सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 292, कुल 496 में से
संदर्भ में पढ़ें२३८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—कामरागप्रधानोऽपि = विषयानुरागमुख्योऽपि, परिहाससमोऽपि=
उपहासचिन्तारहितोऽपि, सन् = भवन्, हेतौ =उपपत्तौ, परिपाकगते = प्रौढ़त्वं प्राप्ते,
सः = असौ, तद्वचः = भिक्षुवाक्यम्, न = नहि, ममृषे = आमर्षत ॥ ३ ॥
हिन्दी—यद्यपि वह वासना-प्रेमी था, लोकापवाद की उसे चिन्ता नहीं थी,
फिर भी उस कथन के अभिप्राय की प्रौढ़ता के कारण आनन्द की बातें वह सह नहीं
सका ॥ ३ ॥
अपरीक्षकभावाच्च पूतं मत्वा दिवं ध्रुवम् ।
तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगमेयिवान् ॥ ४ ॥
अन्वयः—अपरीक्षकभावात् च पूर्वं दिवं ध्रुवं मत्वा तस्मात् क्षेष्णुं परिश्रुत्य भृशं
संवेगम् एयिवान् ॥ ४ ॥
व्याख्या—अपरीक्षकभावात् =सम्यक्परीक्षणाभावात्, च = पुनः, पूर्वम् = प्रथमम्,
दिवम् = देवलोकम्, ध्रुवम् = नित्यम्, मत्वा = परिज्ञाय, तस्मात् = भिक्षु-आनन्दात्,
क्षेष्णुम् = क्षयिष्णुम्, परिश्रुत्य = श्रवणं कृत्वा, भृशम् = अत्यधिकम्, संवेगम् = भयो-
द्वेगम्, एयिवान् = आप्तवान् ॥ ४ ॥
हिन्दी—सही ढंग से परीक्षण नहीं होने के कारण पहले तो उसने स्वर्ग को
अविनाशी समझा, किन्तु आनन्द ने जब उसे समझाया तब उसे अत्यन्त वैराग्य उत्पन्न
हो गया ॥ ४ ॥
तस्य स्वर्गान्निववृते सङ्कल्पाश्वो मनोरथः ।
महारथ इवोन्मार्गादप्रमत्तस्य सारथेः ॥ ५ ॥
अन्वयः—तस्य सङ्कल्पाश्वः मनोरथः स्वर्गात् अप्रमत्तस्य सारथेः महारथः उन्मा-
र्गात् इव निववृते ॥ ५ ॥
व्याख्या—तस्य = बुद्धानुजस्य, सङ्कल्पाश्वः—सङ्कल्पः = निश्चयः, एव अश्वः =
घोटकः, यस्य सः, मनोरथः—मनः = चेतः, एवरथः =स्यन्दनः, यस्य, स्वर्गात् =
देवलोकात्, अप्रमत्तस्य = अवातुलस्य, सारथेः = रथसंवाहकस्य, महारथः = स्यन्दनः,
उन्मार्गात् = कुमार्गात्, इव = यथा, निववृते =न्यवर्त्तत ॥ ५ ॥
हिन्दी—उसका मनोरथ, जिसके घोड़े निश्चय थे, स्वर्ग की ओर से ठीक उसी
तरह लौट गया, जैसे सावधान सारथी का रथ खराब रास्ते से लौट आता है ॥ ५ ॥
स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् ।
मृष्टादपथ्याद् विरतो जिजीविषुरिवातुरः ॥ ६ ॥
अन्वयः—स्वर्गतर्षात् निवृत्तः च मृष्टात् अपथ्यात् विरतः जिजीविषुः आतुरः
इव सद्यः स्वस्थ इव अभवत् ॥ ६ ॥
व्याख्या—स्वर्गतर्षात् = देवलोकाभिलाषायाः, निवृत्तः = विरतः, च = पुनः,
मृष्टात् = रुचिकरात्, अपथ्यात् = अनुपयुक्ताहारात्, विरतः = निरतः, जिजीविषुः—