सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

स्वर्गापवादः ] एकादशः सर्गः २३१
किञ्च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः ।
महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम् ॥ ४८ ॥
अन्वयः-तावत् च राजर्षिभिः असुरैः सुरादिभिः वा किं शतशः महेन्द्राः अपि
पेतुः माहात्म्यं न स्थिरम् ॥ ४८ ॥
व्याख्या-तावच्च = तदा च, राजर्षिभिः = नृपमुनिभिः, असुरैः = दैत्यैः, वा =
अथवा, सुरादिभिः = देवादिभिः, वा = अथवा, किम् = का चर्चा, शतशः = अनेकशः,
महेन्द्राः = इन्द्राः, अपि = चेत्, पेतुः = च्युतोऽभवन्, माहात्म्यम् = गौरवम्, न = नहि,
स्थिरम् = अविचलितम् । न स्वर्गादिसम्पदामपि भोगः स्थिरो भवति । 'क्षीणे पुण्ये
मर्त्यलोकं विशन्ति' ॥ ४८ ॥
हिन्दी-राजर्षि, असुर एवं सुरादिकों का क्या कहना, सैकड़ों इन्द्र भी यहाँ से
च्युत हुए हैं। यहाँ किसी का गौरव स्थिर नहीं है ॥ ४८ ॥
संसदं शोभयित्वैन्द्रीमूपेन्द्रश्चेन्द्रविक्रमः ।
क्षीणकर्मा पपातोर्वी मध्यादप्सरसां रसन् ॥ ४९ ॥
अन्वयः-इन्द्रविक्रमः उपेन्द्रश्च ऐन्द्रीं संसदं शोभयित्वा क्षीणकर्मा अप्सरसां
मध्यात् रसन् उर्वीम् पपात ॥ ४९ ॥
व्याख्या-इन्द्रविक्रमः-इन्द्रस्य = महेन्द्रस्य, विक्रमः = पराक्रमः, इव विक्रमः,
यस्य सः = शचीपतिपराक्रमः, च = पुनः, उपेन्द्रः = भगवान् विष्णुः (विष्णोः पञ्चमा-
वतारः इन्द्रानुजस्वरूपे एवासीत् ।), ऐन्द्रीम् = इन्द्रसम्बन्धिनीम्, संसदम् = समाजम्,
शोभयित्वा = भासयित्वा, क्षीणकर्मा = क्षयङ्गतकर्मा, अप्सरसाम् = दिव्याङ्गनानाम्,
मध्यात् = अन्तरात्, रसन् = क्रन्दन्, उर्वीम् = धराम्, पपात = पतितोऽभवत् ॥ ४९ ॥
हिन्दी-इन्द्र की तरह विक्रमशाली उपेन्द्र, जिसने इन्द्र की सभा को सुशोभित
किया था, अपने कर्मों के क्षीण होने पर बिलखते हुए स्वर्ग से धरती पर आ
गये ॥ ४९ ॥
हा चैत्ररथ ! हा वापि ! हा मन्दाकिनि ! हा प्रिये !
इत्यार्ता विलपन्तोऽपि गां पतन्ति दिवौकसः ॥ ५० ॥
अन्वयः-हा चैत्ररथ ! हा वापि ! हा मन्दाकिनि ! हा प्रिये ! इति विलपन्तम्
आर्त्ताः दिवौकसः अपि गां पतन्ति ॥ ५० ॥
व्याख्या-हा = इति शोकसूचकमव्ययपदम्, चैत्ररथ ! = सम्बोधनपदमिदम्,
चैत्ररथकुबेरोद्यानस्य नाम, वापि ! = वापिके ! मन्दाकिनि ! = आकाशगङ्गे ! प्रिये !
= कान्ते ! इति = इत्थम्, विलपन्तः = रुदन्तः, आर्त्ताः = पीडिताः, दिवौकसः-
दिवम् ओकः येषां ते दिवौकसः = देवाः, गाम् = पृथ्वीम्, पतन्ति = समायान्ति ॥ ५०॥
हिन्दी-हा चैत्ररथ उद्यान ! हाय सरोवर ! हा आकाशगंगे ! हा प्रिये ! यह
कहकर रोते-कलपते देवगण भी धरती पर आते हैं ॥ ५० ॥

२३२ सौन्दरनन्दं महाकाव्यम्
तीव्रं ह्युत्पद्यते दुःखमिह तावन्मुमूर्षताम् ।
किं पुनः पततां स्वर्गादवान्ते सुखसेविनाम् ॥ ५१ ॥
अन्वयः—इह तावत् मुमूर्षतां तीव्रं हि दुःखम् उत्पद्यते, किं पुनः अवान्ते स्वर्गात्
पततां सुखसेविनाम् ? ॥ ५१ ॥
व्याख्या—इह = संसारे, तावत् = तर्हि, मुमूर्षताम् = मृत्युप्राप्तवताम्, तीव्रम् =
प्रचण्डम्, हि = इति निश्चयेन, दुःखम् = कष्टम्, उत्पद्यते = जायते, किं पुनः = पुनः
का वार्त्ता ? अवान्ते = अवसानकाले, स्वर्गात् = देवलोकात्, पतताम् = भ्रंशताम्, सुख-
सेविनाम् = सुखभोगिनाम् इति ॥ ५१ ॥
हिन्दी - धरती पर मरते हुए मनुष्यों को घोर कष्ट होता है, फिर अन्त में स्वर्ग
से गिरने वाले सुखसेवियों के दुःख का क्या ठिकाना ? ॥ ५१ ॥
रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः ।
गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने ॥ ५२ ॥
अन्वयः—वासांसि रजः गृह्णन्ति, परमाः स्रजः म्लायन्ति, गात्रेभ्यः स्वेदः जायते,
असने रतिः न भवति ॥ ५२ ॥
व्याख्या—वासांसि = वस्त्राणि, रजः = धूलिः, गृह्णन्ति = आददति, परमाः =
सर्वोत्कृष्टाः, स्रजः = मालाः, म्लायन्ति = मूर्च्छिता भवन्ति, गात्रेभ्यः = देहेभ्यः, स्वेदः
= प्रस्वेदः, जायते = प्रादुर्भवति, असने = निवसाने, रतिः = प्रीतिः, न भवति = न
जायते ॥ ५२ ॥
हिन्दी-कपड़े धूलि-धूसरित हो जाते हैं, उत्तम मालाएँ सूख जाती हैं, देह से
पसीने चूने लगते हैं और वहाँ रहने की इच्छा नहीं होती ॥ ५२ ॥
एतान्यादौ निमित्तानि च्युतौ स्वर्गाद्दिवौकसाम् ।
अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम् ॥ ५३ ॥
अन्वयः—दिवौकसाम् स्वर्गात् च्युतौ आदौ एतानि निमित्तानि मुमूर्षतां मर्त्यानाम्
अनिष्टानि अरिष्टानि इव ॥ ५३ ॥
व्याख्या—दिवौकसाम् = सुराणाम्, स्वर्गात् = देवलोकात्, च्युतौ = पतिते, आदौ =
प्रथमम्, एतानि = इमानि, निमित्तानि = लक्षणानि, मुमूर्षताम् = मरणासन्नानाम्,
मर्त्यानां = मरणधर्माणाम्, अनिष्टानि = अशुभानि, अरिष्टानि = अपशकुनानि, इव =
यथा, दृश्यते ॥ ५३ ॥
हिन्दी - स्वर्ग से गिरते समय देवलोक निवासियों के ये पूर्वलक्षण देखे जाते हैं,
ठीक उसी तरह जैसे मरणासन्न व्यक्ति के मृत्यु से पूर्व अनिष्ट दर्शन होते हैं ॥ ५३ ॥
सुखमुत्पद्यते यच्च दिवि कामानुपाश्नताम् ।
यच्च दुःखं निपततां दुःखमेव विशिष्यते ॥ ५४ ॥
अन्वयः—दिवि कामानुपाश्नतां यच्च सुखम् उत्पद्यते, निपततां यत् च दुःखं
दुःखमेव विशिष्यते ॥ ५४ ॥

