सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

स्त्री-विघ्नः ] अष्टमः सर्गः १५५
व्याख्या—विषयेषु = उपभोग्येषु, तु = इति पादपूर्त्यर्थम्, दोषदर्शिनः = दोषम्—
दुर्गुणम्, द्रष्टुम् = अवलोकयितुम्, शीलम् = स्वभावम्, यस्य तस्य, परितुष्टस्य =
सन्तुष्टस्य, शुचेः = पवित्रस्य, अमानिनः = मानम् = अभिमानम्, अस्ति अस्येति मानी,
तस्य, न मानिनः अमानिनः = अनभिमानिनः, शमकर्मसु = शान्तिविधानेषु, युक्त-
चेतसः = युक्तः = समुपयुक्तः, चेतः = चित्तः, यस्य तस्य = दत्तचित्तस्य, कृतबुद्धेः = कृता
= स्थिरा, बुद्धिः म=तिः, यस्य तस्य, रति = प्रीतिः, न विद्यते = न भवति, इति न =
नहि, अर्थात् भवत्येव । भोग्यविषयेषु दोषदर्शिनो जनः पवित्रः, अनभिमानी, शान्ति-
कर्मसु समाहितचित्तस्तथा स्थिरबुद्धिर्भवति, तथा धर्मानुष्ठाने आनन्दमनुभवतीति ॥ २५ ॥
हिन्दी—विषयों में दोष देखने वाले, सन्तुष्ट, पवित्र, मानरहित, शान्तिकर्म में
निहित चित्तवाले और स्थिर बुद्धिवाले व्यक्ति को धर्म में आनन्द न प्राप्त हो ऐसा
नहीं अर्थात् उसे आनन्द मिलता ही है ॥ २५ ॥
रमते तृषितो धनश्रिया रमते कामसुखेन बालिशः ।
रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥ २६ ॥
अन्वयः—तृषितः धनश्रिया रमते, बालिशः कामसुखेन रमते, सज्जनः विद्यया
परिभोगान् परिभूय प्रशमेन रमते ॥ २६ ॥
व्याख्या—तृषितः = तर्षितः, धनश्रिया = धनसम्पत्त्या, रमते = सुखमनुभवति,
बालिशः = मूर्खः, कामसुखेन = भोगानन्देन, रमते = आनन्दमनुभवति, सज्जनः =
सत्पुरुषः, विद्यया = ज्ञानेन, परिभोगान् = विषयान्, परिभूय = अनादृत्य, प्रशमेन =
शान्त्या, रमते = सुखमनुभवति ॥ २६ ॥
हिन्दी—लोभी धन-सम्पत्ति में, मूर्ख कामसुख में सुख का अनुभव करते हैं,
किन्तु सत्पुरुष ज्ञान से भोग को जीतकर शान्ति में आनन्द का अनुभव प्राप्त करता
है ॥ २६ ॥
अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः ।
सदृशी न गृहायचेतना प्रणतिर्वायुवशाद् गिरेरिव ॥ २७ ॥
अन्वयः—अपि च प्रथितस्य धीमतः कुलजस्य अर्चितलिङ्गधारिणः वायुवशात्
गिरेः प्रणतिः इव गृहायचेतना न सदृशी ॥ २७ ॥
व्याख्या—अपि च = अन्यच्च, प्रथितस्य = विख्यातस्य, धीमतः = ज्ञानवतः,
कुलजस्य—कुले = उत्तमवंशे, जातः = समुत्पन्नः, कुलजस्तस्य = कुलीनस्य, अर्चित-
लिङ्गधारिणः = अर्चितम् = पूजितम्, लिङ्गम् = चिह्नम्, धरतीति = गृह्णातीति तस्य,
वायुवशात् = पवमानप्रवेगात्, गिरेः = अद्रेः, प्रणतिः = नमनम्, इव = यथा, गृहाय-
