्न ( व्याघ्र आदि ) जन्तुओं को देखे वा नाक, नेत्र, कान ये शिथिल हो
जाय, अथवा गदहे आदि सवारियों पर आरूढ़ होकर दक्षिण दिशा में प्रेरित
होकर जाता हुआ जाग पड़े, इस प्रकार के समीप मृत्युवाले वरों का आर्य पुरुष
कन्यादान के लिये वरण न करै ॥१०-११॥
अथ छायालक्षणेनारिष्टसम्भवं कथयति—
छायां निरीक्ष्य क्षणमन्तरिक्षं पश्यन्न यो निश्चलनेत्रपातः ।
शुभ्राभ्रसच्छायमिह स्वकायं पश्येत्स नश्येद्विकृतौ विकारः ॥१२॥
सं०—यश्च निश्चलनेत्रपातः स्थिरदृष्टिः सन् छायां निरीक्ष्य क्षणं
अन्तरिक्षं पश्यन् स्वकायं शुभ्राभ्रसच्छायं न पश्येत् स नश्येत् नाशं
गच्छेत् । इहाऽस्मिन् स्वशरीरे विकृतौ दृष्टायां विकारः स्यात् ॥१२॥
भा०—जो मनुष्य स्थिर दृष्टि से अपनी छाया को देखकर क्षणभर आकाश
को देखता हुआ फिर अपने शरीर को स्वच्छ मेघ के समान न देखै वह आसन्न
कालही में मर जाता है । तथा अपने जिस अंग को विकृत रूप में देखे उस अंग
में शीघ्र विकार हो जाता है ॥१२॥
अथ सत्पुरुषलक्षणान्याह—
प्रदक्षिणावर्तशरीररोमा वृषस्वनः फेनिलमूत्रपातः ।
नात्यल्पपाष्णिर्मनसा गभीरो धीरोन्नतारम्भरुचिर्यशस्वी ॥१३॥
स्निग्धेक्षणत्वङ्नखदन्तकेशो युवा सुवासाः परिवीतचेष्टः ।
न स्त्रीमुखो निप्रभशान्तमूर्तिर्न चातिकृष्णेक्षणतारको वा ॥१४॥

१०० विवाहवृन्दावनम्— [ मिश्र—

श्रौचित्यचारी शुचिरिङ्गितज्ञो विशालहस्ताननबाहुवक्षाः ।
सर्वोपि सत्त्वाकृतिमान्कुलीनः कन्याप्रदानाय वरो न रोगी ॥१५॥

सं०—प्रदक्षिणावर्तशरीररोमा, वृषस्वनः (वृषस्य स्वन इव स्वनो यस्य
सः ) फेनिलमूत्रपातः ( फेनिलः फेनसहितो मूत्रपातो यस्य सः ), नात्यल्प-
पार्ष्णिः ( न अत्यल्पः पार्ष्णिर्गुल्फाधोभागो यस्य स तथोक्तः ), मनसा
गभीरो गम्भीरः, धीरोन्नतारम्भरुचिः ( धीरा उन्नता चारम्भेषु रुचि-
र्यस्य स तथोक्तः ) यशस्वी, स्निग्धेक्षणत्वङ्नखदन्तकेशः, युवा, सुवासाः,
परिवीतचेष्टः ( परिवीता संवृता चेष्टा यस्य स तथोक्तः ), न स्त्रीमुखः
( स्त्रीमुखमिव मुखं यस्य नेत्यर्थः ), निप्रभशान्तमूर्तिः ( नितरां प्रभा
कान्तिर्यस्यास्तथाभूता शान्ता मूर्तिर्यस्य स तथोक्तः ), वा नातिकृष्णेक्षण-
तारकः ( अतिकृष्णे ईक्षणतारके यस्य न स्तः तथाभूतः ), औचित्यचारी
(योग्याचरणशीलः) शुचिः पवित्रहृदयः, इङ्गितज्ञः परचेष्टितज्ञः, विशाल-
हस्ताननबाहुवक्षाः, एवं सर्वोऽपि सर्वलक्षणयुक्तोऽपि सत्त्वाकृतिमान्
सात्त्विकप्रकृतिः, कुलीनः सुकुलोद्भवः, नरोगी ( रोगरहितः ) एवं भूतो वरः
कन्याप्रदानाय योग्यो भवति ॥१३-१४-१५॥

