स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥
बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥
इति । क्रव्यं मांसं, तदत्तीति क्रव्यादः । ये क्रव्यादाः श-
कुनयस्तान् गृध्रादीन् वर्जयेत् । ग्रामवासिनः शकुनयः ।
पारावतप्रभृतयः, तानपि वर्जयेत् । अनिर्दिष्टान् अज्ञातान्
अज्ञातावान्तरजातिविशेषान्, मृगपक्षिण इति शेषः । 'अज्ञा-
तांश्च मृगद्विजान्' इति याज्ञवल्क्यस्मरणात् । एकशफान-
श्वादीन् वर्जयेत् । निष्ठुरशब्दभाषी पक्षिविशेषः टिट्टिभः ।
तथाच वैजयन्त्यामुक्तम्—'टिट्टिभस्तु-कटुक्वाणः' इति । कल-
विङ्कश्चटकः । प्लवो जलकुक्कुटः । हंसः प्रसिद्धः । चक्राङ्गश्च-
क्रवाकः । कुक्कुटः प्रसिद्धः । सारसः पुष्कराह्वयः । स च
दीर्घगलजङ्घो नीलाङ्गः पक्षिविशेषः । रज्जुदालो वृक्षकुक्कुटः ।
दात्यूहः कालकण्टकः स च जलसमीपचरः । शुकः प्रसिद्धः ।
तस्य स्त्री शारिका । चञ्च्वा प्रत्युद्य भक्षयन्तीति प्रत्युदाः
श्येनादयः । जालपादा जालाकारपादाः । कोयष्टिः कीदृश-
इति चिन्त्यः । नखैर्विकीर्य भक्षयन्तीति नखविष्किराः
चकोरादयः । निमज्जतश्च मत्स्यादाः निमज्ज्यनिमज्ज्य म-
त्स्यान् भक्षयन्तीति तान् । सूना हिंसास्थानं, तत्र हतस्य
मांसं सौनम् । वल्लूरं शुष्कमांसम् 'उत्तंसं शुष्कमांसं स्या-
त्तद्वल्लूरं त्रिलिङ्गकम्' इत्यमरः । बकबलाके प्रसिद्धे । का-
कोलः गिरिकाकः । वृद्धकाको वा । यो मेघपर्यन्तमाकाशारो-
हणं लीलया करोति स च खञ्जरीटः । मत्स्यादान्, अनि-
मज्जतोपि । विड्वराहाः ग्रामसूकराः । मत्स्यानेव च सर्वशः
सर्वप्रकारान् मत्स्यान् वर्जयेत् । अनन्तरोक्तस्यापवादमाह
स एव—
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवांस्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः ॥
पाठीनो बहुदंष्ट्रो मत्स्यः, 'सहस्रदंष्ट्रः पाठीनः' इत्यमरः ।
रोहितो रक्तवर्णः । एतौ पाठीनरोहितौ हव्यकव्ययोर्नियु-
क्तौ निवेदितौ दत्तौ निमन्त्रितेनाद्यौ भक्ष्यावित्यर्थः । राजी-
वाः पञ्चवर्णाः, राजिमन्तो वा । सिंहतुण्डाः सिंहमुखाः ।
सह शल्कैश्शुक्त्याकारैः पृष्ठभागतो वर्तन्ते इति सशल्काः ।
एतेषु सिंहतुण्डादयः सर्वशः निमन्त्रितैरनिमन्त्रितैश्च भक्ष्याः ।
सशल्कानां भक्ष्यत्वं वेदाध्ययनहीनपुरुषाभिप्रायेणोक्तं—
मत्स्यान् सशल्कान् सर्वान् वै वेदाध्यायी विवर्जयेत् ।
इति यमस्मरणात् । देवलोपि प्रतिपदेन निषेधमाह—
उलूककुररश्येनगृध्रकुक्कुटवायसाः ।
चकोरकोकिलौ रज्जुदालकश्वाषमद्गुकौ ॥
पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः ।
उलूको घूकः । योन्तरिक्षे चरन् जलान्तर्वर्तिनं मत्स्यादिकं
श्येन इव निपत्यादत्ते स कुररः । चकोरः चन्द्रिकास्वादकः ।
यः शकुनसूचकत्वेन प्रसिद्धो हरितपीतवर्णः खर्वकायः पक्षि-
विशेषः स चाषः । मद्गुः जलकाकः 'मद्गुस्तु जलवायसः'
इति वैजयन्त्याम् । शेषाः प्रसिद्धाः । एवं यत्र यत्र प्रतिप-
द्येन प्रतिषेधस्स्मर्यते तत्र निषेधविधिमतिक्रम्य भक्षणे कृते
प्रत्यवायो न मांसमात्रभक्षण इत्यनुसन्धेयम् । अत एव शङ्खे-
नाप्रतिषिद्धानां मांसं भक्ष्यमिति दर्शयितुं केचन पक्षिमृगाणा-
