सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

७६ श्रीतन्त्रालोकः ।
इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात्
इत्याशंक्याह
तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः ३८॥
एवमपि हि बुद्धेः
'अध्यवसायो बुद्धिः'
इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं, कथमस्य
एतदभावे तद्धर्मत्वं स्यात् ॥ ३८ ॥
अत एवाह
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी ।
षट्कञ्चुकाबिलागूत्थप्रतिबिम्बनतो यदा ॥३६॥
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् ।
बौद्धं तस्य च तत्पौंसं पोषणीयं च पोष्टृ च ४०॥
अस्याश्चैवमध्यवसाययोगित्वे हेतुः 'षट्कञ्चुक'
इति । षट्कञ्चुकैः
'कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः ।

पं० ३ ख० पु० बुद्ध्यंशो व्यवसायेति पाठः ।
पं० ११ ख० पु० धीर्जायेतेति पाठः ।
पं० १५ क० पु० सम्बन्ध इति पाठः ।

श्लोकः ४० ] प्रथमाह्निकम् । ७७
अधुनैव किंचिदेवेदमैव सर्वात्मनैव जानामि ।
मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥'
( प० सा० १६ उ० १७ )
इत्यादिना निरूपितस्वरूपैः 'आबिलः' प्रतिनियत-
ज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ 'अणुः' परि-
मितात्मा, ततो जातात् 'प्रतिबिम्बनात्' 'चिच्छायासं-
क्रमणात् इत्यर्थः । एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वा-
देवंस्वभावो भवेत् इति भावः । 'तादृक्' इति एव-
मव्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं
दर्शयितुमाह 'तस्य' इत्यादि, 'तस्य' इति बौद्धस्य,
'पौस्नं' पुंसि भवं पौरुषम् इत्यर्थः । 'पोषणीयं '
कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मय-
तानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं
ज्ञानमुदियात् । यदाहुः
'कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥'
इति । 'पोष्टृ' इति कारणम् । स्वप्नादावपि अनुभव
पं० १६ क० पु० पुरतोऽवस्थितानि वेति पाठः ।

७८ श्रीतन्त्रालोकः ।
एव हि प्राच्यो निमित्तं, नहि नारिकेलद्वीपवासिनो
वह्निविकल्पादाविच्छापि भवेत् ॥ ३६ ॥ ४० ॥
एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितु-
माह
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरास्थितेः ।
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा ।
तद्बौद्धं यस्य तत्पौरुसं प्राग्वत्पोष्यं च पोष्टृ च
॥ ४२ ॥
पशोराणवस्यापि वासनामात्रक्षयाभिधानात् 'नि-
मित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन कार्म-
मायीयोरपि प्रक्षयान्निवृत्त निखिलबन्धस्य 'पुंसः'
अत एव प्राप्तपरमचिदैकात्म्यस्य 'विकस्वरं' पराहन्ता-
विमर्शात्मकं 'निर्विकल्पकं' कृत्रिमाहंकारादिविकल्प-
पं० ५ ख० पु० प्राप्तपुरस्थितिरिति पाठः ।
पं० १० क० पु० पशोरावरकस्यापि इति पाठः ।
पं० १३ ख० पु० प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।

श्लोकः ४३ ] प्रथमाह्निकम् । ७९
विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः ।
'औचित्येन' इति तद्द्रूपूर्णेनात्मना इत्यर्थः । अतश्च
'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । 'यस्य'
इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः
परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णा-
पूर्णात्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना-
ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥ ४१ ॥ ४२ ॥
नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति
नास्ति विवादः, एतद्भावात्मकं ज्ञानं पुनः कदा
समुदियात्, एतद्भावे च किं निमित्तम् ? इत्याश-
ङ्क्याह
तत्र दीक्षादिना पौंसमज्ञानं ध्वंसि यद्यपि ।
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्
॥ ४३ ॥
यद्यप्युक्तस्वरूपं 'पौंसमज्ञानं'
पं० ३ क० पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः ।
पं० १३ क० पु० तथापि तु शरीरान्ते इति पाठः ।

