स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 280, कुल 474 में से
संदर्भ में पढ़ेंतृणविशेषविहितकुशकाशदूर्वास्वेव पर्यवस्यति, तेन तदलाभ
इत्यस्य कुशकाशदूर्वालाभ इत्यर्थोऽवगन्तव्यः । उपमूललूनं मूल-
समीपे लूनम् । शुकतृणं शूकधान्यतृणम् । शरः पुण्ड्रः,
सुगन्धितृणमिति यावत् । बल्वजाः मुञ्जसदृशानि तृणानि ।
बर्हिरुपमूललूनमित्यस्य 'समूलस्तु भवेद्दर्भः' इति यमोक्तेन
सह विकल्पो वेदितव्यः । बर्हिराहरणवद्यवाद्याहरणमपि कर्त-
व्यं, अतएव पुराणेऽभिहितम्—
उपमूले कृत्तमूलान् कुशांस्तत्रोपकल्पयेत् ।
यवांस्तिलान् बृसीः कांस्यमपश्शुद्धैस्समाहृताः ॥
पार्णराजतताम्राणि पात्राणि स्युः समिन्मधु ।
पुष्पधूपसुगन्धादि क्षौमसूत्रं च मेक्षणम् ॥
इति । तत्र श्राद्धदेश इत्यर्थः । बृसीः निमन्त्रितब्राह्मणानामुप-
वेशनार्थान्यासनानि । 'व्रतिनामासनं बृसी' इत्यमरः । निम-
न्त्रिता अपि ब्रह्मचर्यादिव्रतग्रहणाद्व्रतिन इति तदर्थासनेऽपि
मुख्य एवार्य शब्दः । कांस्यं कांस्यमयं भाजनम् । पार्णं
पर्णमयम् । क्षौमसूत्रं दुकूलसूत्रम् । मेक्षणं काष्ठमयी दर्वी ।
कांस्यपार्णराजतताम्रभाजनेषु यथासामर्थ्यमुपकल्पनम् । प्रति-
ब्राह्मणं बृस्युपकल्पनं भाजनोपकल्पनं च । सुगन्धादीत्यत्रादि-
ग्रहणादक्षतदीपाच्छादनादिकं गृह्यते । तिलास्सति सम्भवे
वन्या एवोपकल्पनीयाः—
जर्तिलास्तु तिलाः प्रोक्ताः कृष्णवर्णा वने भवाः ।