तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
प्रकाशेत इति ॥१०॥
१० श्रीतन्त्रालोकः ।
तदभावे भवेद्विश्वं
जडत्वादप्रकाशकम् ॥१०॥
किं नु युक्तिभिरिति-बह्वीभिर्युक्तिभिर्न किंचित्प्र-
योजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी-
यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि
प्रकाशेत इति ॥१०॥
ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रग-
ल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्या-
शंक्याह
यावानुपायो बाह्यः स्या-
दान्तरो वापि कश्चन ।
स सर्वस्तन्मुखप्रेक्षी
तत्रोपायत्वभाक्कथम् ॥११॥
यावानिति-नानाशास्त्रोपदिष्टः, सर्व इति-बाह्य
आन्तरो वा, तन्मुखप्रेक्षीति-संविदधीनसिद्धिरि-
त्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं
तस्य उपायतां यायादिति भावः ॥११॥
पं० १६ क० घ० पु० यदपेक्षा हि यस्य सिद्धिरेव भवेत्स कथमिति पाठः।
श्लोक १३ ] द्वितीयमाह्निकम् । ११
अत एवाह
त्यजावधानानि ननु क्व नाम
धत्सेऽवधानं विचिनु स्वयं तत् ।
पूर्णोऽवधानं न हि नाम युक्तं
नापूर्णामभ्येति च सत्यभावम् ॥१२॥
इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम्
इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र
तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु-
प्रतिनियतावधेयविषयनिष्ठम् एकाग्र्यम्, अतश्च
भेदप्रधानं न किंचित्फलमादातुं समर्थम् ॥१२॥
तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र
नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणि-
तस्य भावनादेः ? इत्याह
तेनावधानप्राणस्य
भावनादेः परे पथि ।
भैरवीये कथंकारं
भवेत्साक्षादुपायता ॥१३॥
पं० ३ ख० पु० धर्मेऽवधानमिति पाठः ।
पं० ८ क० पु० अवधानं खलु अप्रतिनियतेति पाठः ।
१२ श्रीतन्त्रालोकः ।
भैरवीये इति-पूर्णे ॥१३॥
ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति
तान्प्रति किमुच्यते ? इत्याह
येऽपि साक्षादुपायेन
तद्रूपं प्राविविक्षते ।
नूनं ते सूर्यसंवित्त्यै
खद्योताधित्सवो जडाः ॥१४॥
तदुक्तम्
‘अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥’
इति ॥ १४ ॥
अत्रैव निमित्तान्तरमप्याह
किं च यावदिदं बाह्य-
मान्तरोपायसंमतम् ।
तत्प्रकाशात्मतामात्रं
शिवस्यैव निजं वपुः ॥१५॥
पं० २ क० पु० तत्त्वमनुविशन्तीति पाठः ।
पं० ७ क० पु० खद्योतं लिप्सव इति पाठः ।
पं० ६ क० पु० प्रकटोदिते इति पाठः ।
पं० १६ क० पु० परं वपुः इति पाठः ।