सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

३४६ सौन्दरनन्दं महाकाव्यम्
शत्रूणामवधूय वीर्यमिषुभिर्भुङ्क्ते नरेन्द्रश्रियं
तद्वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्धयः ॥ ९८ ॥
सौन्दरनन्दे महाकाव्ये आर्यसत्यव्याख्यानं नाम षोडशः सर्गः ॥१६॥
अन्वयः—गां कृष्ट्वा श्रमशतैश्च परिपाल्य सस्यश्रियम् अश्नोति, यत्नेन सागर-
जलं प्रविगाह्य रत्नश्रिया क्रीडति, इषुभिः शत्रूणां वीर्यम् अवधूय नरेन्द्रश्रियं भुङ्क्ते,
तत् शान्तये वीर्यं कुरु, विनियतं वीर्ये हि सर्वर्द्धयः ॥ ९८ ॥
व्याख्या—गाम्=अवनिम्, कृष्ट्वा=कर्षणं कृत्वा, श्रमशतैश्च=बहुपरिश्रमैश्च,
परिपाल्य=परिपालनं कृत्वा, सस्यश्रियम्=सस्यशोभाम्, अश्नोति=प्राप्नोति,
यत्नेन=प्रयासपूर्वकेन, सागरजलम्=जलधिजलम्, प्रविगाह्य=अवगाहनं कृत्वा, रत्न-
श्रिया=मणिकान्त्या, क्रीडति=दीव्यति, इषुभिः=बाणैः, शत्रूणाम्=अरीणाम्,
वीर्यम्=शौर्यम्, अवधूय=विनाशं कृत्वा, नरेन्द्रश्रियम्=राजलक्ष्मीम्, भुङ्क्ते=उप-
भोगं करोति, तत्=तेन कारणेन, शान्तये=शान्तिलाभाय, वीर्यम्=पराक्रमम्,
कुरु=विधेहि, वीर्यम्=पराक्रमम्, हि=यतः, विनियतम्=ध्रुवम्, सर्वर्द्धयः=
निखिलसमृद्धयः, निवसन्ति ॥ ९८ ॥
हिन्दी — धरती जोतकर और श्रमपूर्वक खेतों की रखवाली कर मनुष्य फसलों
का आनन्द पा लेता है, प्रयासपूर्वक सागर के अतल-तल में घुसकर गोताखोर रत्नों की
छवि से खेलता है, बाणों से शत्रुओं का पराक्रम नष्ट कर राज्यलक्ष्मी का उपभोग
करता है, अतः हे नन्द ! शान्ति के लिए उद्योग करो, क्योंकि उद्योग में ही सभी
समृद्धियों का निवास है ॥ ९८ ॥
सौन्दरनन्द-महाकाव्य में आर्यसत्यव्याख्यान नामक सोलहवां सर्ग समाप्त ॥ १६ ॥

सप्तदशः सर्गः
अमृताधिगमः
मुक्ति-मार्ग का सुना नन्द ने जब तात्त्विक उपदेश ।
गुरु को किया प्रणाम और फिर वन में किया प्रवेश ॥
रूप-अरूप देहदोषों पर उसने किया विचार ।
चिन्तन-विश्लेषण में पाया आत्मा का आचार ॥
अथैवमादेशिततत्त्वमार्गो नन्दस्तदा प्राप्तविमोक्षमार्गः ।
सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ १ ॥
अन्वयः—अथ एवम् आदेशिततत्त्वमार्गः प्राप्तविमोक्षमार्गः नन्दः तदा सर्वेण भावेन
गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ १ ॥
व्याख्या —अथ = अनन्तरम्, एवम् = ईदृशम्, आदेशिततत्त्वमार्गः—आदेशितः =
उपदिष्टः, तत्त्वस्य = तथ्यस्य, मार्गः = पन्थाः, यस्मै सः, प्राप्तविमोक्षमार्गः—प्राप्तः =
लब्धः, मोक्षस्य = निर्वाणस्य, मार्गः = अध्वानः, येन सः, नन्दः = बुद्धानुजः, तदा =
तस्मिन् काले, सर्वेण = सकलेन, भावेन = अस्तित्वेन, गुरौ = बुद्धौ, प्रणम्य = नम

३४८ सौन्दरनन्द महाकाव्यम्
स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले ।
मोक्षाय बद्ध्वा व्यवसायकक्षां पर्यङ्कमङ्गावहितं बबन्ध ॥ ३ ॥
अन्वयः—सः तत्र पादयोः शौचं विधाय शुचौ शिवे श्रीमति वृक्षमूले मोक्षाय
व्यवसायकक्षां बध्वा पर्यङ्कम् अङ्गावहितं बबन्ध ॥ ३ ॥
व्याख्या—सः=नन्दः, तत्र = तस्मिन् वने, पादयोः=चरणयोः, शौचम्=पवित्र-
ताम्, विधाय =कृत्वा, शुचौ=पवित्रे, शिवे = मङ्गले, श्रीमति—श्रीः अस्ति अस्मिन्
इति = शोभाशालिनि, वृक्षमूले=तरुमूले, मोक्षाय = मुक्तिनिमित्ताय, व्यवसायकक्षां=
दृढनिश्चयं, वद्ध्वा=कृत्वा, पर्यङ्कम्=एतदाख्यम्, अङ्गावहितम् = आसनम्, बबन्ध
= आसनेऽतिष्ठत् ॥ ३ ॥
हिन्दी—वहाँ नन्द हाथ-पैर धोकर मुक्ति के लिए दृढनिश्चय कर उस पवित्र
मंगलमय एवं सुन्दर पेड़ की जड़ में पर्यङ्कासन लगाकर बैठ गया ॥ ३ ॥
ऋजुं समग्रं प्रणिधाय कायं काये स्मृतिं चाभिमुखीं विधाय ।
सर्वेन्द्रियाण्यात्मनि सन्निधाय स तत्र योगं प्रयतः प्रपेदे ॥ ४ ॥
अन्वयः—प्रयतः सः समग्रं कायम् ऋजुं प्रणिधाय स्मृतिं च काये अभिमुखीं
विधाय सर्वेन्द्रियाणि आत्मनि सन्निधाय तत्र योगं प्रपेदे ॥ ४ ॥
व्याख्या—प्रयतः=पवित्रः, सः=नन्दः, समग्रम्=सकलम्, कायम्=देहम्,
ऋजुम्=समरेखम्, प्रणिधाय = कृत्वा, स्मृतिम् = मतिम्, च = पुनः, काये = देहे,
अभिमुखीम् = पुरतः, विधाय = सम्पाद्य, सर्वेन्द्रियाणि = सकलकरणानि, आत्मनि =
स्वस्मिन्, सन्निधाय = समाधाय, तत्र = तस्मिन् वृक्षमूले, योगम्=मनःस्थैर्यम्, प्रपेदे
= प्राप ॥ ४ ॥
हिन्दी—अपनी देह के सम्पूर्ण ऊपरी भाग को सीधा कर, बुद्धि को देह में
केन्द्रित कर और सारी इन्द्रियों को अपने में निरुद्ध कर, वह पवित्रात्मा वहाँ योगारूढ
हुआ ॥ ४ ॥
ततः स तत्त्वं निखिलं चिकीर्षुर्मोक्षानुकूलांश्च विधींश्चिकीर्षन् ।
ज्ञानेन शीलेन शमेन चैव चचार चेतः परिकर्मभूमौ ॥ ५ ॥
अन्वयः—ततः सः निखिलं तत्त्वं चिकीर्षुः, मोक्षानुकूलान् विधीन् च चिकीर्षन्
ज्ञानेन शीलेन शमेन चैव चेतः परिकर्मभूमौ चचार ॥ ५ ॥
व्याख्या—ततः = तत्पश्चात्, सः=नन्दः, निखिलम् = अखिलम्, तत्त्वम् =
याथार्थ्यम्, चिकीर्षुः = कर्तुमिच्छुः, मोक्षानुकूलान् = निर्वाणानुरूपान्, विधीन् = उपा-
यान्, चिकीर्षन् = कर्तुमिच्छन्, ज्ञानेन = बुद्ध्या, शीलेन = सदाचरणेन, शमेन =
शान्त्या, चैव चेतः = मनसः, कर्मभूमौ = श्रद्धाक्षेत्रे, चचार = विचरणमकरोत् ॥ ५ ॥
हिन्दी—इसके बाद वह सम्पूर्ण तत्त्व को पाने की इच्छा से और मोक्ष के अनुकूल
उपायों को करने की इच्छा से ज्ञान और शान्ति के द्वारा चित्त की कर्मभूमि में
विचरण करने लगा ॥ ५ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३४९
सन्धाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् ।
प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततोऽभूद्विषयेष्वनास्थः ॥ ६ ॥
अन्वयः—ततः धैर्यं सन्धाय वीर्यं प्रणिधाय सक्तिं व्यपोह्य शक्तिं परिगृह्य
प्रशान्तचेताः नियमस्थचेताः स्वस्थः विषयेषु अनास्थः अभूत् ॥ ६ ॥
व्याख्या—ततः = तत्पश्चात्, सः धैर्यम् = धृतिम्, सन्धाय = संवर्द्धय, वीर्यम् =
पराक्रमम्, प्रणिधाय = आश्रित्य, सक्तिम् = आसक्तिम्, व्यपोह्य = विनश्य, शक्तिम् =
सामर्थ्यम्, परिगृह्य = सङ्गृह्य, प्रशान्तचेताः = निष्कम्पमनाः, नियमस्थचेताः = निय-
न्त्रितमनाः, स्वस्थः = समाहितः, विषयेषु = कामेषु, अनास्थः = अनासक्तः, अभूत् =
बभूव ॥ ६ ॥
हिन्दी—तब धीरज की रक्षा कर, उद्योग का सहारा लेकर, आसक्ति का विनाश
कर, शक्ति का संग्रह कर, वह शान्तचित्त, नियंत्रित मन और समाहित मन विषयों से
विरक्त हो गया ॥ ६ ॥
आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावादथ कामसंज्ञा ।
पर्याकुलं तस्य मनश्चकार प्रावृट्सु विद्युज्जलमागतेव ॥ ७ ॥
अन्वयः—अथ स्वभ्यस्तभावात् कामसंज्ञा आतप्तबुद्धेः प्रहितात्मनः अपि तस्य मनः
प्रावृट्सु आगता विद्युत् जलम् इव पर्याकुलं चकार ॥ ७ ॥
व्याख्या—अथ = तदनन्तरम्, स्वभ्यस्तभावात्—सुष्ठु = सातिशयम्, अभ्यस्तः =
नित्यानुष्ठितः, तस्य भावः = विद्यमानता, तस्मात् = नित्यानुष्ठानातिशयात्, कामसंज्ञा =
भोगभावना, आतप्तबुद्धेः—अतप्ताः = प्रखराः, बुद्धिः = मतिर्यस्य सः तस्य, प्रहितात्मना—
प्रहितः = दृढनिश्चयी, आत्मा = चेतनः, यस्य सः तस्य, अपि = चेत्, तस्य = नन्दस्य,
मनः = चित्तम्, प्रावृट्सु = वर्षर्तुषु, आगता = सम्प्राप्ता, विद्युत् = चपला, जलमिव =
अम्बु इव, पर्याकुलम् = आकुलम्, चकार = अकरोत् ॥ ७ ॥
हिन्दी—यद्यपि उसकी बुद्धि तीव्र थी, उसका आत्मसंकल्प सुदृढ़ था, फिर भी
अतिशय अभ्यास के कारण कामवासनाओं ने उसके मन को मथ डाला, जैसे वर्षा
ऋतु में बिजली आकर पानी को क्षुब्ध कर देती है ॥ ७ ॥
स पर्यवस्थानमवेत्य सद्यश्चिक्षेप तां धर्मविघातकर्त्रीम् ।
प्रियमपि क्रोधपरीतचेता नारीमिवोद्वृत्तगुणां मनस्वी ॥ ८ ॥
अन्वयः—सः पर्यवस्थानम् अवेत्य सद्यः धर्मविघातकर्त्रीं तां क्रोधपरीतचेता
मनस्वी उद्वृत्तगुणां प्रियाम् अपि नारीम् इव चिक्षेप ॥ ८ ॥
व्याख्या—सः = नन्दः, पर्यवस्थानम् = विपरीतमानसिकदशाम्, अवेत्य = अव-
गम्य, सद्यः = शीघ्रम्, धर्मविघातकर्त्रीम् = धर्मस्य = नियमस्य, विघातः = विघ्नः,
तं करोति = निष्पादयति, इति, ताम् = कामसंज्ञाम्, क्रोधपरीतचेता—क्रोधेन =
कोपेन, परीतम् = व्याप्तम्, चेतः = चित्तम्, यस्य सः, मनस्वी = स्वाभिमानी, उद्वृत्त-
सौ०-26

३५० सौन्दरनन्दं महाकाव्यम्
गुणाः—उद्वृत्ताः=उन्मूलिताः, गुणाः=धर्माः, ताम्, प्रियाम्=कान्ताम्, अपि=
चेत्, नारीम् =स्त्रीम्, इव = यथा, चिक्षेप = अपससार ॥ ८ ॥
हिन्दी—मनस्वी व्यक्ति कुपित होकर जैसे सदाचार से गिरी प्रिय पत्नी का भी
परित्याग कर देता है, उसी तरह इस विपरीत मानसिक अवस्था को ठीक से
समझकर उसने धर्म में बाधा डालने वाली उस कामवासना को अपने से दूर हटा
दिया ॥ ८ ॥
आरब्धवीर्यस्य मनःशमाय भूयस्तु तस्याकुशलो वितर्कः ।
व्याधिप्रणाशाय निविष्टबुद्धेरुपद्रवो घोर इवाजगाम ॥ ९ ॥
अन्वयः—मनःशमाय आरब्धवीर्यस्य तस्य तु अकुशलः वितर्कः व्याधिः प्रणाशाय
निविष्टबुद्धेः भूयः घोरः उपद्रवः इव आजगाम ॥ ९ ॥
व्याख्या—मनःशमाय = चित्तशान्तये, आरब्धवीर्यस्य—आरब्धः=उपक्रान्तः,
वीर्यः = पराक्रमः, येन सः तस्य, तस्य = नन्दस्य, तु=किन्तु, अकुशलः = अमङ्गलः,
वितर्कः = ऊहनम्, व्याधिः =रोगः, प्रणाशाय=विनाशाय, निविष्टबुद्धेः—निविष्टाः=
निक्षिप्ताः, बुद्धिः = मतिर्यस्य सः तस्य, भूयः = पुनः, व्याधिप्रणाशाय=रोगविना-
शाय, घोरः =कठोरः, उपद्रवः =उत्पातः, इव =यथा, आजगाम=आगतवान् ॥९॥
हिन्दी—मानसिक शान्ति के लिए उद्योग आरंभ करने पर उसके मन में पुनः
अशुभ विचार का उदय हुआ, जैसे रोग-विनाश के लिए निश्चय किये हुए व्यक्ति के
ऊपर घोर संकट आये ॥ ९ ॥
स तद्विघाताय निमित्तमन्यद्योगानुकूलं कुशलं प्रपेदे ।
आर्त्तायनं क्षीणबलो बलस्थं निरस्यमानो बलिनारिणेव ॥ १० ॥
अन्वयः—सः तद्विघाताय योगानुकूलम् अन्यत् कुशलं निमित्तं बलिना अरिणा
निरस्यमानः क्षीणबलः आर्त्तायनं बलस्थम् इव प्रपेदे ॥ १० ॥
व्याख्या—सः=नन्दः, तद्विघाताय—तस्याः=कामभावनायाः, विघाताय=
विनाशाय, तस्मै, योगानुकूलम् = चित्तवृत्त्यनुरूपम्, अन्यत् = अपरम्, कुशलम्=शुभम्,
निमित्तं =कारणं, बलिना=शक्तिशालिना, अरिणा = शत्रुना, निरस्यमानः =
पराजितः सन्, क्षीणबलः = क्षयङ्गतशक्तिकः, आर्त्तायनम्—आर्त्तानाम्=पीडितानाम्,
अयनम् =आश्रयम्, बलस्थम् = बलवन्तम्, इव =यथा, प्रपेदे=प्राप। उपमालङ्का-
रोऽयम् ॥ १० ॥
हिन्दी—उस विसंवाद के विनष्ट होते ही योगानुकूल दूसरे शुभ निमित्त का
सहारा लिया, जैसे बलवान् शत्रु से पराजित होता हुआ मनुष्य अपनी शक्ति के क्षीण
होने पर पीड़ितों को शरण देने वाले किसी शक्तिशाली मनुष्य की शरण में जाता
है ॥ १० ॥
पुरं विधायानुविधाय दण्डं मित्राणि सङ्गृह्य रिपून् विगृह्य ।
राजा यथाऽऽप्नोति हि गामपूर्वां नीतिर्मुमुक्षोरपि सैव योगे ॥ ११ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३५१
अन्वयः—राजा यथा पुरं विधाय दण्डम् अनुविधाय मित्राणि सङ्गृह्य रिपून्
विगृह्य हि अपूर्वां गाम् आप्नोति, मुमुक्षोः योगे अपि सैव नीतिः ॥ ११ ॥
व्याख्या—राजा=नृपः, यथा=येन प्रकारेण, पुरम्=नगरम्, विधाय=विरच्य,
दण्डम्=शासनम्, अनुविधाय=कृत्वा, मित्राणि=सुहृदः, सङ्गृह्य=सङ्ग्रहं कृत्वा,
रिपून्=अरीन्, विगृह्य=विनश्य, हि=यतः, अपूर्वाम्=अभूतपूर्वाम्, गाम्=
धरित्रीम्, आप्नोति=प्राप्नोति, मुमुक्षोः=मुक्तिमिच्छोः, योगेऽपि=योगविधावपि,
सैव=पूर्वोक्तैव, नीतिः=पद्धतिः, आश्रयणीयाऽस्ति । दीपकस्तथोपमाऽलङ्कारोऽत्र ।
हिन्दी—मुक्ति चाहने वाले को योगाभ्यास में उसी नीति का अवलम्बन करना
चाहिए जैसे एक राजा नगर बसाकर, शासन विधान कर मित्रों का संग्रह एवं शत्रुओं
का निग्रह कर अपूर्व भूमि का उपभोग करता है ॥ ११ ॥
विमोक्षकामस्य हि योगिनोऽपि मनः पुरं ज्ञानविधिश्च दण्डः ।
गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्तिर्यतते यदर्थम् ॥ १२ ॥
अन्वयः—विमोक्षकामस्य हि योगिनः अपि मनः पुरं ज्ञानविधिश्च दण्डः गुणाश्च
मित्राणि च दोषाः अरयः विमुक्तिः भूमिः यदर्थं सः यतते ॥ १२ ॥
व्याख्या—विमोक्षकामस्य=विशेषेण मुक्तेरभिलाषुकस्य, योगिनः=योगकर्म-
परायणस्य, अपि=च, मनः=चेतः, पुरं=नगररूपम् अस्ति, ज्ञानविधिः=शिक्षण-
क्रमः, दण्डः=अनुचितेष्ववसरेषु आर्थिकदण्डः शारीरिको वा, गुणाः=इमे द्विविधा
भवन्ति—सद्गुणाः दुर्गुणाश्च, मित्रसाहचर्यात् तेनूनं सद्गुणा एव, मित्राणि=सुहृदः
सन्ति, दोषाः=दुर्गुणाः, अरयः=शत्रवः सन्ति, विमुक्तिः=मोक्षलाभः, सा भूमिः=
वसुमती अस्ति, यदर्थं=यस्याः प्राप्त्यर्थं, सः यतते=निरन्तरं प्रयत्नं करोति ॥ १२ ॥
हिन्दी—भवबन्धन से मुक्त होने की इच्छा करनेवाले योगी पुरुष का मन नगर
की भांति है, ज्ञानविधि समुचित दण्ड-व्यवस्था के समान है, सद्गुण उसके मित्र हैं,
दोष शत्रु के समान हैं और मुक्तिरूप वह भूमि है, जिसके लिए वह निरन्तर प्रयत्न
करता है ॥ १२ ॥
