स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 275, कुल 474 में से
संदर्भ में पढ़ेंफलाध्यक्षं 'राजादनफलाध्यक्षे क्षीरिकायाम्' इत्यमरः । मो-
चा कदली । 'कदली वारणबुसा रम्भा मोचांशुमत्फला' इति
तेनैवाभिधानात् । लकुचो लिकुचः । 'लकुचो लिकुचो डहुः'
इत्यमरः । स च जम्बीरफलतुल्यखर्वफलवान् गुल्मविशेषः । बी-
जपूरो मातुलुङ्गः 'फलपूरो बीजपूरो रुचको मातुलुङ्गकः'
इत्यमरः । पद्मफलं पद्मबीजकोशः, कर्णिकेति यावत् । राग-
षाडबाः पानकविशेषाः । त्रिजातकं लवङ्गैलापत्राणां समा-
हारः । शेषाण्यत्यन्तप्रसिद्धानि । मत्स्यपुराणेऽपि—
अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् ।
मासं प्रीणाति वै सर्वान् पितॄनित्याह केशवः ॥
इति । द्विमासादिसंवत्सरतृप्तिहेतुभूतान्याह मनुः—
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च वै ॥
छागमांसेन षण्मासान् पार्षतेनेह सप्त वै ।
अष्टावैणेयमांसेन रौरवेण नवैव तु ॥
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥
संवत्सरं तु गव्येन पयसा पायसेन च ।
इति । हरिणः कुरङ्गः, तस्य मांसं हारिणम् । उरभ्रो मेषः,
तस्य मांसं औरभ्रम् । शकुनिः पक्षी, तस्य मांसं शाकुनम् ।
पृषतश्चित्रमृगः तस्य मांसं पार्षतम् । एणी मृगी तस्या मांसं