स्वर्गापवादः ] एकादशः सर्गः २३३
व्याख्या—दिवि = देवलोके, कामानुपश्नताम् = विषयोपभोगनिरतानाम्, यच्च,
सुखम् = मुदितम्, उत्पद्यते = जायते, निपतताम् = भ्रंशताम्, यच्च दुःखम् = क्लेशः,
तयोः दुःखमेव = कष्टमेव, विशिष्यते = विशिष्टो भवति ॥ ५४ ॥
हिन्दी—स्वर्ग की कामोपासना में जो सुख मिलता है और स्वर्ग छोड़ने में जो
पीड़ा होती है—दोनों में कष्ट ही विशेष है ॥ ५४ ॥
तस्मादस्वन्तमत्राणमविश्वास्यमतर्पकम् ।
विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु ॥ ५५ ॥
अन्वयः—तस्मात् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकं क्षयिणं स्वर्गं
विज्ञाय अपवर्गे मतिं कुरु ॥ ५५ ॥
व्याख्या—तस्मात् = तेन हेतुना, अस्वन्तम्—शोभनः = शुभकरः, अन्तः = अव-
सानम्, स्वन्तः, न स्वन्तः अस्वन्तम् = अशुभपरिणामकरम्, अत्राणम्—न = नहि,
त्राणः = रक्षणः, अत्राणस्तम् = अरक्षकम्, अविश्वास्यम् = विश्वासविहीनम्, अतर्पकम्
= अतृप्तदायकम्, क्षयिणम् = विनाशिनम्, क्षयः = विनाशः, अस्ति अस्य इति, स्वर्गम्
= अमरपुरम्, विज्ञाय = ज्ञात्वा, अपवर्गे = मोक्षे, मतिम् = बुद्धिम्, कुरु = अनुष्ठीय-
ताम् ॥ ५५ ॥
हिन्दी—इसलिए स्वर्ग परिणाम में अशुभ है वह रक्षा नहीं करता, वह विश्वास
योग्य नहीं है, संतोषदायक नहीं है और वह क्षणिक है—ऐसा जानकर मुक्ति हेतु मन
को लगाओं ॥ ५५ ॥
अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः ।
कर्मणोऽन्ते च्युतस्तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥ ५६ ॥
अन्वयः—अशरीरं भवाग्रं गत्वाऽपि हि मुनिरुद्रकः कर्मणः अन्ते तस्मात् च्युतः
तिर्यग्योनिं प्रपत्स्यते ॥ ५६ ॥
व्याख्या—अशरीरम् = देहरहितम्, भवाग्रम् = संसारश्रेष्ठम्, अरूपलोकम्, गत्वा-
ऽपि = प्राप्योऽपि, हीति निश्चयेन, मुनिरुद्रकः = महर्षिरुद्रकः, कर्मणः = सुकृतीनाम्,
अन्ते = अवसाने सति, तस्मात् = स्वर्गात्, च्युतः = भ्रष्टः सन्, तिर्यग्योनिम् = पक्षि-
योनिम्, प्रपत्स्यते = न्यपतत् ॥ ५६ ॥
हिन्दी—अरूपलोक पाने के बावजूद मुनिरुद्रक अपने पुण्यकर्म के क्षीण होने पर,
वहां से गिरकर पक्षियों की योनि में आये ॥ ५६ ॥
मैत्रया सप्तवार्षिक्या ब्रह्मलोकमितो गतः ।
सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान् ॥ ५७ ॥
अन्वयः—सुनेत्रः सप्तवार्षिक्या मैत्रया इतः ब्रह्मलोकं गतः, पुनः आवृत्तः गर्भवासम्
उपेयिवान् ॥ ५७ ॥
व्याख्या—सुनेत्रः = एतन्नामकः ऋषिः, सप्तवार्षिक्या = सप्तवर्षपर्यन्तम्, मैत्रया =
मैत्रिभावनया स्थित्वाऽपि, इतः = अस्मात् स्थानात्, ब्रह्मलोकम् = भुवनकोषम् गतः =

२३४ सौन्दरनन्दं महाकाव्यम्
प्राप्तः, पुनः = भूयः, पुण्ये क्षीणे सति, आवृत्तः = परिवृत्तः, गर्भवासम् = मातृगर्भे,
उपेयिवान् = प्राप्तवान् ॥ ५७ ॥
हिन्दी—सात साल तक मैत्रीभाव से रहकर सुनेत्र यहाँ से ब्रह्मलोक गया और
पुण्य क्षीण होते ही वहाँ से लौटकर मातृगर्भ में निवास किया ॥ ५७ ॥
यदा चैश्वर्यवन्तोऽपि क्षयिणः स्वर्गवासिनः ।
को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः ॥ ५८ ॥
अन्वयः—यदा च ऐश्वर्यवन्तः स्वर्गवासिनः अपि क्षयिणः को नाम बुधः क्षेष्णवे
स्वर्गवासाय स्पृहयेत् ॥ ५८ ॥
व्याख्या—यदा = यावत्, च = पुनः, ऐश्वर्यवन्तः = विभवशालिनः, स्वर्गवासिनः =
दिवौकसः, अपि, क्षयिणः = अपचयिनः, को नाम = किमर्थम् ? बुधः = बुद्धिमान्,
क्षेष्णवे = क्षयिने, स्वर्गवासाय = दिवि निवासाय, स्पृहयेत् = कामयेत् ॥ ५८ ॥
हिन्दी—जब वैभवशाली स्वर्गवासी भी नष्ट होते हैं, तब फिर कौन बुद्धिमान्
व्यक्ति इस क्षयिष्णु स्वर्ग-निवास की कामना करे, अर्थात् ऐसे भंगुर स्वर्ग की कामना
किसी को नहीं करनी चाहिए ॥ ५८ ॥
सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतोऽपि भूयः ।
अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनरेति लोकः ॥ ५९ ॥
अन्वयः—यथा सूत्रेण बद्धः विहगः दूरगतः अपि हि भूयः व्यावर्तते, तथा अज्ञान-
सूत्रेण बद्धः दूरं गतोऽपि लोकः पुनः एति ॥ ५९ ॥
व्याख्या—यथा = येन प्रकारेण, सूत्रेण = तन्तुना, बद्धः = अवबद्धः, विहगः =
खगः, दूरगतः = अन्तरालेऽपि गतः, हीति निश्चयेन, भूयः = पुनः, व्यावर्तते = परावर्तते,
तथा = तेनैव रूपेण, अज्ञानसूत्रेण = मूर्खत्वरज्जुना, बद्धः = निगडितः, दूरं गतोऽपि =
दूरे व्रजतोऽपि, लोकः = जनः, पुनः = भूयः, एति = आयाति ॥ ५९ ॥
हिन्दी—डोरी से बँधी चिड़ियां जैसे दूर जाकर भी लौट आती है, उसी तरह
मूर्खता रूपी डोरी से बँधा व्यक्ति आगे बढ़कर भी पीछे लौट आता है ॥ ५९ ॥
कृत्वा कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद्
भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद् बन्धनम् ।
तद्वद् द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान्
काले कर्मसु तेषु भुक्तविषयेष्वाकृष्यते गां पुनः ॥ ६० ॥
अन्वयः—यथा कालविलक्षणं कृत्वा प्रतिभुवा बन्धनात् मुक्तः वेश्मसुखानि भुक्त्वा
समयम् अतीत्य भूयः बन्धनं विशेत्, तद्वत् प्रतिभूवदात्मनियमैः ध्यानादिभिः द्यां
प्राप्तवान्, तेषु कर्मसु मुक्तविषयेषु काले पुनः गाम् आकृष्यते ॥ ६० ॥
व्याख्या—यथा = येन प्रकारेण, कालविलक्षणम् = कालस्य = समयस्य, विलक्षणम्
= विशिष्टत्वं वा निश्चियता कृत्वा = सम्पाद्य, प्रतिभुवा = लग्नकेन, बन्धनात् =
प्रतिबन्धात्, मुक्तः = मोचितः, वेश्मसुखानि = सदनानन्दाः, भुक्त्वा = उपभुज्य,

स्वर्गापवादः ] एकादशः सर्गः २३५
समयम् = कालम्, अतीत्य = यापयित्वा, भूयः = पुनः, बन्धनम् = निरोधम्, कारा-
गृहं वा, विशेत् = व्रजेत्, तद्वत् = तेनैव रूपेण, प्रतिभूवद्वा = निक्षेपकर्त्ता, प्रातिभाव्यं
वा, आत्मनियमैः = निजनियन्त्रणैः, ध्यानादिभिः = समाध्यादिभिः, द्याम् = देवलोकम्,
प्राप्तवान् = लब्धवान्, तेषु = पूर्वोक्तेषु, कर्मसु = सुकृतिषु, भुक्तविषयेषु = उपभुक्त-
भोगेषु, काले = समये, पुनः = भूयः, गाम् = उर्व्याम्, आकृष्यते = आकृष्टो भवति ।
हिन्दी—एक निश्चित समय के लिए जमानतदार द्वारा बंदी बन्धन मुक्त होकर
गृहसुख का उपभोग कर पुनः समय बीतने पर बंधन में पड़ जाता है, ठीक उसी
प्रकार ध्यानादि आत्मसंयम रूपी जमानतदार के द्वारा स्वर्ग सुख पाकर और स्वर्ग
विषयक सुख का उपभोग कर पुण्य क्षीण होते ही धरती की ओर खिंच जाता है ॥ ६०॥
अन्तर्जालगताः प्रमत्तमनसो मीनास्तडागे यथा
जानन्ति व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि ।
अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो
मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्तकम् ॥ ६१ ॥
अन्वय

