सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

१६४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—अनुलेपनम् = गात्ररञ्जनम्, अञ्जनम् = कज्जलम्, स्रजः = मालाः,
मणिमुक्तातपनीयम् = रत्न-मौक्तिककनकम्, अंशुकम् = वस्त्रम्, यदि = चेत्, साधु =
युक्तम्, अत्र = अस्मिन् प्रसङ्गे, योषिताम् = प्रमदानाम्, किम् = किं महत्त्वम्, तासु =
प्रमदासु, सहजम् = स्वाभाविकम्, शुचि = पवित्रम्, विचीयताम् = अन्विष्यतामिति ।
हिन्दी—यदि अंगराग, अंजन, माला, मणि, मुक्ता और सोने से वह सजी है तो
इसमें औरतों का क्या है ? उनमें स्वाभाविक पवित्रता क्या है ? इसकी तो खोज
करो ॥ ५० ॥
मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तरोमभिः ।
यदि सा तव सुन्दरी भवेन्नियतं तेऽद्य न सुन्दरी भवेत् ॥ ५१ ॥
अन्वयः—यदि सा तव सुन्दरी मलपङ्कधरा प्रकृतिस्थैः नखदन्तरोमभिः दिगम्बरा

स्त्री-विघ्नः ] अष्टमः सर्गः १६५
व्याख्या—यदि = चेत्, योषिताम् = नारीणाम्, कायम् = देहम्, त्वच्वेष्टितम् =
त्वगावृतम्, अस्थिपञ्जरम् = अस्थिनाम् = कीकसानाम्, पञ्जरम् = देहास्थिसमूहः,
तमर्थात् नरकङ्कालस्वरूपम्, समवैषि=मन्यसे, मदनेन = मन्मथेन, च = पुनः, बलात् =
बलपूर्वकात्, कृष्यसे = आकृष्यसे, खलु = निश्चयेन, मन्मथः = मदनः, 'मनः मथ्नाति
इति मन्मथः' अघृणः = न = नहि, विद्यते = अस्ति, घृणा = जुगुप्सा, यस्मिन् सः,
च = पुनः, अधृतिः = अधीरश्चास्ति ॥ ५३ ॥
हिन्दी—यदि महिलाओं की देह को चमड़ी से लिपटा हुआ कंकाल मानते हो
और काम से बलपूर्वक खींचे जा रहे हो तो निश्चय ही तुम्हारी वासना घृणा और
धैर्य शून्य है ॥ ५३ ॥
शुभतामशुभेषु कल्पयन्नखदन्तत्वचकेशरोमसु ।
अविचक्षण किं न पश्यसि प्रकृतिं प्रभवं च योषिताम् ॥ ५४ ॥
अन्वयः—अविचक्षण ! नखदन्तत्वचकेशरोमसु अशुभेषु शुभतां कल्पयन् किं
योषितां प्रकृतिं प्रभवं च न पश्यसि ? ॥ ५४ ॥
व्याख्या—अविचक्षण = हे मूढ ! नखदन्तत्वचकेशरोमसु = नखर-रदन-कृत्ति-कच-
लोमसु, अशुभेषु = अमङ्गलेषु, शुभताम् = शुभस्य भावः शुभता, ताम् = पवित्रताम्,
कल्पयन् = विचारयन्, किमिति प्रश्ने, योषिताम् = नारीणाम्, प्रकृतिम् = स्वभावम्,
च = पुनः, प्रभवम् = उत्पत्तिञ्च, न = नहि, पश्यसि = अवलोकयसि ? ॥ ५४ ॥
हिन्दी—हे अज्ञानी ! नाखून, दांत, चमड़ी, केश, रोएं जैसे अशुभों में शुभता की
कल्पना करते हुए नारियों की उत्पत्ति और उनके स्वभाव को भी नहीं देख रहे
हो ? ॥ ५४ ॥
तदवेत्य मनःशरीरयोर्वनिता दोषवतीर्विशेषतः ।
चपलं भवनोत्सुकं मनः प्रतिसङ्ख्यानबलेन वार्यताम् ॥ ५५ ॥
अन्वयः—ततः विशेषतः मनःशरीरयोः दोषवती वनितां अवेत्य भवनोत्सुकं
चपलं मनः प्रतिसङ्ख्यानबलेन वार्यताम् ॥ ५५ ॥
व्याख्या—ततः = तदनन्तरम्, विशेषतः = मुख्यतः, मनःशरीरयोः = मनदेहयोः,
दोषवती = दोषयुक्ताः, वनिताः = नार्यः, अवेत्य = ज्ञात्वा, भवनोत्सुकम् = गृहाभि-
मुखम्, चपलम् = चञ्चलम्, मनः = चित्तम्, प्रतिसङ्ख्यानबलेन = ज्ञानशक्त्या,
वार्यताम् = निवार्यताम् ॥ ५५ ॥
हिन्दी—प्रमुख रूप से मन और देह के दोषों से युक्त इन नारियों को पहचानकर
घर लौटने के लिए उत्सुक और चंचल मन को ज्ञान के बल से रोको ॥ ५५ ॥
श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् ।
उपगम्य यथा तथा पुनर्न हि भेत्तुं नियमं त्वमर्हसि ॥ ५६ ॥

१६६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—त्वं श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनं यथा तथा
नियमम् उपगम्य पुनः भेत्तुं न अर्हसि ? ॥ ५६ ॥
व्याख्या—त्वम् = भवान्, श्रुतवान्—श्रुतमस्ति अस्येति श्रुतवान् = शास्त्रज्ञः,
मतिमान् = बुद्धिमान्, कुलोद्गतः—कुले = कुलीनवंशे, उद्गतः = समुत्पन्नः, असि,
परमस्य = उत्कृष्टस्य, प्रशमस्य = परमशान्तेः, भाजनम्=पात्रम्, यथा तथा = येन केन
प्रकारेण, नियमम् = भिक्षुव्रतम्, उपगम्य = प्राप्य, पुनः = भूयः, भेत्तुम् = भिन्नं कर्तुम्,
नार्हसि = योग्यो नाऽसि ॥ ५६ ॥
हिन्दी—तुम विद्वान्, बुद्धिमान्, कुलीन और परमशान्ति के पात्र हो, जैसे-तैसे
भी एक बार व्रत लेकर उसे तोड़ना तुम्हारे लिए उचित नहीं है ॥ ५६ ॥
अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः ।
निधनमपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितम् ॥ ५७ ॥
अन्वयः—अभिजनमहतः मनस्विनः प्रिययशसः बहुमानम् इच्छतः स्थिरात्मनः
निधनम् अपि वरं च्युतविनयस्य जीवितं च नैव ॥ ५७ ॥
व्याख्या—अभिजनमहतः—अभिजनेन = कुलेन, महान् = श्रेष्ठः, तस्य, मनस्विनः=
बुद्धिमन्तः, प्रिययशसः—प्रियम् = अभिमतम्, यशः = कीर्तिः, यस्य सः तस्य, बहुमानम्
=सम्मानम्, इच्छतः = अभिलषितः, स्थिरात्मनः = अचपलचेतनः, निधनमपि = मरण-
मपि, वरम् = श्रेष्ठम्, च्युतविनयस्य—च्युतः = भ्रष्टः, विनयः = नियमः, यस्य तस्य,
जीवितम् = जीवनम्, च न वरमस्ति ॥ ५७ ॥
हिन्दी—जिसका कुल महान् है, जो मनस्वी है, जो कीर्तिकामी है, जो
अत्यधिक सम्मान चाहता है, उस स्थिरात्मा के लिए मर जाना अच्छा है, परन्तु
व्रतभंग कर जीना उचित नहीं ॥ ५७ ॥
बद्ध्वा यथा हि कवचं प्रगृहीतचापो
निन्द्यो भवत्यपसृतः समराद्रथस्थः ।
भैक्षाकमभ्युपगतः परिगृह्य लिङ्गं
निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः ॥ ५८ ॥
अन्वयः—यथा हि कवचं बद्ध्वा प्रगृहीतचापः रथस्थः समरात् अपसृतः निन्द्यः
भवति, तथा लिङ्गं परिगृह्य भैक्षाकम् अभ्युपगतः कामहृतेन्द्रियाश्वः निन्द्यः
भवति ॥ ५८ ॥
व्याख्या—यथा = येन प्रकारेण, हि = यतः, कवचम् = सन्नाहः, बद्ध्वा = सन्नियम्य,
प्रगृहीतचापः—प्रगृहीतम् = धृतम्, चापम् = बाणम्, येन सः, रथस्थः—रथे = स्यन्दने,
तिष्ठति = आरोहति इति, समरात् = सङ्ग्रामात् अपसृतः = पलायितः, निन्द्यो भवति =
गर्हणीयो भवति, तथा = तेनैव प्रकारेण, लिङ्गम् = भिक्षुवेषम्, परिगृह्य = धारणं कृत्वा,
भैक्षाकम् = भैक्षजीवनम्, अभ्युपगतः = सम्प्राप्तः, कामहृतेन्द्रियाश्वः—इन्द्रियाणि =