स दुःखजालान्महतो मुमुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः ।
पन्थानमार्यं परमं दिदृक्षुः शमं ययौ किञ्चिदुपात्तचक्षुः ॥ १३ ॥
अन्वयः—सः महतः दुःखजालात् मुमुक्षुः, विमोक्षमार्गाधिगमे विविक्षुः, परमम्
आर्यं पन्थानं दिदृक्षुः, किञ्चित् उपात्तचक्षुः शमं ययौ ॥ १३ ॥
व्याख्या—सः=पुमान्, महतः=बृहतः, दुःखजालात्=दुःखरूपबन्धनात्, मुमुक्षुः=
मुक्तिकामः, विमोक्षमार्गाधिगमे=विशिष्टे मोक्षमार्गे प्रवेष्टुकामः, परमं=सर्वोत्कृष्टम्,
आर्यम्=गतिशीलमत एव श्रेष्ठं, पन्थानं=पदवीं, दिदृक्षुः=द्रष्टुमिच्छुः, किञ्चिद्=
ईषन्मात्रम्, उपात्तचक्षुः=लब्धावबोधः, शमं=शान्तिम्, ययौ=प्राप्तवान् ॥ १३ ॥
हिन्दी—संसाररूपी महादुःख-जाल से मुक्त होने की इच्छा से, मोक्षमार्ग में प्रवेश

३५२ सौन्दरनन्दं महाकाव्यम्
करने की कामना से, उत्तम गतिशील मार्ग को अपनाने का इच्छुक वह योगी पुरुष
ज्ञान प्राप्त करके शान्ति को प्राप्त कर लेता है ॥ १३ ॥
यः स्यान्निकेतस्तमसोऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः ।
यस्मात्तु मोक्षाय स पात्रभूतस्तस्मान्मनः स्वात्मनि सञ्जहार ॥ १४ ॥
अन्वयः—यः अनिकेतः तमसः निकेतः स्यात् सः तत्त्वं श्रुत्वा अपि प्रमत्तः भवेत्,
यस्मात् तु सः मोक्षाय पात्रभूतः, तस्मात् ( सः ) मनः स्वात्मनि सञ्जहार ॥ १४ ॥
व्याख्या—यः=योगी, अनिकेतः=गृहरहितः, तमसः=अज्ञानस्य, निकेतः=
गृहवान्, स्यात्=भवेत् चेद्, सः=तथाविधः योगी, तत्त्वं श्रुत्वा अपि=ज्ञानात्मकं
रहस्यम् आकर्ण्य अपि, प्रमत्तः भवेत्=असावधानः स्यात्, यस्मात्=किन्तु, सः=
पुमान्, मोक्षाय=मुक्तिप्राप्त्यर्थम्, पात्रभूतः=योग्यतां गतः, तस्मात्=अत एव सः, स्वं
मनः=स्वकीयं स्वान्तं, स्वात्मनि=अन्तरात्मनि, सञ्जहार=अगृह्णात् ॥ १४ ॥
हिन्दी—जो योगी घर रहित होने पर भी अज्ञानी होगा, वह तात्त्विक उपदेशों
को सुनकर भी असावधान ही रहेगा, किन्तु वह तो मोक्षप्राप्ति का अधिकारी हो चुका
था, अतः उसने अपनी मानसिक वृत्तियों का उपसंहार ( निग्रह ) अपने में ही कर
लिया ॥ १४ ॥
सम्भारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च ।
अथात्मवान्निःसरणात्मतश्च धर्मेषु चक्रे विधिवत् परीक्षाम् ॥ १५ ॥
अन्वयः—अथ आत्मवान् सम्भारतः प्रत्ययतः स्वभावतः आस्वादतः दोषविशेषतः
च निःसरणात्मतः च धर्मेषु विधिवत् परीक्षां चक्रे ॥ १५ ॥
व्याख्या—अथ=तदनन्तरं, मुक्तिमार्गप्रसक्तः स आत्मवान्=संयतात्मा, सम्भारतः
प्रत्ययतः=कारणतः, स्वभावात्=नैसर्गिकबलात्, आस्वादतः=इन्द्रियज्ञानबलात्,
दोषविशेषतः च=व्यवहारादिदोषात्, एवमादिभिः दृष्टिभिः, धर्मेषु=पदार्थविशेषेषु,
विधिवत्=यथाविधि, परीक्षां चक्रे=परीक्षां विहितवान् ॥ १५ ॥
हिन्दी—मुक्तिमार्ग में प्रवृत्त उस जितेन्द्रिय योगी ने कारण, कार्य, स्वभाव, रुचि
तथा दोष-विशेष को ध्यान में रखते हुए विधिपूर्वक धर्मों की परीक्षा की ॥ १५ ॥
स रूपिणं कृत्स्नमरूपिणं च सारं दिदृक्षुर्विचिकाय कायम् ।
अथाशुचिं दुःखमनित्यमस्वं निरात्मकं चैव चिकाय कायम् ॥ १६ ॥
अन्वयः—सः रूपिणम् अरूपिणं च कृत्स्नं सारं दिदृक्षुः कायं विचिकाय, अथ
कायम् अशुचिं दुःखम् अनित्यम् अस्वं निरात्मकं च एव चिकाय ॥ १६ ॥
व्याख्या—सः=मुमुक्षुः, रूपिणं=रूपवन्तम्, अरूपिणं च=निराकारं च, कृत्स्नं
=सम्पूर्णम्, सारं=तत्त्वस्वरूपं, दिदृक्षुः=द्रष्टुमिच्छुः, कायं=शरीरं, विचिकाय=
विश्लेषणं चकार, अथ=तदनन्तरं, कायं=शरीरम्, अशुचिम्=मलमूत्रादिभिः पूरितं,
दुःखं=दुःखस्य कारणम्, अनित्यम्=अस्थायि, अस्वं=साररहितं, निरात्मकम्=
आत्मना भिन्नं, चिकाय=स्वीचकार ॥ १६ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३५३
हिन्दी—उस मोक्षमार्ग के लिए प्रवृत्त योगी ने रूपवान् (साकार) तथा अरूप-
वान् (निराकार) सबका सार देखने की इच्छा से इस शरीर का तात्त्विक परीक्षण
किया, परीक्षण करने पर इस शरीर को अपवित्र, दुःखमय, अनित्य (क्षणभंगुर),
तत्त्वरहित तथा आत्मा से भिन्न समझा ॥ १६ ॥
अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि ।
मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं सञ्चलयाञ्चकार ॥ १७ ॥
अन्वयः—हि तत्र सः अनित्यः अनित्यतः, शून्यतः च निरात्मतः च दुःखतः एव
अपि लौकिकेन मार्गप्रवेकेण क्लेशद्रुमं सञ्चलयाञ्चकार ॥ १७ ॥
व्याख्या—हि=निश्चयेन, तत्र=मोक्षमार्गे, सः=योगी, इदं शरीरम्, अनित्यतः
=अशाश्वतत्वात्, शून्यतः च=निःसारत्वात्, निरात्मतः=आत्मनो भिन्नत्वाद्, दुःखतः=
क्लेशप्राचुर्यात्, लौकिकेन=सांसारिकेण, मार्गप्रवेकेण=उत्तममार्गानुसरणेन,, क्लेशद्रुमं
=कष्टसमूहात्मकं शरीरवृक्षं, सञ्चलयाञ्चकार=प्रकम्पयामास ॥ १७ ॥
हिन्दी—इस पञ्चभूतात्मक शरीर को अनित्य (क्षणभंगुर), शून्य (निःसार),
आत्मा से भिन्न, पग-पग पर कष्ट देनेवाला समझकर उसने सांसारिक उत्तम (ज्ञान)
मार्ग द्वारा कष्टमय फल को देनेवाले (शरीररूपी) वृक्ष की जड़ों को हिला
दिया ॥ १७ ॥
यस्माद् भूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्यवश्यम् ।
सहेतुकं च क्षयि हेतुमच्च तस्मादनित्यं जगदित्यविन्दत ॥ १८ ॥
अन्वयः—यस्मात् इह अभूत्वा भवति भूत्वा च भूयः अवश्यं न भवति, सर्वं च
सहेतुकं हेतुमत् च क्षयि तस्मात् जगत् अनित्यम् इति अविन्दत ॥ १८ ॥
व्याख्या—यस्मात्=येन कारणेन, हि=यतः, इह=लोके, अभूत्वा=अभूतः,
भवति=जायते, भूत्वाश्च=भूतञ्च, भूयः=पुनः, अवश्यम्=निश्चितम्, न=नहि,
भवति=जायते, सर्वञ्च=सकलञ्च, सहेतुकम्=सकारणम्, हेतुमच्च, च=पुनः,
क्षयि=विनाशी, तस्मात्=तेन हेतुना, जगत्=संसारः, अनित्यम्=भङ्गुरम्, इति=
एतत्, अविन्दत=चिकाय ॥ १८ ॥
हिन्दी—क्योंकि अवश्य ही जो संसार में पहले अवश्य ही नहीं था, वह होता
है और जो हुआ है, वह फिर अभावग्रस्त होता है। ये सभी सकारण हैं और कारण
नाशवान् होते हैं, अतः उन्होंने संसार को अनित्य समझा ॥ १८ ॥
यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः ।
दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखमिति व्यपश्यत् ॥ १९ ॥
अन्वयः—यतश्च प्रसूतस्य बन्धविघातहेतुः कर्मयोगः प्रसज्यते, ततः दुःखप्रतीकार-
विधौ सुखाख्ये भव दुःखम् इति व्यपश्यत् ॥ १९ ॥
व्याख्या—यतश्च=येन हेतुना च, प्रसूतस्य=जन्मगृहीतस्य, बन्धविघातहेतुः=
बन्धनविनाशकारणम्, बन्धंश्च विघातश्च तयोः विनाशहेतुः, कर्मयोगः=निष्काम-

३५४ सौन्दरनन्दं महाकाव्यम्
कर्मणाऽऽत्मज्ञानम्, प्रसज्यते = प्रसक्तो भवति, ततः = तेन हेतुना, दुःखप्रतीकारविधौ =
कष्टविनाशोपाये, दुःखस्य प्रतीकारस्तस्य विधौ, सुखाख्ये = सुखनाम्नि, भव = संसारम्,
दुःखम् = क्लेशम्, इति = इत्थम्, व्यपश्यत् = अवलोकयामास ॥ १९ ॥
हिन्दी—क्योंकि जिसका जन्म होता है वह वधबन्धन के हेतुरूप कर्मों के सम्पर्क
में निरन्तर रहता है और क्योंकि दुःख-प्रतीकार के उपाय को ही सुख समझ लिया
जाता है, अतः उसने संसार को दुःखमय देखा ॥ १९ ॥
यतश्च संस्कारगतं विविक्तं न कारकः कश्चन वेदको वा ।
सामग्र्यतः सम्भवति प्रवृत्तिः शून्यं ततो लोकमिमं ददर्श ॥ २० ॥
अन्वयः—यतश्च विविक्तं संस्कारगतं कश्चन कारकं वेदकः वा न सामग्र्यतः
प्रवृत्तिः सम्भवति, ततः इमं लोकं शून्यं ददर्श ॥ २० ॥
व्याख्या—यतश्च = यस्माच्च, विविक्तम् = पृथग्भूतम्, संस्कारगतम् = शरीरशुद्धि-
निर्मितम्, कश्चन = कोऽपि, कारकः = कर्त्ता, वेदकः = ज्ञाता, वा = अथवा, न = नहि,
अस्ति सामग्र्यतः = सामग्र्याः, प्रवृत्तिः = भावः, सम्भवति = उत्पन्नो भवति, ततः =
तस्मात्, इमम् = अमुम्, लोकम् = संसारम्, शून्यम् = तत्त्वहीनम्, इव ददर्श = अव-
लोकयामास ॥ २० ॥
हिन्दी—कोई भी व्यक्ति अन्तःसंस्कार से ही निर्मित होता है, इसका न तो
कोई कर्त्ता है और न ज्ञाता ही, क्योंकि हेतु-प्रत्ययों की सामग्री से मनुष्य का
रुझान होता है। इसीलिए नन्द ने इस संसार को सारहीन माना ॥ २० ॥
यस्मान्निरीहं जगदस्वतन्त्रं नैश्वर्यमेकः कुरुते क्रियासु ।
तत्तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥ २१॥
अन्वयः—यस्मात् जगत् निरीहम् अस्वतन्त्रम् एकः क्रियासु ऐश्वर्यं न कुरुते,
भावाः तत्तत् प्रतीत्य प्रभवन्ति, तेन लोकं निरात्मकं विवेद ॥ २१ ॥
व्याख्या—यस्मात् = यस्माद्धेतोः, जगत् = संसारः, निरीहम् = अशरणम्, अस्व-
तन्त्रः = स्वातन्त्र्यहीनम्, एकः = केवलः, क्रियासु = कृत्येषु, ऐश्वर्यम् = आधिपत्यम्, न =
नहि, कुरुते = विदधाति, भावाः = पदार्थाः, तत्तत् = स्वकीयम्, हेतुम्, प्रतीत्य =
समाश्रित्य, प्रभवन्ति = उत्पद्यन्ते, तेन = तेन कारणेन, लोकम् = संसारम्, निरात्मकम्
= अनात्मकम्, विवेद = अवेदीत् ॥ २१ ॥
हिन्दी—क्योंकि संसार निरीह एवं परतंत्र है; कार्यों का कोई अधिपति नहीं है,
क्योंकि कारण से ही सभी कार्यों की उत्पत्ति होती है। अतः उसने संसार को तथ्य-
हीन समझा ॥ २१ ॥
ततः स वातं व्यजनादिवोष्णे काष्ठाश्रितं निर्मथनादिवाग्निम् ।
अन्तःक्षितिस्थं खननादिवाम्भो लोकोत्तरं वर्त्म दुरापमाप ॥ २२ ॥
अन्वयः—ततः सः उष्णे व्यजनात् वातम् इव निर्मथनात् काष्ठाश्रितम् अग्निम् इव
खननात् अन्तःक्षितिस्थम् अम्भः इव दुरापं लोकोत्तरं वर्त्म आप ॥ २२ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३५५
व्याख्या—ततः = तत्पश्चात्, सः = नन्दः, उष्णे = तप्ते, व्यजनात् = वीजनात्,
वातम् = पवनम्, इव = यथा, निर्मथनात् = मन्थनात्, काष्ठाश्रितम् = काष्ठस्य = शमी-
दारोः, आश्रितम् = अवलम्बितम्, अग्निम् = वह्निम्, इव = यथा, खननात् = अवदार-
णात्, अन्तःक्षितिस्थम्—क्षितेः = पृथिव्याः, अन्तः = कुक्षौ, तिष्ठति = विद्यते, इति तम् =
भूमिस्थितम्, अम्भः = सलिलम्, इव = यथा, दुरापम् = दुर्लभम्, लोकोत्तरम् = अलो-
किकम्, वर्त्म = पन्थानम्, आप = प्राप्तवान् ॥ २२ ॥
हिन्दी—जैसे कोई व्यक्ति गर्मी में पंखा डुलाकर हवा प्राप्त करता है, शमीकाठ में
रहनेवाली आग को रगड़कर निकाले, या धरती के नीचे से खोदकर पानी निकाले;
उसी तरह नन्द ने अपने उद्योग से अलौकिक एवं दुर्लभ मार्ग को प्राप्त किया ॥ २२ ॥
सञ्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः ।
क्लेशारिभिश्चित्तरणाजिरस्थैः सार्धं युयुत्सुर्विजयाय तस्थौ ॥ २३ ॥
अन्वयः—सञ्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः चित्तरणाजि-
रस्थैः, क्लेशारिभिः सार्द्धं युयुत्सुः विजयाय तस्थौ ॥ २३ ॥
व्याख्या—सञ्ज्ञानचापः—सञ्ज्ञानमेव = तत्त्वबोधमेव, चापम् = धनुः, यस्य सः,
स्मृतिवर्म—स्मृतिः = आध्यानमेव, वर्म = कवचम्, तत्, बद्ध्वा = परिधार्य, विशुद्धशील-
व्रतवाहनस्थः—विशुद्धम् = पावनम्, शीलव्रतमेव = चरित्रनियममेव, वाहनम् = यानम्,
तस्मिन् तिष्ठतीति सः, चित्तरणाजिरस्थैः—चित्तमेव = हृदयमेव, रणस्य = युद्धस्य,
अजिरम् = प्राङ्गणम्, तस्मिन् तिष्ठन्तीति तैः, क्लेशारिभिः = दोषरिपुभिः, सार्धम् = सह,
युयुत्सुः = युद्धकर्तुमिच्छुः, विजयाय = वशीकरणाय, तस्थौ = स्थितवान् ॥ २३ ॥
हिन्दी—सच्चा ज्ञान रूपी धनुष लेकर, अनुचिन्तनरूपी कवच पहनकर और
विशुद्ध शीलव्रतरूपी सवारी पर सवार होकर वह हृदयरूपी रणाङ्गन में मौजूद दुःख
रूपी दुश्मनों के साथ युद्ध करने की इच्छा से विजय पाने के लिए उठ खड़ा
हुआ ॥ २३ ॥
ततः स बोध्यङ्गशतातशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः ।
मार्गाङ्गमातङ्घवता बलेन शनैः शनैः क्लेशचमूं जगाहे ॥ २४ ॥
अन्वयः—ततः सः बोध्यङ्गशतातशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः मार्गाङ्ग-
मातङ्गवता बलेन शनैः-शनैः क्लेशचमूं जगाहे ॥ २४ ॥
व्याख्या—ततः = तत्पश्चात्, सः = भिक्षुः, बोध्यङ्गशतातशस्त्रः = अनुचिन्तनादि-
बोध्यङ्गतीक्ष्णशस्त्रः, सम्यक्प्रधानोत्तमवाहनस्थः = सुष्ठुश्रेष्ठोद्यमयाना रूढः, मार्गा-
ङ्गमातङ्घवता = पथाङ्गगजवता, बलेन = सेनया, शनैः-शनैः = मन्दं-मन्दं, क्लेशचमूं =
दोषपताकिनम्, जगाहे = प्रविवेश । • बोध्यङ्गानि च स्मृतिधर्मवीर्यंप्रीतिप्रश्रब्धिसमाधि-
उपेक्षेत्यादि ॥ २४ ॥
हिन्दी—इसके बाद बोधि अङ्गरूपी तेज हथियार लेकर, उत्तम उद्योगरूपी

३५६ सौन्दरनन्दं महाकाव्यम्
सवारी पर चढ़कर, आर्य अष्टाङ्गिक मार्ग के आठ अङ्गरूपी हाथियों की सेना के साथ
उसने धीरे-धीरे दुःखों की सेना में प्रवेश किया ॥ २४ ॥
स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन ।
दुःखस्य हेतूंश्चतुरश्चतुर्भिः स्वैः स्वैः प्रचारायतनैर्ददार ॥ २५ ॥
अन्वयः—सः स्वैः स्वैः प्रचारायतनैः स्मृत्युपस्थानमयैः चतुर्भिः पृषत्कैः विपर्यास-
मयान् दुःखस्य हेतून् चतुरः शत्रून् क्षणेन ददार ॥ २५ ॥
व्याख्या—सः = नन्दः, स्वैः स्वैः = स्वकीयैः स्वकीयैः, प्रचारायतनैः = भ्रमण-
निरतैः, स्मृत्युपस्थानमयैः = आध्यानोपस्थानरूपैः ( उपस्थानन्तु चतुर्विधम्; तद्यथा—
कायानुपश्यना, वेदनानुपश्यना, चित्तानुपश्यना धर्मानुपश्यना च । देहचित्तयोर्वत्तमाना-
वस्थायाः परिज्ञानं तथा तत्प्रतिजागरूकत्वञ्च । विशेषाध्ययनाय सति पट्ठानसुत्त
द्रष्टव्यम् । ), चतुर्भिः पृषत्कैः = चतुःसङ्ख्यकैः बाणैः, विपर्यासमयान् = मिथ्याज्ञानस्व-
रूपान्, दुःखस्य = दोषस्य, हेतून् = कारणान्, चतुरः = चतुःसङ्ख्याकान्, शत्रून् = रिपून्,
क्षणेन = स्तोकेन समयेन, ददार = विदीर्णं कृतवान् । रूपकालङ्कारस्य योजनया बौद्ध-
दर्शनस्य तत्त्वानामत्र विवेचनमस्ति ॥ २५ ॥
हिन्दी—अपने-अपने क्षेत्रों में भ्रमणशील स्मृति-उपस्थानरूपी चार तीरों के द्वारा
अज्ञान युक्त दोष के कारणस्वरूप चार शत्रुओं को उन्होंने पलभर में ही चीर
डाला ॥ २५ ॥
आर्यैर्बलैः पञ्चभिरेव पञ्चचेतः खिलान्यप्रतिमैर्बभञ्ज ।
मिथ्याङ्गनागांश्च तथाङ्गनागैर्विनिर्दुधावाष्टभिरेव सोऽष्टौ ॥ २६ ॥
अन्वयः—सः अप्रतिमैः पञ्चभिः आर्यैः बलैः पञ्चचेतः खिलानि बभञ्ज, तथा
अष्टभिः एव अङ्गनागैः अष्टौ मिथ्याङ्गनागान् च विनिर्दुधाव ॥ २६ ॥
व्याख्या—सः = नन्दः, अप्रतिमैः = निरुपमैः, पञ्चभिः = पञ्चसङ्ख्याकैः, आर्यैः =
श्रेष्ठैः, बलैः = शक्तिभिः, श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-रूपाणि पञ्चार्यबलानि
भवन्ति तैः, पञ्चचेतः = पञ्चसङ्ख्याकानि मानसिकानि, खिलानि = कीलान्, बभञ्ज =
त्रोटयामास, तथा = तेनैव रूपेण, अष्टभिः = वसुभिः, अङ्गनागैः = आर्यमार्गगजैः,
अष्टाङ्गानि च सम्यग्दृष्टि-सम्यक्वाणीप्रभृतयः । अत्र विशेषाध्ययनाय द्रष्टव्यमस्ति—
परियायसुत्त ( दीघनिकाय ) तथा चेतोखिलसुतन्त ( मज्झिमनिकाय ) । अष्टौ =
अष्टसङ्ख्याकान्, मिथ्याङ्गनागान् = मिथ्याज्ञानाङ्गद्विपान्, च = पुनः, विनिर्दुधाव =
विनिर्दुध्वे । अत्रापि रूपकालङ्कारः ॥ २६ ॥
हिन्दी—उन्होंने अनुपम पांच आर्यबलों के द्वारा पांच मानसिक बाधाओं को तोड़
डाला और आठ आर्यमार्ग अङ्गरूपी हाथियों के द्वारा आठ मिथ्या अङ्गरूपी हाथियों
को दूर भगाया ॥ २६ ॥
अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्वकथङ्कथः सन् ।
विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिमाप ॥ २७ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३५७
अन्वयः—अथ सकलाम् आत्मदृष्टिं विधूय चतुर्षु सत्येषु अकथङ्कथः सन् विशुद्ध-
शीलव्रतदृष्टधर्मा धर्मस्य पूर्वा फलभूमिम् आप ॥ २७ ॥
व्याख्या—अथ = तत्पश्चात्, सकलाम् = सम्पूर्णांम्, आत्मदृष्टिम्—आत्मनः =
स्वस्य, दृष्टिः = चक्षुस्ताम्, विधूय = उन्मील्य, चतुर्षु = चतुःसङ्ख्याकेषु, सत्येषु =
आर्यसत्येषु, अकथङ्कथः = सन्देहरहितः, सन्=सती, विशुद्धशीलव्रतदृष्टधर्मा—विशुद्धेन =
पवित्रेण, शीलव्रतेन = आचरणनियमेन, दृष्टम् = अवलोकितम्, धर्मं येन सः, धर्मस्य =
नियमस्य, पूर्वाम् = प्रथमाम्, फलभूमिम् = परिणामपदवीम्, त्रयाणां संयोजनानां क्षीणे
सति प्रथमफलस्य प्राप्तिर्भवति ॥ २७ ॥
हिन्दी—आत्मदृष्टि को सर्वथा उन्मूलित कर चार सत्यों के विषय में असंदिग्ध
[L11

३५८ सौन्दरनन्दं महाकाव्यम्
हिन्दी—उसकी श्रद्धा दृढ़ हुई, धैर्य स्थिर हुआ, चार सत्यों के सम्बन्ध में उसका
अज्ञान दूर हुआ, उसका उत्तम शील छिद्ररहित हुआ, अतः वह धर्माचरण में संशय
रहित हुआ ॥ २९ ॥
कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतमवेक्षमाणः ।
ज्ञानाश्रयां प्रीतिमुपाजगाम भूयः प्रसादं च गुराविवाय ॥ ३० ॥
अन्वयः—सः कुदृष्टिजालेन विप्रयुक्तः तथाभूतं लोकम् अवेक्षमाणः, ज्ञानाश्रयां
प्रीतिम् उपाजगाम, गुरौ च भूयः प्रसादम् इयाय ॥ ३० ॥
व्याख्या—सः=नन्दः, कुदृष्टिजालेन = अमङ्गलदृष्टिसमूहेन, विप्रयुक्तः=वियुक्तः,
तथाभूतम् = वास्तविकम्, लोकम्=संसारम्, अवेक्षमाणः =अवलोकयन् ज्ञानाश्रयाम्=
ज्ञानजाताम्, प्रीतिम्=मुदम्, उपाजगाम=उपागमत्, गुरौ च=बुद्धे च, भूयः=
अधिकम्, प्रसादम्=श्रद्धाम्, इयाय = जगाम ॥ ३० ॥
हिन्दी—अशुभ दृष्टियों के जाल से मुक्त होकर, संसार को वास्तविक रूप में
देखता हुआ वह ज्ञान के आश्रय से होनेवाले सुख को प्राप्त हुआ और गुरु के प्रति
उसकी श्रद्धा बढ़ गई ॥ ३० ॥
यो हि प्रवृत्तिं नियतामवैति नैवान्यहेतोरिह नाप्यहेतोः ।
प्रतीत्य तत्तत् समवैति तत्तत् स नैष्ठिकं पश्यति धर्ममार्यम् ॥ ३१ ॥
अन्वयः—यः हि नियतां प्रवृत्तिम् अवैति नैव अन्यहेतोः नापि अहेतोः तत्तत्प्रती-
त्य तत्तत् समवैति सः नैष्ठिकम् आर्यं धर्मं पश्यति ॥ ३१ ॥
व्याख्या—यः=भिक्षुः, हीति निश्चयेन, नियताम् = संयताम्, प्रवृत्तिम्=कार्य-
निर्वाहम्, अवैति =जानाति, नैव=कथमपि नास्ति, अन्यहेतोः = भिन्नकारणात्, नापि
= न तु, अहेतोः =अकारणात्, तत्तत्प्रतीत्य = सकलकारणमाश्रित्य, तत्तत्समवैति=
सर्वमवगच्छति, सः=असौ, नैष्ठिकम्=निष्ठासमन्वितम्, आर्यं धर्मम्=श्रेष्ठाचरणम्,
पश्यति =अवलोकयति ॥ ३१ ॥
हिन्दी—जो भिक्षु यह जानता है कि अभिरुचि का संयमन किसी भिन्न कारण
से या अकारण ही नहीं होता, किन्तु सब कुछ अपने-अपने कारण से ही होता है—वही
भिक्षु नैष्ठिक आर्यधर्म को देखता है ॥ ३१ ॥
शान्तं शिवं निर्जरसं विरागं निःश्रेयसं पश्यति यश्च धर्मम् ।
तस्योपदेष्टारमथार्यवर्यं स प्रेक्षते बुद्धमवाप्तचक्षुः ॥ ३२ ॥
अन्वयः—यः शान्तं शिवं निर्जरसं विरागं निःश्रेयसं धर्मम् अथ चं तस्य उप-
देष्टारम् आर्यवर्यं पश्यति, अवाप्तचक्षुः सः बुद्धं प्रेक्षते ॥ ३२ ॥
व्याख्या—यः =भिक्षुः, शान्तम् = शान्तिमयम्, शिवम् = मङ्गलमयम्, निर्जरसम्
—निर्गता = निःसृता, जरा=वृद्धावस्था यस्य सः तम्, विरागम्—विगतः रागः =
आसक्तिः, यस्य सः तम्=आसक्तिरहितम्, निःश्रेयसम्=माङ्गलिकम्, अथ च=अपि च,
तस्य =धर्मविशेषस्य, उपदेष्टारम् = उपदेशकत्तारम्, आर्यवर्यम्=आर्यश्रेष्ठम्, पश्यति

अमृताधिगमः ] सप्तदशः सर्गः ३५९
= अवलोकयति, अवाप्तचक्षुः—आवाप्तम् = अधिगतम्, चक्षुः = ज्ञाननेत्रम्, येन सः =
भिक्षुः, बुद्धम् = ज्ञानगुरुम्, प्रेक्षते = अवलोकयति ॥ ३२ ॥
हिन्दी—जो शान्त, मंगलमय, जरारहित, रागशून्य और परमकल्याणकारी
धर्म को तथा उसके उपदेष्टा आर्यश्रेष्ठ को देखता है, वही ज्ञान प्राप्त करता है और
बुद्ध को देखता है ॥ ३२ ॥
यथोपदेशेन शिवेन मुक्तो रोगादरोगो भिषजं कृतज्ञः ।
अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ ३३ ॥
अन्वयः—शिवेन उपदेशेन, रोगात् मुक्तः अरोगः कृतज्ञः यथा भिषजम् अनुस्मरन्
चित्तदृष्टचा पश्यति, मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ ३३ ॥
व्याख्या—शिवेन = मङ्गलमयेन, उपदेशेन = बोधनेन, रोगात् = आमयाद्, मुक्तः
= मोचितः, अरोगः—न विद्यते रोगो यस्मिन् सः = रोगरहितः, कृतज्ञः = उपकारज्ञः,
यथा = येन प्रकारेण, भिषजम् = वैद्यम्, अनुस्मरन् = अनुध्यायन्, चित्तदृष्टचा = मनो-
दृष्टचा, पश्यति = अवलोकयति, मैत्र्या च = सुहृद्भावेन च, शास्त्रज्ञतया—शास्त्रं
जानातीति शास्त्रज्ञस्तस्य भावस्तया = शास्त्रवेत्तृत्वेन च, तुष्टः = सन्तुष्टो भवति ।
श्लोकोऽयमुपमानवाक्यमस्ति, अग्रिमेण श्लोकेन सह सम्बद्धोऽयं श्लोकः ॥ ३३ ॥
हिन्दी—चिकित्सक के उपदेश से रोगमुक्त होकर स्वस्थ मनुष्य जैसे वैद्य के
प्रति कृतज्ञ होकर उसे याद करता हुआ अपनी मानसिक दृष्टि से उसे देखता है
और उसकी मैत्री एवं शास्त्रज्ञान से सन्तुष्ट होता है ॥ ३३ ॥
आर्येण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्यतत्त्वः ।
अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः ॥ ३४ ॥
अन्वयः—आर्येण मार्गेण मुक्तः तत्त्ववित् तथैव आर्यतत्त्वः कायसाक्षी तथागतम्
अनुस्मरन् पश्यति, मैत्र्या च सर्वज्ञतया च तुष्टः ॥ ३४ ॥
व्याख्या—आर्येण = श्रेष्ठेन, मार्गेण = पथा, मुक्तः = मोचितः, तत्त्ववित्—तत्त्वं
वेत्तीति तत्त्ववित् = तत्त्वज्ञः, तथैव = तेनैव प्रकारेण, आर्यतत्त्वः—आर्याणि तत्त्वानि यस्य
सः = श्रेष्ठतत्त्वसमन्वितः, कायसाक्षी—कायेन = देहेन, साक्षात्करणात्, तथागतम् =
बुद्धम्, अनुस्मरन् = स्मरणं कुर्वन्, पश्यति = अवलोकयति, मैत्र्या च = मैत्रीभावेन च,
सर्वज्ञतया च = निखिलवेत्तृत्वेन च, तुष्टः = सन्तुष्टः भवति ॥ ३४ ॥
हिन्दी—आर्यमार्ग से चलकर मुक्त हुआ सर्वज्ञानी उसी तरह आर्यतत्त्व को जानने
वाली देह से ही परम सत्य का साक्षात् दर्शन करने वाले बुद्ध को स्मरण करता हुआ
उन्हें मन की आंखों से देखता है और उनकी मैत्री तथा सर्वज्ञता से सन्तुष्ट होता है ।
स नाशकैर्दृष्टिगतैर्विमुक्तः पर्यन्तमालोक्य पुनर्भवस्य ।
भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर्न तत्रास न दुर्गतिभ्यः ॥ ३५ ॥

३६० सौन्दरनन्द महाकाव्यम्
अन्वयः—सः नाशकैः दृष्टिगतैः विमुक्तः पुनर्भवस्य पर्यन्तम् आलोक्य क्लेश-
विजृम्भितेषु घृणां भक्त्वा न मृत्योः न दुर्गतिभ्यः तत्रास ॥ ३५ ॥
व्याख्या—सः = नन्दः, नाशकैः = विनष्टकर्त्तृभिः, दृष्टिगतैः = विचारैः, विमुक्तः
= मोचितः, पुनर्भवस्य = पुनः भवतीति तस्य पुनर्जननस्य, पर्यन्तम् = अन्तम्, आलोक्य =
अवलोक्य, क्लेशविजृम्भितेषु—क्लेशानाम् = दुःखानाम्, विजृम्भितेषु = आचरणेषु,
घृणाम् = कुत्साम्, भक्त्वा = धृत्वा, न = नहि, मृत्योः = अन्तकात्, न = नहि,
दुर्गतिभ्यः = दुरवस्थाभ्यः, तत्रास = बिभाय ॥ ३५ ॥
हिन्दी-विनाशक विचारधाराओं से मुक्त होकर, पुनर्जन्म का अन्त देखकर, क्लेशों
से घृणाकर, वह न तो मृत्यु से और न तो दुर्गति से ही भयभीत हुआ ॥ ३५ ॥
त्वक्स्नायुमेदोरुधिरास्थिमांसकेशादिनाऽमेध्यगणेन पूर्णम् ।
ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्वपि नोपलेभे ॥ ३६ ॥
अन्वयः—ततः त्वक्स्नायुमेदोरुधिरास्थिमांसकेशादिना अमेध्यगणेन पूर्णं कायं
समवेक्षमाणः सः विचिन्त्य अणु अपि सारं न उपलेभे ॥ ३६ ॥
व्याख्या—ततः = तत्पश्चात्, त्वक्स्नायुमेदोरुधिरास्थिमांसकेशादिना = त्वचातन्तु-
मेदोरक्तामिष्यास्थिकुन्तलादिना, अमेध्यगणेन—मेध्याय हितं मेध्यम्, न मेध्यम् अमेध्यम्,
अमेध्यानां गणस्तेन = अशुचिसमूहेन, पूर्णम् = व्याप्तम्, कायम् = देहम्, समवेक्षमाणः =
अवलोकयन्, सः = नन्दः, विचिन्त्य = चिन्तयित्वा, अणु अपि = स्तोकमपि, सारम् =
तत्त्वम्, न उपलेभे = न प्राप्तवान् ॥ ३६ ॥
हिन्दी—उसने चमड़ी, स्नायु, चर्बी, लहू, हड्डी, मांस, केश प्रभृति अपवित्र
वस्तुओं से भरी देह'को अच्छी तरह देखा और परखने पर उसमें थोड़ा भी सार नहीं
पाया ॥ ३६ ॥
स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार ।
कृत्वा महोरस्कतनुस्तनू तौ प्राप द्वितीयं फलमार्यधर्मे ॥ ३७ ॥
अन्वयः—सः स्थिरात्मा तेनैव योगेन कामरागप्रतिघौ तनू चकार, तौ तनू कृत्वा
महोरस्कतनुः आर्यधर्मे द्वितीयं फलं प्राप ॥ ३७ ॥
व्याख्या—सः = नन्दः, स्थिरात्मा = निश्चलमनाः, तेनैव = पूर्वोक्तेनैव, योगेन =
योगाभ्यासेन, कामरागप्रतिघौ—कामरागश्च = वासना च, प्रतिघश्च = प्रतिहिंसा च,
तौ = वासनाविरोधौ, तनू = कृशौ, चकार = कृतवान्, तौ = कामरागप्रतिघौ, तनू =
क्षीणौ, कृत्वा = सम्पाद्य, महोरस्कतनुः—महद् = विशालः, उरः = वक्षःस्थलः, तनुः =
शरीरम्, यस्य सः, आर्यधर्मे—आर्याणाम् = श्रेष्ठजनानाम्, धर्मे = व्यवहारे, द्वितीयम् =
अपरम्, फलम् = परिणामम्, प्राप = लेभे । द्वितीयफलम्—सकृदागमिफलं सकृदागमि-
फलञ्च, तस्मिन् लोकाद् दुःखविसर्जनाय सकृत्परावर्त्तनकर्त्तारं 'सकृद्गामी' पदेनाभि-
धीयते, रागद्वेषमोहानां क्षयं कृत्वा त्रयाणां संयोजनानां क्षीणकर्त्तारं सकृद्गामी
भवति ॥ ३७ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३६१
हिन्दी — उस निश्चलात्मा ने योग के द्वारा वासना और प्रतिहिंसा को क्षीण किया
और इन दोनों को क्षीण कर उस चौड़ी छातीवाले ने आर्यधर्म का दूसरा फल
पाया ॥ ३७ ॥
स लोभचापं परिकल्पबाणं रागं महावैरिणमल्पशेषम् ।
कायस्वभावाधिगतैर्बिभेद योगायुधास्त्रैरशुभापृषत्कैः ॥ ३८ ॥
अन्वयः—सः लोभचापं परिकल्पबाणम् अल्पशेषं महावैरिणं रागं कायस्वभावाधि-
गतैः अशुभापृषत्कैः योगायुधास्त्रैः बिभेद ॥ ३८ ॥
व्याख्या — सः = नन्दः, लोभचापम् = लोभधनुः, परिकल्पबाणम् — परिकल्पः =
सङ्कल्पः, एव बाणः = शरः, यस्य सः तम्, अल्पशेषम् = स्तोकावशिष्टम्, महावैरिणम्
= महारिपुम्, रागम् = आसक्तिम्, कायस्वभावाधिगतैः — कायस्य = देहस्य, स्वभावः
= प्रकृतिः, तेन अधिगतैः = प्राप्तैः, अशुभापृषत्कैः = अमङ्गलभावनाबाणैः, योगायुधा-
स्त्रैः = योगशस्त्रास्त्रैः, बिभेद = विददार । अत्र रूपकालङ्कारस्य योजना दर्शनीया ॥३८॥
हिन्दी — उसने थोड़े बचे राग रूपी शत्रु को — जिसके लोभ धनुष तथा संकल्प
तीर थे — स्वभाव से प्राप्त अशुभ भावना रूपी तीरों से बेध डाला ॥ ३८ ॥
द्वेषायुधं क्रोधविकीर्णबाणं व्यापादयन्तःप्रसवं सपत्नम् ।
मैत्रीपृषत्कैर्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर्जघान ॥ ३९ ॥
