सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 236, कुल 496 में से
संदर्भ में पढ़ें१८२ सौन्दरनन्दं महाकाव्यम्
हिन्दी—मनुष्य उत्तम कोटि के मादक द्रव्य का सेवन कर बहुत देर रात बीतने
के बाद नशा से मुक्त होता है, किन्तु बल, रूप और जवानी के नशा में चूर कोई
व्यक्ति बुढ़ौती आये बिना मदमुक्त नहीं होता ॥ ३० ॥
यथेक्षुरत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते ।
तथा जरायन्त्रनिपीडिता तनुर्निपीतसारा मरणाय तिष्ठति ॥ ३१ ॥
अन्वयः—यथा अत्यन्तरसप्रपीडितः. इक्षुः भुवि प्रविद्धः दहनाय शुष्यते, तथा
जरायन्त्रनिपीडिता निपीतसाराः तनुः मरणाय तिष्ठति ॥ ३१ ॥
व्याख्या—यथा=येन प्रकारेण, अत्यन्तरसप्रपीडितः—अत्यन्तम्=अत्यधिकम्,
रसः=आस्वादः, प्रपीडितः=निष्पूतः, यस्य सः, भुवि=पृथिव्याम्, प्रविद्धः=प्रक्षिप्तः,
इक्षुः=महारसः, दहनाय = ज्वलनाय, शुष्यते = शुष्को भवति, तथा = तेनैव प्रकारेण,
जरायन्त्रनिपीडिता—जरा = वृद्धावस्था, तदेव यन्त्रम् = उपकरणम्, तेन निपीडिता =
निर्गलिता, निपीतसाराः—निपीतः—निःशेषेण पीतः = शोषितः, सारः = सारपदार्थः,
यस्य सः, तनुः = शरीरम्, तिष्ठति = प्रतीक्षते ॥ ३१ ॥
हिन्दी—जैसे ईख के रस को निचोड़कर उसे जमीन पर सूखने के लिए लोग फेंक
देते हैं, उसी तरह बुढ़ौती रूपी औजार से निचोड़ी गई यह देह मौत की प्रतीक्षा
करती है ॥ ३१ ॥
यथा हि नृभ्यां करपत्रमीरितं समुच्छ्रितं दारु भिनत्त्यनेकधा ।
तथोच्छ्रिताम्पातयति प्रजामिमामहर्निशाभ्यामुपसंहिता जरा ॥ ३२ ॥
अन्वयः—यथा हि नृभ्याम् ईरितं करपत्रं समुच्छ्रितं दारु अनेकधा भिनत्ति, तथा
अहर्निशाभ्याम् उपसंहिता जरा उच्छ्रिताम् इमां प्रजां पातयति ॥ ३२ ॥
व्याख्या—यथा=येन प्रकारेण, हि=इति निश्चयेन, नृभ्याम् = नराभ्याम्,
ईरितम्=प्रेरितम्, करपत्रम् = क्रकचम्, समुच्छ्रितम् = उन्नतम्, दारु=तरुः, अनेकधा
= बहुप्रकारेण, भिनत्ति = छिनत्ति, तथा = तेनैव प्रकारेण, अहर्निशाभ्याम्—अहश्च =
दिवा च, निशा च = रात्रि च, ताभ्याम्, उपसंहिता = समीपमानीता, जरा = वृद्धावस्था,
उच्छ्रिताम्=उन्नताम्, इमाम्=एषाम्, प्रजाम् = संसारम्, पातयति = विनाशयति ॥ ३२ ॥
हिन्दी—जैसे दो व्यक्तियों के द्वारा चलाये गये आरे ऊँचे से ऊँचे पेड़ों को टुकड़े-
टुकड़े कर देते हैं, वैसे ही रात-दिन के द्वारा पास लाई गई बुढ़ौती इस उन्नत प्राणी
का पतन कराती है ॥ ३२ ॥
स्मृतेः प्रमोषो वपुषः पराभवो
रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः ।
श्रमस्य योनिर्बलवीर्ययोर्वधो
जरासमो नास्ति शरीरिणां रिपुः ॥ ३३ ॥
अन्वयः—स्मृतेः प्रमोषः वपुषः पराभवः रतेः क्षयः वाच्छ्रुतिचक्षुषां ग्रहं श्रमस्य
योनिः बलवीर्ययोः वधः जरासमः शरीरिणां रिपुः नास्ति ॥ ३३ ॥