स्त्री-विघ्नः ] अष्टमः सर्गः १६७
करणानि, एव अश्वाः = घोटकाः, इति इन्द्रियाश्वः, कामेन = मदनेन, हृताः = अपहृताः,
इन्द्रियाश्वाः, यस्य सः, निन्द्यः = गर्हणीयः, भवति = जायते ॥ ५८ ॥
हिन्दी—जैसे कवच पहनकर, आयुध लेकर, रथ पर सवार होकर कोई योद्धा
युद्ध के मैदान से भागकर निन्दित होता है, उसी प्रकार भिक्षुवेश धारण कर फिर
उसे छोड़कर इन्द्रियरूपी कामाश्व से अपहृत होकर व्यक्ति निन्दा का पात्र बन जाता
है ॥ ५८ ॥
हास्यो यथा च परमाभरणावरस्रग्
भैक्षं चरन्धृतधनुश्चलचित्रमौलिः ।
वैरूप्यमभ्युपगतः परपिण्डभोजी
हास्यस्तथा गृहसुखाभिमुखः सतृष्णः ॥ ५९ ॥
अन्वयः—यथा परमाभरणावरस्रक् चलचित्रमौलिः धृतधनुः च भैक्ष्यं चरन् हास्यः
तथा वैरूप्यम् अभ्युपगतः परपिण्डभोजी सतृष्णः गृहसुखाभिमुखः हास्यः भवति ॥५९॥
व्याख्या—यथा = येन प्रकारेण, परमाभरणावरस्रक्—परमम् = उत्तमम्, आभ-
रणम् = अलङ्करणम्, अम्बरम् = महार्घवरत्रम्, स्रक् = माला, यस्य सः, चलचित्र-
मौलिः—चलम् = चपलम्, चित्रम् = विचित्रम्, मौलौ = उत्तमाङ्गे, यस्य सः, धृतधनुः—
धृतम् = गृहीतम्, धनुः = चापम्, येन सः, च = पुनः, भैक्ष्यम् = भिक्षाटनम्, चरन्
= भ्रमन्, हास्यः = उपहासास्पदो भवति, तथा = तेनैव प्रकारेण, वैरूप्यम्—विरूपस्य
भावः वैरूप्यम् = भिक्षुवेषम्, अभ्युपगतः = प्राप्तः, परपिण्डभोजी—परेषाम् =
अन्येषाम्, पिण्डम् = अन्नम्, भुङ्क्ते = अत्ति, इति, सतृष्णः—तृष्णया = इच्छया,
सहितः = समन्वितः, गृहसुखाभिमुखः—गृहस्य = सदनस्य, सुखम् = आनन्दम्, तदभि-
मुखम् = गमनेच्छुः, हास्यः भवति = उपहसनीयो भवति ॥ ५९ ॥
हिन्दी—जैसे कोई उत्तम अलङ्कार, वस्त्र तथा माला पहन कर, हाथ में धनुष
लेकर भीख मांगे तो हंसी का पात्र बन जायेगा, उसी तरह भिक्षुवेष धारण कर
दूसरों के अन्न पर जीनेवाला सतृष्ण होकर गृहसुख के लिए घर की ओर भागे तो
निश्चय ही उपहास का पात्र बन जायेगा ॥ ५९ ॥
यथा स्वन्नं भुक्त्वा परमशयनीयेऽपि शयितो
वराहो निर्मुक्तः पुनरशुचि धावेत् परिचितम् ।
तथा श्रेयः शृण्वन् प्रशमसुखमास्वाद्य गुणवद्
वनं शान्तं हित्वा गृहमभिलषेत् कामतृषितः ॥ ६० ॥
अन्वयः—यथा स्वन्नं भुक्त्वा परमशयनीये शयितः अपि निर्मुक्तः वराहः पुनः
परिचितम् अशुचि धावेत् तथा श्रेयः शृण्वन् गुणवत् प्रशमसुखम् आस्वाद्य कामतृषितः
शान्तं वनं हित्वा गृहम् अभिलषेत् ॥ ६० ॥
व्याख्या—यथा = येन प्रकारेण, स्वन्नम्—शोभनम् = सुष्ठु, अन्नम् = भोज्यम्,
भुक्त्वा = खादित्वा, परमशयनीये—परमः = उत्तमश्चासौ शयनीयः = पर्यङ्कः, तस्मिन्

१६८ सौन्दरनन्दं महाकाव्यम्
शयितः=सुप्तः, अपि=चेत्, निर्मुक्तः = बन्धनविहीनः सन्, वराहः=सूकरः, पुनः=
भूयः, परिचितम् = पूर्वज्ञातम्, अशुचिम् = अपवित्रम्, धावेत् = गच्छेत्, तथा = तेनैव
प्रकारेण, श्रेयः = परमार्थम्, शृण्वन् = आकर्णयन्, गुणवत् = गुणशालि, प्रशमसुखम् =
परमशान्तिजन्यानन्दम्, आस्वाद्य = आस्वादनं कृत्वा, कामतृषितः=मदनमथितः,
शान्तम् = शमम्, वनम् = तपोवनम्, हित्वा = परित्यज्य, गृहम् = सदनम्, अभिलषेत् =
वाञ्छेत् ॥ ६० ॥
हिन्दी—जैसे शोभन अन्न खाकर, सुन्दर पलंग पर सोकर भी सूअर बन्धन मुक्त
होते ही परिचित गन्दगी की ओर दौड़ता है, उसी प्रकार श्रेय को सुनने के बाद गुण
युक्त शान्त सुख का आस्वादन करके काम तृष्णा से मानव शान्त तपोवन को छोड़कर
घर की ओर भागता है ॥ ६० ॥
यथोल्का हस्तस्था दहति पवनप्रेरितशिखा
यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।
यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः
तथा स्त्रीसंसर्गो बहुविधमनर्थाय भवति ॥ ६१ ॥
अन्वयः—यथा हस्तस्थाः पवनप्रेरितशिखा उल्का दहति, यथा पादाक्रान्तः
क्रोधरभसः भुजगः दशति, यथा गृहीतः गृहगतः शिशुः अपि व्याघ्रः हन्ति, तथा
स्त्रीसंसर्गः बहुविधम् अनर्थाय भवति ॥ ६१ ॥
व्याख्या—यथा = येन प्रकारेण, हस्तस्थाः—हस्ते = करे, तिष्ठतीति हस्तस्थाः =
करस्थाः, पवनप्रेरितशिखा - पवनेन = वायुना, प्रेरिता = उत्तेजिता, शिखा = ज्वालः,
यस्याः साः, उल्का = खोल्का, दहति = ज्वलति, यथा = येन प्रकारेण, पादाक्रान्तः—
पादेन = चरणेन, आक्रान्तः = अभिघातितः, क्रोधरभसः—क्रोधेन = कोपेन, रभसः =
उग्रः, भुजगः = विषधरः, दशति = दंशनं करोति, यथा = येन रूपेण, गृहीतः = वशीकृतः,
गृहगतः = सदनस्थः, शिशुरपि = शावकोऽपि, व्याघ्रः = मृगान्तकः, हन्ति = हिनस्ति,
तथा = तेनैव प्रकारेण, स्त्रीसंसर्गः = नारीसम्पर्कः, बहुविधम् = अनेकप्रकारकम्, अनर्थाय
= अमङ्गलाय, भवति ॥ ६१ ॥
हिन्दी—जैसे हाथ में लिए मशाल की ज्वाला हवा के झोके खाकर हाथ को जला
देती है, पैर से कुचला सांप प्रचण्ड क्रोधकर डँसता है, घर में पला हुआ बाघ का
छोना भी हत्या करता है, उसी तरह नारी का संपर्क अनेक अमंगलों का कारण होता
है ॥ ६१ ॥
तद्विज्ञाय मनः शरीरनियतान्नारीषु दोषानिमान्
मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।
दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगन्
निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि ॥ ६२ ॥
सौन्दरनन्दे महाकाव्ये स्त्रीविघातो नामाष्टमः सर्गः ॥ ८ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १६९
अन्वयः—तत् नारीषु मनःशरीरनियतान् इमान् दोषान् विज्ञाय नदीजलचलं
कामसुखं क्लेशाय शोकाय च मत्वा मृत्युपसृष्टं जगत् आमपात्रसदृशं दुर्बलं दृष्ट्वा
अतुलां बुद्धिं निर्मोक्षाय कुरुष्व उत्कण्ठितुं नार्हसि ॥ ६२ ॥
व्याख्या—तत् = तस्मात्, नारीषु = प्रमदासु, मनःशरीरनियतान् = मनश्च =
चित्तञ्च, शरीरञ्च = देहञ्च, तयोः नियतान् = निहितान्, इमान् = एतान्, दोषान् =
दुर्गुणान्, विज्ञाय = ज्ञात्वा, नदीजलचलम् = नद्याः = तटिन्याः, जलमिव = सलिलमिव,
चलम् = चपलम्, कामसुखम् = रतिजन्यानन्दम्, क्लेशाय = पीडायै, शोकाय = चिन्तायै,
च मत्वा = अवगम्य, मृत्युपसृष्टम् = मृत्युना = तनुत्यागेन, उपसृष्टम् = ग्रस्तम्, जगत् =
संसारम्, आमपात्रसदृशम्—आमञ्च = अपक्वञ्च, यत् पात्रम् = भाण्डम्, तस्य, सदृशम् =
तुल्यम्, दुर्बलम् = शक्तिहीनम्; दृष्ट्वा = अवलोक्य, अतुलाम्—न विद्यते तुला यस्याः
सा, ताम् = अनुपमाम्, बुद्धिम् = मतिम्, निर्मोक्षाय = मुक्तये, कुरुष्व = विधेहि,
उत्कण्ठितुम् = उत्कण्ठां कर्तुम्, नार्हसि = न योग्योऽसि ॥ ६२ ॥
हिन्दी—स्त्रियों में मन और शरीर के नियत दोषों को जानकर, कामसुख को
नदी-जल की तरह चंचल पीडा हेतु और शोक के लिए मानकर, संसार को मृत्यु-
ग्रस्त कच्चे घड़े की तरह दुर्बल देखकर अपनी अनुपम बुद्धि को मुक्ति के लिए
लगाओ । अतः तुम्हें घर जाने की उत्कंठा नहीं करनी चाहिए ॥ ६२ ॥
सौन्दरनन्द महाकाव्य में 'स्त्री-विघात' नामक अष्टम सर्ग समाप्त ॥ ८ ॥

नवमः सर्गः
मदापवादः
रत्नजटित दीवारों का अभिमान उभर कर मुस्काया ।
जी चाहे तो जान सको इसमें क्या खोया क्या पाया ॥
अथैवमुक्तोऽपि स तेन भिक्षुणा जगाम नैवोपशमं प्रियां प्रति ।
तथा हि तामेव तदा स चिन्तयन्न तस्य शुश्राव विसंज्ञवद्वचः ॥ १ ॥
अन्वयः—अथ तेन भिक्षुणा एवम् उक्तः अपि सः प्रियां प्रति उपशमं नैव जगाम,
तथा हि तदा सः ताम् एव चिन्तयन् विसंज्ञवत् तस्य वचः न शुश्राव ॥ १ ॥
व्याख्या—अथ = तदनन्तरम्, तेन = पूर्वोक्तेन, भिक्षुणा = प्रव्रजितेन, एवम् =
इत्थम्, उक्तः = कथितः, अपि = चेत्, सः = नृपनन्दः, प्रियाम्प्रति = कान्ताम्प्रति,
उपशमम् = शान्तिम्, नैव जगाम = अगच्छत्, तथा हि, तदा = तस्मिन् काले, हि =
यतः, सः = राजानन्दः, तामेव = कान्तामेव, चिन्तयन् = स्मरणं कुर्वन्, विसंज्ञवत् =
चेतनाशून्यवत्, तस्य = भिक्षोः, वचः = वचनम्, न = नहि, शुश्राव = श्रुतवान् ॥ १ ॥
हिन्दी—उस भिक्षु ने उसे जब इस तरह समझाया, तब भी उसे अपनी प्रिया के
प्रति शान्ति नहीं आई। उस समय तक भी वह अपनी प्रेयसी का ही चिन्तन करता
रहा तथा बेहोश की तरह उस भिक्षु के उपदेश को सुन कर भी नही सुना ॥ १ ॥
यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्णाति मुमूर्षुर्रातुरः ।
तथैव मत्तो बलरूपयौवनैर्हितं न जग्राह स तस्य तद्वचः ॥ २ ॥
अन्वयः—यथा हि मुमूर्षुः आतुरः शिवं चिकीर्षतः वैद्यस्य वचः न गृह्णाति, तथैव
बलरूपयौवनैः मत्तः सः तस्य हितं तद्वचः न जग्राह ॥ २ ॥
व्याख्या—यथा = येन प्रकारेण, हि = इति निश्चयेन, मुमूर्षुः = मरणासन्नः,
आतुरः = रोगापन्नः, शिवम् = कल्याणम्, चिकीर्षतः = कर्त्तुमिच्छतः, वैद्यस्य =
भिषग्वरस्य, वचः = कथनम्, न = नहि, गृह्णाति=स्वीकरोति, तथैव = तेनैव प्रकारेण,
बलरूपयौवनैः—बलञ्च = सामर्थ्यञ्च, रूपञ्च = सौन्दर्यञ्च, यौवनञ्च = तारुण्यञ्च, तैः,
मत्तः = प्रमत्तः, सः = राजानन्दः, तस्य = बौद्धसाधोः, हितम् = हितकरम्, तद्वचः =
तस्य कथनम्, न = नहि, जग्राह=शुश्रावेति । बलरूपयौवनैः प्रमत्तो नन्दस्तस्य भिक्षोः
हितकरमपि वचनं न जग्राहेति । यतः—रूपयौवनसम्पन्नः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ २ ॥
हिन्दी—जैसे 'मरणासन्न' रोगी कल्याणकारी चिकित्सक की बातें नहीं सुनता,
उसी तरह बल, रूप और यौवन से उन्मत्त नन्द ने उस भिक्षु की कल्याणकारी बातें
नहीं सुनी ॥ २ ॥
न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतात्मनः ।
नरस्य पाप्मा हि तदा निवर्तते यदा भवन्त्यन्तगतं तमस्तनु ॥ ३ ॥

मदापवादः ] नवमः सर्गः १७१
अन्वयः—अत्र च चित्रं न यदि तमोवृतात्मनः मनः रागपाप्मना अभिभूयेत, हि
नरस्य पाप्मा तदा निवर्त्तते यदा अन्तगतं तमः तनु भवति ॥ ३ ॥
व्याख्या—अत्र = अस्मिन् प्रसङ्गे, च = पुनः, चित्रम् = किमप्याश्चर्यम्, न = नहि,
यदि = चेत्, तमोवृतात्मनः—तमसा = अज्ञानेन, वृतः = आच्छादितः, आत्मा = चेतना,
यस्य तस्य, मनः = चित्तः, रागपाप्मना—रागः = आसक्तिः, तदेव पाप्मा = दोषस्तेन,
अभिभूयेत = वशीभूयेत, हि = यतः, नरस्य = लोकस्य, पाप्मा = दुर्गुणः, तदा = तस्मिन्
काले, निवर्त्तते = नश्यते, यदा = यस्मिन् समये, अन्तगतम् = आन्तरिकम्, तमः =
अज्ञानम्, तनु = क्षीणं भवति ॥ ३ ॥
हिन्दी-और इसमें कोई विचित्र बात नहीं कि तम रूपी अज्ञान से आवृत्त मन
आसक्तिरूप पाप से अभिभूत हो, मनुष्य का पाप तभी नष्ट होता है जब उसका
अज्ञान मिट जाता है ॥ ३ ॥
ततस्तथा क्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च ।
गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये ॥ ४ ॥
अन्वयः—ततः तदा तं बलेन रूपेण च यौवनेन च तथा क्षिप्तं गृहप्रयाणं प्रति
च व्यवस्थितं तम् अवेक्ष्य सः श्रमणः शान्तये नन्दं शशास ॥ ४ ॥
व्याख्या—ततः = तत्पश्चात्, तदा = तस्मिन् काले, तम् = नन्दम्, बलेन =
सामर्थ्येन, रूपेण = आकृत्या, च = पुनः, यौवनेन = तारुण्येन, च, तथा = तेन रूपेण,
क्षिप्तम् = प्रमत्तम्, गृहप्रयाणम्—गृहाय = गेहाय, प्रयाणम् = गमनम्, प्रति, च,
व्यवस्थितम् = कृतनिश्चयम्, तम् = नन्दम्, अवेक्ष्य = दृष्ट्वा, सः = असौ, श्रमणः =
भिक्षुः, शान्तये = शमनाय, नन्दम् = नृपम्, शशास = उपदिदेश ॥ ४ ॥
हिन्दी—तब उसे बल, रूप और यौवन के कारण वैसा उन्मत्त तथा घर लौटने
के लिए कृतसंकल्प देखकर उस साधु ने नन्द को उपदेश दिया ॥ ४ ॥
बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि ।
अहं त्विदं ते त्रयमव्यवस्थितं यथावबुद्धो न तथावबुध्यसे ॥ ५ ॥
अन्वयः—बलञ्च रूपञ्च नवं यौवनं च तथा अवगच्छामि तथा अवगच्छसि तु
अहं ते इदं त्रयं यथा अव्यवस्थितम् अवबुद्धः तथा न अवबुध्यसे ॥ ५ ॥
व्याख्या—बलञ्च = सामर्थ्यञ्च, रूपञ्च = आकृतिश्च, नवम् = नूतनम्, यौवनञ्च =
तारुण्यञ्च, अहम्, तथा = तेन प्रकारेण, अवगच्छामि = जानामि, यथा = येन रूपेण,
त्वम् अवगच्छसि = जानासि, तु = किन्तु, अहम् = भिक्षुः, ते = तव, इदम् = एतत्,
त्रयम् = त्रिसङ्ख्यकमपि, यथा = येन प्रकारेण, अव्यवस्थितम् = अस्थिरम्, अवबुद्धः =
ज्ञातः, तथा = तेन रूपेण, न = नहि, अवबुध्यसे = ज्ञायसे । नन्दस्तु यथा बलरूपादि-
कस्यास्थिरत्वेनानभिज्ञो भूत्वाऽऽसक्तोऽस्ति, तथैव भिक्षुः तेषामस्थिरत्वस्य विज्ञो भूत्वा
अनासक्तोऽस्ति ॥ ५ ॥