८० श्रीतन्त्रालोकः ।
'दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः ।
दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।'
इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव 'तथापि' 'तत्'
अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि
'..................प्रारब्धेकं न शोधयेत् ।'
इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात्
'तस्य' वर्तमानशरीरस्य 'अन्ते स्फुटं व्यज्यते'
'..................देहपाते शिवं व्रजेत् ।'
इत्याद्युक्त्या साक्षात्कारात्म स्फुरति इत्यर्थः ।
आदिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्ति-
पातादेः, तद्धि दीक्षायां निमित्तम् इति तद्दहनेनै-
वास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचि-
न्मुक्तौ निमित्तम् । तदुक्तं
'तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात् ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।।'
पं० ५ क० पु० प्रारब्धं केन शोधयेदिति पाठः ।
पं० १० ख० पु० तीव्रतमशक्तिपातादेव इति पाठः ।
पं० ११ ख० ग० पु० तद्दहनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः ।

श्लोक ४४] प्रथमाह्निकम् । ८१
इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण
दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः । तदुक्तं
'तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।'
इति दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति
न संभाव्यम्, एवं श्रुतिविरोधः स्यात् ।
'तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः ।
सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥'
इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो
विवक्षितः, अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव
कथं संगच्छताम् इत्यलं बहुना ॥ ४३ ॥
ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत्,
तत्कथं 'जीवन्नेव विमुक्तोऽसौ' इत्याद्युक्तम् इत्या-
शङ्क्याह
बौद्धज्ञानेन तु यदा
बौद्धमज्ञानजृम्भितम् ।
विलीयते तदा जीवन्-
मुक्तिः करतले स्थिता ॥ ४४ ॥
पं० ३ क० पु० तत्क्षणादपव्यज्यत इति पाठः ।
पं० ६ ख० पु० संस्कारपरिपाकत इति पाठः ।
पं० ८ क० पु० पुनर्वाक्यक्रियेति ख० पु० पुनर्वाक्ये क्रिया इत्यादिरूपः पाठः ।
११

८२ श्रीतन्त्रालोकः ।
'बौद्धज्ञानेन' इति परमेश्वराद्वयशास्त्रश्रवणाद्यु-
द्भूतेन । तदुक्तं
'गुरुणैव यदा काले संप्रदायो निरूपितः ।
तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ॥'
इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि
अकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकारः इति कुतस्त-
दवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात् ।
तदुक्तं
'अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् ।'
इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किंचि-
द्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां
दीक्षायां प्रवृत्तिरेव न स्यात्-साध्यस्यार्थस्य अत
एव स्रष्टुरभावात्, अत एव दीक्षायां शिथिला-
स्थत्वं न वाच्यं, तस्या एव मुक्तिं प्रति मूलकारण-
त्वात् । एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मु-
खमपि न तदैव मुक्तिप्रदं - देहान्ते तदभिव्यक्तेरुक्त-
त्वात्, इदं पुनस्तदैव इति ततोऽस्य प्राधान्यमपि
कटाक्षितम् ॥ ४४ ॥
पं० ५ क० पु० दीक्षाधिकारेणैवेति पाठः ।

श्लोक ४५ ] प्रथमाह्निकम् । ८३
न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं याव-
दन्यदपि इत्याह
दीक्षापि बौद्धविज्ञान-
पूर्वा सत्यं विमोचिका ।
तेन तत्रापि बौद्धस्य
ज्ञानस्यास्ति प्रधानता ॥४५॥
इह
‘सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।’
इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम्
अधिकारः, अत एव तस्य
‘शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ।’
इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः
‘शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते ।’
इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति
दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन
विना तस्या निष्पत्तिरेव स्यात् ॥ ४५ ॥
न चैतदस्मदुपज्ञमेव इत्याह
पं० ३ ग० पु० दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः ।
पं० ६ क० पु० शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।

८४ श्रीतन्त्रालोकः ।
ज्ञानाज्ञानगतं चैतद्-
द्वित्वं स्वायम्भुवे रुरौ ।
मतङ्गादौ कृतं श्रीमत्-
खेटपालादिदैशिकैः ॥४६॥
तदुक्तं श्रीस्वायम्भुवे
'अथात्ममलमायाख्यकर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥'
इति ।
'अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् ।
तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥
तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता ।'
इति च । श्रीरुरवापि
'यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः ।
गुरुतन्त्रानुज्ञातदीक्षासिच्छिन्नसंशयाः ॥'
इति ।
'न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः ।
प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः ॥
पं० १ क० पु० ज्ञानाज्ञानकृतमिति पाठः ।
पं० १३ ख० पु० जयन्तीति पूर्वतनः पाठश्च दृश्यते, क० पु० मन्त्रतन्त्र-
विशारदा इति च पाठः ।
पं० १४ क० पु० दीक्षाविच्छिन्नसंशया इति पाठः ।
पं० १६ क० पु० न मीमांसा विचार्या वा मन्त्रस्वल्पधियेति पाठः ।

