तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 94, कुल 368 में से
संदर्भ में पढ़ें८४ श्रीतन्त्रालोकः ।
ज्ञानाज्ञानगतं चैतद्-
द्वित्वं स्वायम्भुवे रुरौ ।
मतङ्गादौ कृतं श्रीमत्-
खेटपालादिदैशिकैः ॥४६॥
तदुक्तं श्रीस्वायम्भुवे
'अथात्ममलमायाख्यकर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥'
इति ।
'अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् ।
तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥
तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता ।'
इति च । श्रीरुरवापि
'यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः ।
गुरुतन्त्रानुज्ञातदीक्षासिच्छिन्नसंशयाः ॥'
इति ।
'न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः ।
प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः ॥
पं० १ क० पु० ज्ञानाज्ञानकृतमिति पाठः ।
पं० १३ ख० पु० जयन्तीति पूर्वतनः पाठश्च दृश्यते, क० पु० मन्त्रतन्त्र-
विशारदा इति च पाठः ।
पं० १४ क० पु० दीक्षाविच्छिन्नसंशया इति पाठः ।
पं० १६ क० पु० न मीमांसा विचार्या वा मन्त्रस्वल्पधियेति पाठः ।