१७२ सौन्दरनन्दं महाकाव्यम्
हिन्दी—बल, रूप और नव यौवन को जैसा तुम जान रहे हो, वैसा मैं समझ
रहा हूँ, मैं तो तुम्हारे इन तीनों को जैसा अव्यवस्थित जान रहा हूँ, वैसा तुम नहीं
समझ रहे हो ॥ ५ ॥
इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलम् ।
न वेत्सि देहं जलफेनदुर्बलं बलस्थतामात्मनि येन मन्यसे ॥ ६ ॥
अन्वयः—हि इदं रोगायतनं जरावशं नदीतटानोकहवत् चलाचलं जलफेनदुर्बलं
देहं न वेत्सि येन आत्मनि बलस्थतां मन्यसे ॥ ६ ॥
व्याख्या --हि = यतः, इदम् = एतत्, रोगायतनम् - रोगस्य = व्याधेः, आयतनम्
= गृहम्, जरायाः = वृद्धावस्थायाः, वशम् = वशीभूतम्, नदीतटानोकहवत् - नद्याः =
तटिन्याः, तटस्य = कूलस्य, अनोकहः = वृक्षस्तद्वत्, चलाचलम् = अस्थिरम्, जलफेन-
दुर्बलम् - जलस्य = सलिलस्य, फेनः = जलहासः, इव = यथा, दुर्बलम् = नश्वरम्,
देहम् = शरीरम्, न = नहि, वेत्सि = जानासि, येन = कारणविशेषेण, आत्मनि =
स्वस्मिन्, बलस्थताम् - बले तिष्ठतीति बलस्थः, तस्य भावस्ताम्=सामर्थ्यस्यास्थिरताम्,
मन्यसे = ज्ञायसे । वस्तुतः शारीरिकामगुणिनः नश्वरताञ्च सर्वे जानन्ति किञ्च
तेषामनुभवस्तु ज्ञानिनः एव कर्तुं शक्यन्ते । यतोहि ते मोहग्रस्ताः न भवन्ति ॥ ६ ॥
हिन्दी—यह देह रोगों का घर है, बुढौती के वश में है, नदीतटवर्त्ती वृक्ष की
तरह चलायमान और जल के फेन की तरह क्षणिक है; तुम नहीं जानते इसे, इसीलिए
अपने बल को तुम स्थिर मान रहे हो ॥ ६ ॥
यदान्नपानासनयानकर्मणामसेवनादप्यतिसेवनादपि ।
शरीरमासन्नविपत्ति दृश्यते बलेऽभिमानस्तव केन हेतुना ॥ ७ ॥
अन्वयः-यदा अन्नपानासनयानकर्मणाम् असेवनात् अपि अतिसेवनात् अपि आसन्न-
विपत्तिः शरीरं दृश्यते, बले तव अभिमानः केन हेतुना ? ॥ ७ ॥
व्याख्या-यदा = यस्मिन् काले, अन्नपानासनयानकर्मणाम् - अन्नञ्च = भक्ष्य-
पदार्थञ्च, पानञ्च = पेयद्रव्यञ्च, आसनञ्च = स्थितिञ्च, यानञ्च = प्रवहणञ्चेति तेषां
कर्मणि = कर्त्तव्ये, तेषाम्, असेवनात् = अकरणात्, अपि = चेत्, अतिसेवनात् =
अत्यधिककरणात्, अपि, आसन्नविपत्तिः - आसन्नाः = समीपवर्त्तिनी, विपत्तिः =
आपत्तियँस्य तत्, शरीरम् = देहम्, दृश्यते = अवलोक्यते, तदा, बले = सामर्थ्ये, तव =
भवतः, अभिमानः = दर्पः, केन हेतुना = केन कारणेन भवतीति ॥ ७ ॥
हिन्दी-जब अन्न, पान, आसन और यान-इनमें जिन कर्मों का सेवन नहीं
करने से और अतिसेवन से भी देह में विपत्ति नजदीक में दिखलायी पड़ती है, तो
फिर किस कारण से तुम बल पर घमंड करते हो ? ॥ ७ ॥
हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत् ।
जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलंदृप्त मन्यसे ॥ ८ ॥

मदापवादः ] नवमः सर्गः १७३
अन्वयः—बलदृप्त ! यदा हिमातपव्याधिजराक्षुदादिभिः अनर्थैः अपि जगत्
उपमीयते, शुचौ मासे अर्करश्मिभिः क्षयं व्रजन् जलम् इव किं मन्यसे ? ॥ ८ ॥
व्याख्या—बलदृप्त ! = हे शक्त्यभिमानी ! हिमातपव्याधिजराक्षुदादिभिः—
हिमञ्च = शीतञ्च, आतपञ्च = उष्णता च, व्याधिश्च = रोगश्च, जरा च = वृद्धावस्था
च, क्षुत् च = बुभुक्षा च, आदयः = प्रभृतयस्ताभिः, अनर्थैः = अनिष्टैः, अपि = चेत्,
जगत्—गच्छतीति जगत् = संसारः, उपमीयते = तुल्यते, शुचौ = ज्येष्ठे मासे, अर्क-
रश्मिभिः—अर्कस्य = दिवाकरस्य, रश्मयः = मयूखानि, ताभिः, जलमिव = सलिल-
मिव, क्षयम् = विनाशम्, व्रजन् = गच्छन्, जलमिव किम् = कथम्, मन्यसे =
चिन्तयसि ? ॥ ८ ॥
हिन्दी—जब जाड़ा, गर्मी, रोग, भूख और बुढ़ौती आदि अनर्थों से सारी दुनियाँ
पीड़ित हो रही है, तब जेठ के महीने में सूर्य की किरणों से सूखते पानी की तरह हे
बलाभिमानी ! तुम क्या शोच रहे हो ? ॥ ८ ॥
त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति ।
अजस्रमार्तं सततप्रक्रियं बलान्वितोऽस्मीति कथं विहन्यसे ॥ ९ ॥
अन्वयः—यदा त्वगस्थिमांसक्षतजात्मकं शरीरम् आहारवशेन तिष्ठति अजस्रम्
आर्तम् सततप्रक्रियं बलान्वितः अस्मि इति कथं विहन्यसे ? ॥ ९ ॥
व्याख्या—यदा = यस्मिन् काले, त्वगस्थिमांसक्षतजात्मकम्—त्वक् च = कृतिश्च,
अस्थि च = कीकसञ्च, मांसञ्च = पिशितञ्च, क्षतजञ्च—क्षताज्जातम्, क्षतजम् = व्रणात्
बहिरागतं रक्तम् इति तदात्मकम्, शरीरम् = देहम्, आहारवशेन = भोजनपानादि-
वशेन, तिष्ठति = विद्यते, अजस्रम् = अनवरतम्, आर्तम् = रोगातंम्, सततप्रक्रियम्—
सततम् = सदा, प्रतिक्रिया = प्रत्याघातः यस्मिन् तत्, एवमस्ति तदा, बलान्वितः =
सामर्थ्यवान्, अस्मि = भवामि, इति = एवम्, कथम् = केन रूपेण, विहन्यसे =
प्रतार्यसे ? ॥ ९ ॥
हिन्दी—जब हड्डी, चमड़ी, मांस और लहू से और आहार का वशवर्त्ती यह शरीर
सदा प्रतिकार में ही लगा है, तो फिर मैं 'बलवान् हूँ' ऐसा विचार क्यों कर रहे
हो ? ॥ ९ ॥
यथा घटं मृन्मयाममाश्रितो नरस्तितीर्षेत् क्षुभितं महार्णवम् ।
समुच्छ्रयं तद्वदसारमुद्वहन् बलं व्यवस्येद्विषयार्थमुद्यतः ॥ १० ॥
अन्वयः—यथा मृन्मयम् आमं घटम् आश्रितः नरः क्षुभितं महार्णवं तितीर्षेत्, तद्वत्
असारम् उद्वहन् विषयार्थम् उद्यतः समुच्छ्रयं बलं व्यवस्येत् ॥ १० ॥
व्याख्या—यथा = येन रूपेण, मृन्मयम्—मृदः = मृत्तिकायाः, विकारः = परिणामः,
(विकारार्थेऽत्र मयट् ), मृन्मयम् = मृन्निर्मितम्, आमम् = अपक्वम्, घटम् = कुम्भम्,
आश्रितः = निर्भरः, नरः = लोकः, क्षुभितम् = कुपितम्, महार्णवम्—महान् चासौ
सौ०-15