भा०—शरीर में सव्य आवर्त ( दहिने तरफ से घुमा हुआ ) रोमवाला, वृष
के समान गंभीर शब्दवाला, जिसके मूत्र त्याग करने से फेन उठता हो, जिसकी
एँड़ी ( पैर का पिछला हिस्सा ) अत्यल्प न हो, मन गम्भीर, जिसका सन्देह
रहित और उच्च कार्यारम्भ में रुचि हो, संसार में सुयश हो, चिक्कन दृष्टि, त्वचा,
नख, दाँत और केश हो, युवावस्था वाला, सुन्दर वस्त्र रखने वाला, जो संवृत
चेष्टा वाला हो, जिसका स्त्री के सदृश मुँह न हो, अत्यन्त कान्ति युत शान्त मूर्ति
हो, आँख की तारे ( पुतली ) अत्यन्त कृष्णवर्ण न हो, उचित आचरण करने
वाला, पवित्र, दूसरे की चेष्टा को जानने वाला, जिसका हाथ, मुख, बाहु और
वक्षःस्थल ( हृदय ) विशाल हो इन लक्षणों से युक्त रहने पर भी कुलीन और
रोगहीन हो तो इस प्रकार का वर कन्यादान करने के लिये योग्य है ॥१३-१५॥

एवं वरलक्षणान्युक्त्वा कन्यालक्षणानि कथयति—

श्मश्रुश्यामोन्नतोष्ठी पृथुकरचरणा ह्रस्वरुक्षाग्रकेशा
निःशौचा रोमशांगी कृशकुटिलचलत्क्रूरसञ्छन्नदृष्टिः ।

प्रकरणम्-१४ ] वसन्तलक्ष्मीसहितम् । १०१
वामावर्ता विशालोन्नतविकटनटद्भ्रूललाटा स्पृशन्ती
नोर्वीमन्त्यांगुलिभ्यामनियतबहुभुग्गेहिनी देहिनी रुक् ॥१६॥
सं०-श्मश्रुश्यामोन्नतोष्ठी (श्मश्रुभिः श्यामौ उन्नतौ च ओष्ठौ
यस्याः सा ), पृथुकरचरणा, ह्रस्वारुणाग्रकेशा; निःशौचा शौचरहिता,
रोमशाङ्गी, कृशकुटिलचलत्क्रूरसच्छद्मदृष्टिः (कृशा कुटिला चलन्ती
क्रूरा सच्छद्मा कपटसहिता दृष्टिर्यस्याः सा ) वामावर्ता (अप्रदक्षिण-
रोमावर्ता ), विशालोन्नतविकटनटद्भ्रूललाटा (विशालं विस्तीर्णं उन्न-
तञ्च विकटनटद्भ्रूललाटं यस्याः सा तथोक्ता विकटनटद्भ्रूः विशालोन्न-
तललाटा चेत्यर्थः ), अन्त्याङ्गुलीभ्यां कनिष्ठिकाभ्यां उर्वी भूमिं न स्पृशन्ती,
अनियतबहुभुक् (अनियतं बहु भुंक्ते सा तथोक्ता) एवं भूता गेहिनी भार्या
देहिनी शरीरधारिणी रुक् साक्षाद्रोग एवेत्यर्थः ॥ १६ ॥
भा०—जिस का दाढ़ी मुछ से श्याम वर्ण और ऊँचा ओठ हो, बड़ा बड़ा हाथ
पैर हो, छोटे छोटे और रूखे अग्रभाग वाले केश हो, जो शौचहीन हो, बहुत रोम-
युक्त शरीरवाली हो, जिसकी छोटी छोटी, टेढ़ी, चञ्चल और कपट भरी आँख हो,
वामावर्त्त रोम हो, बड़ा विशाल और ऊँचा ललाट विचित्र रूप से नाचती भ्रू हो,
चलते समय दोनों पैर की कनिष्ठा (कनगुडिया) अङ्गुली पृथिवी को स्पर्श नहीं करती
हो, जो अनियम रूप से बहुत खानेवाली हो इस प्रकार की पत्नी मानो साक्षात्
शरीर धारण किया हुआ रोग ही है ॥१६॥
या स्फिग्ललाटोदरलम्बिनी सा स्यात्कान्तकान्तानुजतातहन्त्री ।
नितम्बिनी स्वल्पनितम्बगुह्या द्रुह्यात्पतिं दीर्घगला कुलघ्नी ॥१७॥
सं०-या नितम्बिनी स्त्री स्फिग्ललाटोदरलम्बिनी ( स्फिग्गललाटो-
दरैर्लम्बते इति तथोक्ता ) सा क्रमेण कान्त-कान्तानुज-तातहन्त्री स्यात् ।
या स्वल्पनितम्बगुह्या (नितम्बः कटिपश्चाद्भागः, गुह्यो योनिः, स्वल्पे
नितम्बगुह्ये यस्याः सा तथोक्ता ) सा पतिं द्रुह्यात्, या दीर्घगला सा
कुलघ्नी ( प्रतिकुलघातिनी ) भवति ॥ १७ ॥
भा०-दीर्घ नितम्ब (चूतर) वाली पति को, दीर्घ ललाटवाली देवर को
और दीर्घ उदरवाली श्वशुर को नाश करती है। तथा अत्यल्प योनिरवाली स्त्री पति-
कुल को नाश करनेवाली होती है ॥ १७॥
निःस्वातिह्रस्वा धमनौ पुरंध्री प्रायेण तत्रातिपृथुः प्रचण्डा ।

