स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 285, कुल 474 में से
संदर्भ में पढ़ेंअत्र कदलीपत्रं भोजनपात्रतया प्राप्तं निषिध्यते । जाति-
कुसुमनिषेधो न नित्यः । नित्यनिषेधे 'जात्यश्च सर्वा दातव्याः'
इति मार्कण्डेयवचनस्यानिर्विषयत्वापत्तेः । यदपि क्रतुनोक्तम्-
असुराणां कुले जाता जातिः पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गताः ॥
इति । पूर्वपरिग्रहे पूर्वजन्मनि देहपरिग्रहावसरे । यद्यपि 'त्री-
णि ह वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप्, अत्र ह्येवावपन्ति,
अत एवोद्वपन्ति' इत्यत्र वर्तमानापदेशतयाऽर्थवादस्वरूपे वा-
क्येऽर्थवादत्वनिर्वाहार्थं गायत्र्यादिष्वावापोद्वापविधिकल्पनव-
दत्रापि निन्दार्थवादरूपे वाक्ये निषेधविधिः कल्प्यते । तथाऽपि
पाक्षिक एवायमपि प्रतिषेध इति न मार्कण्डेयवचनं निर्विषयम्,
किन्त्वानिषिद्धपुष्पान्तरालाभविषयम् । प्रतिषेधवचनद्वयं तु त-
ल्लाभविषयमिति मन्तव्यम् । मत्स्योपि वर्ज्यानाह-
पद्माबिल्वार्कदुत्तूरपारिभद्राटरूषकाः ।
न देयाः पितृकार्येषु पयश्चैवाविकं तथा ॥
दुत्तूरः कनकाह्वयः । पारिभद्रो मन्दारः रक्तपुष्पस्तबकयुक्तः ।
अटरूपः सिंहाऽस्यः 'वृषोऽटरूषस्सिंहाख्यो वासको वाजिदन्तकः'
इत्यमरसिंहेनाभिधानात् । स्मृत्यर्थसारे तु तुलस्यपि वर्ज्येत्युक्तं,
तत्र मूलं चिन्त्यम्, प्रसिद्धस्मृतिसमुच्चयेषु तुलसीनिषेधस्या-
दर्शनात् । धूपद्रव्येषूपकल्पनीयानि विष्णुधर्मोत्तरे दर्शितानि-
धूपेषु गुग्गुलो देयस्तथा चन्दनसारजः ।
Smriti Cha.—Vol. V. 34