तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव ॥५६॥
९६ श्रीतन्त्रालोकः ।
स्वभावत्वाद् विचारयितारं प्रति नेति भासते-नास्ति
इति प्रतीतिरूपो वर्तते अवतिष्ठते इत्यर्थः, तेन
आत्मादेर्निराकरणे साधने वापि अवश्यमेव साध-
यिता पूर्वकोटावाञ्छितः सिद्धः । नहि साधयितार-
मन्तरेण अर्थानां साध्यतैव स्यात्, स च स्वतः सिद्धः
प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव ॥५६॥
अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परि-
कल्पनम् इत्याह
अपह्नुतौ साधने वा
वस्तूनामाद्यमीदृशम् ।
यत्तत्र के प्रमाणाना-
मुपपत्त्युपयोगिते ॥ ५७॥
'वस्तूनां' ज्ञातृज्ञानज्ञेयात्मनाम् 'आद्यम्' आद्य-
सिद्धत्वात् 'ईदृशं' परप्रमातृरूपं 'तत्र' इति आदि-
सिद्धे प्रमातरि । प्रमेयं खलु प्रमिएवत्प्रमाणमुच्यते,
प्रमेयं च विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं
पं० १ ख० पु० नास्तीति प्रत्येति रूपेति पाठः ।
पं० ६ क० पु० परमार्थरूप इति वाक्यं नास्ति ।
पं० ७ क० पु० व्यक्तमेवेति, प्रमाणस्यापरिकल्पनमिति च पाठः ।
श्लोकः ५८ ] प्रथमाह्निकम् । ९७
च भवति । न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः
स्यात्, स हि अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाश-
रूपत्वान्न प्रकाशाद्भिन्नो, नापीदन्ताविमृश्यः - अहं-
प्रत्यवमर्शमयत्वात्, स च यदि प्रमाणप्रमेयः स्यात्
तत्रापि प्रमितिक्रियायां प्रमात्रा अपरेण भाव्यं, तत्रा-
प्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमा-
णस्य प्रवृत्तौ काचिदुपपत्तिः । यस्तु भावनोपदेशादौ
'सकृद्विभातोऽयमात्मा प्रमाता' इत्यादिरिदन्तया
व्यवहारः स न वास्तवः - तत्र तस्य साक्षादप्रतीतेः,
अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते इत्यास्ताम्,
एतद्धि पदे पदे वितनिष्यते । प्रमाणानुपयोग-
स्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न पुन-
र्वितानितः ॥ ५८ ॥
न केवलमत्र युक्तिरेवास्ति यावदागमोऽपि इत्याह
कामिके तत एवोक्तं
हेतुवादविवर्जितम् ।
पं० ३ ख० पु० अहंविमर्शमयत्वादिति पाठः ।
पं० ५ ख० पु० प्रमात्रन्तरेणेति पाठः ।
पं० ८ ख० पु० प्रमेत्यादिरिति पाठः ।
१३
९८ श्रीतन्त्रालोकः ।
तस्य देवातिदेवस्य
परापेक्षा न विद्यते ॥५६॥
परस्य तदपेक्षत्वा-
त्स्वतन्त्रोऽयमतः स्थितः ।
ततः इति तत्र प्रमाणानामुपपत्त्युपयोगयोर-
भावात्, हेतोः अनुमानस्य वादेन विवर्जितम् ।
अत एवाह-तस्य इत्यादि, परस्य प्रमाणादेः,
अतः इति परानपेक्षत्वलक्षणाद्धेतोः ॥५६॥
एवमस्य परानपेक्षत्वायथा न प्रमाणान्यवच्छे-
दकानि, तथा प्रमेयाण्यपि इत्याह
अनपेक्षस्य वशिनो
देशकालाकृतिक्रमाः॥६०॥
नियता नेति स विभु-
र्नित्यो विश्वाकृतिः शिवः ।
वशिनः स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः ।
पं० ८ क० पु० परानपेक्षणाद्धेतोरिति पाठः ।
पं० ६ क० पु० यथा प्रमाणाद्यवच्छेदेति पाठः ।
श्लोकः ६२ ] प्रथमाह्निकम् । ९९
अत्रापीति परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि
देशकालाकारैर्भेदाभेदविकल्पोपहतत्वादवच्छेदाधा-
नमशक्यम् इत्युक्तं - नियता न इति । अत एव
च स एवंविधः इत्याह - विभुर्नित्यो विश्वाकृतिः
इति । विभुः इति देशावच्छेदशून्यत्वात् । नित्य
इति अतीतादिकालावच्छेदविगलनात् । विश्वाकृतिः
