तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 89, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ४३ ] प्रथमाह्निकम् । ७९
विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः ।
'औचित्येन' इति तद्द्रूपूर्णेनात्मना इत्यर्थः । अतश्च
'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । 'यस्य'
इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः
परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णा-
पूर्णात्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना-
ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥ ४१ ॥ ४२ ॥
नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति
नास्ति विवादः, एतद्भावात्मकं ज्ञानं पुनः कदा
समुदियात्, एतद्भावे च किं निमित्तम् ? इत्याश-
ङ्क्याह
तत्र दीक्षादिना पौंसमज्ञानं ध्वंसि यद्यपि ।
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्
॥ ४३ ॥
यद्यप्युक्तस्वरूपं 'पौंसमज्ञानं'
पं० ३ क० पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः ।
पं० १३ क० पु० तथापि तु शरीरान्ते इति पाठः ।