सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 294, कुल 496 में से
संदर्भ में पढ़ें२४० सौन्दरनन्दं महाकाव्यम्
धातुप्रकरणे, पठितः = विहितः, एधिः धातुः = एधीत्याख्यो धातुः, इव = यथा, बभूव =
अभवत् । व्याकरणशास्त्रे यस्मिन् प्रकरणे धातुपाठस्य विधानमस्ति तत्प्रकरणन्तु
आख्यातपदेनाख्यातः, आख्यातस्यार्थः धातुरित्यस्ति, एधिधातोरर्थः वृद्धिरित्यस्ति,
एधिधातुरूपस्यार्थे वृद्धित्वेनात्रास्य विशेषसार्थकताऽस्ति । व्याकरणजन्यसटीकोपमानस्य
सुष्ठुयोजनाप्यत्र दर्शनीयाऽस्ति ॥ ९ ॥
हिन्दी—शब्दशास्त्रियों के अनुसार जैसे एधि धातु की धातुरूप में वृद्धि होती
है, उसी तरह उसका संवेग उसके मंगल के लिए सिद्ध हुआ ॥ ९ ॥
न तु कामान्मनस्तस्य केनचिज्जगृहे धृतिः ।
त्रिषु कालेषु सर्वेषु निपातोऽस्तिरिव स्मृतः ॥ १० ॥
अन्वयः—कामात् तस्य मनः तु केनचित् धृतिः न जगृहे, निपातः इव सर्वेषु त्रिषु
कालेषु स्मृतः अस्ति ॥ १० ॥
व्याख्या—कामात् = विषयभोगात्, तस्य = नन्दस्य, मनः = अन्तःकरणम्, तु =
किन्तु, केनचित् = येन केनाऽपि प्रकारेण, धृतिः = धैर्यम्, न = नहि, जगृहे = जग्राह,
निपातः = व्याकरणलक्षणानुपन्नं पदम्, इव = यथा, सर्वेषु = अखिलेषु, त्रिषु = भूत-
भविष्यद्वर्त्तमानेषु, कालेषु = समयेषु, स्मृतः = प्रयुक्तः, अस्तीत्याख्यः । उपमा-
ऽलङ्कारोऽत्र ॥ १० ॥
हिन्दी—जैसे 'अस्ति' निपात का प्रयोग भूत, भविष्य, वर्त्तमान तीनों ही काल
में बतलाया जाता है, उसी तरह उसके रागासक्त मन में किसी भी प्रकार से किसी
भी समय में धीरज नहीं रहा ॥ १० ॥
खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः ।
सोऽभ्यगच्छद् गुरुं काले विवक्षुर्भावमात्मनः ॥ ११ ॥
अन्वयः—सः महाबाहुः खेलगामी गजेन्द्र इव निर्मदः काले आत्मनः भावं विवक्षुः
गुरुम् अभ्यगच्छत् ॥ ११ ॥
व्याख्या—सः = असौ नन्दः, महाबाहुः = महान्तौ = विशालौ, बाहू = भुजौ, यस्य
सः, खेलगामी = खेलया = विलासपूर्वकेन, गच्छति = याति, यः असौ, गजेन्द्रः = गज-
राजः, इव = यथा, निर्मदः = निर्गतः = निःस्रुतः, मदः = दानवारिः, यस्य सः, काले =
यथावसरे, आत्मनः = स्वकीयम्, भावम् = विचारम्, विवक्षुः = वक्तुमिच्छुः, गुरुम् =
बुद्धम्, अभ्यगच्छत् = प्रययौ । उपमाऽलङ्कारः ॥ ११ ॥
हिन्दी—मन्दगामी गजराज की तरह मदमुक्त महाबाहु नन्द अपना अभिप्राय
व्यक्त करने की इच्छा से गुरु के पास गया ॥ ११ ॥
प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।
कृत्वाञ्जलिमुवाचेदं ह्रिया किञ्चिदवाङ्मुखः ॥ १२ ॥
अन्वयः—गुरौ मूर्ध्ना प्रणम्य च बाष्पव्याकुललोचनः अञ्जलिं कृत्वा ह्रिया
किञ्चित् अवाङ्मुखः इदम् उवाच ॥ १२ ॥