विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 105, कुल 138 में से
संदर्भ में पढ़ें६२ विवाहवृन्दावनम्— [ बलाबला-
तथा—"क्रूरग्रहसंदृष्टे समर्क्षगे शशिनि भजति पतिमन्यम् ।
स्त्रीणामन्यत्र गते सौम्यैर्दृष्टे शुभं भवति ॥” इति ॥६॥
अथ पुंस्त्रीग्रहबलवशेन फलान्तरमाह—
नरः प्रियो नीरजलोचनानां नरग्रहैरुत्कटकान्तिवीर्यैः ।
नारी नृणां चित्तहरा स्वभोगैर्नारीनभोगैर्बलशालिभिस्तु ॥ ७ ॥
सं०—नरग्रहैः (गुरुरविकुजैः) उत्कटकान्तिवीर्यैः (अतिप्रकाश-
बलयुतैः) सद्भिः नीरजलोचनानां कन्यानां नरो भर्त्ता प्रियो भवति ।
नारीनभोगैः स्त्रीग्रहैः (चन्द्रशुकैः पूज्यार्थत्वाद्वहुवचनम्) बलशालि-
भिस्तु नारी स्त्री स्वभोगैः नृणां स्वामिनां चित्तहरा प्रिया भवति ॥ ७ ॥
भा०—विवाह समय पुरुषग्रह (गुरु·रवि·मंगल) बली हों तो स्त्री को स्वामी
प्रिय होता है। तथा स्त्री ग्रह बली हो तो स्वामी को स्त्री प्रिया होती है ॥ ७ ॥
अथ पतिश्वशुरादीनां फलान्तराण्याह—
पतिरस्तपतिर्विरोचनः श्वशुरस्तत्प्रमदा मदग्रहः ।
अबला बलिनो दिशन्त्यमी सुदृशां तेष्वशुभं शुभं क्रमात् ॥ ८ ॥
सं०—सुदृशां (सुलोचनस्त्रीणां) अस्तपतिः सप्तमेशः पतिः, विरोचनः
सूर्यः श्वशुरः, मदग्रहः शुक्रः तत्प्रमदा (श्वशुरस्त्री श्वश्रूः) भवति । अमी
पत्यादिग्रहाः अबला बलिनः क्रमात् तेषु पत्यादिषु अशुभं शुभं च दिशन्ति,
अबला अशुभं, बलिनः शुभं दिशन्तीत्यर्थः ॥ ८ ॥
भा०—सप्तमेश स्त्रियों का स्वामी, सूर्य श्वशुर और शुक्र सास है। ये निर्बल
हों तो पति आदि के अशुभफल और बली हों तो शुभफल देते हैं ॥ ८ ॥
शशिसूर्यसुतावनीसुतैर्रिनीचास्तगतैः करग्रहे ।
अपि तन्वधिपेन तप्यते निरपत्या नियतं नितम्बिनी ॥ ६ ॥
सं०—करग्रहे विवाहे शशिसूर्यसुतावनीसुतैः अरिनीचास्तगतैः
तन्वधिपेन लग्नेशेनापि अरिनीचास्तगतेन नितम्बिनी स्त्री निरपत्या
सन्तानरहिता सती तप्यते । इदं फलं सप्तमभावे हीनबले सति बोध्यं यतः
शौनकः—"लग्नपतौ रिपुभवने नीचे वा रविसुतावनीजैः । बलरहिते च
द्यूने स्त्रीणां न भवन्त्यपत्यानि ॥" इति ॥ ९ ॥