चेतना = गृहगन्तुमिच्छा, न सदृशी = अनुचितेति ॥ २७ ॥
हिन्दी—वायु के वेग से जैसे पहाड़ का झुकना उचित नहीं है, उसी तरह
विख्यात, बुद्धिमान, कुलीन एवं पूजनीय वेष धारण करने वालों के लिए घर लौटने
की इच्छा उचित नहीं है ॥ २७ ॥

१५६ सौन्दरनन्दं महाकाव्यम्
स्पृहयेत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् ।
उपशान्तिपथे शिवे स्थितः स्पृहयेद् दोषवते गृहाय सः ॥ २८ ॥
अन्वयः—यः आत्मवशां स्वतन्त्रतां परिभूय परसंश्रिताय स्पृहयेत् सः शिवे
उपशान्तिपथे स्थितः दोषवते गृहाय स्पृहयेत् ॥ २८ ॥
व्याख्या—यः=पुरुषः, आत्मवशां=स्वाधीनाम्, स्वतन्त्रताम्=आत्माधीनताम्,
परिभूय = अनादृत्य, परसंश्रिताय — परेषाम् = अन्येषाम्, संश्रितः = आश्रितः, तस्मै,
स्पृहयेत् = इच्छेत्, सः = पुरुषः, शिवे = कल्याणप्रदे, उपशान्तिपथे—उपशान्तेः =
उपशमस्य, पथः=मार्गम्, तस्मिन्, स्थितः=तिष्ठन्, दोषवते—दोषाः= दुर्गुणाः
सन्ति अस्मिन् तस्मै, गृहाय = सदनाय, स्पृहयेत् = इच्छेत् । शुभेच्छुजनं विषयरूपदोष-
युक्ताद् गृहात् विरक्तो भूत्वा निर्गमनानन्तरं पुनः प्रत्यावर्त्तनस्येच्छाऽनुचितेति भावः ।२८।
हिन्दी—जो व्यक्ति आत्मवशवर्त्तिनि स्वतन्त्रता का तिरस्कार कर दूसरों पर
आश्रित होने की इच्छा करें, उसे ही शिव और शान्ति के पथ पर रहते हुए घर
लौटने की इच्छा करनी चाहिए ॥ २८ ॥
व्यसनाभिहतो यथा विशेत् परिमुक्तः पुनरेव बन्धनम् ।
समुपेत्य वनं तथा पुनर्गृहसंज्ञं मृगयेत बन्धनम् ॥ २९ ॥
अन्वयः—यथा व्यसनाभिहतः परिमुक्तः पुनः एव बन्धनं विशेत् तथा वनं समुपेत्य
पुनः गृहसंज्ञं बन्धनं मृगयेत ॥ २९ ॥
व्याख्या—यथा=येन प्रकारेण, व्यसनाभिहतः—व्यसनेन = आपदा, अभिहतः=
पीडितः, विपन्नः सन्, परिमुक्तः = बन्धनात् पृथग्भूतः, पुनः=भूयः, एव, बन्धनम् =
पाशम्, विशेत्=प्रवेशं कर्तुमिच्छेत्, तथा=तेनैव रूपेण, वनम् = अरण्यम्, समुपेत्य =
प्राप्य, पुनः = भूयः, गृहसंज्ञम् — गृहम् = सदनम्, संज्ञा = नाम, यस्य तम्, बन्धनम् =
प्रतिबन्धम्, मृगयेत = अन्विष्येत् ॥ २९ ॥
हिन्दी—जैसे बन्धनमुक्त व्यक्ति विपन्न होकर पुनः बन्धन की चाह करता है,
उसी तरह वन का आश्रय प्राप्त कर मनुष्य फिर घर नामक बन्धन की चाह
करता है ॥ २९ ॥
पुरुषश्च विहाय यः कलिं पुनरिच्छेत् कलिमेव सेवितुम् ।
स विहाय भजेत बालिशः कलिभूतामजितेन्द्रियः प्रियाम् ॥ ३० ॥
अन्वयः—यश्च पुरुषः कलिं विहाय पुनः कलिम् एव सेवितुम् इच्छेत् सः अजि-