श्लोक ४६ ] प्रथमाह्निकम् । ८५
सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः ।
शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ॥'
इति च । श्रीमत्तङ्गेऽपि
'ततः स भगवानीशः स्फुरन्माणिक्यशेखरः ।
वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥
प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् ।'
इति ।
'शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥
शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् ।
अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ॥'
इति च । आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रह-
णम् । तदुक्तं तत्र
'बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् ।
तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ॥
बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् ।
यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥
पं० १ ख० पु० सर्वे वर्णात्मका मन्त्राः सर्वे वर्णाः शिवात्मका इति शोधितः
पाठोऽस्ति ।
पं० २ क० पु० शिवात्मकमिदं कृत्वेति पाठः ।
पं० १५ ख० पु० बौद्धमक्षतमिति पाठः ।

प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो-

८६ श्रीतन्त्रालोकः ।
ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् ।'
इति । पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्या-
वदस्य बौद्धं ज्ञानं पूर्वभावि न स्यात्, येनास्य
ततोऽपि प्राधान्यमुक्तम् ॥ ४६ ॥
एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण
कुतः समुदियात् इति तदेव मूलकारणत्वादिह
प्रधानम् इत्याह
तथाविधावसायात्म-
बौद्धविज्ञानसम्पदे ।
शास्त्रमेव प्रधानं य-
ज्ज्ञेयतत्त्वप्रदर्शकम् ॥ ४७ ॥
'संपदे' इति तां जनयितुम् इत्यर्थः। यतो 'ज्ञेयस्य'
नीलसुखादेः 'तत्त्वं' प्रकाशमानत्वान्यथानुपपत्त्या
प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो-
पदेशकारित्वात्तदभिधायकम् इत्यर्थः । अत एव
चास्य तद्प्रदर्शक तया शास्त्रान्तरेभ्यो वैलक्षण्यमपि
कटाक्षितम् ॥ ४७ ॥
पं० ३ ख० पु० बौद्धमपि ज्ञानमिति पाठः ।
पं० ११ ग० पु० प्रधानं यन्ज्ञेयतत्त्वप्रकाशकमिति पाठः ।

श्लोक ४९ ] प्रथमाह्निकम् । ८७
ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्ना-
ज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु
तदैव इत्याशङ्क्याह
दीक्षया गलितेऽप्यन्त-
रज्ञाने पौरुषात्मनि ।
धीगतस्यानिवृत्तत्वा-
द्विकल्पोऽपि हि संभवेत् ॥ ४८ ॥
'धीगतस्य' इति अज्ञानस्य । 'विकल्पो हि' भेद-
प्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति
बहूक्तम् ॥ ४८ ॥
ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः
किमायातम् इत्याशङ्क्याह
देहसद्भावपर्यन्त-
मात्मभावो यतो धियि ।
देहान्तेऽपि न मोक्षः स्या-
त्पौरुषाज्ञानहानितः ॥ ४९ ॥
पं० २ क० पु० देहान्ते निवृत्तिरिति पाठः ।
पं० ६ क० पु० निवृत्तत्वादिति पाठः ।
पं० ९ क० ख० पु० सा चैवेति पाठः ।
पं० १३ क० पु० देवसद्भावेति पाठः ।

८८ श्रीतन्त्रालोकः ।
दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो
भवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं
संभवेत् इति भावः । अत एव देहान्ते बुद्धावात्मग्रह-
व्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव
प्रध्वस्तत्वान्मोक्षः इति युक्तमुक्तं 'तच्छरीरान्ते
तज्ज्ञानं व्यज्यते स्फुटम्' इति ॥ ४६ ॥
एवं विकल्पोऽत्र संभवन्मुक्तौ व्यवधायकः इति
न तदैव मुक्तिः, तस्य पुनरसंभवे सत्यपि देहे मुक्तिः
इत्याह
बौद्धाज्ञाननिवृत्तौ तु
विकल्पोन्मूलनाद्ध्रुवम् ।
तदैव मोक्ष इत्युक्तं
धात्रा श्रीमन्निशाटने ॥५०॥
न चैतदप्रमाणकम् इत्याह 'इत्युक्तम्' इत्यादि ॥५०॥
विकल्पयुक्तचित्तस्तु
पिण्डपाताच्छिवं व्रजेत् ।
इतरस्तु तदैवेति
शास्त्रस्यात्र प्रधानतः ॥५१॥
पं० ५ क० पु० ततः शरीरान्ते इति पाठः ।

