स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 283, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे पूर्वाह्नकृत्यशेषः. 263
दुर्गन्धि फेनिलं वर्ज्यं तथा वै पल्वलोदकम् ।
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ॥
यच्च सर्वार्थ नोत्सृष्टं यच्चाभोज्यनिपानजम् ।
तद्वर्ज्यं सलिलं तात सदैव पितृकर्मणि ॥
इत्यादिवचननिषिद्धं सलिलं नोपकल्पयेत् । यच्च सर्वार्थ नो-
त्सृष्टं सर्वप्राण्युपजीवनार्थं कूपादिकर्तृभिर्नोत्सृष्टं तदपि वर्ज्यम्।
निपानं कूपसमीपे कृतः पश्वादीनामुदकपानार्थो जलाशयः -
कांस्यपर्णरजतताम्रपात्राण्यर्घ्योदकधारणार्थानि सर्वाण्युपक-
ल्प्यानि । भोजनार्थानि च महान्ति । पार्णभाजनं पलाशपर्ण-
व्यतिरिक्तपर्णकृतं भोजनार्थं नोपकल्पनीयम्—
न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।
पलाशेभ्यो विना न स्युः पार्णपात्राणि भोजने ॥
इत्यत्र प्रतिषेधात् । भोजने इति विशेषितत्वात् अर्घ्यपात्रे तु नायं
प्रतिषेधः । अतएव बैजवापेनोक्तम्—
खादिरौदुम्बराण्यर्थ्यपात्राणि श्राद्धकर्मणि ।
अप्यश्ममृन्मयानि स्युरपि पर्णपुटास्तथा ॥
इति । पुष्पेषूपकल्पनीयानि ब्रह्माण्डपुराणे दर्शितानि—
शुक्लास्सुमनसश्श्रेष्ठाः तथा पद्मोत्पलानि च ।
गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥
सुमनसः पुष्पाणि । मार्कण्डेयपुराणेऽपि—
जात्यश्च सर्वा दातव्या मल्लिकाः श्वेतयूथिकाः ।