मप्रतिषिद्धानामुपलक्षणतयोक्ताः ।
तित्तिरिं च मयूरं च लावकं च कपिञ्जलम्।
वार्ध्रीणसं वर्तिकं च भक्ष्यमाह यमस्सदा ॥
लावकः स्वजातीयैस्सह कलहकारी पक्षिविशेषः । कपिञ्जलः
शरुः । स च चित्रवर्णपक्षः । 'चित्रपक्षे शरुकपिञ्जलौ' इति
वैजयन्त्यामभिधानात् । वार्ध्रीणसः खड्गाख्यो मृगः 'गण्डके
२५० स्मृतिचन्द्रिकायां
न्निभतनूरुहशाली मृगविशेषः । गोधा बिलेशया ईषन्नकुलसदृशी ।
इतरे प्रसिद्धाः । अनुष्ट्रांश्चैकतोदतः पशूनां मध्ये उष्ट्रव्यति-
रिक्तान् । एकतोदतः महिषमेषप्रभृतीन् भक्ष्यानाहुरिति स-
म्बन्धः । उष्ट्रग्रहणं गवादीनामपि प्रदर्शनार्थम् । अतएव
देवलः—
अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ।
सिंहो व्याघ्रश्च शरभसर्पाजगरकास्तथा ॥
आखुमूषकमार्जारनकुलग्राम्यसूकराः ।
श्वसृगालवृकद्वीपिगोलाङ्गूलमर्कटाः ॥
इति । व्याघ्र इति पूर्वमुक्तत्वात् द्वीपिशब्दो व्याघ्रविशेषपरः ।
गोलाङ्गूलो वानरविशेषः । मर्कटग्रहणं पञ्चनखानामुपलक्षणम् ।
अतएव न भक्षयेदित्यनुवृत्तौ मनुनोक्तं 'सर्वान् पञ्चनखांस्त-
था' इति । सर्वान् भक्ष्यत्वेन पूर्वोक्तश्वाविच्छल्यकगोधाख-
ङ्गकूर्मशशव्यतिरिक्तानित्यनुसन्धेयम् । शङ्खोपि भक्ष्यमांसमाह—
माहिषं त्वाजमौरभ्रं मार्गं रौरवमेव च ।
भक्ष्यमांसं समुद्दिष्टं यच्च वै पार्षतं भवेत् ॥
वराहांश्च तथा भक्ष्यानाहारण्यनिवासिनः ॥
उरभ्रो मेषः, तस्य मांसमौरभ्रं, मृगो हरिणः तस्य मांसं
मार्गं, रुरुः कृष्णसारविशेषः 'रुरुर्महान् कृष्णसारः' इति
वैजयन्त्यां, तस्य मांसं रौरवं, पृषतः अतिस्थूलबिन्दुप्रमाणक-
शुक्लवर्णतनूरुहकृतमण्डलशतैश्चित्रितो हरिणविशेषः, तस्य मांसं
251
पार्षतं, तथाऽरण्यनिवासिनो वराहान् भक्ष्यानाहेत्यन्वयः ।
एवमुक्तभक्ष्यमांसप्रतिपादकवचनैर्भक्षणीयेषु भक्षणमात्रेण प्रत्य-
वायो नास्तीति गम्यते, न तु भक्षणाय प्राणिवधे कृतेऽपीति ।
प्राणिवधमकृत्वा मांसार्जनसम्भवात्, ‘न हिंस्यात्सर्वा भूता-
नि’ इति हिंसाप्रतिषेधाच्च ।
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥
स वसेन्नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥
इति मनुयाज्ञवल्क्यस्मरणाच्च । यत्तु मनुनोक्तम्—
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चैव घातकाः ॥
इति, तत्र क्रयविक्रयिखादकादेर्घातकत्वाभिधानं हन्तॄणां क-
थञ्चित्प्रेरकभूतस्य न तूदासीनस्येति मन्तव्यम्, उदासीनस्य
कथञ्चिदपि हननकर्तृत्वाभावात् । अतएव देवलः—
पञ्च पञ्चनखा भक्ष्याः धर्मतः परिकीर्तिताः ।
गोधा कूर्मश्शशश्वाविच्छल्यकश्चेति ते स्मृताः ॥
हिंसामन्तरेण विक्रयाद्यैरूपादाय पञ्चनखाः भक्ष्याः परिकी-
र्तिता इत्यर्थः । यद्यप्यत्र पञ्चग्रहणमवधारणार्थं, तथाऽपि
‘श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा’ इति मानवे खड्ग-
मांसस्य भक्ष्यत्वाभिधानमविरुद्धं, भिन्नविषयत्वात् । नित्य-
252 स्मृतिचन्द्रिकायां
भोजनविषयं देवलवचनम् । मानवं तु श्राद्धविषयम् ,
खड्गमांसैर्भवेदन्नमक्षयं पितृकर्मणि ।
इति खड्गमांसस्य श्राद्धे फलश्रुतिदर्शनात् ॥
इति स्मृतिचन्द्रिकायां नित्यभोजने
वर्जनीयमांसविषयाणि.
