सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 286, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 286

266 स्मृतिचन्द्रिकायां

अगुरुस्त्वथ कर्पूरः तुरुष्कः त्वक् तथैव च ॥
तुरुष्कः सल्लकीवृक्षत्वगादिना सम्पादितं धूपद्रव्यम् । त्वक्
लवङ्गाख्यं धूपद्रव्यम् । मरीचिरपि धूपद्रव्याण्याह—
चन्दनागरुणी चोभे तमालोशीरपद्मकम् ।
इति । उशीरं वीरणाख्यगन्धतृणमूलम् । ‘स्याद्वीरणं वीरतरं
मूलेऽस्योशीरमस्त्रियाम्’ इत्यमरः । तमालपद्मके स्वशब्देनैव
प्रसिद्धे । विष्णुना तु वर्ज्यधूपद्रव्यमुक्तम्—‘जीवजं च सर्वं न
धूपार्थम्’ इति । जीवजं मृगविशेषादिरूपप्राणिजं कस्तूर्यादिकं
धूपार्थं न ग्राह्यमित्यर्थः । अनुलेपनार्थेषु सुगन्धिद्रव्येषूपकल्प-
नीयानि मरीचिनोक्तानि—
कर्पूरकुङ्कुमोपेतं सुगन्धि हरिचन्दनम् ।
दैविकेऽप्यथवा पित्र्ये गन्धदाने प्रशस्यते ॥
विष्णुनाऽपि—‘चन्दनकुङ्कुमकूर्पूरागरुपद्मकान्यनुलेपनार्थानि’ इति ।
दीपार्थस्नेहद्रव्येषूपकल्पनीयान्याह मरीचिः—
घृताद्वा तिलतैलाद्वा नान्यद्रव्यात्तु दीपकम् ।
इति । अन्यद्रव्यमत्र वसामेदोरूपं विवक्षितं, न पुनरेरण्डकुसु-
म्भातसीबीजादिसम्भवं स्नेहद्रव्यं, यत आह शङ्खः—
घृतेन दीपो दातव्यस्त्वथवा ह्योषधीर सैः ।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥
वसा पाकादिना विभक्तो मांसस्नेहः । मेदो हृदयकमला-
च्छादको मांसविशेषः, पाकादिना विभक्तः तदीयस्नेहोऽत्र