तेन्द्रियः बालिशः कलिभूतां प्रियां विहाय (पुनः ) भजेत ॥ ३० ॥
व्याख्या—यश्च = पूर्वोक्तः, पुरुषः = जनः, कलिम् = पापम्, विहाय = परित्यज्य,
पुनः = भूयः, कलिमेव = पापमेव, सेवितुम् = भजितुम्, इच्छेत् = अभिलषेत्, सः =
असौ, अजितेन्द्रियः — न = नहि, जितानि = विजितानि, इन्द्रियानि =करणानि, येन
सः, बालिशः = मूर्खः, कलिभूताम् = पापरूपाम्, प्रियाम् = कान्ताम्, विहाय=त्यक्त्वा,
पुनस्तामेव, भजेत = सेवेत ॥ ३० ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १५७
हिन्दी—जो व्यक्ति एक बार पाप को छोड़कर पुनः पाप करना चाहता है, उसी
तरह जिनके वश में इन्द्रियाँ नहीं है वैसे मूर्खजन पापरूपी पत्नी का परित्याग कर
पुनः उसी का सेवन करें ॥ ३० ॥
सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः ।
विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥ ३१ ॥
अन्वयः—सविषाः संश्रिताः लताः इव परिमृष्टाः सोरगाः गुहाः इव धृताः विवृताः
असयः इव योषितः व्यसनान्ताः हि भवन्ति ॥ ३१ ॥
व्याख्या—सविषाः—विषेण = हालाहलेन, सहिताः = युक्ताः, संश्रिताः = स्पृष्टाः,
लताः = वल्लर्यः, इव = यथा, परिमृष्टाः = स्वच्छीकृताः, सोरगाः—उरगैः = सर्पैः,
सहिताः = युक्ताः, उरसा गच्छतीति उरगः = सर्पः, गुहाः = कन्दराः, इव = यथा, धृताः
= गृहीताः, विवृताः = असंवृताः, असयः = चन्द्रहासाः, इव = यथा, योषितः = नार्यः,
व्यसनान्ताः—व्यसनम् = पीडा, अन्तः = परिणामः, यासां ताः, हि = इति निश्चयेन,
भवन्ति = जायन्ते । अत्रोपमालङ्कारः ॥ ३१ ॥
हिन्दी—जैसे जहरीली लताओं के छूने से, साँपों से भरी गुफाओं को साफ करने
से, खुली तलवारें साथ रखने से विपत्ति होती है, उसी तरह नारियों के स्पर्श का
फल विपत्ति ही है ॥ ३१ ॥
प्रमदाः समदा मदप्रदा प्रमदा वीतमदा भयप्रदाः ।
इति दोषभयावहाश्च ताः कथमर्हन्ति निषेवणं नु ताः ॥ ३२ ॥
अन्वयः—समदाः प्रमदाः मदप्रदाः वीतमदाः प्रमदाः भयप्रदाः इति दोषभयावहाः
च ताः नु ताः निषेवणं कथं अर्हन्ति ॥ ३२ ॥
व्याख्या—मदेन = मानसिकविकारेण, सहिताः = युक्ताः, समदाः = मदयुक्ताः,
प्रमदाः = नार्यः, मदप्रदाः = मदकारिण्यः, मदं प्रददतीति मदप्रदाः, वीतमदाः = मद-
रहिताः, प्रमदाः = स्त्रियः, भयप्रदाश्च = भीतिकरञ्च भवन्ति, इति = एवम्, ताः =
नार्यः, दोषभयावहाः—दोषञ्च = दुर्गुणञ्च, भयञ्च = भीतिञ्च, दोषभयौ, तौ आवहन्तीति,
नु = इति प्रश्ने, ताः = वामाः, निषेवणम् = सेवनम्, कथम् = केन प्रकारेण, अर्हन्ति =
योग्यतां यान्ति ॥ ३२ ॥
हिन्दी—मदयुक्त औरतें मदमस्त बना देती हैं और मदविहीन नारियां भय पैदा
करती हैं, इसलिए वे दोष और भय उत्पन्न करने वाली होती हैं । अतः ऐसी स्त्रियों
का सेवन कैसे किया जाय ? ॥ ३२ ॥
स्वजनः स्वजनेन भिद्यते सुहृदश्चापि सुहृज्जनेन यत् ।
परदोषविचक्षणाः शठास्तदनायाः प्रचरन्ति योषितः ॥ ३३ ॥
अन्वयः—यत् स्वजनः स्वजनेन सुहृदः सुहृज्जनेन च भिद्यते तत् परदोष-
विचक्षणाः अनार्याः शठाः योषितः प्रचरन्ति ॥ ३३ ॥
सौ०-14

१५८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—यत्=यः, स्वजनः=आत्मीयः, स्वजनेन=आत्मीयेन, सुहृदः=
मित्रम्, सुहृज्जनेन=मित्रलोकेन, च=पुनः, भिद्यते=पृथग्भवति, तत्, परदोष-
विचक्षणाः—परेषाम्=अन्येषाम्, दोषः=दुर्गुणः, तस्मिन्, विचक्षणाः=कुशलाः,
अनार्याः=कदाचारिण्यः, शठाः=धूर्त्ताः, योषितः=नार्यः, प्रचरन्ति=कुर्वन्ति ॥ ३३ ॥
हिन्दी—अपनों को अपने से, मित्रों को मित्रों से ये औरतें ही अलग करती हैं ।
दूसरों के दुर्गुण देखने में ये मूर्ख और अनार्य स्त्रियां बड़ी कुशल होती है ॥३३॥
कुलजाः कृपणीभवन्ति यद्यद्युक्तं प्रचरन्ति साहसम् ।
प्रविशन्ति च यच्चमूमूखं रभसा तत्र निमित्तमङ्गनाः ॥ ३४ ॥
अन्वयः—यत् कुलजाः कृपणीभवन्ति यत् अयुक्तं साहसं प्रचरन्ति यत् च रभसा
चमूमुखं प्रविशन्ति तं निमित्तम् अङ्गनाः ॥ ३४ ॥
व्याख्या—यत्=ये, कुलजाः=कुलीनाः, कृपणीभवन्ति=कातरतां यान्ति, यत्=
ये, अयुक्तम्=औचित्यरहितम्, साहसम्=पराक्रमम्, प्रचरन्ति=कुर्वन्ति, यच्च, रभसा
=वेगेन, चमूमुखम्=सेनासम्मुखम्, प्रविशन्ति=प्रवेशं कुर्वन्ति, तत्र=तस्मिन्,
निमित्तम्=कारणम्, अङ्गनाः=वामाः एव सन्ति ॥ ३४ ॥
हिन्दी—कुलीन व्यक्ति भी कातर होकर जो कुछ अनुचित साहस करते हैं अथवा
अतिशीघ्र शक्तिशाली सेना का सामना करते हैं, उन सभी का कारण ये स्त्रियाँ ही
होती हैं ॥ ३४ ॥
वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् ॥ ३५ ॥
अन्वयः—वल्गुना वचनेन हरन्ति निशितेन चेतसा प्रहरन्ति योषितां वाचि मधु
तिष्ठति हृदये हालाहलं महद्विषम् ॥ ३५ ॥
व्याख्या—वल्गुना=मधुरेण, वचनेन=वाचा, हरन्ति=आकर्षन्ति, निशितेन=
तीव्रेण, चेतसा=हृदयेन, प्रहरन्ति=प्रहारं कुर्वन्ति, योषिताम्=नारीणाम्, वाचि=
वचने, मधु=मधुरम्, तिष्ठति=विद्यते, हृदये=चित्ते, हालाहलम्=एतदाख्यम्, मह-
द्विषम्=तीव्रविषम्; तिष्ठतीति ॥ ३५ ॥
