सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
२१८ सौन्दरनन्दं महाकाव्यम्
आयतेन = विस्तृतेन, नियमेन = नियोगेन, च = पुनः, परम् = अत्यधिकम्, वैरूप्यम्—
विरूपस्य भावः वैरूप्यम् = कुदर्शनम्, अगमत् = अगच्छत् ॥ ६ ॥
हिन्दी—स्वभाव से मनोहर होने के बावजूद अप्सराओं की चिन्ता एवं नियम ने
उसे अत्यधिक कुदर्शन बना डाला ॥ ६ ॥
प्रस्तावेष्वपि भार्यायां प्रियभार्यस्तथापि सः ।
वीतराग इवातस्थौ न जहर्ष न चुक्षुभे ॥ ७ ॥
अन्वयः—सः प्रियभार्यः तथाऽपि भार्यायां प्रस्तावेषु अपि वीतराग इव आतस्थौ,
न जहर्ष न चुक्षुभे ॥ ७ ॥
व्याख्या—सः=नन्दः, प्रियभार्यः—प्रिया = प्रेमवती, भार्या = पत्नी, यस्य सः,
तथापि = तदपि, भार्यायाम् = कान्तायाम्, प्रस्तावेष्वपि = विषयेष्वपि, वीतराग इव =
अनासक्तवत्, आतस्थौ = आतिष्ठत्, न जहर्ष = न प्रसन्नोऽभवत्, न चुक्षुभे = न तु
क्षुब्धोऽभवत् ॥ ७ ॥
हिन्दी—यद्यपि वह अपनी पत्नी को उतना अधिक चाहता था, फिर भी उसके
विषय में अब वह अनासक्त की तरह स्थिर रहता था, उसकी चर्चा में न तो उसे
हर्ष होता था और न क्षोभ ही ॥ ७ ॥
तं व्यवस्थितमाज्ञाय भार्यारागात् पराङ्मुखम् ।
अभिगम्याब्रवीन्नन्दमानन्दः प्रणयादिदम् ॥ ८ ॥
अन्वयः—नन्दं भार्यानुरागात् आनन्दः पराङ्मुखं व्यवस्थितम् आज्ञाय तम्
अभिगम्य प्रणयात् इदम् अब्रवीत् ॥ ८ ॥
व्याख्या—नन्दम् = नृपनन्दम्, भार्यानुरागात् = कान्ताप्रेम्णः, आनन्दः = एतदाख्यः
प्रधानभिक्षुः, पराङ्मुखम् = विरक्तम्, व्यवस्थितम् = स्थिरम्, आज्ञाय = परिज्ञाय,
तम् = नन्दम्, अभिगम्य = समीपं गत्वा, प्रणयात् = स्नेहात्, इदम् = एतत्, अब्रवीत् =
अकथयत् ॥ ८ ॥
हिन्दी—नन्द को भार्या के प्रति विमुख एवं व्यवस्थित समझकर आनन्द ने उसके
पास जाकर स्नेहपूर्वक कहा ॥ ८ ॥
अहो सदृशमारब्धं श्रुतस्याभिजनस्य च ।
निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ ९ ॥
अन्वयः—अहो ! निगृहीतेन्द्रियः स्वस्थः यदि च नियमे संस्थितः श्रुतस्य अभिजन-
स्य च सदृशम् आरब्धम् ॥ ९ ॥
व्याख्या—अहो !=इति विस्मयें, निगृहीतेन्द्रियः =नियन्त्रितकरणः, स्वस्थः = सुस्थः,
यदि = चेत्, च =पुनः, नियमे = संयमे, संस्थितः = सन्निविष्टः, श्रुतस्य = शास्त्रस्य,
अभिजनस्य = वंशस्य, च =पुनः, सदृशम् = तुल्यम्, आरब्धम् = प्रारम्भः कृतः ॥९॥
स्वर्गापवादः ] एकादशः सर्गः २१९
हिन्दी—आश्चर्य है ! तुम इन्द्रिय-निग्रह कर स्वस्थ हो चुके हो, साथ ही नियम-
पालन में स्थिर हो, यह तुमने अपने कुल एवं मर्यादा के अनुकूल प्रारम्भ किया
है ॥ ९ ॥
अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः ।
यदिदं संविदुत्पन्ना नेयमल्पेन हेतुना ॥ १० ॥
अन्वयः—कामेषु अभिष्वक्तस्य रागिणः, विषयात्मनः यत् इयं संविद् उत्पन्नाः
तदियम् अल्पेन हेतुना न ॥ १० ॥
व्याख्या—कामेषु = विषयेषु, अभिष्वक्तस्य = आसक्तेः, रागिणः = विषयाभिला-
षिणः, विषयात्मनः = कामात्मनः, यत् इयम् = एषा, संविद् = प्रज्ञा, उत्पन्नाः = समु-
द्भूताः, इयम् = एषा, अल्पेन = तुच्छेन, हेतुना = कारणेन, न = नहि ॥ १० ॥
हिन्दी—कामासक्त, रागी और विषयी व्यक्ति में ऐसी प्रज्ञा की उत्पत्ति निश्चय
ही किसी सामान्य कारण से नहीं हो सकती है ॥ १० ॥
व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते ।
प्रबलः प्रबलैरेव यत्नैर्नश्यति वा न वा ॥ ११ ॥
अन्वयः—मृदुः व्याधिः अल्पेन यत्नेन प्रतिनिवार्यते, प्रबलः प्रबलैः एव यत्नैः
नश्यति वा न वा ॥ ११ ॥
व्याख्या—मृदुः = सामान्यः, व्याधिः = रोगः, अल्पेन = तुच्छेन, यत्नेन = प्रयासेन,
प्रतिनिवार्यते = वार्यते, प्रबलः = असामान्यव्याधिः, प्रबलैः = शक्तिसम्पन्नैः, एव =
केवलम्, यत्नैः = प्रयत्नैः, नश्यति = विनष्टो भवति, वा न वा = किं वा निवारयितुं
न शक्यते ॥ ११ ॥
हिन्दी—साधारण बीमारी तो अल्प प्रयास से भी छूट जाती है, किन्तु असाधारण
बीमारी पर्याप्त प्रयास करने पर भी कभी छूटती है और कभी नहीं ॥ ११ ॥
दुहँरो मानसो व्याधिर्बलवांश्च तवाभवत् ।
विनिवृत्तो यदि ते सर्वथा धृतिमानसि ॥ १२ ॥
अन्वयः—तव मानसः व्याधिः बलवान् दुर्हरः च अभवत्, यदि ते सर्वथा विनिवृत्तः
धृतिमान् असि ॥ १२ ॥
व्याख्या—तव = भवतः, मानसः = मानसिकः, व्याधिः = रोगः, बलवान् = शक्ति-
शाली, च = पुनः, दुर्हरः—दुःखेन = कष्टेन, हर्तुम् = विनाशयितुम्, शक्यः = समर्थः,
अभवत् = बभूव, यदि = चेत्, ते = तव, सर्वथा = सर्वतोभावेन, विनिवृत्तः = विनष्टो-
ऽभूत्, तर्हि त्वम्, धृतिमान् = धैर्यशाली, असि = विद्यते ॥ १२ ॥
हिन्दी—तुम्हारा मानसिक रोग शक्तिशाली एवं दुःसाध्य था; यदि ( वह वास्तव
में ) नष्ट हो गया है तो तुम सब तरह से धैर्यशाली हो ॥ १२ ॥
दुष्करं साध्वनार्येण मानिना चैव मार्दवम् ।
अतिसर्गश्च लुब्धेन ब्रह्मचर्यं च रागिणा ॥ १३ ॥
२२० सौन्दरनन्दं महाकाव्यम्
अन्वयः—अनार्येण साधु मानिना चैव मार्दवं लुब्धेन च अतिसर्गः रागिणा च
ब्रह्मचर्यं दुष्करम् ॥ १३ ॥
व्याख्या —अनार्येण = खलेन, साधु = सुकर्म, मानिना = अभिमानिना, चैव,
मार्दवम् = मञ्जुला, लुब्धेन = मुग्धेन, च = पुनः, अतिसर्गः = दानम्, रागिणा = अभि-
मतविषयाभिलाषिणा, च = पुनः, ब्रह्मचर्यम् = धार्मिकशिष्यवृत्तिः, दुष्करम् = दुःसाध्यं
भवति ॥ १३ ॥
हिन्दी—असाधु से साधुकार्य कठिन है, अभिमानी से मृदुल व्यवहार, लोभी से
दान और कामी से ब्रह्मचर्य दुष्कर है ॥ १३ ॥
एकस्तु मम सन्देहस्तवास्यां नियमे धृतौ ।
अत्रानुनयमिच्छामि वक्तव्यं यदि मन्यसे ॥ १४ ॥
अन्वयः—अस्यां तव धृतौ नियमे मम एकस्तु सन्देहः, यदि वक्तव्यं मन्यसे अत्र
अनुनयम् इच्छामि ॥
स्वर्गापवादः ] एकादशः सर्गः २२१
प्रियहितम् = इष्टहितकरम्, तु = प्रायः, पथ्यम् = आरोग्यावहम्, स्वादु = स्वादिष्टम्,
औषधम् = भेषजम्, इव = सदृशम्, दुर्लभम् = दुष्प्राप्यं भवति ॥ १६ ॥
हिन्दी—हितकारी अप्रिय बातें स्निग्ध होती हैं। अहितकारी प्रिय बातें अस्निग्ध
होती हैं। प्रिय और हितकारी बातें दुर्लभ होती हैं, जैसे औषधि स्वादिष्ट और रोग
निवारक भी हो -- ऐसी दुर्लभ होती है ॥ १६ ॥
विश्वासश्चार्थचर्या च सामान्यं सुखदुःखयोः ।
मर्षणं प्रणयश्चैव मित्रवृत्तिरियं सताम् ॥ १७ ॥
अन्वयः—विश्वासः अर्थचर्या च सुखदुःखयोः च सामान्यं मर्षणञ्च प्रणयश्च इयम्
एव सतां भिन्नवृत्तिः ॥ १७ ॥
व्याख्या—विश्वासः = प्रत्ययः, अर्थचर्या = उपकारः, च = पुनः, सुखदुःखयोः =
हर्षकष्टयोः, च = पुनः, सामान्यम् = साधारणम्, मर्षणञ्च = क्षमा च, प्रणयश्च =
प्रीतिश्च, इयम् = एषा, एव = केवलम्, सताम् = सज्जनानाम्, मित्रवृत्तिः = मैत्र्य-
मस्ति ॥ १७ ॥
हिन्दी—विश्वास, उपकार, सुख-दुःख में समान भाव, क्षमा और प्रेम—यही तो
सज्जनों की मैत्री है ॥ १७ ॥
तदिदं त्वां विवक्षामि प्रणयान्न जिघांसया ।
त्वच्छ्रेयो विवक्षा मे यतो नार्हाम्युपेक्षितुम् ॥ १८ ॥
अन्वयः—तत् त्वाम् इदं प्रणयात् न जिघांसया विवक्षामि, हि त्वच्छ्रेयः मे
विवक्षा यतः उपेक्षितुं न अर्हामि ॥ १८ ॥
व्याख्या—तत् = तस्माद्धेतोः, त्वम् = नन्दम्, इदम् = एतत्, प्रणयात् = अनुरागात्,
न = नहि, जिघांसया = हन्तुमिच्छया, विवक्षामि = वक्तुमिच्छामि, हि = यतः,
त्वच्छ्रेयः = त्वन्मङ्गलम्, मे = आनन्दस्य, विवक्षा = वक्तुमिच्छा, यतः = यस्माद्धेतोः,
उपेक्षितुम् = अवधीरयितुम्, न = नहि, अर्हामि = समर्थोऽस्मि ॥ १८ ॥
हिन्दी—तुम्हारे विनाश के लिए नहीं, प्रत्युत तुम्हारे स्नेह से तुम्हारे कल्याण
की बात मैं तुम से कहना चाहता हूँ, क्योंकि मैं इसकी अवहेलना नहीं कर
सकता ॥ १८ ॥
अप्सरोभृतको धर्मं चरसीत्यभिधीयसे ।
किमिदं भूतमाहोस्वित् परिहासोऽयमीदृशः ॥ १९ ॥
अन्वयः—अप्सरोभृतकः धर्मं चरसि इति अभिधीयसे, किमिदं भूतम् आहोस्वित्
अयम् ईदृशः परिहासः ? ॥ १९ ॥
व्याख्या—अप्सरोभृतकः—अप्सरसः = देवाङ्गनायाः, भृतकः—भृतमुपजीवतीति
भृतकः = सेवकः, धर्मम् = शुभकर्म, चरसि = आचरसि, इति = इत्थम्, अभिधीयसे =
सौ०-18
२२२ सौन्दरनन्दं महाकाव्यम्
कथ्यसे, किमिति प्रश्ने, इदम् = एतत्, सत्यम् = ऋतम्, आहोस्वित्, अयम् = एषः,
ईदृशः = एतादृशः, परिहासः = उपहासः ॥ १९ ॥
हिन्दी—अप्सराओं को पाने के लिए ही यह तपस्या कर रहा है, तुम्हारे बारे में
लोग ऐसा कहते हैं। क्या यह सच है या परिहास है ? ॥ १९ ॥
यदि तावदिदं सत्यं वक्ष्याम्यत्र यदौषधम् ।
औद्धत्यमथ वक्तॄणामभिधास्यामि तद्रजः ॥ २० ॥
अन्वयः—यदि इदं सत्यं तावत् अत्र औषधं वक्ष्यामि, अथ यदा वक्तॄणाम् औद्धत्यं
तद्रजः अभिधास्यामि ॥ २० ॥
व्याख्या—यदि = चेत्, इदम् = एतत्, सत्यम् = यथार्थम्, तावत् = तर्हि, अत्र =
अस्मिन् प्रसङ्गे, औषधम् = भेषजम्, वक्ष्यामि = कथयिष्यामि, अथ = अनन्तरम्, यदा
= यस्मिन् काले, वक्तॄणाम् = उपदेशकानाम्, औद्धत्यम् = प्रचण्डत्वम्, तद्रजः =
तद्दुर्गुणः, कथयिष्यामि = वक्ष्यामि ॥ २० ॥
हिन्दी—यदि वास्तव में यह सच है, तो मैं इसकी औषधि बतलाऊँगा । अगर
कहने वालों की धृष्टता है, तो मैं उनका दुर्गुण बतलाऊँगा ॥ २० ॥
श्लक्ष्णपूर्वमथो तेन हृदि सोऽभिहतस्तदा ।
ध्यात्वा दीर्घं निशश्वास किञ्चिच्चावाङ्मुखोऽभवत् ॥ २१ ॥
अन्वयः—अथ तदा तेन सः हृदि श्लक्ष्णपूर्वकम् अभिहतः ध्यात्वा दीर्घं निशश्वास
किञ्चित् अवाङ्मुखश्च अभवत् ॥ २१ ॥
व्याख्या—अथ = अनन्तरम्, तदा = तस्मिन् काले, तेन = आनन्देन, सः = नन्दः,
हृदि = मनसि, श्लक्ष्णपूर्वकम् = कोमलतापूर्वकम्, अभिहतः = आहतः, ध्यात्वा =
ध्यानं कृत्वा, दीर्घम् = उच्छ्रितम्, निशश्वास = उच्छ्वस्य, किञ्चित् = स्वल्पम्,
अवाङ्मुखश्च = नताननश्च, अभवत् = बभूवेति ॥ २१ ॥
हिन्दी—इस तरह उस भिक्षु ने भद्रतापूर्वक जब नन्द के हृदय पर चोट की,
तब उसने कुछ सोचकर अपना सिर झुका लिया ॥ २१ ॥
ततस्तस्येङ्गितं ज्ञात्वा मनःसङ्कल्पसूचकम् ।
बभाषे वाक्यमानन्दो मधुरोदर्कमप्रियम् ॥ २२ ॥
अन्वयः—ततः मनःसङ्कल्पसूचकं तस्य इङ्गितं ज्ञात्वा आनन्दः मधुरोदर्कम्
अप्रियं वाक्यं बभाषे ॥ २२ ॥
व्याख्या—ततः = तदनन्तरम्, मनःसङ्कल्पसूचकम्—मनसः=चित्तस्य, सङ्कल्पम् =
निश्चयम्, सूचयति = विज्ञापयति इति, तस्य = नन्दस्य, ज्ञात्वा = अवगम्य, आनन्दः =
प्रधानभिक्षुः, मधुरोदर्कम्—मधुरम् = मञ्जुलम्, उदर्कम् = भावीफलम्, यस्य तत्,
अप्रियम् = अरुचिकरम्, वाक्यम् = वचनम्, बभाषे = जगाद ॥ २२ ॥
स्वर्गापवादः ] एकादशः सर्गः २२३
हिन्दी—इसके बाद उसके मन के निश्चय को व्यक्त करने वाले संकेत को समझ
कर आनन्द ने अप्रिय किन्तु परिणाम-सुखद बातें उससे कहीं ॥ २२ ॥
आकारेणावगच्छामि तव धर्मप्रयोजनम् ।
यज्ज्ञात्वा त्वयि जातं मे हास्यं कारुण्यमेव च ॥ २३ ॥
अन्वयः—आकारेण एव तव धर्मप्रयोजनम् अवगच्छामि, यत् ज्ञात्वा त्वयि मे
हास्यं कारुण्यम् एव च जातम् ॥ २३ ॥
व्याख्या—आकारेण एव=स्वरूपेणैव, तव=भवतः, धर्मप्रयोजनम्=परिव्रज्या-
ऽर्थः, अवगच्छामि=जानामि, यज्ज्ञात्वा=यदवगम्य, त्वयि=तवोपरि, मे=मम,
हास्यम्=हसनम्, च=पुनः, कारुण्यम्=दया, एव, जातम्=समुत्पन्नम् । तपः-
प्रयोजनं तु केवलवासनासम्पूत्ति एव, तेन हि नन्दो हास्यकारुण्यस्य च पात्र
एवेति ॥ २३ ॥
हिन्दी—तुम्हारी आकृति से ही तुम्हारे तप का प्रयोजन जानकर मुझे तुम पर
हँसी भी आती है और दया भी ॥ २३ ॥
यथासनार्थं स्कन्धेन कश्चिद्गुर्वीं शिलां वहेत् ।
तद्वत् त्वमपि कामार्थं नियमं वोढुमुद्यतः ॥ २४ ॥
अन्वयः—यथा कश्चित् आसनार्थं स्कन्धेन गुर्वी शिलां वहेत्, तद्वत् त्वमपि
कामार्थं नियमं वोढुम् उद्यतः ( असि ) ॥ २४ ॥
व्याख्या—यथा=येन प्रकारेण, कश्चित्=कोऽपि, आसनार्थम्=उपवेशनार्थम्,
स्कन्धेन=अंसेन, गुर्वीम्=दुर्वहः, शिलाम्=प्रस्तरखण्डम्, वहेत्=धारयेत्, तद्वत्=
तथैव, त्वमपि=नन्दोऽपि, कामार्थम्=वासनापूर्त्यर्थम्, नियमम्=व्रतादिकम्, वोढुम्=
वहनं कर्त्तम्, उद्यतः=सन्नद्धोऽसि ॥ २४ ॥
हिन्दी—जैसे कोई बैठने के लिए कन्धे पर भारी पत्थर के टुकड़े को ढोये, उसी
तरह तुच्छ वासना की पूर्त्ति हेतु तुमने तप का आयोजन किया है ॥ २४ ॥
तिताडयिषया दृप्तो यथा मेषोऽपसर्पति ।
तद्वदब्रह्मचर्याय ब्रह्मचर्यमिदं तव ॥ २५ ॥
अन्वयः—यथा दृप्तः मेषः तिताडयिषया अपसर्पति, तद्वत् तव इदं ब्रह्मचर्यम्
अब्रह्मचर्याय ॥ २५ ॥
व्याख्या—यथा=येन रूपेण, दृप्तः=सदर्पः, मेषः=भेडकः, तिताडयिषया=
प्रहर्तुमिच्छया, अपसर्पति=पश्चाद्गामी भवति, तद्वत्=तेनैव प्रकारेण, तव=भवतः,
इदम्=एतत्, ब्रह्मचर्यम्=अष्टाङ्गमैथुनप्रतिषेधः, अब्रह्मचर्याय=ब्रह्मचर्यविहीनाय
एवास्ति ॥ २५ ॥
हिन्दी—जैसे गर्वीली भेंड किसी पर प्रहार करने के पूर्व पीछे हटती है, उसी
तरह तुम्हारा यह ब्रह्मचर्य-धारण कामोपभोग के लिए ही तो है ॥ २५ ॥
२२४ सौन्दरनन्दं महाकाव्यम्
चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया ।
धर्मचर्या तव तथा पण्यभूता न शान्तये ॥ २६ ॥
अन्वयः—यथा वणिजः लाभलिप्सया पण्यं चिक्रीषन्ति, तथा तव पण्यभूता धर्म-
चर्या शान्तये न ॥ २६ ॥
व्याख्या—यथा = येन प्रकारेण, वणिजः = व्यापारिणः, लाभलिप्सया—लाभस्य =
अवाप्तेः, लिप्सा = लोलुपता तया, पण्यम् = विक्रेयवस्तु, विक्रेयबुद्ध्या आपणे यत्प्र-
सारितं तत्पण्यम्, चिक्रीषन्ति = क्रेतुमिच्छन्ति, तथा = तेनैव प्रकारेण, तव = भवतः,
पण्यभूता—पण्यमिव भूता पण्यभूता = विक्रेयवस्तुस्वरूपम्, धर्मचर्या = धार्मिककृत्यम्,
शान्तये = शान्तिलाभाय, न = नहि भवति। लोभमोहग्रस्तास्तपस्विनः कदाचिदपि
शान्तिं न लभन्ते ॥ २६ ॥
हिन्दी—जैसे कोई बनियां लाभ की लालसा से बेचने वाली वस्तु को खरीदना
चाहता है, उसी तरह तुम्हारा यह तप भी बिकाऊ है, इससे तुम्हें शान्ति नहीं मिल
सकती है ॥ २६ ॥
यथा फलविशेषार्थं बीजं वपति कार्षकः ।
तद्वद्विषयकार्पण्याद्विषयांस्त्यक्तवानसि ॥ २७ ॥
अन्वयः—यथा फलविशेषार्थं कार्षकः बीजं वपति, तद्वत् विषयकार्पण्यात् विषयान्
त्यक्तवान् असि ॥ २७ ॥
व्याख्या—यथा = येन प्रकारेण, फलविशेषार्थम् = अधिकफललाभाय, कार्षकः =
कृषकः, बीजम् = बीजकम्, वपति = क्षेत्रे निक्षिपति, तद्वत् = तेनैव प्रकारेण, विषय-
कार्पण्यात्—विषयस्य = वासनायाः, कार्पण्यम् = दैन्यम्, तस्मात्, विषयान् = विषयो-
पभोगान्, त्यक्तवान् = उज्झितवान्, असि = भवसि ॥ २७ ॥
हिन्दी—जैसे एक बीज से अनेक फल पाने के लाभ हेतु किसान खेत में बीज
बोता है, ठीक उसी तरह विषयाभिलाषी होकर ही तुमने विषयों का परित्याग किया
है ॥ २७ ॥
आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेप्सया ।
दुःखमन्विच्छति भवांस्तथा विषयतृष्णया ॥ २८ ॥
अन्वयः—यथा च प्रतीकारसुखेप्सया रोगम् आकाङ्क्षेत्, तथा भवान् विषयतृष्णया
दुःखम् अन्विच्छति ॥ २८ ॥
व्याख्या—यथा = येन प्रकारेण, च = पुनः, प्रतीकारसुखेप्सया—प्रतीकारस्य =
उपचारस्य, सुखम् = आनन्दम्, तस्य इच्छया = वाञ्छया, रोगम् = गदम्, आकाङ्क्षेत् =
अभिलषेत्, तथा = तेनैव रूपेण, भवान् = त्वम्, विषयतृष्णया = विषयभोगेच्छया,
दुःखम् = कष्टम्, अन्विच्छति = अन्वेषणं करोति ॥ २८ ॥
हिन्दी—जैसे उपचार के सुख की इच्छा से कोई रोग की कामना करे, उसी
तरह तुम विषयभोग की इच्छा से दुःख को ही तो खोज रहे हो ॥ २८ ॥
स्वर्गापवादः ] एकादशः सर्गः २२५
यथा पश्यति मध्वेव न प्रपातमवेक्षते ।
पश्यस्यप्सरसस्तद्वद् भ्रंशमन्ते न पश्यसि ॥ २९ ॥
अन्वयः—यथा मधु एव पश्यति प्रपातं न अवेक्षते, तद्वत् अप्सरसः पश्यसि अन्ते
भ्रंशं न पश्यसि ॥ २९ ॥
व्याख्या—यथा=येन प्रकारेण कोऽपि जनः, मधु=कुसुमासवः, एव=केवलम्,
पश्यति=अवलोकयति, प्रपातम्=तस्य पतनम्, न=नहि अवेक्षते=अवलोकयति,
तद्वत्=तेनैव प्रकारेण, अप्सरसः=देवाङ्गनाः, पश्यसि=अवलोकयसि, अन्ते=अव-
सानसमये, भ्रंशम्=पतनम्, न=नहि, पश्यसि=त्वमवलोकयसि । महाभारतस्य
स्त्रीपर्वस्यास्य भावस्य तुलनाऽपि दर्शनीयः—
'मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।
स भ्रष्टो मधुलोभेन शोचत्येवं यथा भवान् ॥' —महा० स्त्री-पर्व ॥२९॥
हिन्दी—जैसे कोई मधु तो देखता है, परन्तु पेड़ से उसका गिरना नहीं देखता,
उसी तरह तुम अप्सराओं को तो देखते हो, परन्तु उसका अन्त पतन है, यह तुम्हें
नहीं दिखलायी पड़ता ॥ २९ ॥
हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् ।
किमिदं ब्रह्मचर्यं ते मनसाऽब्रह्मचारिणः ॥ ३० ॥
अन्वयः—कामाग्निना दीप्ते हृदि कायेन व्रतं वहतः मनसा अब्रह्मचारिणः ते
किम् इदं ब्रह्मचर्यम् ? ॥ ३० ॥
व्याख्या—कामाग्निना=मदनवह्निना, दीप्ते=प्रज्वलिते, हृदि=चित्ते, कायेन=
देहेन, व्रतम्=नियमम्, वहतः=धारयतः, मनसा=चित्तेन, अब्रह्मचारिणः=न=
नहि, ब्रह्मम्=परमेश्वरम्, चरति=अन्विष्यति, इति=अव्रतिनः, ते=तव, किम्=
किमर्थम्, इदम्=एतत्, ब्रह्मचर्यम्=तपोव्रतम्, न किमपीत्यर्थः ॥ ३० ॥
हिन्दी—वासना की आग में तुम्हारा दिल झुलस रहा है, देह से तुम नियम-व्रत
को ढो रहे हो, मन से ब्रह्मचर्य विहीन हो, तुम्हारी यह कैसी तपस्या है ? ॥ ३० ॥
संसारे वर्तमानेन यदा चाप्सरसस्त्वया ।
प्राप्तास्त्यक्ताश्च शतशस्ताभ्यः किमिति ते स्पृहा ॥ ३१ ॥
अन्वयः—यदा च संसारे वर्तमानेन त्वया शतशः अप्सरसः प्राप्ताः त्यक्ताश्च ताभ्यः
ते स्पृहा किमिति ? ॥ ३१ ॥
व्याख्या—यदा=यावत्, च=इत्यवधारणे, संसारे=जगति, वर्तमानेन=
विद्यमानेन, त्वया=नृपनन्दनेन, शतशः=अनेकंशः, अप्सरसः=दिव्याङ्गनाः, प्राप्ताः=
अवाप्ताः, त्यक्ताश्च=उज्झिताश्च, ताभ्यः=दिव्याङ्गनाभ्यः, ते=तव, स्पृहा=अभिलाषा,
किमिति=कथमिति ? ॥ ३१ ॥
हिन्दी—संसार में रहते हुए तुमने जब सैकड़ों अप्सराओं को पाया है और
खोया है तो फिर उनके प्रति तुम्हारी यह आसक्ति कैसी ? ॥ ३१ ॥
२२६ सौन्दरनन्दं महाकाव्यम्
तृप्तिर्नास्तीन्धनैरग्नेरम्भसा लवणाम्भसः ।
नापि कामैः सतृष्णस्य तस्मात् कामा न तृप्तये ॥ ३२ ॥
अन्वयः—इन्धनैः अग्नेः अम्भसा लवणाम्भसः तृप्तिः नास्ति, नापि कामैः
सतृष्णस्य तस्मात् कामाः तृप्तये न सन्ति ॥ ३२ ॥
व्याख्या—इन्धनैः = इध्मैः, अग्नेः = अनलस्य, अम्भसा = सलिलेन, लवणाम्भसः =
सागरस्य, तृप्तिः = तुष्टिः, नास्ति = न विद्यते, नापि कामैः = विषयभोगैः, सतृष्णस्य =
विषयिणः, तस्मात् = तेन हेतुना, कामाः = भोगाः, तृप्तये = तुष्टये, न सन्ति ।
तुलना—'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मैव भूय
एवाभिवर्धते' ॥ ३२ ॥
हिन्दी—ईन्धन से आग की, पानी से सागर की, भोग से वासना की तृप्ति नहीं
होती है। अतः कामोपभोग तुष्टिदायक नहीं है ॥ ३२ ॥
अतृप्तौ च कुतः शान्तिरशान्तौ च कुतः सुखम् ।
असुखे च कुतः प्रीतिरप्रीतौ च कुतो रतिः ॥ ३३ ॥
अन्वयः—अतृप्तौ च कुतः शान्तिः, च अशान्तौ कुतः सुखं च असुखे कुतः प्रीतिः
च अप्रीतौ कुतः रतिः ? ॥ ३३ ॥
व्याख्या—अतृप्तौ = असन्तुष्टौ, चः = पुनः, कुतः = कथम्, शान्तिः = शमः, च =
पुनः, अशान्तौ = उद्विग्ने, कुतः = क्व, सुखम् = प्रसन्नताम्, च = पुनः, असुखे =
अप्रसन्ने, कुतः = कुत्र, प्रीतिः = आनन्दः, च = पुनः, अप्रीतौ = प्रसन्नताभावे,
कुतः = कुत्र, रतिः = आनन्दः ॥ ३३ ॥
हिन्दी—तृप्ति के अभाव में शान्ति कहाँ ? शान्ति नहीं होने पर सुख कहाँ ? सुख
नहीं मिलने पर प्रीति कैसी ? और प्रीति के अभाव में रति कैसी ? ॥ ३३ ॥
रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः ।
प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः ॥ ३४ ॥
अन्वयः—यदि ते रिरंसा तस्मात् अध्यात्मे मनः धीयताम्, प्रशान्ता च अनवद्या
न अध्यात्मसमा रतिः नास्ति ॥ ३४ ॥
व्याख्या—यदि = चेत्, ते = तव, रिरंसा = रन्तुमिच्छा, तस्मात् = तर्हि, अध्या-
त्मे = आत्मनि इति अध्यात्मम् = आत्मविषयकज्ञाने, मनः = चेतः, धीयताम् = निवेश्य-
ताम्, प्रशान्ता = क्षोभहीना, च = पुनः, अनवद्या = अनिन्द्या, न = नहि, अध्यात्मसमा
= आत्मविषयकज्ञानसमा, रतिः = आनन्दः, नास्ति = न विद्यते ॥ ३४ ॥
हिन्दी—यदि तुम आनन्द चाहते हो, तो आत्मविषयक ज्ञान में मन लगाओ,
क्योंकि शान्त और निर्दोष अध्यात्म की तरह कोई दूसरा आनन्द नहीं है ॥ ३४ ॥
न तत्र कार्यं तूर्यैस्ते न स्त्रीभिर्न विभूषणैः ।
एकस्त्वं यत्रस्थस्तया रत्याभिरंस्यसे ॥ ३५ ॥
स्वर्गापवादः ] एकादशः सर्गः २२७
अन्वयः—तत्र ते तूर्यैः न स्त्रीभिः न विभूषणैः कार्यं यत्रस्थः त्वम् एकः तया
रत्या अभिरंस्यसे ॥ ३५ ॥
व्याख्या—तत्र = अध्यात्मरतौ, ते = तव, तूर्यैः = सङ्गीतैः, न = नहि, स्त्रीभिः =
नारीभिः, न = नहि, विभूषणैः = अलङ्करणैः, कार्यम् = प्रयोजनम्, यत्रस्थः = यस्मिन्
स्थितः, त्वम् = भवान्, एकः = एकमात्रः, तया = पूर्वोक्ततया, रत्या = प्रीत्या, अभि-
रंस्यसे = रमणं करिष्यति ।
हिन्दी—उस अध्यात्म रति में तुम्हें तुरही, नारी, या अलङ्कारों की आवश्यकता
नहीं होगी । जहाँ-तहाँ रहकर भी तुम उस अध्यात्म सुख में रमते रहोगे ॥ ३५ ॥
मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति ।
तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ॥ ३६ ॥
अन्वयः—तर्षे तिष्ठति बलवत् मानसं दुःखं तिष्ठति, तं तर्षं छिन्धि हि तृष्णा च
दुःखं च अस्ति च नास्ति च ॥ ३६ ॥
व्याख्या—तर्षे = तृष्णायाम्, तिष्ठति = स्थिते सति, बलवत् = प्रगाढम्, मानसम् =
मानसिकम्, दुःखम् = कष्टम्, तिष्ठति = भवति, तम् = पूर्वोक्तम्, तर्षम् = तृष्णाम्,
छिन्धि = कर्तय, हि = यतः, तृष्णा = तर्षः, च = पुनः, दुःखम् = कष्टम्, च = पुनः,
अस्ति च = युगपद् भवति च, नास्ति च = न भवति चेति । दुःखस्य कारणं तृष्णा
एवास्ति । सत्यपि तृष्णा दुःखं भवति, तृष्णाभावे दुःखाभावोऽप्यस्ति ॥ ३६ ॥
हिन्दी—जब तक तृष्णा रहेगी मन को कष्ट होगा ही । अतः इस तृष्णा को
काटो, क्योंकि दुःख और तृष्णा एक साथ ही आते भी हैं और जाते भी हैं ॥ ३६ ॥
सम्पत्तौ वा विपत्तौ वा दिवा वा नक्तमेव वा ।
कामेषु हि सतृष्णस्य न शान्तिरूपपद्यते ॥ ३७ ॥
अन्वयः—सम्पत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा हि कामेषु सतृष्णस्य
शान्ति न उपपद्यते ॥ ३७ ॥
व्याख्या—सम्पत्तौ = विभवे, वा = अथवा, धिपत्तौ = विपदायाम्, वा, दिवा =
दिवसः, वा = अथवा, नक्तम् = निशा वा, हि = यतः, कामेषु = भोगेषु, सतृष्णस्य =
तृष्णया = लालसया, सहितस्य = युक्तस्य, शान्तिम् = शमम्, न = नहि, उपपद्यते =
प्राप्यते ॥ ३७ ॥
हिन्दी—विभव हो या विपत्ति, दिन हो या रात, भोग के लिप्सु को कभी
शान्ति नहीं मिलती है ॥ ३७ ॥
कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर्न विद्यते ।
वियोगात्नियतः शोको वियोगश्च ध्रुवो दिवि ॥ ३८ ॥
अन्वयः—कामानां प्रार्थना दुःखाः प्राप्तौ तृप्तिः न विद्यते, वियोगात् शोकः नियतः
दिवि च वियोगः ध्रुवः ॥ ३८ ॥
२२८ सौन्दरनन्दं महाकाव्यम्
व्याख्या--कामानाम् :-- विषयाणाम्, प्रार्थना == याचना, दुःखाः == कष्टप्रदाः,
प्राप्तौ == उपलब्धे सति, तृप्तिः == सन्तुष्टिः, न = नहि, विद्यते == भवति, वियोगात् =
विश्लेषात्, शोकः == परितापः, नियतः == निश्चितः, दिवि च = स्वर्गे च, वियोगः =
विच्छेदः, ध्रुवः = निश्चितः अस्ति ॥ ३८ ॥
हिन्दी—विषयों की याचना में कष्ट है, मिलने पर संतोष नही होता, बिछुड़ने
पर शोक निश्चित है और स्वर्ग में उनसे विच्छेद अवश्यम्भावी है ॥ ३८ ॥
कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभम् ।
नृलोकं पुनरैवैति प्रवासात् स्वगृहं यथा ॥ ३९ ॥
अन्वयः—दुष्करं कर्म कृत्वाऽपि दुर्लभं स्वर्गं लब्ध्वाऽपि प्रवासात् स्वगृहं यथा पुनः
नृलोकम् एव एति ॥ ३९ ॥
व्याख्या—दुष्करम् = कठिनम्, कर्म = कृत्यम्, कृत्वाऽपि = कृते सत्यपि, दुर्लभम्
= दुःखेन प्राप्यम्, स्वर्गम् = अमरलोकम्, लब्ध्वाऽपि = प्राप्याऽपि, प्रवासात् = विदेश-
वासात्, स्वगृहम् = निजसदनम्, यथा = येन प्रकारेण, पुनः = भूयः, नृलोकम् =
संसारम् एव, एति = प्राप्नोति ॥ ३९ ॥
हिन्दी—मनुष्य कठोर तप के बाद स्वर्ग पाकर भी संसार में उसी तरह लौट
आता है, जैसे कोई परदेश से घर लौट आया हो ॥ ३९ ॥
यदा भ्रष्टस्य कुशलं शिष्टं किञ्चिन्न विद्यते ।
तिर्यक्षु पितृलोके वा नरके चोपपद्यते ॥ ४० ॥
अन्वयः—यदा भ्रष्टस्य किञ्चित् कुशलं शिष्टं न विद्यते, तिर्यक्षु पितृलोके नरके
वा च उपपद्यते ॥ ४० ॥
व्याख्या--यदा = यावत्, भ्रष्टस्य = स्वर्गात्पतितस्य, किञ्चित् = स्तोकमपि, कुश-
लम् = पुण्यम्, शिष्टम् = अवशिष्टम्, न = नहि, विद्यते = वर्त्तते, तदा, तिर्यक्षु =
अण्डजेषु, पितृलोके = प्रेतयोनौ, नरके वा च = अतिमलिनस्थाने वा च, उपपद्यते =
उत्पन्नो भवति ॥ ४० ॥
हिन्दी—स्वर्ग से गिरे हुए लोगों का पुण्य समाप्त हो जाता है। अतः ऐसे प्राणी
तिर्यक्-योनि में या नरक में उत्पन्न होते हैं ॥ ४० ॥
तस्य भुक्तवतः स्वर्गे विषयानुत्तमानपि ।
भ्रष्टस्यार्त्तस्य दुःखेन किमास्वादः करोति सः ॥ ४१ ॥
अन्वयः—स्वर्गे उत्तमान् अपि विषयान् भुक्तवतः दुःखेन भ्रष्टस्य आर्त्तस्य तस्य
सः आस्वादः किं करोति ? ॥ ४१ ॥
व्याख्या -- स्वर्गे = देवलोके, उत्तमानपि = विशिष्टानपि, विषयान् = उपभोगान्,
भुक्तवतः = उपभोगं कृतवतः, भ्रष्टस्य = स्वर्गात्पतितस्य, आर्त्तस्य = क्लेशितस्य, तस्य
= जनस्य, सः = पूर्वोक्तः, आस्वादः = उपभोगः, किं करोति = न किञ्चिदपि करो-
तीति ॥ ४१ ॥
स्वर्गापवादः ] एकादशः सर्गः २२९
हिन्दी—स्वर्ग में उत्तम विषयों को भोगनेवाला भी जब वहाँ से गिरकर दुःखी
हो जाता है, तब फिर स्वर्गीय विषयों का उपभोग उसे क्या आस्वाद देता है ? ॥४१॥
श्येनाय प्राणिवात्सल्यात् स्वमांसान्यपि दत्तवान् ।
शिविः स्वर्गात् परिभ्रष्टस्तादृक्कृत्वापि दुष्करम् ॥ ४२ ॥
अन्वयः—शिविः प्राणिवात्सल्यात् श्येनाय स्वमांसान्यपि दत्तवान् तादृक् दुष्करम्
कर्म कृत्वाऽपि स्वर्गात् परिभ्रष्टः ॥ ४२ ॥
व्याख्या—शिविः = एतदाख्यनृपः, प्राणिवात्सल्यात् = प्राणिस्नेहात्, श्येनाय =
शशादनाय, स्वमांसानि = निजमिषाणि, अपि, दत्तवान् = अप्रयच्छत्, तादृक् = तत्स-
दृशम्, दुष्करम् = दुस्साध्यम्, कर्म = कृत्यम्, कृत्वाऽपि = सम्पाद्यापि, स्वर्गात् =
देवलोकात्, परिभ्रष्टः = पतितोऽभूत् ॥ ४२ ॥
हिन्दी—जीवों के प्रति स्नेहाधिक्य के कारण राजा शिवि ने बाजपक्षी के लिए
अपनी देह का मांस तक दे डाला, किन्तु ऐसे दुस्साध्य काम करके भी उन्हें स्वर्ग से
धरती पर लौट आना पड़ा ॥ ४२ ॥
शक्रस्यार्धासनं गंत्वा पूर्वपार्थिव एव यः ।
स देवत्वं गतः काले मान्धाताधः पुनर्ययौ ॥ ४३ ॥
अन्वयः—यः पूर्वपार्थिवः मान्धाता शक्रस्य अर्द्धासनं गत्वा देवत्वं गतः, स एव
काले पुनः अधः ययौ ॥ ४३ ॥
व्याख्या—यः = प्रसिद्धः, पूर्वपार्थिवः = प्राचीननृपः, मान्धाता = एतन्नामा राजा,
शक्रस्य = इन्द्रस्य, अर्द्धासनम् = अर्द्धोपवेशनम्, गत्वा = प्राप्य, देवत्वम् = सुरत्वम्,
गतः = प्राप्तः, स एव = पूर्वोक्तमान्धाता एव, काले = निर्दिष्टसमये, पुनः = भूयः,
अधः = मर्त्यलोके, ययौ = अगमत् ॥ ४३ ॥
हिन्दी—प्राचीन राजा मान्धाता, जिन्होंने इन्द्र के आधे सिंहासन को पाकर देवत्व
को पाया था, समय आने पर उन्हें भी फिर धरती पर लौट आना पड़ा ॥ ४३ ॥
राज्यं कृत्वापि देवानां पपात नहुषो भुवि ।
प्राप्तः किल भुजङ्गत्वं नाद्यापि परिमुच्यते ॥ ४४ ॥
अन्वयः—नहुषः देवानां राज्यं कृत्वाऽपि भुवि पपात, भुजगत्वं प्राप्तः किल
अद्यापि न परिमुच्यते ॥ ४४ ॥
व्याख्या—नहुषः = एकः पौराणिको नृपः, देवानाम् = सुराणाम्, राज्यम् =
प्रशासनम्, कृत्वाऽपि = सम्पाद्याऽपि, भुवि = धरण्याम्, पपात = न्यपतत्, भुजगत्वम् =
सर्पत्वम्, प्राप्तः = यातः, किल = निश्चयेन, अद्यापि = अधुनाऽपि, न = नहि, परिमुच्यते
= परितः मुक्तोऽभवत् ॥ ४४ ॥
हिन्दी—राजा नहुष को देवताओं पर राज्य करने के बावजूद समय आने पर
२३० सौन्दरनन्दं महाकाव्यम्
धरती पर लौटना पड़ा। यहां वे सर्प-योनि में उत्पन्न हुए, जिससे उन्हें आज भी
मुक्ति नहीं मिली ॥ ४४ ॥
तथैवेलिविलो राजा राजवृत्तेन संस्कृतः ।
स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे ॥ ४५ ॥
अन्वयः—तथैव राजा वृत्तेन संस्कृतः इलिविलो राजा स्वर्गं गत्वा किल पुनः
भ्रष्टः अर्णवे कूर्मीभूतः ॥ ४५ ॥
व्याख्या—तथैव = तेनैव प्रकारेण, राजवृत्तेन—राज्ञः = नृपस्य, वृत्तम् = आचारः,
तेन = नृपाचारेण, संस्कृतः = परिष्कृतः, इलिविलो राजा = एतदाख्यनृपः, स्वर्गम् =
देवलोकम्, गत्वा = प्राप्य, किल = निश्चयेन, पुनः = भूयः, भ्रष्टः = स्वर्गात्पतितः,
अर्णवे = समुद्रे, कूर्मीभूतः = कूर्मत्वं गतः ॥ ४५ ॥
हिन्दी—वैसे ही राजोचित आचरण से परिष्कृत राजा इलिविल स्वर्ग चले गये
और फिर वहां से लौटकर समुद्र में कछुआ बन गये ॥ ४५ ॥
भूरिद्युम्नो ययातिश्च ते चान्ये च नृपर्षभाः ।
कर्मभिर्द्यामभिक्रीय तत्क्षयात् पुनरत्यजन् ॥ ४६ ॥
अन्वयः—भूरिद्युम्नः ययातिः च अन्ये च ते च नृपर्षभाः कर्मभिः द्याम् अभिक्रीय
तत्क्षयात् पुनः अत्यजन् ॥ ४६ ॥
व्याख्या—भूरिद्युम्नः = एतदाख्यो नृपः, ययातिः = पौराणिको राजा, च = पुनः,
अन्ये = अपरे, च नृपर्षभाः—नृपेषु = सम्राट्सु, ऋषभाः = श्रेष्ठाः, ते च पूर्वोक्ताश्च,
कर्मभिः = स्वकीयपुण्यैः, द्याम् = देवलोकम्, अभिक्रीय = मूल्येनाधिगम्य, तत्क्षयात् =
पुण्यापचयात्, पुनः = भूयः, अत्यजन् = तत्यजुरिति ॥४६॥
हिन्दी—भूरिद्युम्न, ययाति प्रभृति राजर्षियों ने भी अपने पुण्यकर्म से स्वर्ग को
खरीदा और पुण्य क्षीण होते ही उन्हें भी स्वर्ग छोड़ देना पड़ा ॥ ४६ ॥
असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः ।
श्रियं समनुशोचन्तः पातालं शरणं ययुः ॥ ४७ ॥
अन्वयः—पूर्वदेवाः असुराः तु सुरैः अपहृतश्रियः श्रियम् अनुशोचन्तः पातालं
शरणं ययुः ॥ ४७ ॥
व्याख्या—पूर्वदेवाः = प्राचीनसुराः, असुराः = इत्याख्याः, तु = किन्तु, सुरैः =
सुरसंज्ञकैः, अपहृतश्रियः—अपहृता = हठादधिकृता, श्रीः = लक्ष्मीः, येषाम् ते, श्रियम्
= राजलक्ष्मीम्, अनुशोचन्तः = शोकं कुर्वन्तः, पातालम् = अधोभुवनम्, शरणम् =
शरण्यम्, ययुः = जग्मुरिति ॥ ४७ ॥
हिन्दी—असुरगण भी पहले देवता ही थे । जब सुरों ने उनकी राज्यलक्ष्मी का
अपहरण किया तब अपनी लक्ष्मी के लिए शोक करते हुए वे पाताल की शरण
में गये ॥ ४७ ॥
स्वर्गापवादः ] एकादशः सर्गः २३१
किञ्च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः ।
महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम् ॥ ४८ ॥
अन्वयः-तावत् च राजर्षिभिः असुरैः सुरादिभिः वा किं शतशः महेन्द्राः अपि
पेतुः माहात्म्यं न स्थिरम् ॥ ४८ ॥
व्याख्या-तावच्च = तदा च, राजर्षिभिः = नृपमुनिभिः, असुरैः = दैत्यैः, वा =
अथवा, सुरादिभिः = देवादिभिः, वा = अथवा, किम् = का चर्चा, शतशः = अनेकशः,
महेन्द्राः = इन्द्राः, अपि = चेत्, पेतुः = च्युतोऽभवन्, माहात्म्यम् = गौरवम्, न = नहि,
स्थिरम् = अविचलितम् । न स्वर्गादिसम्पदामपि भोगः स्थिरो भवति । 'क्षीणे पुण्ये
मर्त्यलोकं विशन्ति' ॥ ४८ ॥
हिन्दी-राजर्षि, असुर एवं सुरादिकों का क्या कहना, सैकड़ों इन्द्र भी यहाँ से
च्युत हुए हैं। यहाँ किसी का गौरव स्थिर नहीं है ॥ ४८ ॥
संसदं शोभयित्वैन्द्रीमूपेन्द्रश्चेन्द्रविक्रमः ।
क्षीणकर्मा पपातोर्वी मध्यादप्सरसां रसन् ॥ ४९ ॥
अन्वयः-इन्द्रविक्रमः उपेन्द्रश्च ऐन्द्रीं संसदं शोभयित्वा क्षीणकर्मा अप्सरसां
मध्यात् रसन् उर्वीम् पपात ॥ ४९ ॥
व्याख्या-इन्द्रविक्रमः-इन्द्रस्य = महेन्द्रस्य, विक्रमः = पराक्रमः, इव विक्रमः,
यस्य सः = शचीपतिपराक्रमः, च = पुनः, उपेन्द्रः = भगवान् विष्णुः (विष्णोः पञ्चमा-
वतारः इन्द्रानुजस्वरूपे एवासीत् ।), ऐन्द्रीम् = इन्द्रसम्बन्धिनीम्, संसदम् = समाजम्,
शोभयित्वा = भासयित्वा, क्षीणकर्मा = क्षयङ्गतकर्मा, अप्सरसाम् = दिव्याङ्गनानाम्,
मध्यात् = अन्तरात्, रसन् = क्रन्दन्, उर्वीम् = धराम्, पपात = पतितोऽभवत् ॥ ४९ ॥
हिन्दी-इन्द्र की तरह विक्रमशाली उपेन्द्र, जिसने इन्द्र की सभा को सुशोभित
किया था, अपने कर्मों के क्षीण होने पर बिलखते हुए स्वर्ग से धरती पर आ
गये ॥ ४९ ॥
हा चैत्ररथ ! हा वापि ! हा मन्दाकिनि ! हा प्रिये !
इत्यार्ता विलपन्तोऽपि गां पतन्ति दिवौकसः ॥ ५० ॥
अन्वयः-हा चैत्ररथ ! हा वापि ! हा मन्दाकिनि ! हा प्रिये ! इति विलपन्तम्
आर्त्ताः दिवौकसः अपि गां पतन्ति ॥ ५० ॥
व्याख्या-हा = इति शोकसूचकमव्ययपदम्, चैत्ररथ ! = सम्बोधनपदमिदम्,
चैत्ररथकुबेरोद्यानस्य नाम, वापि ! = वापिके ! मन्दाकिनि ! = आकाशगङ्गे ! प्रिये !
= कान्ते ! इति = इत्थम्, विलपन्तः = रुदन्तः, आर्त्ताः = पीडिताः, दिवौकसः-
दिवम् ओकः येषां ते दिवौकसः = देवाः, गाम् = पृथ्वीम्, पतन्ति = समायान्ति ॥ ५०॥
हिन्दी-हा चैत्ररथ उद्यान ! हाय सरोवर ! हा आकाशगंगे ! हा प्रिये ! यह
कहकर रोते-कलपते देवगण भी धरती पर आते हैं ॥ ५० ॥
२३२ सौन्दरनन्दं महाकाव्यम्
तीव्रं ह्युत्पद्यते दुःखमिह तावन्मुमूर्षताम् ।
किं पुनः पततां स्वर्गादवान्ते सुखसेविनाम् ॥ ५१ ॥
अन्वयः—इह तावत् मुमूर्षतां तीव्रं हि दुःखम् उत्पद्यते, किं पुनः अवान्ते स्वर्गात्
पततां सुखसेविनाम् ? ॥ ५१ ॥
व्याख्या—इह = संसारे, तावत् = तर्हि, मुमूर्षताम् = मृत्युप्राप्तवताम्, तीव्रम् =
प्रचण्डम्, हि = इति निश्चयेन, दुःखम् = कष्टम्, उत्पद्यते = जायते, किं पुनः = पुनः
का वार्त्ता ? अवान्ते = अवसानकाले, स्वर्गात् = देवलोकात्, पतताम् = भ्रंशताम्, सुख-
सेविनाम् = सुखभोगिनाम् इति ॥ ५१ ॥
हिन्दी - धरती पर मरते हुए मनुष्यों को घोर कष्ट होता है, फिर अन्त में स्वर्ग
से गिरने वाले सुखसेवियों के दुःख का क्या ठिकाना ? ॥ ५१ ॥
रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः ।
गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने ॥ ५२ ॥
अन्वयः—वासांसि रजः गृह्णन्ति, परमाः स्रजः म्लायन्ति, गात्रेभ्यः स्वेदः जायते,
असने रतिः न भवति ॥ ५२ ॥
व्याख्या—वासांसि = वस्त्राणि, रजः = धूलिः, गृह्णन्ति = आददति, परमाः =
सर्वोत्कृष्टाः, स्रजः = मालाः, म्लायन्ति = मूर्च्छिता भवन्ति, गात्रेभ्यः = देहेभ्यः, स्वेदः
= प्रस्वेदः, जायते = प्रादुर्भवति, असने = निवसाने, रतिः = प्रीतिः, न भवति = न
जायते ॥ ५२ ॥
हिन्दी-कपड़े धूलि-धूसरित हो जाते हैं, उत्तम मालाएँ सूख जाती हैं, देह से
पसीने चूने लगते हैं और वहाँ रहने की इच्छा नहीं होती ॥ ५२ ॥
एतान्यादौ निमित्तानि च्युतौ स्वर्गाद्दिवौकसाम् ।
अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम् ॥ ५३ ॥
अन्वयः—दिवौकसाम् स्वर्गात् च्युतौ आदौ एतानि निमित्तानि मुमूर्षतां मर्त्यानाम्
अनिष्टानि अरिष्टानि इव ॥ ५३ ॥
व्याख्या—दिवौकसाम् = सुराणाम्, स्वर्गात् = देवलोकात्, च्युतौ = पतिते, आदौ =
प्रथमम्, एतानि = इमानि, निमित्तानि = लक्षणानि, मुमूर्षताम् = मरणासन्नानाम्,
मर्त्यानां = मरणधर्माणाम्, अनिष्टानि = अशुभानि, अरिष्टानि = अपशकुनानि, इव =
यथा, दृश्यते ॥ ५३ ॥
हिन्दी - स्वर्ग से गिरते समय देवलोक निवासियों के ये पूर्वलक्षण देखे जाते हैं,
ठीक उसी तरह जैसे मरणासन्न व्यक्ति के मृत्यु से पूर्व अनिष्ट दर्शन होते हैं ॥ ५३ ॥
सुखमुत्पद्यते यच्च दिवि कामानुपाश्नताम् ।
यच्च दुःखं निपततां दुःखमेव विशिष्यते ॥ ५४ ॥
अन्वयः—दिवि कामानुपाश्नतां यच्च सुखम् उत्पद्यते, निपततां यत् च दुःखं
दुःखमेव विशिष्यते ॥ ५४ ॥
स्वर्गापवादः ] एकादशः सर्गः २३३
व्याख्या—दिवि = देवलोके, कामानुपश्नताम् = विषयोपभोगनिरतानाम्, यच्च,
सुखम् = मुदितम्, उत्पद्यते = जायते, निपतताम् = भ्रंशताम्, यच्च दुःखम् = क्लेशः,
तयोः दुःखमेव = कष्टमेव, विशिष्यते = विशिष्टो भवति ॥ ५४ ॥
हिन्दी—स्वर्ग की कामोपासना में जो सुख मिलता है और स्वर्ग छोड़ने में जो
पीड़ा होती है—दोनों में कष्ट ही विशेष है ॥ ५४ ॥
तस्मादस्वन्तमत्राणमविश्वास्यमतर्पकम् ।
विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु ॥ ५५ ॥
अन्वयः—तस्मात् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकं क्षयिणं स्वर्गं
विज्ञाय अपवर्गे मतिं कुरु ॥ ५५ ॥
व्याख्या—तस्मात् = तेन हेतुना, अस्वन्तम्—शोभनः = शुभकरः, अन्तः = अव-
सानम्, स्वन्तः, न स्वन्तः अस्वन्तम् = अशुभपरिणामकरम्, अत्राणम्—न = नहि,
त्राणः = रक्षणः, अत्राणस्तम् = अरक्षकम्, अविश्वास्यम् = विश्वासविहीनम्, अतर्पकम्
= अतृप्तदायकम्, क्षयिणम् = विनाशिनम्, क्षयः = विनाशः, अस्ति अस्य इति, स्वर्गम्
= अमरपुरम्, विज्ञाय = ज्ञात्वा, अपवर्गे = मोक्षे, मतिम् = बुद्धिम्, कुरु = अनुष्ठीय-
ताम् ॥ ५५ ॥
हिन्दी—इसलिए स्वर्ग परिणाम में अशुभ है वह रक्षा नहीं करता, वह विश्वास
योग्य नहीं है, संतोषदायक नहीं है और वह क्षणिक है—ऐसा जानकर मुक्ति हेतु मन
को लगाओं ॥ ५५ ॥
अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः ।
कर्मणोऽन्ते च्युतस्तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥ ५६ ॥
अन्वयः—अशरीरं भवाग्रं गत्वाऽपि हि मुनिरुद्रकः कर्मणः अन्ते तस्मात् च्युतः
तिर्यग्योनिं प्रपत्स्यते ॥ ५६ ॥
व्याख्या—अशरीरम् = देहरहितम्, भवाग्रम् = संसारश्रेष्ठम्, अरूपलोकम्, गत्वा-
ऽपि = प्राप्योऽपि, हीति निश्चयेन, मुनिरुद्रकः = महर्षिरुद्रकः, कर्मणः = सुकृतीनाम्,
अन्ते = अवसाने सति, तस्मात् = स्वर्गात्, च्युतः = भ्रष्टः सन्, तिर्यग्योनिम् = पक्षि-
योनिम्, प्रपत्स्यते = न्यपतत् ॥ ५६ ॥
हिन्दी—अरूपलोक पाने के बावजूद मुनिरुद्रक अपने पुण्यकर्म के क्षीण होने पर,
वहां से गिरकर पक्षियों की योनि में आये ॥ ५६ ॥
मैत्रया सप्तवार्षिक्या ब्रह्मलोकमितो गतः ।
सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान् ॥ ५७ ॥
अन्वयः—सुनेत्रः सप्तवार्षिक्या मैत्रया इतः ब्रह्मलोकं गतः, पुनः आवृत्तः गर्भवासम्
उपेयिवान् ॥ ५७ ॥
व्याख्या—सुनेत्रः = एतन्नामकः ऋषिः, सप्तवार्षिक्या = सप्तवर्षपर्यन्तम्, मैत्रया =
मैत्रिभावनया स्थित्वाऽपि, इतः = अस्मात् स्थानात्, ब्रह्मलोकम् = भुवनकोषम् गतः =
२३४ सौन्दरनन्दं महाकाव्यम्
प्राप्तः, पुनः = भूयः, पुण्ये क्षीणे सति, आवृत्तः = परिवृत्तः, गर्भवासम् = मातृगर्भे,
उपेयिवान् = प्राप्तवान् ॥ ५७ ॥
हिन्दी—सात साल तक मैत्रीभाव से रहकर सुनेत्र यहाँ से ब्रह्मलोक गया और
पुण्य क्षीण होते ही वहाँ से लौटकर मातृगर्भ में निवास किया ॥ ५७ ॥
यदा चैश्वर्यवन्तोऽपि क्षयिणः स्वर्गवासिनः ।
को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः ॥ ५८ ॥
अन्वयः—यदा च ऐश्वर्यवन्तः स्वर्गवासिनः अपि क्षयिणः को नाम बुधः क्षेष्णवे
स्वर्गवासाय स्पृहयेत् ॥ ५८ ॥
व्याख्या—यदा = यावत्, च = पुनः, ऐश्वर्यवन्तः = विभवशालिनः, स्वर्गवासिनः =
दिवौकसः, अपि, क्षयिणः = अपचयिनः, को नाम = किमर्थम् ? बुधः = बुद्धिमान्,
क्षेष्णवे = क्षयिने, स्वर्गवासाय = दिवि निवासाय, स्पृहयेत् = कामयेत् ॥ ५८ ॥
हिन्दी—जब वैभवशाली स्वर्गवासी भी नष्ट होते हैं, तब फिर कौन बुद्धिमान्
व्यक्ति इस क्षयिष्णु स्वर्ग-निवास की कामना करे, अर्थात् ऐसे भंगुर स्वर्ग की कामना
किसी को नहीं करनी चाहिए ॥ ५८ ॥
सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतोऽपि भूयः ।
अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनरेति लोकः ॥ ५९ ॥
अन्वयः—यथा सूत्रेण बद्धः विहगः दूरगतः अपि हि भूयः व्यावर्तते, तथा अज्ञान-
सूत्रेण बद्धः दूरं गतोऽपि लोकः पुनः एति ॥ ५९ ॥
व्याख्या—यथा = येन प्रकारेण, सूत्रेण = तन्तुना, बद्धः = अवबद्धः, विहगः =
खगः, दूरगतः = अन्तरालेऽपि गतः, हीति निश्चयेन, भूयः = पुनः, व्यावर्तते = परावर्तते,
तथा = तेनैव रूपेण, अज्ञानसूत्रेण = मूर्खत्वरज्जुना, बद्धः = निगडितः, दूरं गतोऽपि =
दूरे व्रजतोऽपि, लोकः = जनः, पुनः = भूयः, एति = आयाति ॥ ५९ ॥
हिन्दी—डोरी से बँधी चिड़ियां जैसे दूर जाकर भी लौट आती है, उसी तरह
मूर्खता रूपी डोरी से बँधा व्यक्ति आगे बढ़कर भी पीछे लौट आता है ॥ ५९ ॥
कृत्वा कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद्
भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद् बन्धनम् ।
तद्वद् द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान्
काले कर्मसु तेषु भुक्तविषयेष्वाकृष्यते गां पुनः ॥ ६० ॥
अन्वयः—यथा कालविलक्षणं कृत्वा प्रतिभुवा बन्धनात् मुक्तः वेश्मसुखानि भुक्त्वा
समयम् अतीत्य भूयः बन्धनं विशेत्, तद्वत् प्रतिभूवदात्मनियमैः ध्यानादिभिः द्यां
प्राप्तवान्, तेषु कर्मसु मुक्तविषयेषु काले पुनः गाम् आकृष्यते ॥ ६० ॥
व्याख्या—यथा = येन प्रकारेण, कालविलक्षणम् = कालस्य = समयस्य, विलक्षणम्
= विशिष्टत्वं वा निश्चियता कृत्वा = सम्पाद्य, प्रतिभुवा = लग्नकेन, बन्धनात् =
प्रतिबन्धात्, मुक्तः = मोचितः, वेश्मसुखानि = सदनानन्दाः, भुक्त्वा = उपभुज्य,
स्वर्गापवादः ] एकादशः सर्गः २३५
समयम् = कालम्, अतीत्य = यापयित्वा, भूयः = पुनः, बन्धनम् = निरोधम्, कारा-
गृहं वा, विशेत् = व्रजेत्, तद्वत् = तेनैव रूपेण, प्रतिभूवद्वा = निक्षेपकर्त्ता, प्रातिभाव्यं
वा, आत्मनियमैः = निजनियन्त्रणैः, ध्यानादिभिः = समाध्यादिभिः, द्याम् = देवलोकम्,
प्राप्तवान् = लब्धवान्, तेषु = पूर्वोक्तेषु, कर्मसु = सुकृतिषु, भुक्तविषयेषु = उपभुक्त-
भोगेषु, काले = समये, पुनः = भूयः, गाम् = उर्व्याम्, आकृष्यते = आकृष्टो भवति ।
हिन्दी—एक निश्चित समय के लिए जमानतदार द्वारा बंदी बन्धन मुक्त होकर
गृहसुख का उपभोग कर पुनः समय बीतने पर बंधन में पड़ जाता है, ठीक उसी
प्रकार ध्यानादि आत्मसंयम रूपी जमानतदार के द्वारा स्वर्ग सुख पाकर और स्वर्ग
विषयक सुख का उपभोग कर पुण्य क्षीण होते ही धरती की ओर खिंच जाता है ॥ ६०॥
अन्तर्जालगताः प्रमत्तमनसो मीनास्तडागे यथा
जानन्ति व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि ।
अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो
मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्तकम् ॥ ६१ ॥
अन्वय
२३६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—तज्जन्मव्याधिमृत्युव्यसनं परिगतम् इदं जगत् संसारे दिवि नृषु नरके
तिर्यक्पितृषु च भ्राम्यमाणं मत्वा यत् त्राणं निर्भयं यत् शिवम् अमरम् अजरं
निःशोकम् अमृतं तद्धेतोः ब्रह्मचर्यं चर, हि चलं स्वर्गं प्रति रुचिं जहि ॥ ६२ ॥
व्याख्या—तत् = तस्मात्, जन्मव्याधिमृत्युव्यसनपरिगतम्—जन्म च = उत्पत्तिश्च,
व्याधिश्च = रोगश्च, मृत्युश्च = मरणञ्च, व्यसनञ्च = विपत्तिश्च, तैः, परिगतम् = परि-
व्याप्तम्, इदम् = एतत्, जगत् = संसारे, दिवि = स्वर्गे, नृषु = मानवयोनिषु, नरके =
अधोलोके, तिर्यक्पितृषु = पशुपक्षिपितृलोकेषु, भ्राम्यमाणम् = परिचरत्, मत्वा = अनु-
भूय, यत् त्राणम् = रक्षणम्, निर्भयम् = अभयम्, यत् शिवम् = कल्याणम्, अमरम् =
अमर्त्यम्, अजरम् = निर्जरम्, निःशोकम् = शोकरहितम्, अमृतम् = मुक्तम्, तद्धेतोः =
तस्मात्कारणात् तदर्थञ्च, ब्रह्मचर्यम् = ब्रह्मचारीव्रतम्, चर = विधेहि, हि = यतः,
चलम् = नश्वरम्, स्वर्गम् = देवलोकं प्रति, रुचिम् = कामनाम्, जहि = परित्यज ॥६२॥
हिन्दी—इस संसार को जन्म, रोग, मृत्यु प्रभृति विपत्तियों से घिरा मानकर
स्वर्ग में, नर्क में, पक्षी और पशुयोनि में, पितृलोक में और संसार में प्राणी घूम रहा
है। और जो रक्षक है, अभय है, मंगलकारी है, अजर-अमर है, शोकरहित है, उसी
के लिए ब्रह्मचर्य का पालन करो और इस चंचल स्वर्ग के प्रति आसक्ति छोड़ो ॥६२॥
सौन्दरनन्द महाकाव्य में 'स्वर्गापवाद' नामक एकादश सर्ग समाप्त ॥ ११ ॥
द्वादशः सर्गः
प्रत्यवमर्शः
श्रद्धा से संयमित पुरुष का जब विवेक जग जाता है ।
मुक्ति-युक्ति में तब चंचल मन शरण्यैक बन जाता है ॥
अप्सरोभृतको धर्मं चरसीत्यथ चोदितः ।
आनन्देन तदा नन्दः परं व्रीडमुपागमत् ॥ १ ॥
अन्वयः—अथ 'अप्सरोभृतको धर्मं चरसि' इति आनन्देन चोदितः तदा नन्दः परं
व्रीडम् उपागतः ॥ १ ॥
व्याख्या—अथ इति सर्गारम्भे, ततः, अप्सरोभृतकः—अप्सरसः = दिव्याङ्गनायाः
भृतकः—भृतम् = पालितम्, उपजीवतीति = जीवनयापनं करोतीति, भृतकः=परिचरः,
दिव्याङ्गनापरिचरो भूत्वा, धर्मम् = परिव्राजकव्रतम्, चरसि = करोसि, इति = अनेन
रूपेण, आनन्देन = दिव्यभिक्षुणा, चोदितः = प्रेरितः, नन्दः = तथागतानुजः, परम् =
अत्यधिकम्, व्रीडम् = लज्जाम्, उपागतः = सम्प्राप्त इति ॥ १ ॥
हिन्दी—तब 'अप्सराओं को पाने के लिए ही तप कर रहे हो' आनन्द के द्वारा
ऐसा कहने पर नन्द अत्यधिक लज्जित हुआ ॥ १ ॥
तस्य व्रीडेन महता प्रमोदो हृदि नाभवत् ।
अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ २ ॥
अन्वयः—महता व्रीडेन तस्य हृदि प्रमोदः न अभवत्, अप्रामोद्येन विमुखं मनः
व्रते न अवतस्थे ॥ २ ॥
व्याख्या—महता = अत्यधिकेन, व्रीडेन = लज्जया, तस्य = नृपनन्दस्य, हृदि =
हृदये, प्रमोदः = हर्षः, न = नहि, अभवत् = बभूव, अप्रामोद्येन—न = नहि, प्रामो-
द्यम् = हर्षम्, तेन = आनन्दाभावेन, विमुखम् = उदासीनम्, मनः = चेतः, व्रते =
नियमे, न = नहि, अवतस्थे = अलग्नत् ॥ २ ॥
हिन्दी—अत्यधिक लज्जा के कारण यह सुनकर तपश्चर्या में उसका मन नहीं
लगा, उसके मन में खुशी नहीं हुई, वह उदास हो गया ॥ २ ॥
कामरागप्रधानोऽपि परिहाससमोऽपि सन् ।
परिपाकगते हेतौ न स तन्ममृषे वचः ॥ ३ ॥
अन्वयः—कामरागप्रधानोऽपि परिहाससमोऽपि सन् हेतौ परिपाकगते सः तद् वचः
न ममृषे ॥ ३ ॥
सौ०-19