सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 270, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 270

२५० स्मृतिचन्द्रिकायां
न्निभतनूरुहशाली मृगविशेषः । गोधा बिलेशया ईषन्नकुलसदृशी ।
इतरे प्रसिद्धाः । अनुष्ट्रांश्चैकतोदतः पशूनां मध्ये उष्ट्रव्यति-
रिक्तान् । एकतोदतः महिषमेषप्रभृतीन् भक्ष्यानाहुरिति स-
म्बन्धः । उष्ट्रग्रहणं गवादीनामपि प्रदर्शनार्थम् । अतएव
देवलः—
अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ।
सिंहो व्याघ्रश्च शरभसर्पाजगरकास्तथा ॥
आखुमूषकमार्जारनकुलग्राम्यसूकराः ।
श्वसृगालवृकद्वीपिगोलाङ्गूलमर्कटाः ॥
इति । व्याघ्र इति पूर्वमुक्तत्वात् द्वीपिशब्दो व्याघ्रविशेषपरः ।
गोलाङ्गूलो वानरविशेषः । मर्कटग्रहणं पञ्चनखानामुपलक्षणम् ।
अतएव न भक्षयेदित्यनुवृत्तौ मनुनोक्तं 'सर्वान् पञ्चनखांस्त-
था' इति । सर्वान् भक्ष्यत्वेन पूर्वोक्तश्वाविच्छल्यकगोधाख-
ङ्गकूर्मशशव्यतिरिक्तानित्यनुसन्धेयम् । शङ्खोपि भक्ष्यमांसमाह—
माहिषं त्वाजमौरभ्रं मार्गं रौरवमेव च ।
भक्ष्यमांसं समुद्दिष्टं यच्च वै पार्षतं भवेत् ॥
वराहांश्च तथा भक्ष्यानाहारण्यनिवासिनः ॥
उरभ्रो मेषः, तस्य मांसमौरभ्रं, मृगो हरिणः तस्य मांसं
मार्गं, रुरुः कृष्णसारविशेषः 'रुरुर्महान् कृष्णसारः' इति
वैजयन्त्यां, तस्य मांसं रौरवं, पृषतः अतिस्थूलबिन्दुप्रमाणक-
शुक्लवर्णतनूरुहकृतमण्डलशतैश्चित्रितो हरिणविशेषः, तस्य मांसं