स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 272, कुल 474 में से
संदर्भ में पढ़ें252 स्मृतिचन्द्रिकायां
भोजनविषयं देवलवचनम् । मानवं तु श्राद्धविषयम् ,
खड्गमांसैर्भवेदन्नमक्षयं पितृकर्मणि ।
इति खड्गमांसस्य श्राद्धे फलश्रुतिदर्शनात् ॥
इति स्मृतिचन्द्रिकायां नित्यभोजने
वर्जनीयमांसविषयाणि.
अथ श्राद्धे तृप्त्यतिशयहेतुभूतद्रव्यविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तत्र मनुः—
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥
यद्धविः पितृभ्यो विधिवद्दत्तं चिररात्राय कल्पते चिर-
कालानुस्यूतपितृतृप्तये, यच्चानन्त्याय अत्यन्तचिरकालानुस्यूत-
पितृतृप्तये कल्पते, तथाभूतहविरिदानीं प्रवक्ष्यामीत्यर्थः, तत्र
तावत्प्रतिज्ञातं क्रमेण यच्चिररात्राय कल्पते तदाह स एव—
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥
तिलादिचतुष्टयग्रहणं ग्राम्यौषधीनां सप्तानामुपलक्षणार्थम् ।
तत्र ग्राम्याभिरोषधीभिः मासं प्रीयन्ते । तासां पुष्कला-
नामभावे किञ्चिदन्नसहितैरब्वादिभिर्मासं प्रीयन्त इत्यर्थः ।
तथाच कात्यायनः— 'ग्राम्याभिरोषधीभिर्मासं तृप्तिः, तद-