सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 284, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 284

२३० सौन्दरनन्दं महाकाव्यम्
धरती पर लौटना पड़ा। यहां वे सर्प-योनि में उत्पन्न हुए, जिससे उन्हें आज भी
मुक्ति नहीं मिली ॥ ४४ ॥
तथैवेलिविलो राजा राजवृत्तेन संस्कृतः ।
स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे ॥ ४५ ॥
अन्वयः—तथैव राजा वृत्तेन संस्कृतः इलिविलो राजा स्वर्गं गत्वा किल पुनः
भ्रष्टः अर्णवे कूर्मीभूतः ॥ ४५ ॥
व्याख्या—तथैव = तेनैव प्रकारेण, राजवृत्तेन—राज्ञः = नृपस्य, वृत्तम् = आचारः,
तेन = नृपाचारेण, संस्कृतः = परिष्कृतः, इलिविलो राजा = एतदाख्यनृपः, स्वर्गम् =
देवलोकम्, गत्वा = प्राप्य, किल = निश्चयेन, पुनः = भूयः, भ्रष्टः = स्वर्गात्पतितः,
अर्णवे = समुद्रे, कूर्मीभूतः = कूर्मत्वं गतः ॥ ४५ ॥
हिन्दी—वैसे ही राजोचित आचरण से परिष्कृत राजा इलिविल स्वर्ग चले गये
और फिर वहां से लौटकर समुद्र में कछुआ बन गये ॥ ४५ ॥
भूरिद्युम्नो ययातिश्च ते चान्ये च नृपर्षभाः ।
कर्मभिर्द्यामभिक्रीय तत्क्षयात् पुनरत्यजन् ॥ ४६ ॥
अन्वयः—भूरिद्युम्नः ययातिः च अन्ये च ते च नृपर्षभाः कर्मभिः द्याम् अभिक्रीय
तत्क्षयात् पुनः अत्यजन् ॥ ४६ ॥
व्याख्या—भूरिद्युम्नः = एतदाख्यो नृपः, ययातिः = पौराणिको राजा, च = पुनः,
अन्ये = अपरे, च नृपर्षभाः—नृपेषु = सम्राट्सु, ऋषभाः = श्रेष्ठाः, ते च पूर्वोक्ताश्च,
कर्मभिः = स्वकीयपुण्यैः, द्याम् = देवलोकम्, अभिक्रीय = मूल्येनाधिगम्य, तत्क्षयात् =
पुण्यापचयात्, पुनः = भूयः, अत्यजन् = तत्यजुरिति ॥४६॥
हिन्दी—भूरिद्युम्न, ययाति प्रभृति राजर्षियों ने भी अपने पुण्यकर्म से स्वर्ग को
खरीदा और पुण्य क्षीण होते ही उन्हें भी स्वर्ग छोड़ देना पड़ा ॥ ४६ ॥
असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः ।
श्रियं समनुशोचन्तः पातालं शरणं ययुः ॥ ४७ ॥
अन्वयः—पूर्वदेवाः असुराः तु सुरैः अपहृतश्रियः श्रियम् अनुशोचन्तः पातालं
शरणं ययुः ॥ ४७ ॥
व्याख्या—पूर्वदेवाः = प्राचीनसुराः, असुराः = इत्याख्याः, तु = किन्तु, सुरैः =
सुरसंज्ञकैः, अपहृतश्रियः—अपहृता = हठादधिकृता, श्रीः = लक्ष्मीः, येषाम् ते, श्रियम्
= राजलक्ष्मीम्, अनुशोचन्तः = शोकं कुर्वन्तः, पातालम् = अधोभुवनम्, शरणम् =
शरण्यम्, ययुः = जग्मुरिति ॥ ४७ ॥
हिन्दी—असुरगण भी पहले देवता ही थे । जब सुरों ने उनकी राज्यलक्ष्मी का
अपहरण किया तब अपनी लक्ष्मी के लिए शोक करते हुए वे पाताल की शरण
में गये ॥ ४७ ॥