१०२ विवाहवृन्दावनम्- [ मिश्र-
कपोलकूपा हसितेप्यशीला कूर्म्मोदरी दुःखदरी दुरात्मा ॥१८॥
सं०-धमनौ शिरायां अतिह्रस्वा पुरन्ध्री निःस्वा धनहीना भवति ।
तत्र 'धमनौ' या अतिपृथुः सा प्रचण्डा उग्रस्वभावा भवति । या हसिते
कपोलकूपा सा अशीला भवति । या च कूर्म्मोदरी सा दुःखदरी दुरात्मा
दुष्टस्वभावा च भवति ॥१८॥
भा०-जिसकी शिरायें ( शरीर की नाड़ियाँ ) अत्यन्त कृश हों वह स्त्री
निर्धना होती, और शिरायें मोटी मोटी हों तो अत्यन्त उग्र स्वभाव वाली होती
है । जिसके हँसने से कपोल ( गाल ) में गहिरा हो जाय वह दुराचारिणी होती
है । और कछुए के समान उदरवाली स्त्री दुःख की खान और दुष्ट स्वभाव वाली
होती है ॥१८॥
अथ हस्तपदगतरेखाफलानि कथयति-
रेखाभिरंगुष्ठतलेऽङ्गनानां पुंस्त्रीप्रसूतिर्विपुलाल्पिकाभिः ।
अच्छिन्नभिन्नाभिरखण्डमायुः खण्डन्तदन्याभिरमूरभिरस्याः ॥१९॥
सं०-अङ्गनानां स्त्रीणां अङ्गुष्ठतले कराङ्गुष्ठमूलाधोभागे विपुलाऽ-
ल्पिकाभिः रेखाभिः क्रमेण पुंस्त्रीप्रसूतिर्वाच्या (विपुलरेखातुल्याः पुत्र-
सन्ततिः, अल्परेखातुल्याः कन्या सन्ततिरित्यर्थः ) अमूभिः रेखाभिः
अच्छिन्नभिन्नाभिः अस्याः प्रसूतेः (सन्ततेः) अखण्डं पूर्ण आयुः, तदन्याभिः
( छिन्नभिन्नाभिः रेखाभिः ) अस्याः प्रसूतेः (पुंस्त्रीसन्ततेः ) खण्डं स्वल्पं
आयुर्वाच्यम् ॥१९॥
भा०-स्त्रियों के अंगुष्ठमूल से नीचे जितनी रेखायें हों उनमें बड़ी रेखा के
तुल्य पुत्र और छोटी रेखा के तुल्य कन्या सन्तान समझना । वे रेखायें अच्छिन्न
और अभिन्न ( सम्पूर्ण पुष्ट ) हों तो सन्तान की पूर्ण आयु, यदि कटी फटी रेखायें
हों तो सन्तान की अल्पायु होती है ॥१९॥
एका तिर्यक्तर्जनीं याति रेखा तर्जन्यंगुष्ठान्तराले तदन्या ।
ते द्वे स्यातामायुरैश्वर्यरेखे तत्सौन्दर्ये सुन्दरत्वं तयोः स्यात् ॥२०॥
सं०-'या' एका रेखा तर्जनीं प्रति तिर्यग् याति, तदन्या तद्भिन्ना
तर्जन्यङ्गुष्ठान्तराले याति, ते द्वे क्रमेण आयु-रैश्वर्यरेखे स्याताम् ।
तत्सौन्दर्ये तयो रेखयोः शोभनत्वे तयोरायु रैश्वर्ययोः सुन्दरत्वं शुभत्वं स्यात् ।

