सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते

श्लोक १२६ ] प्रथमाह्निकम् । १६६
उन्मग्नामेव पश्यन्त-
स्त विन्दन्तोऽपि नो विदुः ।
तदुक्तं न विदुर्मां तु
तत्त्वेनातश्चलन्ति ते ॥ १२६ ॥
विधिपूर्वाः-विधिरेव पूर्वं पूर्वभावि अनधिग-
तार्थप्रकाशनात्मकं प्रमाणं यासां ताः तथोक्ताः,
स्वात्मव्यतिरिक्ता हि देवताः वेद्यप्रायाः प्रमाणा-
न्तराप्रतिपन्नाः शास्त्रेण साध्यन्ते इति युक्तः पक्षः।
अहंबोधैकरूपः पुनः स्वात्मा पूर्वोक्तयुक्त्या सदैव
प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते
इति युक्तमुक्तम् - अविधिपूर्वकमिति । तदेवाह अहं-
बोधः इति । तथा इति विधिपूर्व इत्यर्थः । ननु
याद प्रमाणादिनिरपेक्ष्येणैव स्वात्मा स्वयं प्रकाशते
किमिति न सर्वदैव सर्वेषाम् ? इत्याशङ्क्याह - ते तु
इत्यादि । त इति स्वात्मव्यतिरिक्तेन्द्रादिदेवता-
याजकाः, तं सर्वदैव प्रकाशमानं स्वात्मानं - वेद्यवेद-
पं० २ क० पु० तं वदन्तोऽपीति पाठः ।
पं० ४ ख० पु० मूलगीतास्वपि च्यवन्ति ते इति पाठः ।
पं० ६ ख० पु० स चैवेति पाठः ।
० १३ क० पु० प्रमाण्यान्तरनैरपेक्ष्येणैवेति पाठः ।
२२

१७० श्रीतन्त्रालोकः ।
नान्यथानुपपत्त्या तदतिरिक्तस्य च अन्यस्य देवता-
त्वानुपपत्तेः, वस्तुतो विदन्तोऽपि न विदुः — वेद्यताया
एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया न जानीयुः
इत्यर्थः । अतश्च नियततत्तद्देवतादिरूपग्रहणेन
च्यवन्ते इत्यर्थः । तदुक्तं तत्र
'न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते।'
इति ॥ १२८-१२६ ॥
तदेव व्याचष्टे
चलनं तु व्यवच्छिन्न-
रूपतापत्तिरेव या ।
एतदपि तत्रत्येन ग्रन्थेनैव संवादयति
देवान्देवयजो यान्ती-
त्यादि तेन न्यरूप्यत ॥ १३० ॥
तेन इति व्यवच्छिन्नरूपतापत्तिलक्षणेन हेतुना
इत्यर्थः। यदुक्तं
'यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥'
इति ॥ १३० ॥
पं० २ क० पु० वदन्तोऽपीति पाठः ।

श्लोक १३२ ] प्रथमाह्निकम् । १७१
ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति
इत्युक्तम् ? इत्याशङ्क्याह
निमज्ज्य वेद्यतां ये तु
तत्र संविन्मयीं स्थितिम् ।
विदुस्ते ह्यनवच्छिन्नं
तद्भक्ता अपि यान्ति माम् ॥१३१॥
तत्र इति स्वात्मव्यतिरिक्तायां देवतायाम् ।
तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिन इत्यर्थः ।
माम् इति परबोधैकस्वभावम् आत्मानम् । अस्मिन्
परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्स-
मापत्तिरेव च फलम् ॥१३१॥
ननु भगवद्वासुदेवेन उक्तस्य 'माम्' इति अस्म-
च्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधाय-
कत्वमुच्यते ? इत्याशङ्क्याह
सर्वत्रात्र ह्यहंशब्दो
बोधमात्रैकवाचकः ।
पं० १६ क० पु० मात्रैकगोचर इति पाठः ।