२३६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—तज्जन्मव्याधिमृत्युव्यसनं परिगतम् इदं जगत् संसारे दिवि नृषु नरके
तिर्यक्पितृषु च भ्राम्यमाणं मत्वा यत् त्राणं निर्भयं यत् शिवम् अमरम् अजरं
निःशोकम् अमृतं तद्धेतोः ब्रह्मचर्यं चर, हि चलं स्वर्गं प्रति रुचिं जहि ॥ ६२ ॥
व्याख्या—तत् = तस्मात्, जन्मव्याधिमृत्युव्यसनपरिगतम्—जन्म च = उत्पत्तिश्च,
व्याधिश्च = रोगश्च, मृत्युश्च = मरणञ्च, व्यसनञ्च = विपत्तिश्च, तैः, परिगतम् = परि-
व्याप्तम्, इदम् = एतत्, जगत् = संसारे, दिवि = स्वर्गे, नृषु = मानवयोनिषु, नरके =
अधोलोके, तिर्यक्पितृषु = पशुपक्षिपितृलोकेषु, भ्राम्यमाणम् = परिचरत्, मत्वा = अनु-
भूय, यत् त्राणम् = रक्षणम्, निर्भयम् = अभयम्, यत् शिवम् = कल्याणम्, अमरम् =
अमर्त्यम्, अजरम् = निर्जरम्, निःशोकम् = शोकरहितम्, अमृतम् = मुक्तम्, तद्धेतोः =
तस्मात्कारणात् तदर्थञ्च, ब्रह्मचर्यम् = ब्रह्मचारीव्रतम्, चर = विधेहि, हि = यतः,
चलम् = नश्वरम्, स्वर्गम् = देवलोकं प्रति, रुचिम् = कामनाम्, जहि = परित्यज ॥६२॥
हिन्दी—इस संसार को जन्म, रोग, मृत्यु प्रभृति विपत्तियों से घिरा मानकर
स्वर्ग में, नर्क में, पक्षी और पशुयोनि में, पितृलोक में और संसार में प्राणी घूम रहा
है। और जो रक्षक है, अभय है, मंगलकारी है, अजर-अमर है, शोकरहित है, उसी
के लिए ब्रह्मचर्य का पालन करो और इस चंचल स्वर्ग के प्रति आसक्ति छोड़ो ॥६२॥
सौन्दरनन्द महाकाव्य में 'स्वर्गापवाद' नामक एकादश सर्ग समाप्त ॥ ११ ॥

द्वादशः सर्गः
प्रत्यवमर्शः
श्रद्धा से संयमित पुरुष का जब विवेक जग जाता है ।
मुक्ति-युक्ति में तब चंचल मन शरण्यैक बन जाता है ॥
अप्सरोभृतको धर्मं चरसीत्यथ चोदितः ।
आनन्देन तदा नन्दः परं व्रीडमुपागमत् ॥ १ ॥
अन्वयः—अथ 'अप्सरोभृतको धर्मं चरसि' इति आनन्देन चोदितः तदा नन्दः परं
व्रीडम् उपागतः ॥ १ ॥
व्याख्या—अथ इति सर्गारम्भे, ततः, अप्सरोभृतकः—अप्सरसः = दिव्याङ्गनायाः
भृतकः—भृतम् = पालितम्, उपजीवतीति = जीवनयापनं करोतीति, भृतकः=परिचरः,
दिव्याङ्गनापरिचरो भूत्वा, धर्मम् = परिव्राजकव्रतम्, चरसि = करोसि, इति = अनेन
रूपेण, आनन्देन = दिव्यभिक्षुणा, चोदितः = प्रेरितः, नन्दः = तथागतानुजः, परम् =
अत्यधिकम्, व्रीडम् = लज्जाम्, उपागतः = सम्प्राप्त इति ॥ १ ॥
हिन्दी—तब 'अप्सराओं को पाने के लिए ही तप कर रहे हो' आनन्द के द्वारा
ऐसा कहने पर नन्द अत्यधिक लज्जित हुआ ॥ १ ॥
तस्य व्रीडेन महता प्रमोदो हृदि नाभवत् ।
अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ २ ॥
अन्वयः—महता व्रीडेन तस्य हृदि प्रमोदः न अभवत्, अप्रामोद्येन विमुखं मनः
व्रते न अवतस्थे ॥ २ ॥
व्याख्या—महता = अत्यधिकेन, व्रीडेन = लज्जया, तस्य = नृपनन्दस्य, हृदि =
हृदये, प्रमोदः = हर्षः, न = नहि, अभवत् = बभूव, अप्रामोद्येन—न = नहि, प्रामो-
द्यम् = हर्षम्, तेन = आनन्दाभावेन, विमुखम् = उदासीनम्, मनः = चेतः, व्रते =
नियमे, न = नहि, अवतस्थे = अलग्नत् ॥ २ ॥
हिन्दी—अत्यधिक लज्जा के कारण यह सुनकर तपश्चर्या में उसका मन नहीं
लगा, उसके मन में खुशी नहीं हुई, वह उदास हो गया ॥ २ ॥
कामरागप्रधानोऽपि परिहाससमोऽपि सन् ।
परिपाकगते हेतौ न स तन्ममृषे वचः ॥ ३ ॥
अन्वयः—कामरागप्रधानोऽपि परिहाससमोऽपि सन् हेतौ परिपाकगते सः तद् वचः
न ममृषे ॥ ३ ॥
सौ०-19

२३८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—कामरागप्रधानोऽपि = विषयानुरागमुख्योऽपि, परिहाससमोऽपि=
उपहासचिन्तारहितोऽपि, सन् = भवन्, हेतौ =उपपत्तौ, परिपाकगते = प्रौढ़त्वं प्राप्ते,
सः = असौ, तद्वचः = भिक्षुवाक्यम्, न = नहि, ममृषे = आमर्षत ॥ ३ ॥
हिन्दी—यद्यपि वह वासना-प्रेमी था, लोकापवाद की उसे चिन्ता नहीं थी,
फिर भी उस कथन के अभिप्राय की प्रौढ़ता के कारण आनन्द की बातें वह सह नहीं
सका ॥ ३ ॥
अपरीक्षकभावाच्च पूतं मत्वा दिवं ध्रुवम् ।
तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगमेयिवान् ॥ ४ ॥
अन्वयः—अपरीक्षकभावात् च पूर्वं दिवं ध्रुवं मत्वा तस्मात् क्षेष्णुं परिश्रुत्य भृशं
संवेगम् एयिवान् ॥ ४ ॥
व्याख्या—अपरीक्षकभावात् =सम्यक्परीक्षणाभावात्, च = पुनः, पूर्वम् = प्रथमम्,
दिवम् = देवलोकम्, ध्रुवम् = नित्यम्, मत्वा = परिज्ञाय, तस्मात् = भिक्षु-आनन्दात्,
क्षेष्णुम् = क्षयिष्णुम्, परिश्रुत्य = श्रवणं कृत्वा, भृशम् = अत्यधिकम्, संवेगम् = भयो-
द्वेगम्, एयिवान् = आप्तवान् ॥ ४ ॥
हिन्दी—सही ढंग से परीक्षण नहीं होने के कारण पहले तो उसने स्वर्ग को
अविनाशी समझा, किन्तु आनन्द ने जब उसे समझाया तब उसे अत्यन्त वैराग्य उत्पन्न
हो गया ॥ ४ ॥
तस्य स्वर्गान्निववृते सङ्कल्पाश्वो मनोरथः ।
महारथ इवोन्मार्गादप्रमत्तस्य सारथेः ॥ ५ ॥
अन्वयः—तस्य सङ्कल्पाश्वः मनोरथः स्वर्गात् अप्रमत्तस्य सारथेः महारथः उन्मा-
र्गात् इव निववृते ॥ ५ ॥
व्याख्या—तस्य = बुद्धानुजस्य, सङ्कल्पाश्वः—सङ्कल्पः = निश्चयः, एव अश्वः =
घोटकः, यस्य सः, मनोरथः—मनः = चेतः, एवरथः =स्यन्दनः, यस्य, स्वर्गात् =
देवलोकात्, अप्रमत्तस्य = अवातुलस्य, सारथेः = रथसंवाहकस्य, महारथः = स्यन्दनः,
उन्मार्गात् = कुमार्गात्, इव = यथा, निववृते =न्यवर्त्तत ॥ ५ ॥
हिन्दी—उसका मनोरथ, जिसके घोड़े निश्चय थे, स्वर्ग की ओर से ठीक उसी
तरह लौट गया, जैसे सावधान सारथी का रथ खराब रास्ते से लौट आता है ॥ ५ ॥
स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् ।
मृष्टादपथ्याद् विरतो जिजीविषुरिवातुरः ॥ ६ ॥
अन्वयः—स्वर्गतर्षात् निवृत्तः च मृष्टात् अपथ्यात् विरतः जिजीविषुः आतुरः
इव सद्यः स्वस्थ इव अभवत् ॥ ६ ॥
व्याख्या—स्वर्गतर्षात् = देवलोकाभिलाषायाः, निवृत्तः = विरतः, च = पुनः,
मृष्टात् = रुचिकरात्, अपथ्यात् = अनुपयुक्ताहारात्, विरतः = निरतः, जिजीविषुः—

