सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 97, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 97

श्लोक ४९ ] प्रथमाह्निकम् । ८७
ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्ना-
ज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु
तदैव इत्याशङ्क्याह
दीक्षया गलितेऽप्यन्त-
रज्ञाने पौरुषात्मनि ।
धीगतस्यानिवृत्तत्वा-
द्विकल्पोऽपि हि संभवेत् ॥ ४८ ॥
'धीगतस्य' इति अज्ञानस्य । 'विकल्पो हि' भेद-
प्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति
बहूक्तम् ॥ ४८ ॥
ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः
किमायातम् इत्याशङ्क्याह
देहसद्भावपर्यन्त-
मात्मभावो यतो धियि ।
देहान्तेऽपि न मोक्षः स्या-
त्पौरुषाज्ञानहानितः ॥ ४९ ॥
पं० २ क० पु० देहान्ते निवृत्तिरिति पाठः ।
पं० ६ क० पु० निवृत्तत्वादिति पाठः ।
पं० ९ क० ख० पु० सा चैवेति पाठः ।
पं० १३ क० पु० देवसद्भावेति पाठः ।