इति चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ॥६०॥
एतदेव प्रपञ्चयति
विभुत्वात्सर्वगो नित्य-
भावादाद्यन्तवर्जितः॥६१॥
विश्वाकृतित्वाच्चिदाचि-
त्तद्वैचित्र्यावभासकः ॥
अत एवास्यागमेषु नानारूपत्वमुच्यते इत्याह
ततोऽस्य बहुरूपत्व-
मुक्तं दीक्षोत्तरादिके ॥६२॥
तदेवाह
पं० १ ख० पु० पेक्ष्यस्येति प्रकाशेति पाठः ।
पं० ५ क० पु० नित्य इति कलावच्छेदेति पाठः ।
१०० श्रीतन्त्रालोकः ।
भुवनं विग्रहो ज्योतिः
खं शब्दो मन्त्र एव च ।
बिन्दुनादादिसंभिन्नः
षड्विधः शिव उच्यते ॥६३॥
भुवनं तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम् । विग्रह-
शब्देन उपचाराद्विग्रहिणो लक्ष्यन्ते । तेषां च
रुद्र-क्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसाम-
र्थ्यादिह रुद्रादीनि कारणान्येव । ज्योतिः बिन्दुः
'कदम्बगोलकाकारः स्फुरत्तारकसंनिभः ।'
इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात् । खं
शून्यं - शक्ति-व्यापिनी-समनालक्षणम् । शब्दो ना-
दात्मा । मन्त्रः अकारोकार-मकारात्मा । अस्य
विशेषणं-बिन्दुनादादिसंभिन्नः इति । यदुक्तं
'बिन्दुनादस्तथा व्योम मन्त्रो भुवनविग्रहौ ।
षड्वस्त्वात्मा शिवो ध्येयः फलभेदेन साधकैः ॥'
इति । तथा
पं० ६ ख० पु० तारकप्रभ इति पाठः ।
पं० १४ ख० पु० भुवनविग्रहे इति पाठः ।
श्लोकः ६४ ] प्रथमाह्निकम् । १०१
‘उन्मना तु परो भावः स्थूलस्तस्यापरो मतः ।
पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम् ॥
शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च ।’
इति । तथा
‘व्योम-विग्रह-बिन्दूर्णा-भुवनाध्वविभेदतः ।
लक्ष्यभेदः स्मृतः षोढा.................... ॥’
इत्यादि ॥६३॥
अत्र च
‘यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ।
सिद्धिभाक्.................... ॥’
इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भ-
वति इत्याह
यो यदात्मकतानिष्ठ-
स्तद्भावं स प्रपद्यते ।
व्योमादिशब्दविज्ञानात्-
परो मोक्षो न संशयः ॥६४॥
यः साधको, यस्य भुवनादेः, आत्मकतायां
तद्रूपताया, निष्ठितः, स तद्भावं-तत्तद्भुवना-
दिरूपत्वेन नियतां सिद्धिमेति इत्यर्थः । तदुक्तं
पं० २ ख० पु० व्योमात्मा च पुनः शून्यं संस्पर्शमिति पाठः ।
पं० ५ ख० पु० भुवनेष्वनिभेदत इति पाठः ।
१०२ श्रीतन्त्रालोकः ।
'भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् ।
भुवनेशत्वमाप्नोति....................॥'
इत्युपक्रम्य
'ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत् ।
पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात् ॥
मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् ।
पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः ॥
ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् ।
तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत् ॥
शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत् ।
समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥'
इति । एषां च षण्णामपि शिवात्मकत्वात्
६....................'शिवं ध्यात्वा तु तन्मयः ।'
इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवा-
त्मकस्वस्वरूपलाभो भवेत् इत्याह व्योमादिशब्द-
विज्ञानात् इत्यादि । व्योमादीनाम् एषां षण्णां
शब्दानां शब्दनं शब्दः – परो विमर्शः, तदात्मकतया