प्रकरणम् १४ ] वसन्तलक्ष्मीसहितम् । १०३
भा०—हाथ के मध्य में एक तिरछी रेखा तर्जनी अंगुली की तरफ जाती है
वह आयुर्दाय रेखा, और तर्जनी तथा अंगूठा के मध्य में जो दूसरी तिरछी रेखा
होती है वह ऐश्वर्य रेखा कहाती है, ये दोनों रेखायें सुन्दर हों पुष्ट हों तो आयु
और ऐश्वर्य भी पूर्ण होते हैं ॥२०॥
ऐश्वर्यरेखाशिखरेण मूलाद्युनक्ति याऽसौ पितृवंशरेखा ।
नीरन्ध्रबन्धा गृहबन्धनाय बंहीयसी वंशविवर्धनाय ॥२१॥
सं०—या रेखा मूलात् हस्तमूलात् निर्गता ऐश्वर्यरेखायाःशिखरेणा-
ग्रेण युनक्ति मिलति, असौ पितृवंशरेखा स्यात् । सा नीरन्ध्रबन्धा
( निश्छिद्रा निर्ग्रन्था ) गृहबन्धनाय ( गृहं गृहिणी तस्या बन्धनं प्रेम तस्मै
तथोक्ताय ) भवति । तथा बंहीयसी ( अतिशयेन बहुला ) सा रेखा
वंशविवर्धनाय भवति ॥ २१ ॥
भा०—हस्तमूल ( मणिबन्ध से ) निकली हुई और ऐश्वर्य रेखा के अग्र से
मिली हुई रेखा पितृवंश रेखा कहलाती है । यदि उसमें छिद्र और गाँठ नहीं हो
तो वह घर में बन्धन ( स्त्रियों में प्रेम ) कराने वाली होती है । यदि वही रेखा
अत्यन्त पुष्ट हो तो वंशवृद्धिकारिणी होती है ॥२१॥
कनिष्ठिकाजीवितरेखयोः स्यान्मध्ये मिथः कान्तकलत्ररेखा ।
अपत्यरीत्या करभे परस्मिन् भवन्ति सांमातुरवर्गरेखाः ॥२२॥
सं०—कनिष्ठिकाजीवितरेखयोः ( कनिष्ठिकामूलायुष्यरेखयोः ) मध्ये
( करभप्रदेशे ) मिथः कान्तकलत्ररेखा ( स्त्रीकरे पतिरेखा, पुरुषकरे
कलत्ररेखा ) स्यात् । करभे परस्मिन् शेषभागे सांमातुरवर्गरेखाः ( सांमा-
तुराः सोदरास्तेषां रेखाः ) अपत्यरीत्या (अपत्यरेखानुसारेण) ज्ञेया ॥२२॥
भा०—कनिष्ठामूल और आयु रेखा के मध्य ( करभप्रदेश ) में स्त्री के हाथ
में पति रेखा, और पुरुष के हाथ में स्त्री रेखा होती है । तथा शेष करभ भाग
( आयु रेखा और मणिबन्ध के मध्यस्थान ) में सोदर रेखा रहती है उन रेखाओं
को सन्तान रेखा के अनुसार समझना । अर्थात् जैसे—अंगूठे के नीचे बड़ी रेखा
से पुत्र और छोटी से कन्या के शुभाशुभ समझा जाता है, उसी प्रकार करभ-
प्रदेशस्थ बड़ी रेखा से भाई और छोटी रेखा से बहिन के शुभाशुभ समझना
चाहिये ॥२२॥
अनामिकामूलविभूषणं या पुण्यस्य रेखा तदवाप्तिहेतुः ।

