सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 285, कुल 496 में से
संदर्भ में पढ़ेंस्वर्गापवादः ] एकादशः सर्गः २३१
किञ्च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः ।
महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम् ॥ ४८ ॥
अन्वयः-तावत् च राजर्षिभिः असुरैः सुरादिभिः वा किं शतशः महेन्द्राः अपि
पेतुः माहात्म्यं न स्थिरम् ॥ ४८ ॥
व्याख्या-तावच्च = तदा च, राजर्षिभिः = नृपमुनिभिः, असुरैः = दैत्यैः, वा =
अथवा, सुरादिभिः = देवादिभिः, वा = अथवा, किम् = का चर्चा, शतशः = अनेकशः,
महेन्द्राः = इन्द्राः, अपि = चेत्, पेतुः = च्युतोऽभवन्, माहात्म्यम् = गौरवम्, न = नहि,
स्थिरम् = अविचलितम् । न स्वर्गादिसम्पदामपि भोगः स्थिरो भवति । 'क्षीणे पुण्ये
मर्त्यलोकं विशन्ति' ॥ ४८ ॥
हिन्दी-राजर्षि, असुर एवं सुरादिकों का क्या कहना, सैकड़ों इन्द्र भी यहाँ से
च्युत हुए हैं। यहाँ किसी का गौरव स्थिर नहीं है ॥ ४८ ॥
संसदं शोभयित्वैन्द्रीमूपेन्द्रश्चेन्द्रविक्रमः ।
क्षीणकर्मा पपातोर्वी मध्यादप्सरसां रसन् ॥ ४९ ॥
अन्वयः-इन्द्रविक्रमः उपेन्द्रश्च ऐन्द्रीं संसदं शोभयित्वा क्षीणकर्मा अप्सरसां
मध्यात् रसन् उर्वीम् पपात ॥ ४९ ॥
व्याख्या-इन्द्रविक्रमः-इन्द्रस्य = महेन्द्रस्य, विक्रमः = पराक्रमः, इव विक्रमः,
यस्य सः = शचीपतिपराक्रमः, च = पुनः, उपेन्द्रः = भगवान् विष्णुः (विष्णोः पञ्चमा-
वतारः इन्द्रानुजस्वरूपे एवासीत् ।), ऐन्द्रीम् = इन्द्रसम्बन्धिनीम्, संसदम् = समाजम्,
शोभयित्वा = भासयित्वा, क्षीणकर्मा = क्षयङ्गतकर्मा, अप्सरसाम् = दिव्याङ्गनानाम्,
मध्यात् = अन्तरात्, रसन् = क्रन्दन्, उर्वीम् = धराम्, पपात = पतितोऽभवत् ॥ ४९ ॥
हिन्दी-इन्द्र की तरह विक्रमशाली उपेन्द्र, जिसने इन्द्र की सभा को सुशोभित
किया था, अपने कर्मों के क्षीण होने पर बिलखते हुए स्वर्ग से धरती पर आ
गये ॥ ४९ ॥
हा चैत्ररथ ! हा वापि ! हा मन्दाकिनि ! हा प्रिये !
इत्यार्ता विलपन्तोऽपि गां पतन्ति दिवौकसः ॥ ५० ॥
अन्वयः-हा चैत्ररथ ! हा वापि ! हा मन्दाकिनि ! हा प्रिये ! इति विलपन्तम्
आर्त्ताः दिवौकसः अपि गां पतन्ति ॥ ५० ॥
व्याख्या-हा = इति शोकसूचकमव्ययपदम्, चैत्ररथ ! = सम्बोधनपदमिदम्,
चैत्ररथकुबेरोद्यानस्य नाम, वापि ! = वापिके ! मन्दाकिनि ! = आकाशगङ्गे ! प्रिये !
= कान्ते ! इति = इत्थम्, विलपन्तः = रुदन्तः, आर्त्ताः = पीडिताः, दिवौकसः-
दिवम् ओकः येषां ते दिवौकसः = देवाः, गाम् = पृथ्वीम्, पतन्ति = समायान्ति ॥ ५०॥
हिन्दी-हा चैत्ररथ उद्यान ! हाय सरोवर ! हा आकाशगंगे ! हा प्रिये ! यह
कहकर रोते-कलपते देवगण भी धरती पर आते हैं ॥ ५० ॥