पं० ८ क० पु० ज्योतिर्ध्यानाच्चेति पाठः ।
पं० ९ क० पु० अधिको भवेदिति पाठः ।
पं० १० क० पु० सर्वगतो भवेदिति पाठः ।
पं० १४ क० पु० शिवैकानुप्रवेश इति इयानेव पाठः ।
पं० १७ क० पु० शब्दः परविमर्शोति समस्तः पाठः ।
श्लोकः ६५ ] प्रथमाह्निकम् । १०३
यत् विज्ञानम् - अनुभवः, तस्मात् परो - विमर्शैक-
सारशिवैकात्म्यापत्तिलक्षणो , मोक्षो निःसंशयं
भवेत् इति वाक्यार्थः । व्योमादिषट्क इति पाठे तु
व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानात्
इति व्याख्येयम् । न च अत्र भुवनादीनां क्रमो
विवक्षितः इतीह व्योमादि इति प्रयुक्तम् ॥६४॥
ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षड्विधत्व-
मेवोक्तम् इत्याशङ्क्याह
विश्वाकृतित्वे देवस्य
तदेतच्चोपलक्षणम् ।
अनवच्छिन्नतारूढा-
ववच्छेदलयेऽस्य च ॥६५॥
उपलक्षणम् एव भवति, अनेनैव निखिल-
विश्वसंग्रहसिद्धेः । न केवलमेतद्विश्वाकारताया-
मेवास्योपलक्षणं यावदन्यत्रापि इत्याह - अनवच्छि-
पं० ४ क० पु० अनवच्छिन्नादिति ज्ञानशब्दविहीनः पाठः ।
पं० १३ ख० पु० उपलक्षणमिव इति पाठः ।
पं० १४ क० पु० एवोपलक्षणं यावदत्रापीति पाठः ।
१०४ श्रीतन्त्रालोकः ।
न्नतारूढौ इत्यादि । अवच्छेदलये इति अवच्छे-
दानां संकोचाधायिनां भुवनादीनां लये विश्वो-
त्तीर्णतायाम् इत्यर्थः । विश्वमयत्वेऽप्यस्य स्वस्व-
रूपान्न प्रच्यावः इत्याशयः । नन्वेवमुभयथापि
अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत्
इत्याशङ्क्योक्तम् अनवच्छिन्नतारूढाविति । अस्य
हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नताया-
मेव प्ररोहो भवेत्, एक एव हि स्वतन्त्रो बोध-
स्तथा तथा प्रस्फुरेत् इति ॥६५॥
ननु कथमेकदैव एकस्य विश्वमयत्वेऽपि विश्वो-
त्तीर्णत्वं संगच्छते इत्याशङ्काशान्त्यर्थमागमं संवा-
दयति
उक्तं च कामिके देवः
सर्वाकृतिर्निराकृतिः ।
जलदर्पणावत्तेन
सर्वं व्याप्तं चराचरम् ॥६६॥
दर्पणाद्यन्तःप्रतिबिम्बितं घटादि यथा दर्पण-
पं० १७ क० पु० दर्पणान्तः इति आदिशब्दहीनः ख० पु० दर्पणव्यतिरेकेणेति
च पाठः ।
श्लोकः ६६ ] प्रथमाह्निकम् । १०५
दिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्त-
मेव, अन्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं
स्यात्, तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्ग-
मात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्ताय-
मानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्य-
थानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम्,
अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि
तन्मयः इत्युभयथापि न कश्चिद्दोषः । अत एवो-
क्तं - सर्वाकृतिर्निराकृतिरिति । सर्वाकृतिः विश्व-
मयः , निराकृतिः विश्वोत्तीर्णः । आवृत्त्या तत्त्वे-
ऽपि तदुत्तीर्णः - इति च । तदेवमयमेक एव प्रका-
शात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव
परमार्थतः ॥६६॥
ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा
नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया
पं० १ ख० पु० दर्पणानतिरिक्तमिति पाठः ।
पं० ३ क० पु० तथा प्रकाशात्मना इत्येव शब्दहीनः पाठः ।
पं० ४ ग० पु० इदं जगत् स्वेच्छयेति पाठः ।
पं० ५ क० पु० अवसितमिति पाठः ।
पं० ६ क० पु० स्वरूपानतिरिक्तत्वेनैवेति पाठः ।
पं० १३ क० पु० परमार्थ इति पाठः ।
१४