१७४ सौन्दरनन्दं महाकाव्यम्
अर्णवस्तम् = महासमुद्रम्, तितीर्षेत् = तर्तुमिच्छेत्, तद्वत् = तेनैव प्रकारेण, असारम् =
सारहीनं शरीरम्, उद्वहन् = धारयन्, विषयार्थम् = विषयभोगनिमित्तम्, उद्यतः =
तत्परः, समुच्छ्रयम् = देहम्, बलम् = सामर्थ्यम्, व्यवस्येत् = प्रयतेत् ॥ १० ॥
हिन्दी—जैसे कोई आदमी मिट्टी के कच्चे घड़े के सहारे कुपित सागर को पार
करना चाहता है, उसी तरह विषय-भोग के लिए तत्पर आदमी अपने को शक्तिशाली
समझने का प्रयास करता है ॥ १० ॥
शरीरमामादपि मृन्मयाद् घटा-
दिदं तु निःसारतमं मतं मम ।
चिरं हि तिष्ठेद्विधिवद् धृतो घटः
समुच्छ्रयोऽयं सुधृतोऽपि भिद्यते ॥ ११ ॥
अन्वयः—इदं शरीरं मृन्मयात् आमात् घटात् अपि निःसारतमं मम मतम्, हि
विधिवत् धृतः घटः चिरं तिष्ठेत्, अयं समुच्छ्रयः सुधृतः अपि भिद्यते ॥ ११ ॥
व्याख्या—इदम् = एतत्, शरीरम् = देहम्, मृन्मयात् = मृत्पिण्डजातात्, आमात् =
अपरिपक्वात्, घटात् = कुम्भात्, अपि = चेत्, निःसारतमम् = सारहीनम्, इति मम =
श्रमणस्य, मतम् = विचारम्, हि = यतः, विधिवत् = नियमपूर्वकम्, धृतः = स्थापितः,
घटः = कुम्भः, चिरम् = चिरकालपर्यन्तम्, तिष्ठेत् = वर्त्तेत, अयम् = एषः, समुच्छ्रयः =
देहम्, सुधृतः = सुष्ठुरूपेण गृहीतः, अपि = चेत्, भिद्यते = नश्यते ॥ ११ ॥
हिन्दी—यह शरीर तो मिट्टी के कच्चे घड़े से भी बदतर है, क्योंकि मैं समझता
हूँ कि नियमपूर्वक रखे जाने पर मिट्टी के घड़े तो बहुत दिनों तक टिक सकते हैं,
किन्तु यह शरीर अच्छी तरह रखने के बावजूद भी नष्ट हो जाती है ॥ ११ ॥
यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः ।
भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ १२ ॥
अन्वयः—यदा अम्बुभूवाय्वनलाः धातवः शरीरम् आश्रिताः विषमाः उरगाः इव
सदा विरुद्धाः अनर्थाय च भवन्ति, रोगविधः कथं बलं व्यवस्यसि ? ॥ १२ ॥
व्याख्या—यदा = यस्मिन् काले, अम्बुभूवाय्वनलाः—अम्बु च = जलञ्च, भूञ्च =
पृथ्वी च, वायुश्च = पवनञ्च, अनलश्चेति = अग्निश्चेति, धातवः = शरीरकारणानि
( शरीरस्थम् आकाशादितत्त्वम्, अस्थिमांसादितत्त्वञ्च धातुपदेन व्यपदिश्यते ), शरीरम्
= देहम्, आश्रिताः = समाश्रिताः, विषमाः = असमाः, उरगाः = सर्पाः, इव = यथा,
सदा = सर्वदा, विरुद्धाः = विपरीताः, अनर्थाय = अशिवाय, च = पुनः, भवन्ति =
जायन्ते, रोगविधः = व्याधिधर्मः, कथम् = केन कारणेन, बलम् = सामर्थ्यम्, व्यवस्यसि
= अवगच्छसि ? ॥ १२ ॥
हिन्दी—जब आग, पानी, पृथ्वी और वायु—ये धातुएं शरीर में एक साथ रहकर
भी विषम विषधरों की तरह सदैव विरुद्ध रहती हैं और अनर्थकारी बन जाती हैं, तो
फिर इस रोगधर्मा शरीर को ताकतवर कैसे मान रहे हो ? ॥ १२ ॥

मदापवादः ] नवमः सर्गः १७५
प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा
न मन्त्रसाध्यास्तु भवन्ति धातवः ।
क्वचिच्च कञ्चिच्च दशन्ति पन्नगाः
सदा च सर्वं च तुदन्ति धातवः ॥ १३ ॥
अन्वयः—भुजङ्गमाः मन्त्रैः प्रशमं प्रयान्ति, धातवस्तु मन्त्रसाध्याः न भवन्ति,
पन्नगाः क्वचित् च कञ्चित् च दशन्ति धातवश्च सदा सर्वं तुदन्ति ॥ १३ ॥
व्याख्या—भुजङ्गमाः = विषधराः, मन्त्रैः = सर्पविषोपशामकमन्त्रैः, प्रशमम् =
शान्तिम्, प्रयान्ति=गच्छन्ति, धातवस्तु = शरीरकरणानि तु, मन्त्रसाध्याः = मन्त्रवशी-
भूताः, न = नहि, भवन्ति = सन्ति, पन्नगाः = उरगाः, क्वचिच्च = कुत्रापि च,
कञ्चिच्च = कमपि च, दशन्ति = दशनं कुर्वन्ति, धातवश्च = शरीरकरणानि च, सदा =
सर्वदा, सर्वम् = सकलम्, तुदन्ति = व्यथयन्ति ॥ १३ ॥
हिन्दी—साँप मन्त्रों से शान्त हो जाते हैं, किन्तु धातुएँ मन्त्र के वश में नहीं
होती हैं । साँप तो कहीं-कहीं किसी को डँसते हैं, किन्तु धातुएँ सदा सभी को पीड़ित
करती रहती हैं ॥ १३ ॥
इदं हि शय्यासनपानभोजनैर्गुणैः शरीरं चिरमप्यवेक्षितम् ।
न मर्षयत्येकमपि व्यतिक्रमं यतो महाशीविषवत् प्रकुप्यति ॥ १४ ॥
अन्वयः—हि शय्यासनपानभोजनैः गुणैः चिरम् अवेक्षितम् अपि इदं शरीरम्
एकमपि व्यतिक्रमं न मर्षयति, यतः महाशीविषवत् प्रकुप्यति ॥ १४ ॥
व्याख्या—हि=इति निश्चयेन, शय्यासनपानभोजनैः = आस्तरोपवेशनप्रकारपेयद्रव्य-
भक्ष्यपदार्थैः, गुणैः = विधानैः, चिरम् = बहुकालपर्यन्तम्, अवेक्षितम् = पालितपोषितम्,
अपि = चेत्, इदम् = एतत्, शरीरम् = देहम्, एकमपि = एकमात्रमपि, व्यतिक्रमम् =
अन्तरायः, न = नहि, मर्षयति = क्षमते, यतः = यस्मात्, महाशीविषवत् = महांश्चासो
आशीविषः, तद्वत् = विषधरसर्पवत्, प्रकुप्यति = कुपितो भवति ॥ १४ ॥
हिन्दी—शयन, आसन, भोजन-पान आदि गुणों से चिरपोषित यह देह इनमें से
एक भी गड़बड़ी को बर्दाश्त नहीं करती, बल्कि उसमें व्यवधान के होने पर विषधर
साँप की तरह फुफकार उठती है ॥ १४ ॥
यदा हिमार्तो ज्वलनं निषेवते
हिमं निदाघाभिहतोऽभिकाङ्क्षति ।
क्षुधान्वितोऽन्नं सलिलं तृषान्वितो
बलं कुतः किञ्च कथं च कस्य च ॥ १५ ॥
अन्वयः—यदा हिमार्तः ज्वलनं निषेवते, निदाघाभिहतः हिमम् अभिकाङ्क्षति,
क्षुधान्वितः अन्नं, तृषान्वितः सलिलं, कुतः बलं किञ्च कथं च ? कस्य च ? ॥१५॥
व्याख्या—यदा = यस्मिन् काले, हिमार्तः = हिमेन = शैत्येन, आर्तः = पीडितः,
ज्वलनम् = वह्निः, निषेवते = सेवते, निदाघाभिहतः—निदाघेन = तापेन, अभिहतः =

१७६ सौन्दरनन्दं महाकाव्यम्
पीडितः, हिमम् = शैत्यम्, अभिकाङ्क्षति = वाञ्छति, क्षुधान्वितः = बुभुक्षायुक्तः,
अन्नम् = भोज्यपदार्थः, तृषान्वितः = पिपासितः, सलिलम् = जलम्, इच्छति, तदा कुतः
= क्वास्ति बलम् = पराक्रमम्, किञ्च = किञ्चास्ति, कथं च = केन प्रकारेणास्ति, कस्य
कस्य च = चास्ति ? ॥ १५ ॥
हिन्दी—जब ठण्ड से पीड़ित व्यक्ति आग का सेवन करता है, गर्मी से पीड़ित
व्यक्ति ठण्ड चाहता है, भूखा भोजन और प्यासा पानी चाहता है, तब बल कहाँ हैं ?
क्या है ? कैसे है ? और किसका है ? ॥ १५ ॥
तदेवमाज्ञाय शरीरमातुरं बलान्वितोऽस्मीति न मन्तुमर्हसि ।
असारमस्वन्तमनिश्चितं जगज्जगत्यनित्ये बलमव्यवस्थितम् ॥ १६ ॥
अन्वयः—तत् एवं शरीरम् आतुरम् आज्ञाय बलान्वितः अस्मि इति मन्तुं न
अर्हसि, जगत् असारम् अस्वन्तम् अनिश्चितम् अनित्ये जगति बलम् अव्यवस्थितम् ।
व्याख्या—तत् = तस्मात्, एवम् = इत्थम्, शरीरम् = देहम्, आतुरम् = पीडितम्,
आज्ञाय = ज्ञात्वा, बलान्वितः—बलेन = पराक्रमेण, अन्वितः = युक्तः, अस्मि = भवामि,
इति = एवम्, मन्तुम् = चिन्तयितुम्, न = नहि, अर्हसि = योग्योऽसि, जगत् = संसारः,
असारम् = सारहीनम्, अस्वन्तम्—न शोभनमन्तं यस्य तत् = दुःखान्तम्, अनिश्चितम्
= अनियतम्, अनित्ये = नश्वरे, जगति = संसारे, बलम् = पराक्रमम्, अव्यवस्थितम् =
न व्यवस्थितम्, अस्थिरम् ॥ १६ ॥
हिन्दी—अतः देह को दुःखी जानकर भी 'मैं पराक्रमी हूँ' ऐसा मानना उचित
नहीं है। यह संसार असार, अनित्य, अनिश्चित एवं दुःखान्त है। इस अनित्य संसार
में बल-विक्रम भी अनित्य है ॥ १६ ॥
क्व कार्तवीर्यस्य बलाभिमानिनः सहस्रबाहोर्बलमर्जुनस्य तत् ।
चकत्तं बाहून् युधि यस्य भार्गवो महान्ति शृङ्गाण्यशनिगिरेरिव ॥ १७॥
अन्वयः—बलाभिमानिनः सहस्रबाहोः कार्तवीर्यस्य अर्जुनस्य तत् बलं क्व ?
भार्गवः युधि यस्य बाहून् अशनिः गिरेः महान्ति शृङ्गाणि इव चकत्तं ॥ १७ ॥
व्याख्या—बलाभिमानिनः—बलस्य = पराक्रमस्य, अभिमानः = दर्पः, अस्येति
तस्य, सहस्रबाहोः—सहस्रम् = दशशतम्, बाहवः = भुजाः, यस्य तस्य, कार्तवीर्यस्य =
कृतवीर्यसुतस्य, अर्जुनस्य = एतदाख्यनृपस्य, तद् बलम् = पराक्रमम्, क्व = कुत्र गतः ?
यदा भार्गवः = भृगोः पुत्रः परशुरामः, युधि = सङ्ग्रामे, यस्यार्जुनस्य, बाहून् = भुजान्,
अशनिः = पविः, गिरेः = पर्वतस्य, महान्ति = दीर्घाणि, शृङ्गाणि = शिखराणि,
इव = यथा, चकत्तं = कर्त्तयामास । उपमालङ्कारोऽत्र ॥ १७ ॥
हिन्दी—बल का अभिमान करने वाले कृतवीर्य के पुत्र हजार बाँहों वाले अर्जुन
की उन लम्बी-लम्बी बाँहों को परशुराम ने उसी तरह कतर डाला, जैसे वज्र पहाड़
की ऊँची-ऊँची चोटियों को तोड़कर ढहा देता है ॥ १७ ॥