प्रत्यवमर्शः ] द्वादशः सर्गः २३९
जीवितुम् = जीवोपेतुम्, इच्छा = अभिलापा यस्य, तस्य आतुरः=रोगी, इव=यथा,
सद्यः=तत्क्षणम्, स्वस्थः=निरोगः, इव=यथा, अभवत्=बभूव ॥ ६ ॥
हिन्दी—स्वर्ग की चाह मिटते ही वह तुरन्त ठीक उसी तरह नीरोग हो गया,
जैसे जीने की इच्छा रखनेवाला रोगी स्वादिष्ट कुपथ्य से परहेज कर शीघ्र स्वस्थ हो
जाता है ॥ ६ ॥
विसस्मार प्रियां भार्यामप्सरोदर्शनाद्यथा ।
तथाऽनित्यतयोद्विग्नस्तत्याजाप्सरसोऽपि सः ॥ ७ ॥
अन्वयः—यथा अप्सरोदर्शनात् सः प्रियां भार्याँ विसस्मार तथा अनित्यतया
उद्विग्नः अप्सरसोऽपि तत्याज ॥ ७ ॥
व्याख्या—यथा=येन प्रकारेण, अप्सरोदर्शनात्—अप्सरसाम्=दिव्याङ्गनानाम्,
दर्शनात्=अवलोकनात्, सः=नन्दः, प्रियाम्=कान्ताम्, भार्याम्=पत्नीम्, विस-
स्मार=विस्मृतवान्, तथा=तेनैव रूपेण, अनित्यतया=नश्वरतया, उद्विग्नः=
व्याकुलः, अप्सरसोऽपि=स्वर्वैश्याऽपि, तत्याज=जहौ ॥ ७ ॥
हिन्दी—जैसे प्यारी पत्नी को नन्द अप्सराओं को देखते ही भूल गया था, ठीक
उसी तरह स्वर्गीय वस्तुओं की अनित्यता को जानकर तथा व्यग्र होकर उसने स्वर्ग
की अभिलाषा भी त्याग दी ॥ ७ ॥
महतामपि भूतानामावृत्तिरिति चिन्तयन् ।
संवेगाच्च सरागोऽपि वीतराग इवाभवत् ॥ ८ ॥
अन्वयः—महता अपि भूतानाम् आवृत्तिः इति चिन्तयन् संवेगात् च सरागोऽपि
वीतराग इव अभवत् ॥ ८ ॥
व्याख्या—महतामपि=श्रेष्ठजनानामपि, भूतानाम्=जीवानाम्, आवृत्तिः=
गमनागमनम्, इति=इत्थम्, चिन्तयन्=विचारयन्, संवेगात्=प्रसभेन, च=पुनः,
सरागोऽपि—रागेण=आसक्त्या, सहितः=समन्वितः, वीतराग इव—वीतः=
समाप्तिंगतः, रागः=आसक्तिर्यस्य सः तद्वत्, इवेति सम्भावनायामतः उत्प्रेक्षा-
ऽलङ्कारोऽत्र ॥ ८ ॥
हिन्दी—महापुरुषों को भी इस मर्त्यलोक में लौटना पड़ता है, यह जानकर वह
कुछ सोचने लगा, फिर संवेग के कारण वह कामी होकर भी विरागी जैसा लगने
लगा ॥ ८ ॥
बभूव स हि संवेगः श्रेयसस्तस्य वृद्धये ।
धातुरेधिरिवाख्याते पठितोऽक्षरचिन्तकैः ॥ ९ ॥
अन्वयः—तस्य हि सः संवेगः श्रेयसः वृद्धये अक्षरचिन्तकैः आख्याते पठितः' एधिः
धातुः इव बभूव ॥ ९ ॥
व्याख्या—तस्य=नन्दस्य, हीति निश्चयेन, सः=पूर्वोक्तः, संवेगः=आतुरभयम्,
श्रेयसः=सुकृतेः, वृद्धये=अभिवर्द्धनाय, अक्षरचिन्तकैः=वैयाकरणैः, आख्याते=

२४० सौन्दरनन्दं महाकाव्यम्
धातुप्रकरणे, पठितः = विहितः, एधिः धातुः = एधीत्याख्यो धातुः, इव = यथा, बभूव =
अभवत् । व्याकरणशास्त्रे यस्मिन् प्रकरणे धातुपाठस्य विधानमस्ति तत्प्रकरणन्तु
आख्यातपदेनाख्यातः, आख्यातस्यार्थः धातुरित्यस्ति, एधिधातोरर्थः वृद्धिरित्यस्ति,
एधिधातुरूपस्यार्थे वृद्धित्वेनात्रास्य विशेषसार्थकताऽस्ति । व्याकरणजन्यसटीकोपमानस्य
सुष्ठुयोजनाप्यत्र दर्शनीयाऽस्ति ॥ ९ ॥
हिन्दी—शब्दशास्त्रियों के अनुसार जैसे एधि धातु की धातुरूप में वृद्धि होती
है, उसी तरह उसका संवेग उसके मंगल के लिए सिद्ध हुआ ॥ ९ ॥
न तु कामान्मनस्तस्य केनचिज्जगृहे धृतिः ।
त्रिषु कालेषु सर्वेषु निपातोऽस्तिरिव स्मृतः ॥ १० ॥
अन्वयः—कामात् तस्य मनः तु केनचित् धृतिः न जगृहे, निपातः इव सर्वेषु त्रिषु
कालेषु स्मृतः अस्ति ॥ १० ॥
व्याख्या—कामात् = विषयभोगात्, तस्य = नन्दस्य, मनः = अन्तःकरणम्, तु =
किन्तु, केनचित् = येन केनाऽपि प्रकारेण, धृतिः = धैर्यम्, न = नहि, जगृहे = जग्राह,
निपातः = व्याकरणलक्षणानुपन्नं पदम्, इव = यथा, सर्वेषु = अखिलेषु, त्रिषु = भूत-
भविष्यद्वर्त्तमानेषु, कालेषु = समयेषु, स्मृतः = प्रयुक्तः, अस्तीत्याख्यः । उपमा-
ऽलङ्कारोऽत्र ॥ १० ॥
हिन्दी—जैसे 'अस्ति' निपात का प्रयोग भूत, भविष्य, वर्त्तमान तीनों ही काल
में बतलाया जाता है, उसी तरह उसके रागासक्त मन में किसी भी प्रकार से किसी
भी समय में धीरज नहीं रहा ॥ १० ॥
खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः ।
सोऽभ्यगच्छद् गुरुं काले विवक्षुर्भावमात्मनः ॥ ११ ॥
अन्वयः—सः महाबाहुः खेलगामी गजेन्द्र इव निर्मदः काले आत्मनः भावं विवक्षुः
गुरुम् अभ्यगच्छत् ॥ ११ ॥
व्याख्या—सः = असौ नन्दः, महाबाहुः = महान्तौ = विशालौ, बाहू = भुजौ, यस्य
सः, खेलगामी = खेलया = विलासपूर्वकेन, गच्छति = याति, यः असौ, गजेन्द्रः = गज-
राजः, इव = यथा, निर्मदः = निर्गतः = निःस्रुतः, मदः = दानवारिः, यस्य सः, काले =
यथावसरे, आत्मनः = स्वकीयम्, भावम् = विचारम्, विवक्षुः = वक्तुमिच्छुः, गुरुम् =
बुद्धम्, अभ्यगच्छत् = प्रययौ । उपमाऽलङ्कारः ॥ ११ ॥
हिन्दी—मन्दगामी गजराज की तरह मदमुक्त महाबाहु नन्द अपना अभिप्राय
व्यक्त करने की इच्छा से गुरु के पास गया ॥ ११ ॥
प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।
कृत्वाञ्जलिमुवाचेदं ह्रिया किञ्चिदवाङ्मुखः ॥ १२ ॥
अन्वयः—गुरौ मूर्ध्ना प्रणम्य च बाष्पव्याकुललोचनः अञ्जलिं कृत्वा ह्रिया
किञ्चित् अवाङ्मुखः इदम् उवाच ॥ १२ ॥

'...? No.
Wait, let's look at the line marker prompt:
"Include all Sanskrit karikas, Tamil kurals/meanings, drama dialogues, stage directions, and full Hindi translation/commentary and footnotes. Prefix each line with line marker like , . Output line markers for every line. Do NOT output LaTeX math syntax."

