स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 277, कुल 474 में से
संदर्भ में पढ़ेंइति निगमेनाभिधानात् । पक्षिविशेषो वार्ध्रीणसः । तथाच
तत्रैवोक्तम्—
कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः ।
स वै वार्ध्रीणसः प्रोक्त इत्येषा वैदिकी श्रुतिः ॥
इति । यद्द्रव्यमानन्त्याय कल्पते तदपि मनुना दर्शितम्—
कालशाकं महाशल्कखड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥
कालशाकं कीदृशमिति न विद्मः । महाशल्कः पृष्ठभागेऽतिस्थू-
लशुक्तिसदृशबह्वस्थिशकलान्वितो मत्स्यः । खड्गः खड्गाख्यमृगः ।
लोहः लोहितवर्णश्छागः । अतिदीर्घकालतृप्तिकरद्रव्येषु
‘लोहश्छागस्तथैव च’ इति यमेन स्पष्टमुक्तत्वात् । आमिष-
मिति महाशल्कादिषु प्रत्येकं सम्बध्यते । ततश्चायं वाक्यार्थः—
कालशाकं महाशल्कामिषं खड्गामिषं लोहितच्छागामिषं मधु
नीवाराद्यरण्यधान्यप्रभवं सप्तविधमन्नं चात्यन्तचिरकालानुस्यूत-
पितृतृप्तये कल्पत इति । एवमुक्तातिदीर्घकालपर्यन्ततृप्तितार-
तम्याभिधायकस्मृतीनां तत्तत्तारतम्यानुसारेण श्राद्धकर्तुः फलेऽ-
पि तारतम्यं भवतीत्येतत्पर्यन्तं तात्पर्यमवगन्तव्यम् । अतएव
हारीतेनैकमुदाहृत्योक्तम्—
मधुना परमप्रीतास्सर्वान् कामान् दिशन्ति वै ।
इति । नच वाच्यं ‘आनन्त्यायैव कल्पन्ते’ हति मन्वादि-
भिरभिधानान्नित्या तृप्तिः कालशाकादिना भवति, न कदाचि-
SMRITI CHA.—Vol. V 33