मदापवादः ] नवमः सर्गः १७७
क्व तद्बलं कंसविकर्षिणो हरेस्तुरङ्गराजस्य पुटावभेदिनः ।
यमेकबाणेन निजघ्निवान् जराः क्रमागता रूपमिवोत्तमं जरा ॥ १८ ॥
अन्वयः—कंसविकर्षिणः तुरङ्गराजस्य पुटावभेदिनः हरेः तद्बलं क्व एकबाणेन
जराः यं क्रमागताः जरा उत्तमं रूपमिव निजघ्निवान् ॥ १८ ॥
व्याख्या—कंसविकर्षिणः—कंसम्=उग्रसेनसुतम्, विकर्षितुम्=हन्तुम्, शीलमस्य
तस्यं, तुरङ्गराजस्य=अश्वराजस्य, पुटावभेदिनः—पुटम्=मुखम्, अवभेत्तुम्=
विदारितुम्, शीलमस्य तस्य, जराः=एतदाख्यो व्याधः (पौराणिकीगाथानुसारेण
जरानामकः कोऽपि व्याधो भ्रान्त्या कृष्णं बाणेन जघान । ), यम्=श्रीकृष्णम्, क्रमागताः
=क्रमप्राप्ताः, जरा=वृद्धावस्था, उत्तमम्=उत्कृष्टम्, रूपम्=तस्याकृतिः, इव=
यथा, निजघ्निवान्=जघान ॥ १८ ॥
हिन्दी—कंस की हत्या करने वाले, केशी का मुख चीर कर मार डालने वाले
श्रीकृष्ण का वह बल कहाँ गया, जब एक ही बाण से जरा नामक बहेलिए ने उन्हें
उसी तरह मार डाला, जैसे बुढौती सुन्दर रूप को विनष्ट कर देती है ॥ १८ ॥
दितेः सुतस्यामररोषकारिणश्चमूरुचेर्वा नमुचेः क्व तद्बलम् ।
यमाहवे क्रुद्धमिवान्तकं स्थितं जघान फेनावयवेन वासवः ॥ १९ ॥
अन्वयः—अमररोषकारिणः चमूरुचेः वा दितेः सुतस्य नमुचेः तद्बलं क्व यम्
आहवे क्रुद्धम् अन्तकमिव स्थितं वासवः फेनावयवेन जघान ॥ १९ ॥
व्याख्या—अमररोषकारिणः—अमरान्=देवान्, रोषम्=क्रोधम्, कर्तुं शील-
मस्य तस्य, चमूरुचेः—चमूः=सैन्यानि, रुचिः=अभिरुचिर्यस्य तस्य=युद्धप्रियस्य,
दितेः=कश्यपपत्न्याः, सुतस्य=पुत्रस्य, नमुचेः=दैत्याधिपतेः ( नमुचिनामकः एको
दैत्य आसीत् । सोऽतीव शक्तिशाली आसीत् । एकदा तेनेन्द्रोऽपि पराजितोऽभूत् ।
तत्पश्चादिन्द्रो जलफेनेन तं जघान । यतो हि सः ब्रह्मवरप्रसादेन सान्द्रेण तरलपदार्थेन वा
मर्त्तुं नाशक्नोत् । ) तस्य=नमुचेः, बलम्=पराक्रमम्, क्व=कुत्रासीत्, यम्=
नमुचिम्, आहवे=समरे, क्रुद्धम्=कुपितम्, अन्तकमिव=साक्षात् यमवत्, स्थितम्=
उपस्थितम्, वासवः=अमराधिपतिः, फेनावयवेन=जलहासेन, जघान=हतवान् ॥१९॥
हिन्दी—देवताओं को कुपित करने वाले युद्ध-प्रेमी नमुचि दैत्य का वह बल
कहाँ चला गया, जब साक्षात् क्रुद्ध यमराज की यरह युद्ध के मैदान में उपस्थित उसे
इन्द्र ने पानी के फेन से मार डाला ? ॥ १९ ॥
बलं कुरूणां क्व च तत्तदाभवद्
युधि ज्वलित्वा तरसौजसा च ये ।
समित्समिद्धा ज्वलना इवाध्वरे
हतासवो भस्मनि पर्यवस्थिताः ॥ २० ॥

१७८ सौन्दरनन्दं महाकाव्यम्
अन्वयः—कुरुणां च तद्वलं क्व अभवत् ये च युधि तरसौजसा ज्वलित्वा
अध्वरे समित्समिद्धाः ज्वलना इव हतासवः भस्मनि पर्यवस्थिताः ? ।। २० ।। .
व्याख्या—कुरुणाम् = कौरवाणाम्, च=पुनः, तद् = प्रचण्डम्, बलम् = पराक्रमम्,
क्व ==कुत्र, अभवत् = आसीत्, ये च = यदा कौरवाश्च, युधि =युद्धे, तरसौजसा =
बलविक्रमेण, ज्वलित्वा = भस्मीभूय, अध्वरे = यागे, समित्समिद्धाः = समित्प्रज्वलिताः,
ज्वलना = अग्निः, इव = यथा, हतासवः—हताः = मृताः, असवः = प्राणाः, येषां ते,
भस्मनि = भूत्याम्, पर्यवस्थिताः = अवस्थितोऽभवत् ॥ २० ॥
हिन्दी—कौरवों का वह बल तब कहाँ चला गया था, जो रणाङ्गण में वीरता
और पराक्रमपूर्वक प्रज्वलित होकर, याग में लकड़ियों से जलते हुए अग्नि की तरह
प्राणरहित होकर राख में बदल गये ॥ २० ॥
अतो विदित्वा बलवीर्यमानिनां वलान्वितानामवमर्दितं वलम् ।
जगज्जरामृत्युवशं विचारयन् बलेऽभिमानं न विधातुमर्हसि ॥ २१ ॥
अन्वयः—अतः बलवीर्यमानिनां बलान्वितानां बलम् अवमर्दितं विदित्वा जगद्
जरामृत्युवशं विचारयन् बले अभिमानं विधातुं न अर्हसि ॥ २१ ॥
व्याख्या—अतः = अस्मात् कारणात्, बलवीर्यमानिनाम्—बलम् = पराक्रमम्,
वीर्यम्=तेजसम्, च तयोः मानम्=अभिमानम्, येषु तेषाम्, बलान्वितानाम्=बलवताम्,
बलम् = पराक्रमम्, अवमर्दितम् = पीडितम्, विदित्वा = ज्ञात्वा, जगत् = संसारम्,
जरामृत्युवशम्=वृद्धावस्था-मृत्योश्च वशीभूतम्, विचारयन् = चिन्तयन्, बले = पराक्रमे,
अभिमानम् = दर्पम्, विधातुम् =कर्तुम्, न =नहि, अर्हसि =योग्योऽसि ॥ २१ ॥
हिन्दी—अतः बल और वर्चस्व का गर्व करने वाले बलशालियों के बल को नष्ट
हुआ जानकर और संसार को बुढ़ौती और मौत के अधीन होने का विचार करते हुए
घमंड नहीं करना चाहिए ॥ २१ ॥
बलं महद्वा यदि वा न मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः ।
जयश्च तेऽत्रास्ति महच्च ते बलं पराजयश्चेद्वितथं च ते बलम् ॥ २२ ॥
अन्वयः—बलं महद् वा यदि वा न मन्यसे तावत् इन्द्रियैः सह युद्धं कुरुष्व, अत्र
च ते जयः ते बलं च महत् चेत् पराजयः ते बलं च वितथम् ॥ २२ ॥
व्याख्या --- बलं = सामर्थ्यम्, महत् = श्रेष्ठम्, वा = अथवा, यदि वा =किं वा,
न = नहि, मन्यसे = विचारयसि, तावत् = तर्हि, इन्द्रियैः = करणैः, सह = साकम्,
युद्धम् = समरम्, कुरुष्व = विधेहि, अत्र च = इह च, ते = तव, जयः = विजयः, ते =
तव, बलम् = पौरुषम्, च, महत् = श्रेष्ठम्, चेत् = यदि, पराजयो भवति, तर्हि, ते=तव,
बलम् = पौरुषम्, च = पुनः, वितथम् = व्यर्थमेवास्तीति ॥ २२ ॥
हिन्दी—या यदि अपनी ताकत को महान् मानते हो अथवा नहीं मानते हो तो
इसकी जांच के लिए इन्द्रियों से युद्ध करो, इसमें अगर तुम्हारी जीत होती है तो फिर