श्लोक ५२ ] प्रथमाह्निकम् । ८९
‘इतर’ इति निर्विकल्पः । ‘तदैव’ इति देहसद्भावे
इत्यर्थः । यदुक्तं तत्रैव
‘विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ।’
विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥
पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः ।’
इति। इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं
निगमयति-इति इत्यादिना, ‘इतिशब्दः’ काकाक्षि-
न्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च
व्याख्येयः । स च ‘ज्ञेयतत्त्वप्रदर्शकम्’ इत्यादिना
प्रागप्युक्तः ॥ ५१ ॥
ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्र-
प्राधान्यावगमकमपि स्यात् इत्याशङ्क्याह
ज्ञेयस्य हि परं तत्त्वं
यः प्रकाशात्मकः शिवः ।
नह्यप्रकाशरूपस्य
प्राकाश्यं वस्तुतापि वा ॥५२॥
पं० १ ख० पु० देवसद्भावे इति पाठः ।
पं० ३ ख० पु० विकल्पहीणचित्तस्तु इति पाठः ।
पं० ६ क० पु० ज्ञेयतत्त्वप्रकाशकमिति पाठः ।
१२

९० श्रीतन्त्रालोकः ।
'ज्ञेयस्य' नीलादेर्नीलतैव प्रकाशमानता न ताव-
दात्मभूता, तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु
कदाचित्कंचित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः । अतश्च
अस्य प्रकाशते, मम प्रकाशते इति प्रकाशात्मप्रमातृसं-
लग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसि-
तस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता,
तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्वात्,
अतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव पर-
मार्थः इत्युक्तं 'प्रकाशात्मकः शिवः परं तत्त्वम्' इति ।
नन्वसौ स्वयमतथारूपोऽपि प्रकाशसंबन्धात्तथा
भविष्यति इत्याशङ्क्याह 'नहि' इत्यादि । प्रकाश-
संबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाश-
रूप एव सन् प्रकाशते, नहि अप्रकाशरूपश्च प्रका-
शते च इति स्यात्, नहि अश्वेतः प्रासादः श्वेतते,
न चैवं वस्तुत्वमप्यस्य स्यात्, नहि प्रकाशरूपतामप-
हाय अन्यद्वस्तु संभवेत् इति भावः ॥ ५२ ॥
पं० १ क० पु० नीलसुखादेरिति पाठः ।
पं० ५ क० पु० पर्यवस्थितरूपेति पाठः ।
पं० १२ क० पु० प्रकाशनरूपः प्रकाशते इति पाठः ।

श्लोक ५३ ] प्रथमाह्निकम् । ९१
एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाश-
मानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्या-
पि इत्याह
अवस्तुतापि भावानां
चमत्कारैकगोचरा ।
यत्कुड्यसदृशी नेयं
धीरवस्त्वेतादित्यपि ॥ ५३ ॥
यतो 'नास्त्यत्र घट' इत्येवंरूपापि बुद्धिर्बोधस्व-
भावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव घटा-
द्यभावोऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधा-
त्मकशिवस्वभाव एव इत्यर्थः । तदाहुः
'अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव ।'
इति ॥ ५३ ॥
ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदे-
कपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन
सिद्धः इत्याशङ्क्याह
पं० ६ क० पु० घटाभावोपीति पाठः ।

प्रकाशो नाम यश्चायं

९२ श्रीतन्त्रालोकः ।
प्रकाशो नाम यश्चायं
सर्वत्रैव प्रकाशते ।
अनपह्नवनीयत्वात्
किं तस्मिन्मानकल्पनैः ॥५४॥
अपूर्वार्थविषयं खलु प्रमाणं । यदाहुः
‘अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा’
इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव
तस्य प्रकाशमानत्वेन ‘अनपह्नवनीयत्वात्’ इति व्यर्थं
तत्र प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन
प्रकाशः स्यात्, यद्यसौ पूर्वमनधिगतत्वेन अप्रकाश-
मानः स्यात्, तथाभावश्च तद्रहितपूर्वकालस्मृतौ
सत्यां भवेत्, स्मृतिरपि एवंरूपमनुभवं विना नोत्प-
द्यते, अनुभूतविषयासंप्रमोषात्मकत्वात्तस्याः, न च
प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानु-
भवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति
पं० ११ क० पु० तद्भावश्चेति पाठः ।
पं० १२ क० पु० एवंरूपानुभवमिति समस्तः पाठः ।
पं० १५ ख० पु० य एव हि प्रकाश इति पाठः ।