हिन्दी—औरतें अपनी मनोहर वाणी से आकर्षित करती हैं तथा तीव्र हृदय से
चोट करती हैं । उनकी बोली में मधु तथा दिल में हालाहल नामक तीव्र विष भरा
रहता है ॥ ३५ ॥
प्रदहन् दहनोऽपि गृह्यंते विशरीरः पवनोऽपि गृह्यते ।
कुपितो भुजगोऽपि गृह्यते प्रमदानां तु मनो न गृह्यते ॥ ३६ ॥
अन्वयः—दहनः प्रदहन् अपि गृह्यते विशरीरः पवनः अपि गृह्यते कुपितः भुजगः
अपि गृह्यते तु प्रमदानां मनः न गृह्यते ॥ ३६ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १५९
व्याख्या—दहनः = वह्निः, प्रदहन् = प्रज्ज्वलन्, अपि = चेत्, गृह्यते = ध्रियते,
विशरीरः = शरीरहीनः, पवनः = वायुः, अपि = चेत्, गृह्यते = ग्रहीतुं शक्यते, कुपितः =
क्रुद्धः, भुजगः = नागः, अपि = चेत्, गृह्यते = उपादीयते, तु = किन्तु, प्रमदानाम् =
वामानाम्, मनः = चित्तम्, न = नहि, गृह्यते = ग्रहणं कर्तुं शक्यते । अत्राशक्यमपि
कार्यं शक्यत्वेन प्रदर्श्य स्त्रीणां मनस्तैः भुजगैः अपि अधिकवक्रं प्रदर्शितम् । उपमाना-
दुपमेयस्य श्रेष्ठताप्रदर्शनेनात्र व्यतिरेकाऽलङ्कारः ॥ ३६ ॥
हिन्दी—जलती हुई आग पकड़ी जा सकती है; देह-विहीन हवा भी पकड़ी जा
सकती है; क्रुद्ध सर्प को भी पकड़ा जा सकता है, किन्तु स्त्रियों के मन को नहीं
जीता जा सकता ॥ ३६ ॥
न वपुर्विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् ।
प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ॥ ३७ ॥
अन्वयः—स्त्रियः न वपुः न श्रियं न मतिं न कुलं नापि विक्रमं विमृशन्ति,
ग्राहकुलाकुलाः सरितः इव अविशेषतः प्रहरन्ति ॥ ३७ ॥
व्याख्या—स्त्रियः = प्रमदाः, न = नहि, वपुः = शरीरम्, न = नहि, श्रियम् = धनम्,
न = नहि, मतिम् = बुद्धिम्, न = नहि, कुलम् = वंशं कुटुम्बं वा, नापि विक्रमम् =
पराक्रमम्, विमृशन्ति = विचारयन्ति, अपि तु ग्राहकुलाकुलाः = ग्राहाणाम् = नक्राणाम्,
कुलैः = समूहैः, तैराकुलाः = समन्विताः, सरितः = नद्यः, इव = यथा, अविशेषतः =
सामान्यतः, प्रहरन्ति = प्रहारं कुर्वन्ति । अत्राप्युपमाऽलङ्कारः ॥ ३७ ॥
हिन्दी—औरतें न किसी के देह की चिन्ता करती है, न धन की, न बुद्धि की,
न खानदान की और न पराक्रम की, बल्कि वह मगरों से भरी नदियों की तरह
बिना भेदभाव के प्रहार करती हैं ॥ ३७ ॥
न वचो मधुरं न लालनं स्मरति स्त्री न च सौहृदं क्वचित् ।
कलिता वनितेव चञ्चला तदिहारिष्विव नावलम्ब्यते ॥ ३८ ॥
अन्वयः—स्त्री न मधुरं वचः न लालनं न च सौहृदं क्वचित् स्मरति, कलिता