अथ श्राद्धे तृप्त्यतिशयहेतुभूतद्रव्यविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तत्र मनुः—
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥
यद्धविः पितृभ्यो विधिवद्दत्तं चिररात्राय कल्पते चिर-
कालानुस्यूतपितृतृप्तये, यच्चानन्त्याय अत्यन्तचिरकालानुस्यूत-
पितृतृप्तये कल्पते, तथाभूतहविरिदानीं प्रवक्ष्यामीत्यर्थः, तत्र
तावत्प्रतिज्ञातं क्रमेण यच्चिररात्राय कल्पते तदाह स एव—
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥
तिलादिचतुष्टयग्रहणं ग्राम्यौषधीनां सप्तानामुपलक्षणार्थम् ।
तत्र ग्राम्याभिरोषधीभिः मासं प्रीयन्ते । तासां पुष्कला-
नामभावे किञ्चिदन्नसहितैरब्वादिभिर्मासं प्रीयन्त इत्यर्थः ।
तथाच कात्यायनः— 'ग्राम्याभिरोषधीभिर्मासं तृप्तिः, तद-
लाभे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति' इति । उत्तरा
मूलफलापः, तास्सहैव किञ्चिदन्नेन मासं तर्पयन्ति, न केव-
ला इत्यर्थः । मार्कण्डेयोपि-
गोधूमैरिक्षुभिर्मुद्गैस्सतीनैश्चणकैरपि ।
श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥
सतीनाः कलायाः 'कलायस्तु सतीनकः' इत्यमरः । चणकः
वर्तुलाकारश्चणकः चणकशब्देनैव प्रसिद्धः हरिमन्थकाख्यः,
'चणको हरिमन्थकः' इति तेनैवाभिधानात् । गोधूमादि-
विकारैरन्यैः श्राद्धेषु दत्तैरेकं मासं प्रीयन्त इत्यर्थः । अतएव
'हरितमुद्गकृष्णमाषश्यामाकप्रियङ्गुगोधूमेक्षुविकारांश्च दद्यात्'
इति प्रचेतसोक्तम् । दद्यात् मासपर्यन्तं पितृतृप्तये इति शेषः ।
एवं च न साक्षाद्गोधूमादयो देयाः, किंतु तद्विकारा मण्टका-
दयः । विष्णुरपि- 'शाकश्यामाकनीवारप्रियङ्गुमुद्गैर्मासं प्रीयन्ते'
इति, मार्कण्डेयस्तु मासपर्यन्तप्रीतिजनकानि शाकानि प्रप-
ञ्चयति-
विदार
254 स्मृतिचन्द्रिकायां
प्रियाळामलकैर्मुख्यैः फल्गुभिश्च ह्यलाबुकैः ।
वेत्राङ्कुरैस्तालकन्दैश्चुक्रिकाक्षीरिकावचैः ॥
मोचैस्समौचैर्लकुचैस्तथा वै बीजपूरकैः ।
मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्सुसंस्कृतैः ॥
रागषाडवचोष्यैश्च त्रिजातकसमन्वितैः ।
दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणाम् ॥
इति । विदारी कृष्णवर्णा, भूकूष्माण्डफलम् । बिसं पद्मक-
न्दोपरिस्थिततन्तुपुञ्जयुक्तं भक्ष्यावयवः । शृङ्गाटकं जलजं त्रि-
कण्टकम् । केचुकः खर्जूराख्यं शाकम् । कन्दः सूरणः । ‘अ-
र्शोघ्नस्सूरणः कन्दः’ इत्यमरः । बदरं बदरीफलम् । बदर्य-
वान्तरविशेषः कर्कन्धूः, तत्फलं कर्कन्धूशब्देनोक्तम् । अ-
क्षोटो गिरिसम्भवः पीलुः । पनसः प्रसिद्धः । काकोलक्षी-
रकाकोलौ गौडदेशे प्रसिद्धौ । उर्वारुः स्वादुकर्कटी । भिदः
तिक्तकर्कटी । सर्षपः प्रसिद्धः । सर्षपेतिस्त्रीलिङ्गतया निर्देश
श्छान्दसः । राजशाकं राजवृक्षाख्यं शाकं कृष्णसर्षप इति
यावत् । इङ्गुदस्तपसतरुः । राजजम्बूः जम्बूविशेषः । प्रियाळो
राजादनाख्यो वृक्षः, ‘राजादनं प्रियाळस्स्यात्’ इत्यमरः । मु-
ख्यान्याममलकानि स्थूलामलकानि । फल्गूनि क्षुद्रामलकानि ।
वेत्राङ्कुरः प्रसिद्धः । तालकन्दः भूम्यन्तर्निहितताळप्रभवमार-
ग्वधफलाकारं पाण्ड्यदेशादौ भक्ष्यत्वेन प्रसिद्धं मूलम् । चु-
