स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 274, कुल 474 में से
संदर्भ में पढ़ें254 स्मृतिचन्द्रिकायां
प्रियाळामलकैर्मुख्यैः फल्गुभिश्च ह्यलाबुकैः ।
वेत्राङ्कुरैस्तालकन्दैश्चुक्रिकाक्षीरिकावचैः ॥
मोचैस्समौचैर्लकुचैस्तथा वै बीजपूरकैः ।
मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्सुसंस्कृतैः ॥
रागषाडवचोष्यैश्च त्रिजातकसमन्वितैः ।
दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणाम् ॥
इति । विदारी कृष्णवर्णा, भूकूष्माण्डफलम् । बिसं पद्मक-
न्दोपरिस्थिततन्तुपुञ्जयुक्तं भक्ष्यावयवः । शृङ्गाटकं जलजं त्रि-
कण्टकम् । केचुकः खर्जूराख्यं शाकम् । कन्दः सूरणः । ‘अ-
र्शोघ्नस्सूरणः कन्दः’ इत्यमरः । बदरं बदरीफलम् । बदर्य-
वान्तरविशेषः कर्कन्धूः, तत्फलं कर्कन्धूशब्देनोक्तम् । अ-
क्षोटो गिरिसम्भवः पीलुः । पनसः प्रसिद्धः । काकोलक्षी-
रकाकोलौ गौडदेशे प्रसिद्धौ । उर्वारुः स्वादुकर्कटी । भिदः
तिक्तकर्कटी । सर्षपः प्रसिद्धः । सर्षपेतिस्त्रीलिङ्गतया निर्देश
श्छान्दसः । राजशाकं राजवृक्षाख्यं शाकं कृष्णसर्षप इति
यावत् । इङ्गुदस्तपसतरुः । राजजम्बूः जम्बूविशेषः । प्रियाळो
राजादनाख्यो वृक्षः, ‘राजादनं प्रियाळस्स्यात्’ इत्यमरः । मु-
ख्यान्याममलकानि स्थूलामलकानि । फल्गूनि क्षुद्रामलकानि ।
वेत्राङ्कुरः प्रसिद्धः । तालकन्दः भूम्यन्तर्निहितताळप्रभवमार-
ग्वधफलाकारं पाण्ड्यदेशादौ भक्ष्यत्वेन प्रसिद्धं मूलम् । चु-
क्रिका आम्लिका तिंन्त्रिणी चिञ्चा इति यावत् । क्षीरिका