Let's read line by line from L1 to L35 and verify each one:

प्रत्यवमर्शः ] द्वादशः सर्गः २४१
व्याख्या—गुरौ = तथागते, मूर्ध्ना = शिरसा, प्रणम्य = नत्वा, च = पुनः, बाष्प-
व्याकुलोचनः = अश्रुपूरितनयनः, अञ्जलिं कृत्वा = करद्वयं संयोज्य, ह्रिया = लज्जया,
किञ्चित् = किमपि, अवाङ्मुखः = अधोमुखः, इदम् = एतत्, उवाच = अवोचत् ॥१२॥
हिन्दी—नन्द ने नतानन होकर गुरु को प्रणाम किया, उसकी आंखे भर आईं ।
Wait, in L5: "आंखे" or "आंखें"? It is "आंखे" (no bindi on khe in print? Actually, let's look: "आंखे" - wait, there is no bindi on khe, or is there? It looks like "आंख

२४२ सौन्दरनन्दं महाकाव्यम्
हिन्दी- यदि प्रयासपूर्वक इन्द्रियदमन और संयम के द्वारा स्वर्ग पाकर भी लोग
वहाँ से अतृप्त ही धरती पर लौट आते हैं तो ऐसे स्वर्ग को मैं प्रणाम करता हूँ ॥१५॥
अतश्च निखिलं लोकं विदित्वा सचराचरम् ।
सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ॥ १६ ॥
अन्वयः—अतश्च सचराचरं निखिलं लोकं विदित्वा सर्वदुःखक्षयकरे परमे
त्वद्धर्मे रमे ॥ १६ ॥
व्याख्या—अतश्च=अनेन कारणेन च, सचराचरम्=चराचरयुक्तम् (जौन्स्टन-
महोदयस्य पाठे सुचलाचलमस्ति, तदा अतिचञ्चलमर्थो भवति), निखिलं लोकम्=
अखिलभुवनम्, विदित्वा=ज्ञात्वा, सर्वदुःखक्षयकरे=सर्वेषाम्=अखिलानाम्, दुःखा-
नाम्=कष्टानाम्, क्षयकरे=विनाशकरे, त्वद्धर्मे=भवद्धर्मे, रमे=रमणं करोमि ॥१६॥
हिन्दी—अतः चराचर सहित सम्पूर्ण लोक का ज्ञान प्राप्तकर मैं सब दुःखों का
अन्त करनेवाले आपके ही परम धर्म में आनन्द पाता हूँ ॥ १६ ॥
तस्माद् व्याससमासाभ्यां तन्मे व्याख्यातुमर्हसि ।
यच्छ्रुत्वा शृण्वतां श्रेष्ठ परं प्राप्नुयां पदम् ॥ १७ ॥
अन्वयः—श्रेष्ठ ! शृण्वतां तस्मात् व्याससमासाभ्याम् मे तत् व्याख्यातुम् अर्हसि,
यत् श्रुत्वा परं पदं प्राप्नुयाम् ॥ १७ ॥
व्याख्या—हे श्रेष्ठ ! =श्रोतृर्षभ ! शृण्वताम्=आकर्ण्यताम्, तस्मात्=तेन हेतुना,
व्याससमासाभ्याम्=सङ्क्षेपविस्तराभ्याम्, मे=मम, तत् व्याख्यातुम्=कथयि-
तुम्, अर्हसि=योग्योऽसि, यच्छ्रुत्वा=तदाकर्ण्य, परमं पदम्=महत्तमं स्थानम्,
प्राप्नुयाम्=प्राप्तुं शक्नोमि ॥ १७ ॥
हिन्दी—अतः विस्तार और संक्षेप से कृपया मुझे यह बतलावें, जिसे सुनकर हे
श्रोताश्रेष्ठ ! मैं परमपद प्राप्त कर सकूँ ॥ १७ ॥
ततस्तस्याशयं ज्ञात्वा विपक्षाणीन्द्रियाणि च ।
श्रेयश्ञ्चैवामुखीभूतं निजगाद तथागतः ॥ १८ ॥
अन्वयः—ततः तस्य आशयं ज्ञात्वा इन्द्रियाणि विपक्षाणि श्रेयश्च आमुखीभूतं
तथागतः निजगाद ॥ १८ ॥
व्याख्या—ततः=तदनन्तरम्, तस्य=नन्दस्य, आशयम्=अभिप्रायम्, ज्ञात्वा=
परिज्ञाय, इन्द्रियाणि=करणानि, विपक्षाणि=वशीभूतानि, श्रेयश्च=भद्रञ्च, आमुखी-
भूतम्=उपागतम्, तथागतः=बुद्धः, निजगाद=उवाच ॥ १८ ॥
हिन्दी—तब नन्द के अभिप्राय को ठीक से समझकर, उसके इन्द्रियों को नियन्त्रित
एवं उसे कल्याणाभिमुख जानकर तथागत ने उससे कहा ॥ १८ ॥
अहो प्रत्यवमर्शोऽयं श्रेयसस्ते पुरोजवः ।
अरण्यां मथ्यमानायामग्नेर्धूम इवोत्थितः ॥ १९ ॥

प्रत्यवमर्शः ] द्वादशः सर्गः २४३
अन्वयः—अहो ! अयं प्रत्यवमर्शः ते श्रेयसः मध्यमानायाम् अरण्याम् उत्थितः
धूमः अग्नेः इव पुरोजवः ॥ १९ ॥
व्याख्या—अहो = इत्याश्चर्ये मुदे वा, अयम् = एषो जनः, प्रत्यवमर्शः = विवेकः, ते
= तव नन्दस्य, श्रेयसः = माङ्गलिकविधानस्य, मध्यमानायाम् = सङ्घृष्यमाणायाम्,
अरण्याम् = आहवनीयसमिधायाम्, उत्थितः = समुत्पन्नः, धूमः = वह्निलिङ्गम्, अग्नेः
= अनलस्य, इव = यथा, पुरोजवः = अग्रदूतः अस्ति ॥ १९ ॥
हिन्दी—आश्चर्य है, तुम्हारा विवेक तुम्हारे कल्याण का पुरोगामी है, जैसे
अरणियों को रगड़ने से उठा हुआ धुआँ अग्नि का अग्रदूत होता है ॥ १९ ॥
चिरमुन्मार्गविहृतो लोलैरिन्द्रियवाजिभिः ।
अवतीर्णोऽसि पन्थानं दिष्टचा दृष्टचाऽविमूढया ॥ २० ॥
अन्वयः—लोलैः इन्द्रियवाजिभिः चिरम् उन्मार्गविहृतः, दिष्टचा अविमूढया
दृष्टचा पन्थानम् अवतीर्णः असि ॥ २० ॥
व्याख्या—लोलैः = चपलैः, इन्द्रियवाजिभिः = करणाश्वैः, चिरम् = बहुकालम्,
उन्मार्गविहृतः = उन्मार्गे = कुपथे, विहृतः = अपहृतः, दिष्टचा = भाग्येन, पन्थानम् =
सन्मार्गम्, अवतीर्णः = आगतः असि ॥ २० ॥
हिन्दी—चपल इन्द्रियरूपी घोड़ों के द्वारा बहुत दिनों तक कुमार्ग पर तुम
घिसटते रहे, किन्तु अब सौभाग्य से सम्यक् दृष्टि से सन्मार्ग पर आ गये हो ॥२०॥
अद्य ते सफलं जन्म लाभोऽद्य सुमहांस्तव ।
यस्य कामरसज्ञस्य नैष्क्रम्यायोत्सुकं मनः ॥ २१ ॥
अन्वयः—ते जन्म अद्य सफलम्, तव अद्य सुमहान् लाभः, यस्य कामरसज्ञस्य मनः
नैष्क्रम्याय उत्सुकम् ॥ २१ ॥
व्याख्या—ते = भवतः, जन्म = उत्पत्तिः, अद्य = सम्प्रति, सफलम् = सार्थकम्,
तव = नन्दस्य, अद्य = अस्मिन्नेव दिने, सुमहान् = अतिविशिष्टः, लाभः = उपलब्धिः,
यस्य = नन्दस्य, कामरसज्ञस्य = कामस्य = विषयोपभोगस्य, रसः = आस्वादः, तं
जानातीति = अनुभवतीति कामरसज्ञः, तस्य = विषयोपभोगविदस्ते, मनः = मानसः,
नैष्क्रम्याय = वैराग्यलाभाय, उत्सुकम् = सोत्कण्ठमस्ति ॥ २१ ॥
हिन्दी—आज तुम्हारा जन्म सफल हुआ और आज ही तुम्हारा महान्
कल्याण हुआ है क्योंकि तुम्हारा विषयरसभोगी मन आज विरक्ति के लिए उत्कण्ठित
हुआ है ॥ २१ ॥
लोकेऽस्मिन्नालयारामे निवृत्तौ दुर्लभा रतिः ।
व्यथन्ते ह्यपुनर्भावात् प्रपातादिव बालिशाः ॥ २२ ॥
अन्वयः—अस्मिन् आलयारामे लोके निवृत्तौ रतिः दुर्लभाः, हि बालिशा अपुन-
र्भावात् प्रपातात् इव व्यथन्ते ॥ २२ ॥

२४४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—अस्मिन् = इह, आलयारामे—आलयस्य = विषयस्य, आरामः = आनन्दः,
यस्मिन् सः, अर्थात् भोगलीने = भोगासक्ते, भोगानन्देवेति, लोके = संसारे, निवृत्तौ =
मोक्षे, रतिः = अभिरुचिः, दुर्लभाः = दुष्प्राप्या, हि = यतः, बालिशाः = मूर्खाः, अपुन-
र्भवात् = उत्पत्तिविनाशात्, प्रपातात् = गिरिशिखरात्, पर्वतस्य तिग्मोपान्तः, यत्रतः
पतनान्मृत्युभयं भवति तद्वदिति, व्यथन्ते = पीड्यन्ते ॥ २२ ॥
हिन्दी—इस संसार में विषयोपभोग में मस्त रहने वाले लोगों को मुक्ति में अभि-
रुचि हो, यह दुर्लभ हैं; क्योंकि मूर्खजन मुक्ति से उसी तरह डरते हैं—जैसे पहाड़ के
खरे किनारे से गिर रहे हों ॥ २२ ॥
दुःखं न स्यात् सुखं मे स्यादिति प्रयतते जनः ।
अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते ॥ २३ ॥
अन्वयः—मे दुःखं न स्यात्, सुखं स्यात् इति जनः प्रयतते, अत्यन्तदुःखोपरमं
सुखं तच्च न बुध्यते ॥ २३ ॥
व्याख्या—मे = मम, दुःखम् = कष्टम्, न = नहि, स्यात् = भवेत्; सुखम् = आनन्दम्,
स्यात् = भवेत्, इति = इत्थम्, जनः = लोकः, प्रयतते = प्रयासं करोति; अत्यन्तदुःखो-
परमम्—अत्यन्तम् = नितान्तः, दुःखस्य = कष्टस्य, उपरमम् = निवृत्तिः, सुखम् =
आनन्दं भवति; तच्च = सुखस्यैतद्रहस्यञ्च, न = नहि, बुध्यते = जानातीति ॥ २३ ॥
हिन्दी—मुझे दुःख न हो केवल सुख ही हो, इसीलिए मनुष्य सतत प्रयास करता
है । वह यह नहीं जानता कि दुःख का अत्यन्त निरोध ही तो सुख है ॥ २३ ॥
अरिभूतेष्वनित्येषु सततं दुःखहेतुषु ।
कामादिषु जगत्सक्तं न वेत्ति सुखमव्ययम् ॥ २४ ॥
अन्वयः—अरिभूतेषु अनित्येषु दुःखहेतुषु कामादिषु सततं सक्तं जगत् अव्ययं
सुखं न वेत्ति ॥ २४ ॥
व्याख्या—अरिभूतेषु = रिपुभूतेषु, अनित्येषु = नश्वरेषु, दुःखहेतुषु = दुःखानाम् =
कष्टानाम्, हेतुषु = मूलकारणेषु, कामादिषु = भोगविलासादिषु, सततम् = अनवरतम्,
सक्तम् = संलग्नम्, जगत् = संसारः, अव्ययम् = विनाशरहितम्, सुखम् = आनन्दम्,
न = नहि, वेत्ति = जानाति ॥ २४ ॥
हिन्दी—यह संसार सदा ही शत्रुस्वरूप क्षणिक, दुःखजनक विषयभोग में ही लिप्त
रहता है । यह अविनाशी सुख को पहचानता ही नहीं है ॥ २४ ॥
सर्वदुःखापहं तत्तु हस्तस्थममृतं तव ।
विषं पीत्वा यदगदं समये पातुमिच्छसि ॥ २५ ॥
अन्वयः—विषं पीत्वा समये यत् अगदं पातुम् इच्छसि, तत्तु सर्वदुःखापहम् अमृतं
तव हस्तस्थम् ॥ २५ ॥
व्याख्या—विषम् = हालाहलम्, पीत्वा = पानं कृत्वा, समये = यथावसरे, यत्
अगदम् = गरलनिरोधकं भेषजम्, पातुम् = सेवितुम्, इच्छसि = वाञ्छसि; तत्तु,

प्रत्यवमर्शः ] द्वादशः सर्गः २४५
सर्वदुःखापहम् = सर्वाणि = अखिलानि, दुःखानि = सङ्कटानि, अपहन्ति = विनाशयन्ति,
इति तत्, अमृतम् = पीयूषम्, तव = भवतः, हस्तस्थम् = करे तिष्ठतीति ॥ २५ ॥
हिन्दी-जहर पीकर फिर जहर उतारनेवाली औषधि को पीना चाहते हो,
वह सभी दुःखों का विनाशक अमृत तो तुम्हारे हाथ में ही है ॥ २५ ॥
अनर्हसंसारभयं मानाहं ते चिकीर्षितम् ।
रागाग्निस्तादृशो यस्य धर्मोन्मुख पराङ्मुखः ॥ २६ ॥
अन्वयः-धर्मोन्मुख ! यस्य तादृशः रागाग्निः पराङ्मुखः ते अनर्हसंसारभयं
चिकीर्षितं मानाहंम् ॥ २६ ॥
व्याख्या-धर्मोन्मुख ! = हे धर्मोत्कण्ठित ! यस्य = जनस्य, तादृशः = तथाभूतः,
रागाग्निः-रागः = आसक्तिः, एव अग्निः = अनलः, पराङ्मुखः = विमुखः, ते = तव,
अनर्हसंसारभयम्-यः संसारस्य = जगतः, भयस्य = भीतेः, अनर्हः = अनुपयुक्तः,
चिकीर्षितम् = वाञ्छितम्, मानाहंम् = माननीयमस्ति ॥ २६ ॥
हिन्दी-तुम्हारा विचार निश्चय ही सम्मान के योग्य है, क्योंकि इसमें सांमा-
रिक भय के लिए अब कोई जगह नहीं है । हे धर्म की ओर अग्रसर होनेवाले ! तुम्हारी
वह वैसी आसक्ति अब समाप्त हो चुकी है ॥ २६ ॥
रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः ।
सदोषं सलिलं दृष्ट्वा पथिनेव पिपासुना ॥ २७ ॥
अन्वयः-रागोद्दामेन मनसा सदोषं सलिलं दृष्ट्वा पिपासुना पथिना इव धृतिः
सर्वथा दुष्करा ॥ २७ ॥
व्याख्या-रागोद्दामेन-रागेण = आसक्त्या, उद्दामः = निरङ्कुशः, तेन, मनसा
= चेतसा, सदोषम्-दोषेण = कालुष्येण, सहितः = युक्तः, तम् सलिलम् = जलम्,
दृष्ट्वा = अवलोक्य, पिपासुना-पातुमिच्छा पिपासा, तेन पिपासुना = तृषितिच्छुना,
पथिना = पथिकेन, इव = यथा, धृतिः = धैर्यम्, सर्वथा = सर्वतोभावेन, दुष्करा =
दुस्साध्या अस्ति ॥ २७ ॥
हिन्दी-आसक्ति के कारण उच्छृङ्खल मन के लिए धीरज रखना हर तरह से
कठिन है, जैसे गन्दे पानी को देखकर भी प्यासे आदमी को रोकना कठिन है ॥२७॥
ईदृशी नाम बुद्धिस्ते निरुद्धा रजसाऽभवत् ।
रजसा चण्डवातेन विवस्वत इव प्रभा ॥ २८ ॥
अन्वयः-चण्डवातेन रजसा विवस्वतः प्रभा इव ते ईदृशी नाम बुद्धिः रजसा
निरुद्धा अभवत् ॥ २८ ॥
व्याख्या-चण्डवातेन = प्रचण्डानिलेन, रजसा = धूलिकणेन, विवस्वतः = दिवा-
करस्य, प्रभा = कान्तिः, इव = यथा, ते = तव, ईदृशी = एतादृशी, नाम = अभिधेयम्,
बुद्धिः = मतिः, रजसा = रजोगुणेन, निरुद्धा = अवरुद्धा, अभवत् = बभूवेति ॥ २८ ॥