क्रिका आम्लिका तिंन्त्रिणी चिञ्चा इति यावत् । क्षीरिका
फलाध्यक्षं 'राजादनफलाध्यक्षे क्षीरिकायाम्' इत्यमरः । मो-
चा कदली । 'कदली वारणबुसा रम्भा मोचांशुमत्फला' इति
तेनैवाभिधानात् । लकुचो लिकुचः । 'लकुचो लिकुचो डहुः'
इत्यमरः । स च जम्बीरफलतुल्यखर्वफलवान् गुल्मविशेषः । बी-
जपूरो मातुलुङ्गः 'फलपूरो बीजपूरो रुचको मातुलुङ्गकः'
इत्यमरः । पद्मफलं पद्मबीजकोशः, कर्णिकेति यावत् । राग-
षाडबाः पानकविशेषाः । त्रिजातकं लवङ्गैलापत्राणां समा-
हारः । शेषाण्यत्यन्तप्रसिद्धानि । मत्स्यपुराणेऽपि—
अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् ।
मासं प्रीणाति वै सर्वान् पितॄनित्याह केशवः ॥
इति । द्विमासादिसंवत्सरतृप्तिहेतुभूतान्याह मनुः—
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च वै ॥
छागमांसेन षण्मासान् पार्षतेनेह सप्त वै ।
अष्टावैणेयमांसेन रौरवेण नवैव तु ॥
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥
संवत्सरं तु गव्येन पयसा पायसेन च ।
इति । हरिणः कुरङ्गः, तस्य मांसं हारिणम् । उरभ्रो मेषः,
तस्य मांसं औरभ्रम् । शकुनिः पक्षी, तस्य मांसं शाकुनम् ।
पृषतश्चित्रमृगः तस्य मांसं पार्षतम् । एणी मृगी तस्या मांसं
256 स्मृतिचन्द्रिकायां
ऐणेयम् । रुरुर्महान् कृष्णसारः तस्य मांसं रौरवम् । पयोग्र-
हणं पयोविकाराणामुपलक्षणम् । अत एव विष्णुः—'संवत्स-
रं तु पयसा तद्विकारैर्वा' इति । यद्यपि पायसेनेत्यत्र पयो-
विशेषः न श्रुतः, तथाऽपि गव्यपयस्सन्निधानात्तत्पयः सिद्धमिति
गम्यते । यत्तु प्रीणातीत्यनुवृत्तौ पैठीनसिनोक्तं 'पायसेन तु
षण्मासान्' इति तद्गोपयस्सिद्धपायसविषयम् । द्वादशसं-
वत्सरपर्यन्ततृप्तिकरद्रव्यमाह मनुः—
वार्ध्राणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।
इति । पितॄणां भवतीति शेषः । वार्ध्राणसोत्र पारिभाषिको
वेदितव्यः । न तु खड्गमृगः, तस्यातिदीर्घकालतृप्तिकरद्रव्येषु
मनुनैव वक्ष्यमाणत्वात् । कः पुनरसौ पारिभाषिको वार्ध्रा-
णस इत्यपेक्षिते विष्णुधर्मोत्तरम्—
त्रिपिबं त्विन्द्रियक्षीणं यूथस्याग्रचरं तथा ।
रक्तवर्णं तु राजेन्द्र छागं वार्ध्राणसं विदुः ॥
इति । त्रिभिः मुखेन कर्णाभ्यां च पिबतीति व्युत्पत्त्या त्रिपिबः,
अत्यन्तलम्बकर्णः । यद्यपि न कर्णाभ्यां पिबति । तथाऽपि
तटाकादिगतोदकपानसमये कर्णावपि लम्बितौ मुखवज्जलसं-
स्पर्शिनौ भवत इत्यौपचारिकस्त्रिपिबशब्दो युक्तः । इन्द्रियक्षीणः
संभोगाक्षमः । रक्तवर्णग्रहणं श्वेतवर्णस्यापि प्रदर्शनार्थम् ।
त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् ।
वार्ध्राणसं तु तं प्राहुः याज्ञिकाः पितृकर्मणि ॥
इति निगमेनाभिधानात् । पक्षिविशेषो वार्ध्रीणसः । तथाच
तत्रैवोक्तम्—
कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः ।
स वै वार्ध्रीणसः प्रोक्त इत्येषा वैदिकी श्रुतिः ॥
इति । यद्द्रव्यमानन्त्याय कल्पते तदपि मनुना दर्शितम्—
कालशाकं महाशल्कखड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥
कालशाकं कीदृशमिति न विद्मः । महाशल्कः पृष्ठभागेऽतिस्थू-
लशुक्तिसदृशबह्वस्थिशकलान्वितो मत्स्यः । खड्गः खड्गाख्यमृगः ।