१०४ विवाहवृन्दावनम्— [ मिश्र-
निःसीमसीमन्तितपञ्चशाखा कस्योध्वंरेखा न करोति राज्यम् २३
सं०-या रेखा अनामिकामूलविभूषणं सा पुण्यस्य रेखा तदवाप्तिहेतुः
( तस्य पुण्यस्य अवाप्तिः प्राप्तिस्तस्या हेतुः ) भवति । तथा निःसीमसीम-
न्तितपञ्चशाखा ( निर्गता सीमा यस्यासौ निःसीमः, निस्सीमः सीमन्तितः
पञ्चशाखो हस्तो यया सा तथोक्ता ) ऊर्ध्वरेखा कस्य जनस्य राज्यं न
करोति ? अपि तु सर्वस्यैव राज्यं करोत्येवेत्यर्थः ॥ २३ ॥
भा०-अनामिका अंगुली मूल को विभूषित करने वाली (अर्थात् अनामिका
के मूल और आयुरेखा पर्यन्त खड़ी ) रेखा पुण्य रेखा कहाती है, वह पुण्य कराने
वाली होती है । और जो रेखा मणिबन्ध से निकल कर समस्त हस्ततल को
विभक्त करती हुई ऊपर को जाती है वह ऊर्ध्व रेखा किस को राज्य नहीं कराती,
अर्थात् इस प्रकार की ऊर्ध्व रेखा हाथ में हो तो अवश्य राज्यप्रद होती है ॥२३॥
अथ सर्वासां रेखाणां साधारण्येन स्फुटफलप्रदत्वमाह —
अरूक्षगम्भीरमनोहराभी रेखाभिरन्तर्मधुपिङ्गलाभिः ।
न चातिबह्वीभिरवामवामेष्वंगेषु पुंस्त्रीफलयोः स्फुटत्वम् ॥२४॥
सं०-अवामवामेषु ( पुरुषस्य अवामेषु दक्षिणे षु, स्त्रिया वामेषु )
अङ्गेषु अरूक्षगम्भीरमनोहराभिः, अन्तर्मधुपिङ्गलाभिः न चातिबह्वीभिः
( नातिसंकीर्णाभिः ) रेखाभिः पुंस्त्रीफलयोः स्फुटत्वं स्यात् ॥ २४ ॥
भा०-अत्यन्त चिकनी गहिरी देखने में मनोहर और मधु समान पिङ्गलवर्ण
की पृथक्-पृथक् रेखा पुरुष के दहिने अंग और स्त्री के वाम अंग में हो तो स्पष्ट
रूप से शुभ फल मिलता है ॥२४॥
अथ राजचिह्नानि कथयति—
सरोजश्रीवृक्षध्वजगजतिमिस्तम्भकलश-
स्रगादर्शच्छत्रांकुशकुलिशभृङ्गारगिरिभिः ।
रथाश्वश्रीवत्सव्यजनयवयूपप्रभृतिभि-
र्नरा नार्यो राज्यं दधति पदपाणिप्रणयिभिः ॥२५॥
सं० — सरोज-श्री-वृक्ष-ध्वज-गज-तिमि-स्तम्भ-कलश-स्रगादर्श-च्छत्रा-
ङ्कुश-कुलिश-भृङ्गार-गिरिभिः रथाऽश्व-श्रीवत्स-व्यजन-यव-यूपप्रभृतिभिः पद-
पाणिप्रणयिभिः नराः, नार्यश्च, राज्यं दधति धारयन्ति ॥ २५ ॥