२४६ सौन्दरनन्द महाकाव्यम्
हिन्दी—आँधी की तरह धूल से जैसे सूर्य की कान्ति छिपी रहती है, उसी तरह
तुम्हारी यह निर्मल बुद्धि भी रजोगुण से ढँकी हुई थी ॥ २८ ॥
सा जिघांसुस्तमो हार्दं या सम्प्रति विजृम्भते ।
तमो नैशं प्रभा सौरी विनिगीर्णेव मेरुणा ॥ २९ ॥
अन्वयः—सम्प्रति या विजृम्भते सा हार्दं तमः मेरुणा विनिगीर्णा सौरी प्रभा
नैशं तमः इव जिघांसुः ॥ २९ ॥
व्याख्या—सम्प्रति = अद्य, या = बुद्धिः, विजृम्भते = परितः प्रसरति, सा = मतिः,
हार्दम् = हृदयगतम्, तमः = अज्ञानान्धकारम्, मेरुणा = सुमेरुपर्वतेन, विनिगीर्णा =
विनिःसृता, सौरी = सूर्यसम्बन्धिनी, प्रभा = द्युतिः, नैशम् = रात्रिगतम्, तमः = तमिस्रा,
इव = यथा, जिघांसुः = हन्तुमिच्छुः, अस्ति ॥ २९ ॥
हिन्दी—उदयाचल से निकली सूर्य की प्रभा जैसे रात का अन्धकार दूर कर देती
है, उसी तरह तुम्हारी यह बुद्धि, जो अभी विकसित हो रही है, तुम्हारे हृदय में
स्थित अज्ञानरूपी अन्धकार को नष्ट कर रही है ॥ २९ ॥
युक्तरूपमिदं चैव शुद्धसत्त्वस्य चेतसः ।
यत्ते स्यान्नैष्ठिके सूक्ष्मे श्रेयसि श्रद्दधानता ॥ ३० ॥
अन्वयः—ते शुद्धसत्त्वस्य चेतसः इदञ्च युक्तरूपम् एव यत् सूक्ष्मे नैष्ठिके श्रेयसि
श्रद्दधानता स्यात् ॥ ३० ॥
व्याख्या—ते = तव, शुद्धसत्त्वस्य—शुद्धम् = पवित्रम्, सत्त्वम् = आत्मा, यस्य सः
तस्य, चेतसः = चित्तस्य, इदञ्च = एतच्च, युक्तरूपम् = उपयुक्तस्वरूपम्, एवास्ति, यत्
सूक्ष्मे = अस्थूले, नैष्ठिके = निश्चयात्मके, श्रेयसि = कल्याणे, श्रद्दधानता = श्रद्धावती,
स्यात् = भवेत् ॥ ३० ॥
हिन्दी—तुम्हारे जैसे पवित्र हृदयवाले व्यक्ति के अनुकूल ही यह प्रस्ताव है,
अतिसूक्ष्म और नैष्ठिक कल्याण में अब तुम्हारी आस्था जाग्रत हुई है ॥ ३० ॥
धर्मच्छन्दमिमं तस्माद्विवर्धयितुमर्हसि ।
सर्वधर्मा हि धर्मज्ञ नियमाच्छन्दहेतवः ॥ ३१ ॥
अन्वयः—धर्मज्ञ ! तस्मात् इमं धर्मच्छन्दं विवर्धयितुम् अर्हसि, हि नियमाच्छन्द-
हेतवः सर्वधर्माः सन्ति ॥ ३१ ॥
व्याख्या—धर्मज्ञ ! = हे धर्मवित् ! तस्मात् = तस्माद्धेतोः, इमम् = अमुम्, धर्मच्छन्दम्
= पुण्येच्छाम्, विवर्धयितुम् = वर्द्धनार्थम्, अर्हसि = योग्योऽसि, हि = यतः, नियमा-
च्छन्दहेतवः—नियमश्च = नियोगश्च, आं च्छन्दश्च = इच्छा च, हेतूः = कारणे, येषां ते,
सर्वधर्माः = अखिलधर्माः सन्तीति ॥ ३१ ॥
हिन्दी—हे धर्म को जाननेवाले ! तुम्हें धर्म की इच्छा को बढाना चाहिए, क्योंकि
यही इच्छा सभी धर्मों का कारण है ॥ ३१ ॥

प्रत्यवमर्शः ] द्वादशः सर्गः २४७
सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।
शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ ३२ ॥
अन्वयः—गमनबुद्धौ हि सत्यां गमनाय प्रवर्त्तते, शय्याबुद्धौ च शयनं तथा स्थान-
बुद्धौ स्थितिः ॥ ३२ ॥
व्याख्या—गमनबुद्धौ = चलनमतौ, हि = यतः, सत्याम् = भवत्याम्, गमनाय =
प्रव्रजनाय, प्रवर्त्तते = सन्नद्धो भवति, शय्याबुद्धौ = स्वापबुद्धौ, च = पुनः, शयनम् =
सुप्तिं करोतीति, तथा = तेनैव प्रकारेण, स्थानबुद्धौ = स्थिरमत्याम्, स्थितिः = तिष्ठतीति
भावः ॥ ३२ ॥
हिन्दी—क्योंकि चलने की इच्छा होने पर मनुष्य चलने में प्रवृत्त होता है, सोने
की बुद्धि होने पर सोता है और खड़ा होने की इच्छा पर खड़ा होता है ॥ ३२ ॥
अन्तर्भूमिगतं ह्यम्भः श्रद्दधाति नरो यदा ।
अर्थित्वे सति यत्नेन तदा खनति गामिमाम् ॥ ३३ ॥
अन्वयः—अन्तर्भूमिगतं हि अम्भः यदा नरः श्रद्दधाति तदा अर्थित्वे सति यत्नेन
इमां गां खनति ॥ ३३ ॥
व्याख्या—अन्तर्भूमिगतम् = पृथिवीगर्भस्थम्, हि = यतः, अम्भः = जलम्, यदा
= यस्मिन् काले, नरः = मानवः, श्रद्दधाति = निष्ठां करोति, तदा = तस्मिन् काले,
अर्थित्वे = आवश्यकतायाम्, सति = भवति, यत्नेन = प्रयासपूर्वकेन, इमाम् = एषाम्,
गाम् = धरित्रीम्, खनति = खननं करोति ॥ ३३ ॥
हिन्दी—धरती के नीचे पानी है, जब मनुष्य को यह विश्वास हो जाय तो जरूरत
पड़ने पर प्रयासपूर्वक खोदकर पानी निकाल लेता है ॥ ३३ ॥
नार्थी यद्यग्निना वा स्याच्छ्रद्दध्यात्तं न वारणौ ।
मथ्नीयान्नारणिं कश्चित्तद्भावे सति मथ्यते ॥ ३४ ॥
अन्वयः—यदि वा अग्निना अर्थो न स्यात् अरणौ वा, तं न श्रद्दध्यात् कश्चित्
अरणिं न मथ्नीयात्, तद्भावे सति मथ्यते ॥ ३४ ॥
व्याख्या—यदि = चेत्, वा = अथवा, अग्निना = अनलेन, अर्थः = प्रयोजनम्, न
नहि, स्यात् = भवेत्, अरणौ = अग्निप्रज्वालककाष्ठे, वा = अथवा, तम् = वह्निम्, न =
नहि, श्रद्दध्यात् = विश्वसेत्, कश्चित् = कोऽपि, अरणिम् = तत्काष्ठम्, न = नहि, मथ्नी-
यात् = घर्षेत्, तद्भावे सति = तस्य यदा प्रयोजनं भवति, तदा मथ्यते = घृष्यते ॥३४॥
हिन्दी—यदि आग की जरूरत न हो अथवा अरणि में आग है, यह विश्वास न
हो तो कोई भी व्यक्ति उस काठ को नहीं घिसेगा, किन्तु जब उसकी जरूरत होती है
तब घिसते ही है ॥ ३४ ॥
सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ ।
अर्थी सस्येन वा न स्याद् बीजानि न वपेद् भुवि ॥ ३५ ॥

२४८ सौन्दरनन्द महाकाव्यम्
अन्वयः—यदि वा कार्षकः क्षितौ सस्योत्पत्तिं न श्रद्दध्यात्, सस्येन अर्थी वा न
स्यात्, भुवि बीजानि न वपेत् ॥ ३५ ॥
व्याख्या—यदि = चेत्, वा = अथवा, कार्षकः = कृषकः, क्षितौ = पृथिव्याम्, सस्यो-
त्पत्तिम् = अन्नोत्पत्तिम्, न = नहि, श्रद्दध्यात् = विश्वसेत्, सस्येन = अन्नेन, अर्थी =
प्रयोजनम्, वा = अथवा, न = नहि, स्यात् = भवेत्, भुवि = पृथिव्याम्, बीजानि =
सस्यबीजानि, न वपेत् = न क्षिपेत् ॥ ३५ ॥
हिन्दी—धरती से अन्न की उत्पत्ति होगी, यदि यह विश्वास किसान को न हो
या यदि उसे अन्न की आवश्यकता न हो, तो वह धरती में बीज नही बोएगा ॥३५॥
अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः ।
यस्माद् गृह्णाति सद्धर्मं दायं हस्त इवाक्षतः ॥ ३६ ॥
अन्वयः—यतः हस्तः दायं गृह्णाति, यथा श्रद्धा सद्धर्मं गृह्णाति, अतश्च मया
श्रद्धा विशेषतः हस्त इत्युक्ता ॥ ३६ ॥
व्याख्या—यतः = यस्मात् कारणात्, हस्तः = करः, दायम् = दानम्, गृह्णाति =
ग्रहणं करोति, यथा = येन प्रकारेण, श्रद्धा = भक्तिः, सद्धर्मम् = सद्व्रतम्, गृह्णाति
= स्वीकरोति, अतश्च = अस्माद्धेतोश्च, मया = तथागतेन, श्रद्धा = निष्ठा, विशेषतः
= विशिष्टरूपेण, हस्त इति = कर इति, उक्ता = कथितेति ॥ ३६ ॥
हिन्दी—जैसे हाथ दान लेता है, वैसे ही श्रद्धा सद्धर्म को स्वीकार करती है;
इसीलिए मैंने श्रद्धा को विशेषरूप से हाथ कहा है ॥ ३६ ॥
प्राधान्यादिन्द्रियमिति स्थिरत्वाद् बलमित्यतः ।
गुणदारिद्र्यशमनाद्धनमित्यभिवर्णिता ॥ ३७ ॥
अन्वयः—अतः प्राधान्यात् इन्द्रियम् इति, स्थिरत्वात् बलम् इति, गुणदारिद्र्य-
शमनात् धनम् इति अभिवर्णिता ॥ ३७ ॥
व्याख्या—अतः = अस्मात् कारणात्, प्राधान्यात् = उत्तमत्वात्, इन्द्रियम् = कर-
णम् इति, स्थिरत्वात् = अचलत्वात्, बलम् = वीर्यम् इति, गुणदारिद्र्यशमनात् =
गुणकार्पण्यविनाशात्, धनमिति = सम्पदिति, अभिवर्णिता = कथिताऽस्ति ॥ ३७ ॥
हिन्दी—प्रधान होने के कारण इस श्रद्धा को इन्द्रिय, स्थिर होने के कारण इसे
बल और गुणों की दरिद्रता दूर करने के कारण इसे धन कहा गया है ॥ ३७ ॥
रक्षणार्थेन धर्मस्य तथेषीकेत्युदाहृता ।
लोकेऽस्मिन् दुर्लभत्वाच्च रत्नमित्यभिभाषिता ॥ ३८ ॥
अन्वयः—तथा धर्मस्य रक्षणार्थेन ईषीका इत्युदाहृता, अस्मिन् लोके दुर्लभत्वात्
च रत्नम् इत्यभिभाषिता ॥ ३८ ॥
व्याख्या—तथा = तेनैव प्रकारेण, धर्मस्य = सुकृतेः, रक्षणार्थेन = परित्राणार्थेन,
ईषीका = अस्त्रविशेषः, इत्युदाहृता = इत्यभिहिता, अस्मिन् = इह, लोके = संसारे,