मदापवादः ] नवमः सर्गः १७९
तुम्हारा पौरुष महान् है और अगर हार होती है तो फिर तुम्हारा बल बेकार
है ॥ २२ ॥
तथा हि वीराः पुरुषा न ते मता
जयन्ति ये साश्वरथद्विपानरीन् ।
यथा मता वीरतरा मनीषिणो
जयन्ति लोलानि षडिन्द्रियाणि ये ॥ २३ ॥
अन्वयः—हि ते पुरुषाः तथा वीराः न मताः ये साश्वरथद्विपान् अरीन् जयन्ति
यथा वीरतराः मनीषिणः मताः ये लोलानि षडिन्द्रियाणि जयन्ति ॥ २३ ॥
व्याख्या—हि = यतः, ते = तव, पुरुषाः = जनाः, तथा = तावन्तः, वीराः =
पराक्रमशालिनः, न = नहि, मताः = मन्यन्ते, ये = लोकाः, साश्वरथद्विपान्—अश्वाश्च
= घोटकाश्च, रथाश्च = स्यन्दनाश्च, द्विपाश्च = गजाश्च, अश्वरथद्विपास्तैः सहितान् =
युक्तान्, अरीन् = शत्रून्, जयन्ति = विजयन्ते, यथा = येन प्रकारेण, वीरतराः =
अतिशयेन वीराः वीरतराः = श्रेष्ठतरवीराः, मनीषिणः—बुद्धिरस्ति येषु ते = साधवः,
मताः = कथिताः, ये लोलानि = चञ्चलानि, षडिन्द्रियाणि = षट्करणानि, जयन्ति =
विजयन्ते ॥ २३ ॥
हिन्दी—क्योंकि वे पुरुष उतने वीर नहीं कहे जाते, जो घोड़े-रथ और हाथियों
के सहारे युद्ध जीत लेते हैं; जितने वीर वे मनीषी कहलाते हैं, जो अपनी चपल
षडिन्द्रियों को जीत लेते हैं ॥ २३ ॥
अहं वपुष्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यताम् ।
क्व तद्वपुः सा वपुष्मती तनुर्गदस्य शाम्बस्य च सारणस्य च ॥ २४ ॥
अन्वयः—अहं वपुष्मान् इति यत् च मन्यसे एतद् विचक्षणं न इदं च गृह्यतां
गदस्य शाम्बस्य सारणस्य च तद्वपुः सा वपुष्मती तनुः क्व ॥ २४ ॥
व्याख्या—अहम् = नन्दः, वपुष्मान् = रूपवानस्मि, इति = इत्यम्, च यत् मन्यसे =
अवगच्छसि, एतद् = इदम्, विचक्षणम् = समीचीनम्, न = नास्ति, इदञ्च = एतच्च,
गृह्यताम् = बुद्ध्यताम्, गदस्य = गदाख्यनृपस्य, शाम्बस्य = एतदाख्यनृपस्य, सारणस्य =
एतन्नामकस्य, च = पुनः, तद्वपुः = तस्य शरीरम्, सा वपुष्मती = सा रूपसी, तनुः =
देहम्, क्व = कुत्रास्ति ॥ २४ ॥
हिन्दी—'मैं रूपवान् हूँ' अगर तुम्हारी मान्यता यह है तो उचित नहीं है, ऐसा
मान लो। गद, शाम्ब और सारण का वह रूप और रूपवान् शरीर कहां है ? ॥२४॥
यथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः ।
शरीरसंस्कारगुणादृते तथा बिभर्षि रूपं यदि रूपवानसि ॥ २५ ॥
अन्वयः—यथा चलचित्रचन्द्रकः मयूरः स्वभावतः गुणवत् रूपं बिभर्ति, यदि
शरीरसंस्कारगुणात् ऋते तथा रूपं बिभर्षि रूपवान् असि ॥ २५ ॥

१८० सौन्दरनन्दं महाकाव्यम्
व्याख्या - यथा = येन रूपेण, चलचित्रचन्द्रकः- चलम् = चपलम्, चित्रम् =
विचित्रम्, चन्द्रकः यस्य सः, मयूरः = शिखण्डी, स्वभावतः = निसर्गतः, गुणवत् =
गुणयुक्तम्, रूपम् = स्वरूपम्, बिभर्ति = धारयति, यदि = चेत्, शरीरसंस्कारगुणात् -
शरीरस्य = देहस्य, संस्कारस्य = परिशोधनस्य, गुणः = स्वभावः, तस्मात् ( ऋतेयोगे
पञ्चमी ), ऋते = विना, तथा = तेन प्रकारेण, रूपम् = वपुः, बिभर्षि = धारयसि,
तदा रूपवान् = वपुष्मान्, असि = भवसि ॥ २५ ॥
हिन्दी-जैसे चंचल विचित्र चन्द्रक को मयूर स्वभाव से ही गुणयुक्त रूप को
धारण करता है, उसी तरह देह का संस्कार किये बिना यदि तुम गुणयुक्त रूप को
धारण करते हो तो फिर तुम रूपवान् हो ॥ २५ ॥
यदि प्रतीपं वृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः ।
मृजाविशेषं यदि नाददीत वा वपुर्वपुष्मन् वद कीदृशं भवेत् ॥ २६ ॥
अन्वयः- यदि प्रतीपं वाससा न वृणुयात्, यदि शौचकाले अपः न संस्पृशेत् यदि
वा मृजा विशेषं न अददीत, वपुष्मन् ! वद कीदृशं वपुः भवेत् ? ॥ २६ ॥
व्याख्या-यदि = चेत्, प्रतीपम् = प्रतिकूलम्, वाससा = वस्त्रेण, न = नहि,
वृणुयात् = आच्छादयेत्, यदि = चेत्, शौचकाले = मलत्यागसमये, अपः = सलिलम्,
न = नहि, संस्पृशेत् = स्पर्शं कुर्यात्, यदि वा = अथवा, मृजा = स्वच्छता, विशेषम् =
अङ्गप्रसाधनम्, न = नहि, अददीत = कुर्यात्, वपुष्मान् = स्वरूपवान् ! वद = कथय,
कीदृशम् = कथम्, वपुः = स्वरूपम्, भवेत् = स्यादिति ॥ २६ ॥
हिन्दी-यदि गुप्ताङ्गों को कपड़े से ढँका न जाय, मलत्याग के बाद पानी का
उपयोग न किया जाय अथवा यदि स्वच्छता या प्रसाधन की व्यवस्था न की जाय, तो
हे रूपवान् ! कहो कैसा रूप रहेगा ? ॥ २६ ॥
नवं वयश्चात्मगतं निशाम्य यद् गृहोन्मुखं ते विषयाप्तये मनः ।
नियच्छ तच्छैलनदीरयोपमं द्रुतं हि गच्छत्यनिवर्ति यौवनम् ॥ २७ ॥
अन्वयः- आत्मगतं नवं वयश्च निशाम्य यत् ते मनः विषयाप्तये गृहोन्मुखं शैल-
नदीरयोपमं तत् नियच्छ, हि अनिवर्ति योवनं द्रुतं गच्छति ॥ २७ ॥
व्याख्या- आत्मगतम्- आत्मनि = स्वस्मिन्, गतम् = प्राप्तम्, स्वगतम्; नवम् =
नूतनम्, वयश्च = आयुश्च, निशाम्य = आकर्ण्य, यत्, ते = तव, मनः = चित्तम्, विषयाप्तये -
विषयस्य = उपभोगस्य, आप्तये = प्राप्तये; गृहोन्मुखम्- गृहाय = गेहाय, उन्मुखम् =
अभिमुखम्, शैलनदीरयोपमम् - शैलस्य = पर्वतस्य, नदी = तटिनी, तस्याः रयः = वेगः,
तस्य उपमा = तुलना तम्; तत् = मनः, नियच्छ = अवरुध, हि = यतः, अनिवर्ति-
न निवर्तितुं शीलं, यस्य तत् = अपरावृत्ति, यौवनम् = तारुण्यम्, द्रुतम् = शीघ्रम्,
गच्छति = याति ॥ २७ ॥
हिन्दी-अपनी नई जवानी को देखकर जो तुम्हारा मन विषयोपभोग के लिए
घर की ओर भाग रहा है, पहाड़ी नदी की तरह तीव्रवेग वाले उस मन को तो रोको,
क्योंकि गई जवानी फिर नहीं लौटती, देखो यह कितना तेज भाग रही है ॥ २७ ॥