प्रकरणम् १४ ] वसन्तरक्ष्मीसहितम् । १०५
भा०-पुरुष अथवा स्त्री के पैर वा हाथ में यदि कमल, विल्व वृक्ष, ध्वजा,
हस्ती, मछली, स्तम्भ, कलश, माला, ऐना, छत्र, अंकुश, वज्र, भृंगार ( सुवर्ण
जलपात्र ), पर्वत, रथ, घोड़ा, श्रीवत्स ( हृदय में रोम की दक्षिणावर्त भौंरी ),
पङ्खा, जौ, यज्ञस्तम्भ, इत्यादि चिह्न हों तो अवश्य राज्य मिलता है ॥२५॥
अथ मुख्यशुभलक्षणान्याह -
अर्चितं वचनमुन्नतं मनो निर्विशेषसुखदं वपुर्दृशाम् ।
अस्ति चेदघपराङ्मुखा मतिर्लक्षणैः किमपरैर्नृयोषिताम् ॥२६॥
सं०-चेद्यदिवचनं अर्चितं पूजितं 'लोकैः स्वीकृत'मित्यर्थः । मनः
उन्नतम् , वपुः शरीरं दृशां चक्षुषां निर्विशेषसुखदं अत्यन्तसुखप्रदम्, मतिः
अघपराङ्मुखा (पापात्परावृत्ता ) तर्हि नृयोषितां (नरनारीणां ) अपरैः
लक्षणैः किं ? न किमपि प्रयोजनमित्यर्थः ॥ २६ ॥
भा०-यदि बचन आदरणीय, मन उच्च, शरीर नेत्रों को अत्यन्त सुख-
प्रद तथा बुद्धि पापकर्म से निवृत्त हों तो अन्य शुभ लक्षणों से क्या प्रयोजन ?
अर्थात् इन्हीं चार सुलक्षणों से सब सिद्ध होता है ॥२६॥
अथ निमित्तानि कथयति तत्र पक्षिचेष्टितान्याह -
वरस्य कन्यावरणे वरेण्यो दुर्गेव यो दक्षिणचेष्टितश्च ।
अदक्षिणं चेष्टितमिष्टमाहुस्तयोः कुमारी वृणुयाद्वरं चेत् ॥२७॥
सं०-वरस्य कन्यावरणे कन्यावरणकाले यः 'पुंसंज्ञितः पक्षी' दक्षिण-
चेष्टितः (दक्षिणाङ्गे कण्डूयनादिभिश्चेष्टितः ) स दुर्गा कृष्णचीटिका इव
वरेण्यः शुभप्रदो भवति, स्त्रीसंज्ञितपक्षिषु दुर्गापि दक्षिणचेष्टितैव शुभप्रदा
भवतीत्यर्थः । अनयोर्वामचेष्टितं न शुभप्रदमित्यर्थत एव सिद्ध्यति । तथा
यदि कुमारी वरं वृणुयात् तदा तयोः पुंसंज्ञितपक्षिदुर्गयोः अदक्षिणं चेष्टितं
वामाङ्गचेष्टितं इष्टं शुभप्रदं आहुः 'मुनीन्द्रा' इति शेषः ॥ २७ ॥
भा०-वर जिस समय कन्या का वरण करै उस समय पुंल्लिंग पक्षी और
स्त्रीलिंग में दुर्गा (कृष्णचीटिका ) पक्षी ये दोनों यदि दक्षिण अङ्ग से (खुजलाना
आदि कोई ) चेष्टा करते हों तो शुभप्रद समझना । अर्थात् इन दोनों के वाम चेष्टा
कन्यावरण में अशुभ है । तथा जिस समय कन्या ही वर का वरण करै उस समय
उक्त दोनों पक्षियों का वाम चेष्टा ही शुभप्रद है। अर्थात् दक्षिण चेष्टा अशुभ है ॥
१४