प्रत्यवमर्शः ] द्वादशः सर्गः २४९
दुर्लभत्वात् = दुष्प्राप्तत्वात्, च = पुनः, रत्नम् = एतदाख्यम् इति, अभिभाषिता =
कथितेति ॥ ३८ ॥
हिन्दी—इसी तरह धर्म की रक्षा कर सकने के कारण इसे 'ईषिका' नामक अस्त्र
विशेष तथा संसार में दुर्लभ होने के कारण इसे रत्न कहा गया है ॥ ३८ ॥
पुनश्च बीजमित्युक्ता निमित्तं श्रेयसो यदा ।
पावनार्थेन पापस्य नदीत्यभिहिता पुनः ॥ ३९ ॥
अन्वयः—पुनश्च यदा श्रेयसः निमित्तं तदा बीजम् इति उक्ता, पुनः पापस्य
पावनार्थेन नदी इति अभिहिता ॥ ३९ ॥
व्याख्या—पुनश्च = भूयश्च, यदा=यस्मिन् काले, श्रेयसः = कल्याणस्य, निमित्तम् =
मूलकारणम्, तदा = तेनैव कारणेन, बीजम् = कारणम्, इति = इत्थम्, उक्ता = कथिता,
पुनः = भूयः, पापस्य = अधर्मस्य, पावनार्थेन = पवित्रकरणेन, नदी = तीर्थः, इति =
एवम्, अभिहिता = कथितेति ॥ ३९ ॥
हिन्दी—और फिर, कल्याण का निमित्त होने के कारण बीज तथा पाप को
पवित्र करने के कारण इसे तीर्थ कहा गया है ॥ ३९ ॥
यस्माद्धर्मस्य चोत्पत्तौ श्रद्धा कारणमुत्तमम् ।
मयोक्ता कार्यतस्तस्मात् तत्र तत्र तथा तथा ॥ ४० ॥
अन्वयः—यस्मात् च धर्मस्य उत्पत्तौ श्रद्धा उत्तमं कारणं, तस्मात् कार्यतः तत्र
तत्र तथा तथा मया उक्ता ॥ ४० ॥
व्याख्या—यस्मात् = येन हेतुना, धर्मस्य = सुकृतेः, उत्पत्तौ = अभिजनने, श्रद्धा =
निष्ठा, उत्तमम् = श्रेष्ठम्, कारणम् = हेतुः, तस्मात् = तेनैव कारणेन, कार्यतः = कर्मा-
नुसारम्, तत्र तत्र = विविधप्रकरणे, तथा तथा = अनेकप्रकारेण, मया = बुद्धेन, उक्ता =
कथिता ॥ ४० ॥
हिन्दी—क्योंकि धर्म की उत्पत्ति में श्रद्धा उत्तम कारण है, इसीलिए मैंने इसके
काम के अनुसार इसके उपर्युक्त नाम दिये हैं ॥ ४० ॥
श्रद्धाङ्कुरमिमं तस्मात् संवर्धयितुमर्हसि ।
तद्वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ ४१ ॥
अन्वयः—तस्मात् इमं श्रद्धाङ्कुरं संवर्धयितुम् अर्हसि, तत् वृद्धौ धर्मः वर्धते यथा
मूलवृद्धौ द्रुमः ॥ ४१ ॥
व्याख्या—तस्मात् = तेन हेतुना, इमम् = अमुम्, श्रद्धाङ्कुरम्—श्रद्धायाः =
निष्ठायाः, अङ्कुरम् = प्ररोहम्, संवर्द्धयितुम् = सर्वतोभावेन वर्द्धयितुम्, अर्हसि =
योग्योऽसि, तद् = निष्ठा, वृद्धौ = वर्द्धने, धर्मः = सुकृतिः, वर्धते = वृद्धि याति, यथा =
येन प्रकारेण, मूलवृद्धौ = बुध्नवर्द्धने, द्रुमः = वृक्षः वर्धते ॥ ४१ ॥
हिन्दी—श्रद्धा के इस अंकुर को तुम्हें बढ़ाना चाहिए, क्योंकि इसके बढ़ने से
धर्म उसी तरह बढ़ता है, जैसे जड़ के बढ़ने से पेड़ ॥ ४१ ॥

२५० सौन्दरनन्दं महाकाव्यम्
व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।
तस्य पारिप्लवा श्रद्धा न हि कृत्याय वर्तते ॥ ४२ ॥
अन्वयः—दर्शनं यस्य व्याकुलं निश्चयः यस्य दुर्बलः तस्य पारिप्लवा श्रद्धा कृत्याय
नहि वर्त्तते ॥ ४२ ॥
व्याख्या—यस्य = पुरुषस्य, दर्शनम् = चिन्तनम्, व्याकुलम् = विकलम्, निश्चयः =
दृढसङ्कल्पः, यस्य = जनस्य, दुर्बलः = निर्बलः, तस्य = लोकस्य, पारिप्लवा = चञ्चला,
श्रद्धा = निष्ठा, कृत्याय = मनोरथसिद्धये, नहि = न, वर्त्तते = अस्ति ॥ ४२ ॥
हिन्दी—जिसके विचार आकुल है और जिसका संकल्प दुर्बल है, उसकी चंचल
श्रद्धा मनोरथ सिद्धि के लिए नहीं है ॥ ४२ ॥
यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा
तावच्छ्रद्धा न भवति बलस्था स्थिरा वा ।
दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य
श्रद्धावृक्षो भवति सफलश्चाश्रयश्च ॥ ४३ ॥
सौन्दरनन्दे महाकाव्ये प्रत्यवमर्शो नाम द्वादशः सर्गः ॥ १२ ॥
अन्वयः—यावत् हि तत्त्वं दृष्टं श्रुतं वा न भवति, तावत् श्रद्धा बलस्था स्थिरा वा
नं भवति, तत्त्वे दृष्टे नियमपरिभूतेन्द्रियस्य श्रद्धा वृक्षः सफलश्च आश्रयश्च
भवति ॥ ४३ ॥
व्याख्या—यावत् = यावत्कालपर्यन्तम्, हि = इति निश्चयेन, तत्त्वम् = मूलकार-
णम्, दृष्टम् = ईक्षितम्, श्रुतम् = निशान्तम्, वा = अथवा, न = नहि, भवति = अस्ति,
तावत् = तावत्कालपर्यन्तम्, श्रद्धा = आत्मनिष्ठा, वलस्था = बले तिष्ठतीति बलस्था =
बलवती, स्थिरा = निश्चला, वा = अथवा, न भवति = न वर्त्तते, तत्त्वे = यथार्थे,
दृष्टे = बिलोकिते, नियमपरिभूतेन्द्रियस्य = नियमेन = संयमेन, परिभूतानि = परा-
जितानि, इन्द्रियाणि = करणानि, येन सः तस्य, श्रद्धावृक्षः = निष्ठातरुः, सफलश्च =
फलेन = प्रसवेन, सहितः = युक्तश्च, आश्रयश्च = शरणञ्च, भवति = जायते । भगवता
बुद्धेन पूर्वोक्तेन त्रयोदशसु श्लोकेषु श्रद्धायाः महत्त्वं प्रतिपादितम्, इमानेव सर्वेषां
धर्माणां मूलकारणं कथितम् ॥ ४३ ॥
हिन्दी—जब तक मनुष्य इस परम तत्त्व को देख अथवा सुन नहीं लेता है, तब
तक श्रद्धा शक्तिशालिनी अथवा स्थिर नहीं होती है, संयम से इन्द्रियों को जीतकर
जिस तत्त्व का दर्शन होता है, उस श्रद्धा का पेड़ सुन्दर फल और शरण देता है ॥४३॥
सौन्दरनन्द महाकाव्य में 'विवेक' नामक द्वादश सर्ग समाप्त ॥ १२ ॥