स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 268, कुल 474 में से
संदर्भ में पढ़ेंकोलः गिरिकाकः । वृद्धकाको वा । यो मेघपर्यन्तमाकाशारो-
हणं लीलया करोति स च खञ्जरीटः । मत्स्यादान्, अनि-
मज्जतोपि । विड्वराहाः ग्रामसूकराः । मत्स्यानेव च सर्वशः
सर्वप्रकारान् मत्स्यान् वर्जयेत् । अनन्तरोक्तस्यापवादमाह
स एव—
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवांस्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः ॥
पाठीनो बहुदंष्ट्रो मत्स्यः, 'सहस्रदंष्ट्रः पाठीनः' इत्यमरः ।
रोहितो रक्तवर्णः । एतौ पाठीनरोहितौ हव्यकव्ययोर्नियु-
क्तौ निवेदितौ दत्तौ निमन्त्रितेनाद्यौ भक्ष्यावित्यर्थः । राजी-
वाः पञ्चवर्णाः, राजिमन्तो वा । सिंहतुण्डाः सिंहमुखाः ।
सह शल्कैश्शुक्त्याकारैः पृष्ठभागतो वर्तन्ते इति सशल्काः ।
एतेषु सिंहतुण्डादयः सर्वशः निमन्त्रितैरनिमन्त्रितैश्च भक्ष्याः ।
सशल्कानां भक्ष्यत्वं वेदाध्ययनहीनपुरुषाभिप्रायेणोक्तं—
मत्स्यान् सशल्कान् सर्वान् वै वेदाध्यायी विवर्जयेत् ।
इति यमस्मरणात् । देवलोपि प्रतिपदेन निषेधमाह—
उलूककुररश्येनगृध्रकुक्कुटवायसाः ।
चकोरकोकिलौ रज्जुदालकश्वाषमद्गुकौ ॥
पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः ।
उलूको घूकः । योन्तरिक्षे चरन् जलान्तर्वर्तिनं मत्स्यादिकं
श्येन इव निपत्यादत्ते स कुररः । चकोरः चन्द्रिकास्वादकः ।