तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 90, कुल 368 में से
संदर्भ में पढ़ें८० श्रीतन्त्रालोकः ।
'दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः ।
दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।'
इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव 'तथापि' 'तत्'
अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि
'..................प्रारब्धेकं न शोधयेत् ।'
इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात्
'तस्य' वर्तमानशरीरस्य 'अन्ते स्फुटं व्यज्यते'
'..................देहपाते शिवं व्रजेत् ।'
इत्याद्युक्त्या साक्षात्कारात्म स्फुरति इत्यर्थः ।
आदिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्ति-
पातादेः, तद्धि दीक्षायां निमित्तम् इति तद्दहनेनै-
वास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचि-
न्मुक्तौ निमित्तम् । तदुक्तं
'तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात् ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।।'
पं० ५ क० पु० प्रारब्धं केन शोधयेदिति पाठः ।
पं० १० ख० पु० तीव्रतमशक्तिपातादेव इति पाठः ।
पं० ११ ख० ग० पु० तद्दहनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः ।