सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 272, कुल 496 में से
संदर्भ में पढ़ें२१८ सौन्दरनन्दं महाकाव्यम्
आयतेन = विस्तृतेन, नियमेन = नियोगेन, च = पुनः, परम् = अत्यधिकम्, वैरूप्यम्—
विरूपस्य भावः वैरूप्यम् = कुदर्शनम्, अगमत् = अगच्छत् ॥ ६ ॥
हिन्दी—स्वभाव से मनोहर होने के बावजूद अप्सराओं की चिन्ता एवं नियम ने
उसे अत्यधिक कुदर्शन बना डाला ॥ ६ ॥
प्रस्तावेष्वपि भार्यायां प्रियभार्यस्तथापि सः ।
वीतराग इवातस्थौ न जहर्ष न चुक्षुभे ॥ ७ ॥
अन्वयः—सः प्रियभार्यः तथाऽपि भार्यायां प्रस्तावेषु अपि वीतराग इव आतस्थौ,
न जहर्ष न चुक्षुभे ॥ ७ ॥
व्याख्या—सः=नन्दः, प्रियभार्यः—प्रिया = प्रेमवती, भार्या = पत्नी, यस्य सः,
तथापि = तदपि, भार्यायाम् = कान्तायाम्, प्रस्तावेष्वपि = विषयेष्वपि, वीतराग इव =
अनासक्तवत्, आतस्थौ = आतिष्ठत्, न जहर्ष = न प्रसन्नोऽभवत्, न चुक्षुभे = न तु
क्षुब्धोऽभवत् ॥ ७ ॥
हिन्दी—यद्यपि वह अपनी पत्नी को उतना अधिक चाहता था, फिर भी उसके
विषय में अब वह अनासक्त की तरह स्थिर रहता था, उसकी चर्चा में न तो उसे
हर्ष होता था और न क्षोभ ही ॥ ७ ॥
तं व्यवस्थितमाज्ञाय भार्यारागात् पराङ्मुखम् ।
अभिगम्याब्रवीन्नन्दमानन्दः प्रणयादिदम् ॥ ८ ॥
अन्वयः—नन्दं भार्यानुरागात् आनन्दः पराङ्मुखं व्यवस्थितम् आज्ञाय तम्
अभिगम्य प्रणयात् इदम् अब्रवीत् ॥ ८ ॥
व्याख्या—नन्दम् = नृपनन्दम्, भार्यानुरागात् = कान्ताप्रेम्णः, आनन्दः = एतदाख्यः
प्रधानभिक्षुः, पराङ्मुखम् = विरक्तम्, व्यवस्थितम् = स्थिरम्, आज्ञाय = परिज्ञाय,
तम् = नन्दम्, अभिगम्य = समीपं गत्वा, प्रणयात् = स्नेहात्, इदम् = एतत्, अब्रवीत् =
अकथयत् ॥ ८ ॥
हिन्दी—नन्द को भार्या के प्रति विमुख एवं व्यवस्थित समझकर आनन्द ने उसके
पास जाकर स्नेहपूर्वक कहा ॥ ८ ॥
अहो सदृशमारब्धं श्रुतस्याभिजनस्य च ।
निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ ९ ॥
अन्वयः—अहो ! निगृहीतेन्द्रियः स्वस्थः यदि च नियमे संस्थितः श्रुतस्य अभिजन-
स्य च सदृशम् आरब्धम् ॥ ९ ॥
व्याख्या—अहो !=इति विस्मयें, निगृहीतेन्द्रियः =नियन्त्रितकरणः, स्वस्थः = सुस्थः,
यदि = चेत्, च =पुनः, नियमे = संयमे, संस्थितः = सन्निविष्टः, श्रुतस्य = शास्त्रस्य,
अभिजनस्य = वंशस्य, च =पुनः, सदृशम् = तुल्यम्, आरब्धम् = प्रारम्भः कृतः ॥९॥