अन्वयः—द्वेषायुधं क्रोधविकीर्णबाणं व्यापादम् अन्तःप्रसवं सपत्नं धृतितूणसंस्थैः
क्षमाधनुर्ज्याविसृतैः मैत्रीपृषत्कैः जघान ॥ ३९ ॥
व्याख्या — द्वेषायुधम् = सापत्न्यशस्त्रम्, क्रोधविकीर्णबाणम् = कोपविकीर्णशरम्,
व्यापादम् = विरोधम्, अन्तःप्रसवम् — अन्तः प्रसूते इति = अन्तःसमुत्पन्नम्, सपत्नम् =
रिपुम्, धृतितूणसंस्थैः — धृतिः = धैर्यः, एव तूणम् = तूणीरम्, तस्मिन् सन्तिष्ठन्तीति = धैर्य-
तूणीरनिहितैः, क्षमाधनुर्ज्याविसृतैः — क्षमा = क्षान्तिः वा तितिक्षा, तदेव धनुः = चापम्,
तस्य ज्या = मौर्वी, तस्याः विसृतै = विनिर्गतैः, मैत्रीपृषत्कैः = सौहार्दशरैः, जघान =
हतवान् ॥ ३९ ॥
हिन्दी — द्वेषरूपी शस्त्रवाले, क्रोधरूपी बिखरे बाणवाले प्रतिहिंसा नामक भीतरी
शत्रु को धैर्यरूपी तरकस में रहने वाले तथा क्षमारूपी धनुष की प्रत्यञ्चा से छूटे मैत्री-
रूपी तीरों से मार डाला ॥ ३९ ॥
मूलान्यथ त्रीण्यशुभस्य वीरस्त्रिभिर्विमोक्षायतनैश्चकर्त ।
चमूमुखस्थान् धृतकार्मुकांस्त्रीनरीनिवारेस्त्रिभिरायसाग्रैः ॥ ४० ॥
अन्वयः—अथ वीरः अशुभस्य त्रीणि मूलानि त्रिभिः विमोक्षायतनैः अरिः चमू-
मुखस्थान् धृतकार्मुकान् त्रीन् अरीन् त्रिभिः आयसाग्रैः इव चकर्त ॥ ४० ॥
व्याख्या — अथ = अनन्तरम्, सः वीरः = शूरः, अशुभस्य = अमङ्गलस्य, त्रीणि
मूलानि = लोभमोहद्वेषादि मूलत्रयम्, त्रिभिः = त्रिङ््सङ्ख्याकैः, मोक्षायतनैः = मुक्तिमुखैः,

३६२ सौन्दरनन्दं महाकाव्यम्
अरिः = रिपुः, चमूमुखस्थान् = चम्वाः = सेनायाः, मुखे = आनने, तिष्ठन्तीति तान्,
धृतकार्मुकान् — धृतानि = गृहीतानि, कार्मुकानि = चापानि, यैस्तान् = धनुर्धारिणः,
अरीन् = रिपून्, त्रिभिः = त्रिसङ्ख्याकैः, आयसाग्रैः — अयसः विकारम् आयसम् =
लौहनिर्मितम्, तेषाम् अग्रैः = बाणाग्रभागैः, चकर्त्त = चिच्छेद ॥ ४० ॥
हिन्दी—उस वीर ने तीन (लोभ, द्वेष, मोह) अमंगलमूलक विमोक्ष-आयतनों से
काट डाला, जैसे कोई दुश्मन सेना के अग्रभाग में धनुष लेकर खड़े हुए तीन शत्रुओं
को तीन लोहे के तीरों की नोक से बेध डाला ॥ ४० ॥
स कामधातोः समतिक्रमाय पाष्णिग्रहांस्तानभिभूय शत्रून् ।
योगादनागामिफलं प्रपद्य द्वारीव निर्वाणपुरस्य तस्थौ ॥ ४१ ॥
अन्वयः—सः कामधातोः समतिक्रमाय पाष्णिग्रहान् तान् शत्रून् अभिभूय योगात्
अनागामिफलं प्रपद्य निर्वाणपुरस्य द्वारि इव तस्थौ ॥ ४१ ॥
व्याख्या—सः = नन्दः, कामधातोः = विषयविकारस्य, समतिक्रमाय = अतिक्रमणा-
र्थम्, पाष्णिग्रहान् = पृष्टवर्त्तिनः, तान् = चेतःस्थितान्, शत्रून् = अरीन्, अभिभूय =
पराजित्य, योगात् = योगाभ्यासात्, अनागामिफलम् = तृतीयफलम्, तृतीयफल-
प्राप्यन्तरमस्मिन् लोके पुनरागमनं न भवति। प्रपद्य = प्राप्य, निर्वाणपुरस्य =
मुक्तिनगरस्य, द्वारि = प्रवेशद्वारि, इव = यथा, तस्थौ = स्थितवान् । अस्मिन् श्लोके
रूपकोत्प्रेक्षाऽलङ्कारौ स्तः ॥ ४१ ॥
हिन्दी—कामवासना का अतिक्रमण करने के लिए पीछे से आक्रमण करने वाले
उन शत्रुओं को जीतकर, योग द्वारा अनागामिफल पाकर वह मानो मुक्तिद्वार पर
खड़ा हुआ ॥ ४१ ॥
कामैर्विविक्तं मलिनैश्च धर्मैर्वितर्कवच्चापि विचारवच्च ।
विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥ ४२ ॥
अन्वयः—ततः स कामैः मलिनैः धर्मैश्च विविक्तं वितर्कवत् विचारवत् चापि
विवेकजं प्रीतिसुखोपपन्नं च प्रथमं ध्यानं प्रपेदे ॥ ४२ ॥
व्याख्या—ततः = तदा, सः = नन्दः, कामैः = वासनाभिः, मलिनैः = कलुषैः,
धर्मैश्च = नियमैश्च, विविक्तम् = वियुक्तम्, वितर्कवत् = ऊहनं युक्तम्, विचारवत् =
सङ्कल्पसंयुक्तम्, चापि, विवेकजम् = सदसज्ज्ञानोत्पन्नम्, विवेकस्तु—मिथोव्यावृत्त्या
वस्तुस्वरूपनिश्चयः, प्रीतिसुखोत्पन्नम् = सुखाह्लादजातम्, प्रथमम् = आदिमम्, ध्यानम् =
अनुचिन्तनम्, प्रपेदे = प्राप ॥ ४२ ॥
हिन्दी—तब वह नन्द वासना और अधर्म से रहित वितर्कयुक्त, विचारयुक्त,
विवेकोत्पन्न प्रीति और सुख से युक्त प्रथम ध्यान को प्राप्त किया ॥ ४२ ॥
कामाग्निदाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखादवाप ।
सुखं विगाह्याप्स्विव घर्मखिन्नः प्राप्येव चार्थं विपुलं दरिद्रः ॥ ४३ ॥

अमृताधिगमः ] सप्तदशः सर्गः ३६३
अन्वयः—कामाग्निदाहेन विप्रमुक्तः सः ध्यानसुखात् घर्मखिन्नः अप्सु सुखं विगाह्य
इव दरिद्रः विपुलं च अर्थं प्राप्य इव परम् ह्लादम् अवाप ॥ ४३ ॥
व्याख्या—कामाग्निदाहेन—कामः=मदनः, स एव अग्निः=वह्निः, तस्य दाहः=
तापः, तेन, विप्रमुक्तः=विमुक्तः, सः=नन्दः, ध्यानसुखात्=चित्तनिरोधानन्दात्, घर्म-
खिन्नः—घर्मेण=आतपेन, खिन्नः=क्लेशितः, अप्सु=सलिलेषु, सुखम्=आनन्दम्,
विगाह्य=अवगाहनं कृत्वा, इव=यथा, दरिद्रः=अकिञ्चनः, विपुलञ्च=विशालञ्च,
अर्थम्=सम्पत्, प्राप्य=लब्ध्वा, इव=यथा, परम्=विशिष्टम्, ह्लादम्=आनन्दम्,
अवाप=प्राप ॥ ४३ ॥
हिन्दी—वासनारूपी आग की ज्वाला से मुक्त होकर उसने ध्यानसुख से मिलने
वाले परमानन्द को पाया, जैसे गर्मी से पीड़ित व्यक्ति जल में सुखपूर्वक अवगाहन कर
या दरिद्र व्यक्ति विपुल सम्पदा पाकर परम प्रसन्न होता है ॥ ४३ ॥
तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् ।
बुद्ध्वा मनःक्षोभकरानशान्तांस्तद्विप्रयोगाय मतिं चकार ॥ ४४ ॥
अन्वयः—तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् मनः-
क्षोभकरान् अशान्तान् बुद्ध्वा तद्विप्रयोगाय मतिं चकार ॥ ४४ ॥
व्याख्या—तत्रापि=तस्मिन् स्थानेऽपि, तद्धर्मगतान्=अनेकधर्मसम्बन्धितान्, वित-
र्कान्=अशुभविचारान्, गुणागुणे=गुणदुर्गुणयोश्च, प्रसृतान्=समुत्पन्नान्, विचारान्
=वितर्कान्, मनःक्षोभकरान्=चित्तविक्षुब्धकरान्, अशान्तान्=उद्वेजकान्, बुद्ध्वा=
परिज्ञाय, तद्विप्रयोगाय=पूर्वोक्तविनाशाय, मतिम्=बुद्धिम्, चकार=कृतवान् ॥ ४४ ॥
हिन्दी—वहाँ भी उन विभिन्न धर्मों के सम्बन्ध में होने वाले वितर्क और उनके
गुणावगुणों के सम्बन्ध में उठे हुए विचार मन को क्षुब्ध करने वाले और अशान्तिप्रद
हैं, ऐसा समझकर उसने उसका नाश करने के लिए निश्चय किया ॥ ४४ ॥
क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ।
एकाग्रभूतस्य तथोर्मिभूताश्चित्ताम्भसः क्षोभकरा वितर्काः ॥ ४५ ॥
अन्वयः—यथा हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ऊर्मयः क्षोभं प्रकुर्वन्ति, तथा
एकाग्रभूतस्य चित्ताम्भसः ऊर्मिभूताः वितर्काः क्षोभकराः ॥ ४५ ॥
