तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 103, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ५५] प्रथमाह्निकम् । ९३
कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभास-
मानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सि-
द्धिः। स एव च 'प्रकाश एव प्रकाशकः प्रमाता' इति
नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्त-
मुक्तम् 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः।'
इति ॥ ५४ ॥
न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्र-
त्युत एषां तदधीना सिद्धिः इत्याह
प्रमाणान्यपि वस्तूनां
जीवितं यानि तन्वते ।
तेषामपि परो जीवः
स एव परमेश्वरः ॥ ५५ ॥
इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण
स्वस्वरूपेण तावत्स्वयमन्योन्यं वा न कश्चिद्विशेषः ।
नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् । यदि-
पं० १ ख० पु० सर्वमस्यावभासेति पाठः ।
पं० १४ ख० पु० नास्ति कश्चिद्विशेष इति पाठः ।
पं० १५ क० पु० यदि हि स्वात्मनि पीतं स्यात्पीतं नीलं वा नीलं तत्किमिव
विरुद्धमिति पाठः ।