लोहः लोहितवर्णश्छागः । अतिदीर्घकालतृप्तिकरद्रव्येषु
‘लोहश्छागस्तथैव च’ इति यमेन स्पष्टमुक्तत्वात् । आमिष-
मिति महाशल्कादिषु प्रत्येकं सम्बध्यते । ततश्चायं वाक्यार्थः—
कालशाकं महाशल्कामिषं खड्गामिषं लोहितच्छागामिषं मधु
नीवाराद्यरण्यधान्यप्रभवं सप्तविधमन्नं चात्यन्तचिरकालानुस्यूत-
पितृतृप्तये कल्पत इति । एवमुक्तातिदीर्घकालपर्यन्ततृप्तितार-
तम्याभिधायकस्मृतीनां तत्तत्तारतम्यानुसारेण श्राद्धकर्तुः फलेऽ-
पि तारतम्यं भवतीत्येतत्पर्यन्तं तात्पर्यमवगन्तव्यम् । अतएव
हारीतेनैकमुदाहृत्योक्तम्—
मधुना परमप्रीतास्सर्वान् कामान् दिशन्ति वै ।
इति । नच वाच्यं ‘आनन्त्यायैव कल्पन्ते’ हति मन्वादि-
भिरभिधानान्नित्या तृप्तिः कालशाकादिना भवति, न कदाचि-
SMRITI CHA.—Vol. V 33
258 स्मृतिचन्द्रिकायां
त्स्या विनाश इति । कार्यभूतायास्तृप्तेर्नित्यत्वायोगात् ।
तेन नित्यवदतिदीर्घकालतृप्तिर्वचोभङ्गया ज्ञाप्यत इति मन्त-
व्यम् । अतएव पितृगीतायां गाथायामुक्तम्—
कालशाकं महाशल्कं मांसं वार्ध्राणसस्य च ।
विषाणवर्ज्या ये खङ्गा आसूर्यं तांस्तु भुञ्जमहे ॥
इति । सूर्यो यावति काले तिष्ठति तावन्तं कालं काल-
शाकादिपदार्थं भुञ्जमहे इत्यर्थः ।
इति स्मृतिचन्द्रिकायां श्राद्धकाण्डे पितृतृप्त्य-
तिशयहेतुभूतद्रव्यविषयाणि.
एवं प्रसक्तानुप्रसक्तं परिसमाप्याधुना प्रकृतस्य
पूर्वाह्नकृत्यस्य शेषमुच्यते.
तत्र मार्कण्डेयः—
अहष्षट्सु मुहूर्तेषु गतेषु त्वथ तान् द्विजान् ।
प्रत्येकं प्रेषयेत्प्रेष्यान् प्रदायामलकोदकम् ॥
द्वादशघटिकाभ्य ऊर्ध्वं निमन्त्रितब्राह्मणानां स्नानार्थं परि-
चारकाणां हस्तेष्वामलककल्कं प्रदाय निमन्त्रितब्राह्मणेभ्यः
प्रत्येकं दीयतामिति तान् द्विजान् प्रति ब्राह्मणान् प्रेषयेदि-
त्यर्थः । एतदामलककल्कदानं प्रतिषिद्धतैलासु तिथिषु द्रष्ट-
व्यम् । तास्वप्यमावास्याव्यतिरिक्तासु देयं 'धात्रीफलैरमावा-
स्यायां न स्नायात्' इत्यामलकोदकस्नानस्याप्यमावास्यायां
षेधात् । अनिषिद्धतैलायां तु द्वितीयादितिथौ स्नानार्थं
लादि देयमित्याह कात्यायनः—
तैलगुद्वर्तनं स्नानं दन्तधावनमेव च ।
कृत्तरोमनखेभ्यस्तु दद्यात्तेभ्योऽपरेऽहनि ॥
त्तरेद्युः पूर्वाह्ने कृत्तरोमनखेभ्यो निमन्त्रितेभ्यस्तैलादिकं स्ना-
साधनं दन्तधावनसाधनं च काष्ठादिकं दद्यादित्यर्थः । यत्तु
चेतसोक्तम्—
तैलगुद्वर्तनं स्नानं दद्यात्पूर्वाह्न एव तु ।
श्राद्धभुग्भ्यो नखश्मश्रुच्छेदनं न तु कारयेत् ॥
त्र नखादिच्छेदननिषेधो निषिद्धक्षुरकर्मतिथिविषयः । तैला-
दिदाने विशेषमाह देवलः—
तैलगुद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैरौदुम्बरैर्दद्याद्वैश्वदैविकपूर्वकम् ॥
उदुम्बरं ताम्रम् । वृद्धशातातपस्तु कृत्यान्तरमाह—‘समूलान्
दर्भानहरेत्’ इति । पितृकर्मार्थमिति शेषः । अतएव यमः—
समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि ।
इति । दर्भः कुशः । स एव श्राद्धकर्मणि मुख्यः । तदभावे
काशादिकमाहरणीयम्, ‘कुशाभावे कुशस्थाने काशान् दूर्वां
वा दद्यात्’ इति विष्णुस्मरणात् । काशाद्यभावे तु गोभि-
लेनोक्तं—‘बर्हिरुपमूललूनं पितृभ्यस्तदलाभे शुकतृणशरबल्बजवर्जं