मदापवादः ] नवमः सर्गः १८१
ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः ।
गतं गतं नैव सन्निवर्तते जलं नदीनां च नृणां च यौवनम् ॥ २८ ॥
अन्वयः—व्यतीतः ऋतुः पुनः परिवर्तते, क्षयं प्रयातः चन्द्रमा पुनः एति, तु
नदीनां च जलं नृणां च यौवनं गतं गतम् एव न सन्निवर्तते ॥ २८ ॥
व्याख्या—व्यतीतः=विगतः, ऋतुः = वसन्तादिः, मासद्वयात्मकः प्रकृतिपरिवर्तन-
युक्तः कालः, पुनः=भूयः, परिवर्तते=निवर्तते, क्षयम्=विनाशम्, प्रयातः =गतः,
चन्द्रमाः =निशाकरः, पुनः, एति = समागच्छति, तु=किन्तु, नदीनाम् =सरिताम्, च
जलम् = सलिलम्, नृणाम् = नराणाम्, च यौवनम् = तारुण्यम्, गतम्=विगतम्, गतमेव
=व्यतीतमेव, न सन्निवर्तते = पुनः न समागच्छति ॥ २८ ॥
हिन्दी—बीती ऋतु फिर लौट आती है, क्षय-प्राप्त चन्द्रमा फिर लौटता है, परन्तु
गया हुआ नदी का पानी और बीती जवानी फिर नहीं लौटती ॥ २८ ॥
विवर्णितश्मश्रु बलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् ।
यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥ २९ ॥
अन्वयः—यदा विवर्णितश्मश्रु बलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभं
जर्जरं मुखं द्रक्ष्यसि, तदा जराभिभूतः विमदः भविष्यसि ॥ २९ ॥
व्याख्या — यदा = यस्मिन् काले, विवर्णितश्मश्रु — विवर्णितम् = पलितम्, श्मश्रु=
कुर्चंः, यस्य सः, बलीविकुञ्चितम्—बलीभिः=चर्मसङ्कोचैः, विकुञ्चितम् = वक्रं गतम्,
विशीर्णदन्तम्—विशीर्णा=गलिताः, दन्ताः=दशनाः, यस्य तत्, शिथिलभ्रु—शिथिलौ=
स्खलितौ, ध्रुवौ=भ्रुकुटी, यस्य तत्, निष्प्रभम्—निर्गता=बहिर्गता, प्रभा=कान्तिः, यस्य
तत्, जर्जरम्=विशीर्णम्, मुखम् = आननम्, द्रक्ष्यसि=अवलोकयिष्यसि, तदा = तस्मिन्
काले, जराभिभूतः=वृद्धत्वेन वशीभूतः, विमदः=मदरहितः, भविष्यसीति ॥२९॥
हिन्दी—जब मूँछ-दाढ़ी सफेद हो जायेगी, झुर्रीदार, गलित दांत, पलित केश,
शिथिल भौं वाले जराजीर्ण, निष्प्रभ मुख की ओर देखोगे तब तुम्हारा सारा घमंड टूट
जायेगा ॥ २९ ॥
निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद्विमाद्यति ।
नरस्तु मत्तो बलरूपयौवनैर्न कश्चिदप्राप्य जरां विमाद्यति ॥ ३० ॥
अन्वयः—नरंः मदनीयम् उत्तमं पानं निषेव्य निशाविवासेषु चिरात् विमाद्यति,
तु बलरूपयौवनं मत्तः कश्चित् जराम् अप्राप्य न विमाद्यति ॥ ३० ॥
व्याख्या—नरः = पुरुषः, मदनीयम् = मादकम्, उत्तमम् = उत्कृष्टम्, पानम् =
पेयद्रव्यम्, निषेव्य = सेवयित्वा, निशाविवासेषु = निशायाः=रात्रिकालीनस्य, विवासः=
वस्त्रम्, तेषु, चिरात् = दीर्घकालात्, विमाद्यति = मदशून्यो भवति, तु = किन्तु, बलरूप-
यौवनैः = पौरुषस्वरूपतारुण्यैः, मत्तः = विक्षिप्तः, कश्चित् = कोऽपि, जराम् = तुरीया-
वस्थाम्, अप्राप्य = अनवाप्य, न = नहि, विमाद्यति = मदशून्यो भवति ॥ ३० ॥

१८२ सौन्दरनन्दं महाकाव्यम्
हिन्दी—मनुष्य उत्तम कोटि के मादक द्रव्य का सेवन कर बहुत देर रात बीतने
के बाद नशा से मुक्त होता है, किन्तु बल, रूप और जवानी के नशा में चूर कोई
व्यक्ति बुढ़ौती आये बिना मदमुक्त नहीं होता ॥ ३० ॥
यथेक्षुरत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते ।
तथा जरायन्त्रनिपीडिता तनुर्निपीतसारा मरणाय तिष्ठति ॥ ३१ ॥
अन्वयः—यथा अत्यन्तरसप्रपीडितः. इक्षुः भुवि प्रविद्धः दहनाय शुष्यते, तथा
जरायन्त्रनिपीडिता निपीतसाराः तनुः मरणाय तिष्ठति ॥ ३१ ॥
व्याख्या—यथा=येन प्रकारेण, अत्यन्तरसप्रपीडितः—अत्यन्तम्=अत्यधिकम्,
रसः=आस्वादः, प्रपीडितः=निष्पूतः, यस्य सः, भुवि=पृथिव्याम्, प्रविद्धः=प्रक्षिप्तः,
इक्षुः=महारसः, दहनाय = ज्वलनाय, शुष्यते = शुष्को भवति, तथा = तेनैव प्रकारेण,
जरायन्त्रनिपीडिता—जरा = वृद्धावस्था, तदेव यन्त्रम् = उपकरणम्, तेन निपीडिता =
निर्गलिता, निपीतसाराः—निपीतः—निःशेषेण पीतः = शोषितः, सारः = सारपदार्थः,
यस्य सः, तनुः = शरीरम्, तिष्ठति = प्रतीक्षते ॥ ३१ ॥
हिन्दी—जैसे ईख के रस को निचोड़कर उसे जमीन पर सूखने के लिए लोग फेंक
देते हैं, उसी तरह बुढ़ौती रूपी औजार से निचोड़ी गई यह देह मौत की प्रतीक्षा
करती है ॥ ३१ ॥
यथा हि नृभ्यां करपत्रमीरितं समुच्छ्रितं दारु भिनत्त्यनेकधा ।
तथोच्छ्रिताम्पातयति प्रजामिमामहर्निशाभ्यामुपसंहिता जरा ॥ ३२ ॥
अन्वयः—यथा हि नृभ्याम् ईरितं करपत्रं समुच्छ्रितं दारु अनेकधा भिनत्ति, तथा
अहर्निशाभ्याम् उपसंहिता जरा उच्छ्रिताम् इमां प्रजां पातयति ॥ ३२ ॥
व्याख्या—यथा=येन प्रकारेण, हि=इति निश्चयेन, नृभ्याम् = नराभ्याम्,
ईरितम्=प्रेरितम्, करपत्रम् = क्रकचम्, समुच्छ्रितम् = उन्नतम्, दारु=तरुः, अनेकधा
= बहुप्रकारेण, भिनत्ति = छिनत्ति, तथा = तेनैव प्रकारेण, अहर्निशाभ्याम्—अहश्च =
दिवा च, निशा च = रात्रि च, ताभ्याम्, उपसंहिता = समीपमानीता, जरा = वृद्धावस्था,
उच्छ्रिताम्=उन्नताम्, इमाम्=एषाम्, प्रजाम् = संसारम्, पातयति = विनाशयति ॥ ३२ ॥
हिन्दी—जैसे दो व्यक्तियों के द्वारा चलाये गये आरे ऊँचे से ऊँचे पेड़ों को टुकड़े-
टुकड़े कर देते हैं, वैसे ही रात-दिन के द्वारा पास लाई गई बुढ़ौती इस उन्नत प्राणी
का पतन कराती है ॥ ३२ ॥
स्मृतेः प्रमोषो वपुषः पराभवो
रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः ।
श्रमस्य योनिर्बलवीर्ययोर्वधो
जरासमो नास्ति शरीरिणां रिपुः ॥ ३३ ॥
अन्वयः—स्मृतेः प्रमोषः वपुषः पराभवः रतेः क्षयः वाच्छ्रुतिचक्षुषां ग्रहं श्रमस्य
योनिः बलवीर्ययोः वधः जरासमः शरीरिणां रिपुः नास्ति ॥ ३३ ॥

अन्वयः—जराभिधानम् इदं जगतः महद्भयं निधनस्य देशिकं विदित्वा अहंL15:वपुष्मान् बलवान् युवा इति वा अनार्यं मानम् आरोढुं न अर्हसि ॥ ३४ ॥L16:व्याख्या—जराभिधानम्—जरा = वृद्धत्वम्, अभिधानम् = नाम, यस्य तत्, इदम्L17:= एतत्, जगतः = संसारस्य, महद्भयम् = घोरभीतिः, निधनस्य = मरणस्य, देशिकम् =L18:उपदेष्टारम्, विदित्वा = परिज्ञाय, अहं वपुष्मान् = सुन्दरोऽस्मि, बलवान् = शक्तिशाली,L19:युवा = तरुणः, इति = एवंविधम्, वा = अथवा, अनार्यम् = अनर्गलम्, मानम् =L20:अभिमानम्, आरोढुम् = अधिगन्तुम्, न = नहि, अर्हसि = योग्योऽसि ॥ ३४ ॥L21:हिन्दी—जरा नामक संसार के इस महाभय को संसार का उपदेशक मानकरL22:‘मैं रूपवान्