१०६ विवाहवृन्दावनम्- ˚ [ मिश्र-
अथ शुनश्चेष्टितं कथयति-
शूनो गतिर्दक्षिणेष्टा कुमारी यत्र कांक्षिणी ।
अदक्षिणा यत्र तत्र वर एतां वुवूर्षति ॥२८॥
सं०-यत्र यस्मिन् समये कुमारी कांक्षिणी भवति ( वरं वरीतुमि-
च्छतीत्यर्थः ) तस्मिन् समये शुनः कुक्कुरस्य दक्षिणा ( स्वदक्षिणभागगता )
गतिः इष्टा शुभप्रदा स्यात् । यत्र वरः एतां कुमारीं वुवूर्षति वरीतुमिच्छति
तत्र अदक्षिणा शुनोर्गतिरिष्टा भवति ॥ २८ ॥
भा०- जिस समय कन्या वरका वरण करै उस समय दाहिने भाग होकर
कुकर का चलना शुभ है। और जिस समय वर कन्या का वरण करै उस समय
वाम भाग कुकर का जाना शुभ होता है। अर्थात् इससे विपरीत अशुभ समझना ।
अथोपश्रुतिशकुनं कथयति -
आरोप्याक्षतपूरिते गणपतिम्प्रस्थादिपात्रे शनैः
संमार्जन्यववेष्टिते युवतयस्तिस्रः सकन्या निशि ।
निर्याता रजकादिवेश्मसु करे कृत्वा तमभ्यर्चितं
यां वाचं शृणुयुस्तदर्थसदृशी सिद्धिः किलोपश्रुतौ ॥२६॥
सं०-अक्षतपूरिते तण्डुलपूर्णे संमार्जन्यववेष्टिते प्रस्थादिपात्रे 'प्रस्थ-
कुडवादिमानपात्रे' गणपतिं गणेशमूर्तिं आरोग्य, अभ्यर्चितं संपूजितं तं
गणपतिं करे कृत्वा सकन्याः कन्यया सहितास्तिस्रः युवतयः सुवासिन्यः
निशि रात्रौ रजकादिवेश्मसु निर्याताः तत्र यां वाचं शृणुयुः तदर्थसदृशी
सिद्धिः उपश्रुतौ ज्ञेया किलेति निश्चयार्थकम् ॥ २९ ॥
भा०-चावल से पूर्ण प्रस्थ आदि ( सेर, पौआ, आदि ) अन्न नापने के पात्र
को संमार्जनी ( बढ़नी ) से ढककर उस पर गणेशजी की प्रतिमा रखकर उनकी
पूजाकर और उन्हें हाथ में लेकर रात्रि के समय कन्यासहित तीन सुवासिनी स्त्री
धोबी आदि जातियों के घर के समीप जाकर चुपके से उस घर में रहनेवाले का
शब्द सुने, वहाँ जिस प्रकार का वचन सुनने में आवे उसी प्रकार अपने चिन्तित
कार्य की सिद्धि समझना। अर्थात् यदि वहाँ शुभवचन सुनने आवे तो शुभ, तथा
अशुभवचन सुनने में आवे तो अशुभ समझना ॥ २९ ॥
अथ कन्यावरणनक्षत्राणि कुलाचारपालनं चाह-
श्रुतित्रिपूवीवसुवह्निमित्रविश्वानिल भॊ वरणं कुमार्याः ।

प्रकरणम् १४ ] वसन्तलक्ष्मीसहितम् । १०७
तच्चावमन्येत न चेतसापि यदाचरेयुः स्वकुलोक्तमार्याः ॥३०॥
सं०-श्रुतित्रिपूर्वावसुवह्निमित्रविश्वानिलर्चे कुमार्याः कन्यायाः
वरणं शुभं स्यात् । तथा आर्याः मान्यवृद्धाः कुलोक्तं निजकुलपरंपरागतं
यत् आचरेयुः तच्चेतसापि मनसापि नावमन्येत तदवमानना न कार्येत्यर्थः ।
भा०-श्रवण, तीनों पूर्वा, धनिष्ठा, कृत्तिका, अनुराधा, उत्तराषाढ़ा, स्वाती
इन नक्षत्रों में कन्या का वरण करना शुभ है । और माननीय वृद्ध लोग अपने कुल
परंपरागत जो आचार करते आये हों उसका अवहेलना मनसे भी नहीं करना
चाहिये । अर्थात् कुलका आचार भी अवश्य करना चाहिये ॥ ३० ॥
अथ वेदिकानिर्माणं कथयति—
वेदिकां विरचयेत्तथा यथा स्यादियं प्रविशतश्च दक्षिणे ।
स्युर्जनाश्रययवोप्तिवर्णिकाः षण्णवत्रिदिवसेषु नाग्रतः ॥३१॥
सं०-विवाहार्थं—वेदिकां तथा विरचयेत् यथेयं गृहं प्रविशतः
पुरुषस्य दक्षिणे भागे भवेत् । अग्रतः विवाहदिनात् पूर्वे षण्णवत्रिदिवसेषु
जनाश्रय-यवोप्ति-वर्णिका न स्युः ( न भवेयुः ) । पश्चात् मण्डपाद्युद्वासन-
मपि-एतन्मितेषु दिनेषु नो कार्यम् । अन्यव्यवस्था आचारतो ज्ञेया ॥३१॥
भा०-विवाह के लिये वेदी इस प्रकार बनाना चाहिये जिससे वह गृह
( मण्डप ) में प्रवेश करते समय दाहिने भाग पड़े । और विवाहदिन से पूर्व, षष्ठ,
नवम, और तृतीय दिन में मण्डप, अङ्कुरार्पणार्थ जौ का बोना और लीपना पोतना
रंग लगाना आदि न करना चाहिये । अर्थात् विवाह दिन से पीछे ३, ६ और ९
दिनों में मण्डप आदि का उद्वासन (उत्थापन) भी न करना चाहिये । और विशेष
व्यवस्था आचार से समझना चाहिये ॥ ३१ ॥
अथ मातृकापूजनं कर्तव्यमित्याह—
कन्यकोक्तविधिवत्पुलोमजापूजनं सयुवतिः समाचरेत् ।
घ्नन्ति चाशुभमविघ्नमातरो मातृयज्ञकुलकर्मशान्तयः ॥३२॥
सं०-सयुवतिः ( सुवासिनीस्त्रीसहिता ) कन्यका उक्तविधिवत्
शौनकादिप्रतिपादितरीत्या पुलोमजापूजनं इन्द्राण्याराधनं समाचरेत् ।
तथा मातृयज्ञ-कुलकर्मशान्तयः ( मातरो गौर्याद्याः, मातृमातामह्याद्याश्च ता-
सां यज्ञः पूजनं, कुलाचारवशेन शान्तयश्च ) अविघ्नमातरः ( निर्विघ्नं