सर्वतृणानि’ इति । यद्यपि बर्हिशब्दस्तृणमात्रे वर्तते । तथाऽपि
तृणविशेषविहितकुशकाशदूर्वास्वेव पर्यवस्यति, तेन तदलाभ
इत्यस्य कुशकाशदूर्वालाभ इत्यर्थोऽवगन्तव्यः । उपमूललूनं मूल-
समीपे लूनम् । शुकतृणं शूकधान्यतृणम् । शरः पुण्ड्रः,
सुगन्धितृणमिति यावत् । बल्वजाः मुञ्जसदृशानि तृणानि ।
बर्हिरुपमूललूनमित्यस्य 'समूलस्तु भवेद्दर्भः' इति यमोक्तेन
सह विकल्पो वेदितव्यः । बर्हिराहरणवद्यवाद्याहरणमपि कर्त-
व्यं, अतएव पुराणेऽभिहितम्—
उपमूले कृत्तमूलान् कुशांस्तत्रोपकल्पयेत् ।
यवांस्तिलान् बृसीः कांस्यमपश्शुद्धैस्समाहृताः ॥
पार्णराजतताम्राणि पात्राणि स्युः समिन्मधु ।
पुष्पधूपसुगन्धादि क्षौमसूत्रं च मेक्षणम् ॥
इति । तत्र श्राद्धदेश इत्यर्थः । बृसीः निमन्त्रितब्राह्मणानामुप-
वेशनार्थान्यासनानि । 'व्रतिनामासनं बृसी' इत्यमरः । निम-
न्त्रिता अपि ब्रह्मचर्यादिव्रतग्रहणाद्व्रतिन इति तदर्थासनेऽपि
मुख्य एवार्य शब्दः । कांस्यं कांस्यमयं भाजनम् । पार्णं
पर्णमयम् । क्षौमसूत्रं दुकूलसूत्रम् । मेक्षणं काष्ठमयी दर्वी ।
कांस्यपार्णराजतताम्रभाजनेषु यथासामर्थ्यमुपकल्पनम् । प्रति-
ब्राह्मणं बृस्युपकल्पनं भाजनोपकल्पनं च । सुगन्धादीत्यत्रादि-
ग्रहणादक्षतदीपाच्छादनादिकं गृह्यते । तिलास्सति सम्भवे
वन्या एवोपकल्पनीयाः—
जर्तिलास्तु तिलाः प्रोक्ताः कृष्णवर्णा वने भवाः ।
श्राद्धकाण्डे पूर्वाह्नकृत्यशेषः. 261
इति सत्यव्रतेनाभिधानात् । एवंरूपास्तिलाश्श्राद्धे ग्राह्यतया
प्रोक्ता इत्यर्थः । जर्तिला अकृष्टभूमौ जातास्तिलाः ।
जर्तिलाश्चैव ते ज्ञेया अकृष्टोत्पादितास्तु ये ।
इति तेनैवाभिधानात् । जर्तिलानामसम्भवे तु तदितरतिला उ-
पकल्पनीयाः । प्रशस्तानामलाभे गुणिलोपन्यायेन जातिमात्र-
शालिनामुपादेयत्वात् । यच्चापस्तम्बेनोक्तम्—
अटव्यां ये समुत्पन्ना अकृष्टफलितास्तथा ।
ते वै श्राद्धे पवित्रास्स्युस्तिलास्ते न तिलास्तिलाः ॥
इति, न तिला इति ‘अपशवो वा अन्ये गोअश्वेभ्यः, असत्रं
वा एतद्यदच्छन्दोमम्’ इत्यादिवदर्थवादमात्रमिति मन्तव्यम् ।
अपरार्केण तु न तिलास्तिला इत्येतदन्यथा व्याख्यातं—‘ग्रा-
म्यास्तिला न तिलाः तिलकार्यकरा न भवन्तीत्यर्थः’ इति ।
तदसत् तेषामपि श्राद्धे जर्तिलासम्भवे तिलकार्यकरत्वात् ।
अतएव ब्रह्माण्डपुराणे—
यतिस्त्रिदण्डी करकं रजतं पात्रमेव च ।
दौहित्रः कुतपः कालश्छागः कृष्णाजिनं तथा ॥
गौराः कृष्णास्तथाऽऽरण्यास्तथैव त्रिविधास्तिलाः ।
पितॄणां तृप्तये सृष्टा दशैते ब्रह्मणा स्वयम् ॥
इति । त्रिदण्डीति यतेर्विशेषणम् । रजतमिति पात्रस्य । कु-
तप इति कालस्य । गौरास्तिलाः कृष्णास्तिलाः आरण्यास्तिला
इति गुणानुरक्तरूपेण त्रयः पदार्थाः । एवञ्च दशसङ्ख्या घटते
262 स्मृतिचन्द्रिकायां
दौहित्रपदं वृद्धशातातपेन व्याख्यातम्—
दुहित्रं खड्गशृङ्गं तु ललाटे यत्तदुच्यते ।
तस्य शृङ्गस्य यत्पात्रं दौहित्रमिति कीर्तितम् ॥
कुतपपदं तु स्मृत्यन्तरे व्याख्यातम्—
अह्नो मुहूर्ता विख्याताः दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यस्स कालः कुतपस्स्मृतः ॥
इति । प्रकृतमुच्यते—ब्रुसीषु विशेषमाह मनुः—'कुतपं चासने