व्याख्या—यथा=येन रूपेण, हि=यतः, धीरप्रसन्नाम्बुवहस्य—धीरम्=गभी-
रम्, प्रसन्नम्=प्रशान्तम्, च अम्बुवहस्य=सलिलवहस्य, सिन्धोः=सागरस्य, ऊर्मयः
=वीचयः, क्षोभम्=सङ्क्षोभम्, प्रकुर्वन्ति=जनयन्ति, तथा=तेनैव प्रकारेण, एकाग्र-
भूतस्य=संयमितस्य, चित्ताम्भसः=मनःसलिलस्य, ऊर्मिभूताः=वीचिभूताः, वितर्काः
=ऊहापोहाः, क्षोभकराः=क्षोभजनकाः, भवन्ति ॥ ४५ ॥
हिन्दी—जैसे शान्त और निर्मल जल वाला सागर तरङ्गों के उठने से क्षुब्ध हो
जाता है, उसी तरह एकाग्रता प्राप्त चित्तरूपी जल अशुभ विचार रूपी तरंगों के उठने
से क्षुब्ध हो जाता है ॥ ४५ ॥

३६४ सौन्दरनन्दं महाकाव्यम्
खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा सञ्जनयन्ति शब्दाः ।
अध्यात्ममैकाग्र्यमुपागतस्य भवन्ति बाधाय तथा वितर्काः ॥ ४६ ॥
अन्वयः-यथा खिन्नस्य निर्वृतस्य सुप्तस्य च शब्दाः बाधं सञ्जनयन्ति, तथा
अध्यात्मम् ऐकाग्र्यम् उपागतस्य वितर्काः बाधाय भवन्ति ॥ ४६ ॥
व्याख्या-यथा=येन प्रकारेण, खिन्नस्य = विषण्णस्य, निर्वृतस्य = सन्तुष्टस्य,
सुप्तस्य = शयितस्य, च = पुनः, शब्दाः = रवाः, बाधम् = कष्टम्, सञ्जनयन्ति = समु-
त्पादयन्ति, तथा=तेनैव रूपेण, अध्यात्मम् = आध्यात्मिकम्, ऐकाग्र्यम् = एकाग्रचित्ताम्,
उपागतस्य = प्राप्तस्य, वितर्काः = ऊहाः, बाधाय = क्लेशाय, भवन्ति = सन्ति ॥ ४६ ॥
हिन्दी-जैसे थककर सुखपूर्वक सोये हुए व्यक्ति को आवाज सुनकर कष्ट होता
है, उसी तरह आध्यात्मिक एकाग्रता प्राप्त मनुष्य के लिए वितर्क बाधा उत्पन्न
करते हैं ॥ ४६ ॥
अथावितर्कं क्रमशोऽविचारमेकाग्रभावान्मनसः प्रसन्नम् ।
समाधिजं प्रीतिसुखं द्वितीयं ध्यानं तदाध्यात्मशिवं स दध्यौ ॥ ४७ ॥
अन्वयः-अथ तदा सः क्रमशः अवितर्कम् अविचारं मनसः एकाग्रभावात् प्रसन्नं
समाधिजं प्रीतिसुखम् अध्यात्मशिवं द्वितीयं ध्यानं दध्यौ ॥ ४७ ॥
व्याख्या-अथ = अनन्तरम्, तदा=प्रथमध्यानानन्तरम्, सः = नन्दः, क्रमशः = क्रमेण,
अवितर्कम् = वितर्करहितम्, अविचारम् = विचारहीनम्, मनसः = चेतसः, एकाग्र-
भावात् = चित्तैकाग्र्यात्, प्रसन्नम् = प्रमुदितम्, समाधिजम् = अन्तर्ध्यानजातम्, प्रीति-
सुखम् = आनन्दात्मकम्, अध्यात्मशिवम्-आत्मनि इति अध्यात्मम्, तस्य शिवम् =
आत्मिककल्याणमयम्, द्वितीयम् = अपरम्, ध्यानम् = अनुचिन्तनम्, दध्यौ = दधे ।
ध्यानस्य प्रथमभूमेः वर्णनं पूर्वमेव कृतमस्ति । अत्र तु द्वितीयभूमेः वर्णनमस्ति ॥४७॥
हिन्दी-तब वह क्रमशः वितर्करहित, विचारशून्य, मानसिक एकाग्रता के कारण
प्रसन्न, समाधि से उत्पन्न प्रीति सुखवाले, आध्यात्मिक मंगलवाले द्वितीय ध्यान स्तर
को प्राप्त किया ॥ ४७ ॥
तद् ध्यानमागम्य च चित्तमौनं लेभे परां प्रीतिमलब्धपूर्वाम् ।
प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्वभवत् तथैव ॥ ४८ ॥
अन्वयः-सः चित्तमौनं तत् ध्यानं च आगम्य पराम् अलब्धपूर्वां प्रीतिं लेभे, तु
यथा वितर्केषु दोषदर्शी अभवत्, तथैव तत्र प्रीतौ अपि ॥ ४८ ॥
व्याख्या-सः = नन्दः, चित्तमौनम्-चित्तस्य = मनसः, मौनम् = निःशब्दताम्,
यस्मिन् तत्, तत् = पूर्वोक्तम्, ध्यानम् = अनुचिन्तनम्, च = पुनः, आगम्य = प्राप्य,
पराम् = उत्कृष्टांम्, अलब्धपूर्वाम्-न=नहि, लब्धा = प्राप्ता, पूर्वा या सा ताम्, प्रीतिम्
= हर्षम्, लेभे = प्राप, तु = किन्तु, यथा = येन प्रकारेण, वितर्केषु = ऊहापोहेषु, दोषदर्शी
= दुःखद्रष्टा, वितर्केषु द्रष्टायाः प्रथमं ध्यानम्, सवितर्कम्-सविचारयुक्तञ्चासीत्,

अमृताधिगमः ] सप्तदशः सर्गः ३६५
किञ्च तेषामपि मनक्षोभकरत्वेन नन्दः तानपि दोषयुक्तैवाऽमन्यत्, तथैव प्रीतियुक्त-
ध्यानेऽपि सः दोषमपश्यत्, यतः प्रीत्यात्मकवस्तुनः विपर्ययेण दुःखं भवति ॥ ४८ ॥
हिन्दी—तब उन्होंने मानसिक मौनवाले उस ध्यान में आकर उत्तम और अपूर्वं
प्रीति को प्राप्त किया, किन्तु जैसे उन्होंने वितर्कों में दोष देखा वैसे ही प्रीति में भी
दोषों को देखा ॥ ४८ ॥
प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तत्र दुःखम् ।
प्रीतावतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगमुपारुरोह ॥ ४९ ॥
अन्वयः—यत्र हि वस्तुनि यस्य परा प्रीतिः तस्य विपर्ययात् तत्र दुःखं सः अतः
तत्र प्रीतौ दोषान् प्रेक्ष्य प्रीतिक्षये योगम् उपारुरोह ॥ ४९ ॥
व्याख्या—यत्र = यस्मिन् स्थाने, हि = यतः, यस्य = जनस्य, वस्तुनि = यस्मिन्
पदार्थे, परा = उत्कृष्टा, प्रीतिः = आसक्तिः, तत्र तस्य वस्तुनः = विपर्ययात् = विना-
शात्, दुःखम् = क्लेशम्, अतः = तेन हेतुना, तत्र = प्रीतौ, दोषान् = दुःखान्, प्रेक्ष्य =
समवलोक्य, प्रीतिक्षये = आसक्तिविनाशाय, योगम् = चित्तनिरोधम्, उपारुरोह =
उपारुक्षत ॥ ४९ ॥
हिन्दी—क्योंकि जिसे जिस वस्तु में प्रीति होती है उसे उस वस्तु के विनाश
पर कष्ट होता है, अतः प्रीति में भी कष्ट देखकर प्रीति का भी विनाश करने के
लिए वह योगारूढ हुआ ॥ ४९ ॥
प्रीतेर्विरागात् सुखमार्यजुष्टं कायेन विन्दन्नथ सम्प्रजानन् ।
उपेक्षकः स स्मृतिमान् व्यहार्षीद् ध्यानं तृतीयं प्रतिलभ्य धीरः ॥ ५० ॥
अन्वयः—अथ प्रीतेः विरागात् कायेन आर्यजुष्टं सुखं विन्दन् सम्प्रजानन् उपेक्षकः
स्मृतिमान् सः धीरः तृतीयं ध्यानं प्रतिलभ्य व्यहार्षीत् ॥ ५० ॥
व्याख्या—अथ = ततः, प्रीतेः = अनुरक्तेः, विरागात् = वैराग्यात्, कायेन = देहेन,
आर्यजुष्टम् = आर्यैः = श्रेष्ठजनैः, जुष्टम् = सेवितम्, सुखम् = आनन्दम्, विन्दन् = अनु-
भवन्, सम्प्रजानन् = ज्ञानवान्, उपेक्षकः = विरक्तः, स्मृतिमान् = स्मरणयुक्तः, सः =
नन्दः, धीरः = धैर्यशाली, तृतीयम् = अपरकोटिकम्, ध्यानम् = अनुचिन्तनम्, प्रतिलभ्य
= प्राप्य, व्यहार्षीत् = विजहार । तृतीयं ध्यानन्तु त्रिभूमिकमस्ति, अस्यान्तिमो भूमिः
शुभकृत्स्नभूमिरस्ति । द्रष्टव्यः—अभिधर्म० ॥ ५० ॥
हिन्दी--प्रीति से मुक्ति मिलते ही देह से श्रेष्ठ पुरुष-सेवित सुख का अनुभव
करता हुआ; होश, सावधानी और जागरूकता से युक्त होकर तीसरी कोटि के ध्यान
को पाकर वह धैर्य के साथ विहार करने लगा ॥ ५० ॥
यस्मात् परं तत्र सुखं सुखेभ्यस्ततःपरं नास्ति सुखप्रवृत्तिः ।
तस्माद् बभाषे शुभकृत्स्नभूमि परापरज्ञः परमेति मैत्र्या ॥ ५१ ॥
अन्वयः—यस्मात् तत्र सुखं सुखेभ्यः परं ततःपरं सुखप्रवृत्तिः नास्ति, तस्मात्
परापरज्ञः मैत्र्या परमा शुभकृत्स्नभूमिम् इति बभाषे ॥ ५१ ॥
सौ०-27