श्लोक ५५] प्रथमाह्निकम् । ९३
कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभास-
मानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सि-
द्धिः। स एव च 'प्रकाश एव प्रकाशकः प्रमाता' इति
नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्त-
मुक्तम् 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः।'
इति ॥ ५४ ॥
न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्र-
त्युत एषां तदधीना सिद्धिः इत्याह
प्रमाणान्यपि वस्तूनां
जीवितं यानि तन्वते ।
तेषामपि परो जीवः
स एव परमेश्वरः ॥ ५५ ॥
इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण
स्वस्वरूपेण तावत्स्वयमन्योन्यं वा न कश्चिद्विशेषः ।
नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् । यदि-
पं० १ ख० पु० सर्वमस्यावभासेति पाठः ।
पं० १४ ख० पु० नास्ति कश्चिद्विशेष इति पाठः ।
पं० १५ क० पु० यदि हि स्वात्मनि पीतं स्यात्पीतं नीलं वा नीलं तत्किमिव
विरुद्धमिति पाठः ।

९४ श्रीतन्त्रालोकः ।
नाम हि स्वात्मनि नीलं पीतं स्यात्पीतं वा नीलं,
तत्किमिव न विरुद्धमापतेत् । अथ यथैव यत्प्रकाशते
तथैव तत्स्वात्मनि परिनिष्ठितं स्यात् इति न नीलं
पीतं, पीतं वा नीलम्, इति चेत्-एवं तर्ह्येषां स्वात्म-
नि विशेषो न कश्चिदुक्तः स्यात्, अपि तु प्रकाशते
इति-इति प्रकाश एवैषां रूपं तत्तन्नियतस्वरूपप्र-
निष्ठानिबन्धनत्वात् जीवितं वितनुयात् येन नील-
मिदं पीतमिदम् इति सिद्ध्येत् । स च नीलाद्युप-
रागेण नियतरूपतामवलम्बमानः प्रमाणशब्दव्य-
पदेश्यो भवेत् । न चास्य स्वात्मसिद्धिं प्रति अन्यद-
पेक्षणीयं-प्रकाशरूपत्वात्, प्रकाशस्य च स्वपरप्रका-
शकत्वात्, तथा-भूतोऽप्यसौ प्रकाशो विमर्शरूपतां
विना नार्थस्य आत्मनो वा प्रकाशरूपतायां प्रति-
ष्ठास्पदं स्यात्, नहि प्रकाशः इत्येवासौ स्वपरात्मनोः
प्रतिष्ठापको भवेत्, एवं हि नीलमपि न नीलम्
इत्येव कृत्वा तथा स्यात् । तस्मात्स्वपरप्रकाशता-
पं० ४ क० पु० स्वात्मनि न कश्चिदर्थ इति पाठः ।
पं० ५ ख० पु० अपि तु प्रकाश इति पाठः ।
पं० १६ ख० पु० स्वप्रकाशात्मतासिद्धाविति पाठः ।

श्लोक ५६ ] प्रथमाह्निकम् । ९५
सिद्धौ तस्यापि अहंपरामर्शात्मा जीवितभूतः प्रका-
शोऽभ्युपगमनीयो - येन सर्वं सिद्ध्येत् । यदुक्तं
'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।'
इति । स एव च परप्रकाशात्मा परमेश्वरः शिवः
इत्युक्तं 'तेषामपि परो जीवः स एव परमेश्वरः'
इति ॥५५॥
एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणम-
किंचित्करं, यावद्बाधकमपि इत्याह
सर्वापह्नवहेवाक-
धर्माप्येवं हि वर्तते ।
ज्ञानमात्मार्थमित्येत-
न्नेति मां प्रति भासते ॥५६॥
'सर्वेषां' ज्ञातृज्ञानज्ञेयानाम् 'अपह्नवः' निराकरणं
तत्र 'हेवाक' एव 'धर्मः' स्वभावो यस्यासौ बौद्धः ।
तत्र त्रयाभाववादिनो माध्यमिकाः । ज्ञातृज्ञेयाभाव-
वादिनो योगाचाराः । ज्ञात्रभाववादिनो वैभाषिकाः ।
सोऽपि 'ह्येवं ज्ञानमात्मार्थम्' इत्येतत् मां संवेदन-