दद्यात्' इति । कुतपशब्दस्यानेकार्थाः स्मृत्यन्तरे दर्शिताः—
मध्याह्नः खड्गपात्रं च तथा नेपाळकम्बळम् ।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमस्स्मृतः ॥
पापं कुत्सितमित्याहुः तस्य सन्तापकारिणः ।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥
इति । कुतपशब्दार्थेष्वष्टसु नेपाळदेशप्रभवमेषादिलोमनिर्मित-
कम्बळलक्षणः कुतपो मनुनोक्तः । तस्यैवासनाख्ये कार्ये यो-
ग्यतमत्वात् । तदसम्भवे कम्बळमात्रमपि पीठाद्यपेक्षया प्रश-
स्तम् । आसनोपकल्पनं भोजनार्थोपवेशनस्थानेषु कार्यम् ।
उपकॢप्तासनेषु दर्भास्तरणं च कार्यम् ।
आसनेषु सदर्भेषु विविक्तेषूपवेशयेत् ।
इति पूर्वोपकॢप्तेष्वासनेषूपवेशनविधानात् । शुद्धैराहर्तृभिस्स-
माहृता इत्यापां विशेषणं निषिद्धानामपामुपकल्पननिषेधज्ञा-
पनार्थम् । तेन—
श्राद्धकाण्डे पूर्वाह्नकृत्यशेषः. 263
दुर्गन्धि फेनिलं वर्ज्यं तथा वै पल्वलोदकम् ।
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ॥
यच्च सर्वार्थ नोत्सृष्टं यच्चाभोज्यनिपानजम् ।
तद्वर्ज्यं सलिलं तात सदैव पितृकर्मणि ॥
इत्यादिवचननिषिद्धं सलिलं नोपकल्पयेत् । यच्च सर्वार्थ नो-
त्सृष्टं सर्वप्राण्युपजीवनार्थं कूपादिकर्तृभिर्नोत्सृष्टं तदपि वर्ज्यम्।
निपानं कूपसमीपे कृतः पश्वादीनामुदकपानार्थो जलाशयः -
कांस्यपर्णरजतताम्रपात्राण्यर्घ्योदकधारणार्थानि सर्वाण्युपक-
ल्प्यानि । भोजनार्थानि च महान्ति । पार्णभाजनं पलाशपर्ण-
व्यतिरिक्तपर्णकृतं भोजनार्थं नोपकल्पनीयम्—
न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।
पलाशेभ्यो विना न स्युः पार्णपात्राणि भोजने ॥
इत्यत्र प्रतिषेधात् । भोजने इति विशेषितत्वात् अर्घ्यपात्रे तु नायं
प्रतिषेधः । अतएव बैजवापेनोक्तम्—
खादिरौदुम्बराण्यर्थ्यपात्राणि श्राद्धकर्मणि ।
अप्यश्ममृन्मयानि स्युरपि पर्णपुटास्तथा ॥
इति । पुष्पेषूपकल्पनीयानि ब्रह्माण्डपुराणे दर्शितानि—
शुक्लास्सुमनसश्श्रेष्ठाः तथा पद्मोत्पलानि च ।
गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥
सुमनसः पुष्पाणि । मार्कण्डेयपुराणेऽपि—
जात्यश्च सर्वा दातव्या मल्लिकाः श्वेतयूथिकाः ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥
जात्यो मालत्यः । 'सुमना मालती जातिः' इत्यमरः । श्वेत-
यूथिका हेमपुष्पिकाव्यतिरिक्तगणिका । 'गणिका यूथिकाऽम्ब-
ष्ठा सा पीता हेमपुष्पिका' इति तेनैवाभिधानात् । वर्ज्या-
न्यपि कुसुमानि ब्रह्माण्डपुराणे दर्शितानि-
जपादिकुसुमं भण्डी रूपिका सकुरण्टका ।
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि निखशः ॥
जपा रुद्रपुष्पं । 'रुद्रपुष्पं जपा' इत्यमरः । आदिग्रहणेन
जपाकुसुमवद्रक्तानां करवीरादिकुसुमानां वर्जनीयत्वमुक्तम् ।
भण्डी मञ्जिष्ठा । 'मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि' इत्यमरः । रूपिका
प्रसिद्धा । कुरण्टकः पीतपुष्पोऽम्लानः । 'अम्लानस्तु महा-
सहा । तत्र शोणे कुरवकस्तत्र पीते कुरण्टकः' इत्यमरः ।
भण्ड्यादीनां पुष्पाणि वर्ज्यानि । शङ्खोपि वर्ज्यान्याह-
उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥
चैत्यवृक्षः श्मशानवृक्षः । रक्तपुष्पेषु प्रतिप्रसवः तेनैव दर्शितः-
जलोद्भवानि देयानि रक्तान्यपि विशेषतः ।
इति । विष्णुनाऽपि सह प्रतिप्रसवेन वर्ज्यान्युक्तानि-'न क-
ण्टकिजं दद्यात्कण्टकिजमपि शुक्लसुसन्धि यत् तद्दद्यात्' इति ।
यच्चाङ्गिरसोक्तम्-'न जातिकुसुमानि न कदळीपत्रम्' इति,
अत्र कदलीपत्रं भोजनपात्रतया प्राप्तं निषिध्यते । जाति-
कुसुमनिषेधो न नित्यः । नित्यनिषेधे 'जात्यश्च सर्वा दातव्याः'
इति मार्कण्डेयवचनस्यानिर्विषयत्वापत्तेः । यदपि क्रतुनोक्तम्-
असुराणां कुले जाता जातिः पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गताः ॥
इति । पूर्वपरिग्रहे पूर्वजन्मनि देहपरिग्रहावसरे । यद्यपि 'त्री-
णि ह वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप्, अत्र ह्येवावपन्ति,
अत एवोद्वपन्ति' इत्यत्र वर्तमानापदेशतयाऽर्थवादस्वरूपे वा-
क्येऽर्थवादत्वनिर्वाहार्थं गायत्र्यादिष्वावापोद्वापविधिकल्पनव-
दत्रापि निन्दार्थवादरूपे वाक्ये निषेधविधिः कल्प्यते । तथाऽपि
पाक्षिक एवायमपि प्रतिषेध इति न मार्कण्डेयवचनं निर्विषयम्,
किन्त्वानिषिद्धपुष्पान्तरालाभविषयम् । प्रतिषेधवचनद्वयं तु त-
ल्लाभविषयमिति मन्तव्यम् । मत्स्योपि वर्ज्यानाह-
पद्माबिल्वार्कदुत्तूरपारिभद्राटरूषकाः ।
न देयाः पितृकार्येषु पयश्चैवाविकं तथा ॥
दुत्तूरः कनकाह्वयः । पारिभद्रो मन्दारः रक्तपुष्पस्तबकयुक्तः ।
अटरूपः सिंहाऽस्यः 'वृषोऽटरूषस्सिंहाख्यो वासको वाजिदन्तकः'
इत्यमरसिंहेनाभिधानात् । स्मृत्यर्थसारे तु तुलस्यपि वर्ज्येत्युक्तं,
तत्र मूलं चिन्त्यम्, प्रसिद्धस्मृतिसमुच्चयेषु तुलसीनिषेधस्या-
दर्शनात् । धूपद्रव्येषूपकल्पनीयानि विष्णुधर्मोत्तरे दर्शितानि-
धूपेषु गुग्गुलो देयस्तथा चन्दनसारजः ।
Smriti Cha.—Vol. V. 34
266 स्मृतिचन्द्रिकायां
अगुरुस्त्वथ कर्पूरः तुरुष्कः त्वक् तथैव च ॥
तुरुष्कः सल्लकीवृक्षत्वगादिना सम्पादितं धूपद्रव्यम् । त्वक्
लवङ्गाख्यं धूपद्रव्यम् । मरीचिरपि धूपद्रव्याण्याह—
चन्दनागरुणी चोभे तमालोशीरपद्मकम् ।
इति । उशीरं वीरणाख्यगन्धतृणमूलम् । ‘स्याद्वीरणं वीरतरं
मूलेऽस्योशीरमस्त्रियाम्’ इत्यमरः । तमालपद्मके स्वशब्देनैव
प्रसिद्धे । विष्णुना तु वर्ज्यधूपद्रव्यमुक्तम्—‘जीवजं च सर्वं न
धूपार्थम्’ इति । जीवजं मृगविशेषादिरूपप्राणिजं कस्तूर्यादिकं
धूपार्थं न ग्राह्यमित्यर्थः । अनुलेपनार्थेषु सुगन्धिद्रव्येषूपकल्प-
नीयानि मरीचिनोक्तानि—
कर्पूरकुङ्कुमोपेतं सुगन्धि हरिचन्दनम् ।
दैविकेऽप्यथवा पित्र्ये गन्धदाने प्रशस्यते ॥
विष्णुनाऽपि—‘चन्दनकुङ्कुमकूर्पूरागरुपद्मकान्यनुलेपनार्थानि’ इति ।
दीपार्थस्नेहद्रव्येषूपकल्पनीयान्याह मरीचिः—
घृताद्वा तिलतैलाद्वा नान्यद्रव्यात्तु दीपकम् ।
इति । अन्यद्रव्यमत्र वसामेदोरूपं विवक्षितं, न पुनरेरण्डकुसु-
म्भातसीबीजादिसम्भवं स्नेहद्रव्यं, यत आह शङ्खः—
घृतेन दीपो दातव्यस्त्वथवा ह्योषधीर सैः ।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥
वसा पाकादिना विभक्तो मांसस्नेहः । मेदो हृदयकमला-
च्छादको मांसविशेषः, पाकादिना विभक्तः तदीयस्नेहोऽत्र