तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति
श्लोक १३३ ] प्रथमाह्निकम् । १७३
याजमानी संविदेव
याज्या नान्येति चोदितम् ।
न त्वाकृतिः कुतोऽप्यन्या
देवता न हि सोचिता ॥ १३३ ॥
संविदेव याज्या, इति उदितं - प्रतिज्ञातम् । न पुनः
कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च
संवित् याजमान्येव, न पुनः अन्या-भिन्ना, याजमानी
संविदद्वयमयी इत्यर्थः । सा हि एवंविधाकृतिः, आकृ-
तिमती वा संविद्देवता नोचिता - संविदि भेदानुप-
पत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य
द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्व-
प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति
युक्तमुक्तं ‘स एव याज्ययष्टृतयोदितः’ इति ॥१३३॥
अत एव च आदिसिद्धत्वात् संविदि न किंचि-
द्विध्यादि सिद्धिनिमित्तमुक्तम् इत्याह
पं० ८ क० पु० सा त्वेवं भिन्नाकृतिमती वा संविदिति पाठः ।
पं० ११ क० पु० द्योतमानत्वैकस्वभावमिति पाठः ।
१७४ श्रीतन्त्रालोकः ।
विधिश्च नोक्तः कोऽप्यत्र
मन्त्रादि वृत्तिधाम वा ।
इह खलु वेदवाक्यानि मन्त्रब्राह्मणरूपत्वेन द्विधा ।
ब्राह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन
त्रिधा । तत्र विधिवाक्यानां तावत् संविदि व्यापारो
नास्ति इत्युक्तप्रायम् । एवं मन्त्रादेरपि तत्र नास्ति
व्यापारः । यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः
क्रियाया धाम आश्रयः – तेन विना क्रियाया
असंपत्तेः । न च संविदि वाच्यवाचकयाज्ययाजक-
भावाद्यात्मकः कश्चिद्भेदः संभवति, एक एव आदि-
सिद्धो बोधः इति सिद्धम् ॥
ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ?
इत्याशङ्क्याह
सोऽयमात्मानमावृत्य
स्थितो जडपदं गतः ॥ १३४ ॥
आवृतानावृतात्मा तु
देवादिस्थावरान्तगः ।
पं० २ क० पु० धाम या इति, ख० पु० मन्त्रादिवृत्तिर्धाम वा इति पाठः ।
पं० ३ क० पु० ब्राह्मणत्वेनेति पाठः ।