१०८ विवाहवृन्दावनम्- •[ प्रश्न-
निष्पादिताः ) अशुभं घ्नन्ति नाशयन्ति । अतः शच्याः, मातृकाणां, कुल
देवतानां चाराधनमवश्यमेव कर्तव्यमिति तात्पर्यम् ॥३२॥
भा०-सुवासिनी स्त्री सहित कन्या शौनकादिकथित विधि से शची की पूजा
करे । और गौरी आदि षोडशमातृका तथा माता मातामही आदि माताओं का
यज्ञ ( पूजनादि ) तथा कुलाचारानुसारशान्ति ( कुलदेवतापूजनादि ) ये विघ्नों को
नाश कर देते हैं। इसलिये इन कर्मों को मंगलकार्यों में अवश्य करना चाहिये ॥

अथ वधूवरप्रश्नाध्यायः ।
तत्रादौ वधूप्रश्नमाह-
कर्मायसूनुसहजस्मरगो मृगाङ्कः
स्त्रीपुंससंगमयिता यदि जीवदृष्टः ।
स्वर्क्षाणि शुक्रशशिदृष्टयुतानि कन्या-
लब्ध्यै वधूगृहदक्काणनवांशका वा ॥ १ ॥
सं०-प्रश्नलग्नात् कर्मायसूनुसहजस्मरगो मृगाङ्कश्चन्द्रो यदि जीव-
दृष्टस्तदा स्त्रीपुंससंगमयिता वधूवरसंगमकारको भवतीत्यर्थः । शुक्रशशि-
दृष्टयुतानि स्वर्क्षाणि ( शुक्रशशिनोः स्वगृहाणि ) लग्नगतानि, वा वधूगृह-
दृक्काणनवांशकाः (वधूगृहाणि समराशयस्तेषां दृक्काणनवांशकाः लग्नगताः)
कन्यालब्ध्यै कन्यालाभाय भवन्ति ॥ १ ॥
भा० - वरकन्यालाभार्थ प्रश्नलग्न से १०, ११, ५, ३, ७ इन स्थानों में
चन्द्रमा हो और बृहस्पति से दृष्ट हो तो वधूवरसंगमकारक होता है । अर्थात् वर
के लिये कन्या और कन्या के लिये वर मिलता है । तथा शुक्र और चन्द्रमा की
राशि ( वृष, तुला, कर्क ये ) लग्न हो और शुक्र चन्द्रमा से दृष्ट युत हो, वा
समराशि ( वृष आदि ) के द्रेष्काण, नवांश लग्नगत हो और शुक्रचन्द्र से दृष्ट युत
हो तो कन्यालाभ होता है ॥ १ ॥
युग्मर्त्तगौ शशिसितौ द्विपदाङ्गनांशे
स्यातान्तदासिपिशुनौ तनुमीक्षमाणौ ।
नारीनवांशमुदितं खचराः परेपि
स्त्रैणर्त्तगा विलसदुज्ज्वलवीर्यभाजः ।। २ ।।