वनिता एव चञ्चला तत् इह अरिषु इव न अवलम्ब्यते ॥ ३८ ॥
व्याख्या—स्त्री = नारी, न = नहि, मधुरम् = रुचिरम्, वचः = वचनम्, न =
नहि, लालनम् = पालन-पोषणम्, न च सौहृदम् = मित्रत्वम्, क्वचित् = कुत्रापि,
स्मरति = स्मरणं करोति, कलिता = परीक्षिता, वनिता = नारी, एव, चञ्चला = चपला,
तत् = तस्मात्, इह = अस्मिन्, अरिषु = शत्रुषु, इव = यथा, न = नहि, अवलम्ब्यते =
आश्रीयते ॥ ३८ ॥
हिन्दी—नारी मीठी बातें, भरण-पोषण और मित्रता को भी याद नहीं करती,
परीक्षित औरतें भी चंचल होती हैं । अतः दुश्मन की तरह उस पर कभी भी भरोसा
नहीं करना चाहिए ॥ ३८ ॥

१६० सौन्दरनन्दं महाकाव्यम्
अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् ।
प्रणतेषु भवन्ति गर्विताः प्रमदास्तृप्ततराश्च मानिषु ॥ ३९ ॥
अन्वयः—प्रमदाः अददत्सु नर्मदाः भवन्ति, प्रददत्सु विभ्रमं प्रविशन्ति, प्रणतेषु
गर्विताः भवन्ति, मानिषु तृप्तितराः ॥ ३९ ॥
व्याख्या—प्रमदाः = वामाः, अददत्सु = अयच्छत्सु, नर्मदाः = मानयुक्ताः भवन्ति,
प्रददत्सु = यच्छत्सु, विभ्रमम् = परिहासम्, प्रविशन्ति = प्रवेशं कुर्वन्ति, प्रणतेषु =
विनम्रेषु, गर्विताः = गर्वयुक्ताः, भवन्ति, मानिषु—मानमस्ति अस्येति तेषु = स्वाभि-
मानिषु, तृप्ततराः = सन्तुष्टाः भवन्ति ॥ ३९ ॥
हिन्दी—कुछ देनेवालों के प्रति औरतें नखरा करती हैं और न देने वालों के प्रति
हावभाव व्यक्त करती हैं । प्रणतों के प्रति गर्वित तथा मानियों के प्रति सन्तुष्ट रहती
हैं ॥ ३९ ॥
गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् ।
धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया ॥ ४० ॥
अन्वयः—गुणवत्सु भर्तृवत् चरन्ति, गुणहीनेषु पुत्रवत् चरन्ति, धनवत्सु तृष्णया
चरन्ति, धनहीनेषु अवज्ञया चरन्ति ॥ ४० ॥
व्याख्या—गुणवत्सु = गुणयुक्तेषु, भर्तृवत् = स्वामी इव, चरन्ति = व्यवहरन्ति,
गुणहीनेषु = निर्गुणेषु, पुत्रवत् = सुत इव, चरन्ति = व्यवहरन्ति, धनवत्सु = धनिकेषु,
तृष्णया = इच्छया, चरन्ति = व्यवहरन्ति, धनहीनेषु = दरिद्रजनेषु, अवज्ञया =
अवहेलनया, चरन्ति = व्यवहरन्ति ॥ ४० ॥
हिन्दी—औरतें गुणवानों के प्रति पति की तरह तथा गुणहीनों के प्रति पुत्र की
तरह आचरण करती हैं । धनवानों के प्रति साकांक्ष और धनहीनों के प्रति अपमान
का व्यवहार करती हैं ॥ ४० ॥
विषयाद्विषयान्तरं गता प्रचरत्येव यथा हृतापि गौः ।
अनवेक्षितपूर्वसौहृदा रमतेऽन्यत्र गता तथाङ्गना ॥ ४१ ॥
अन्वयः—यथा गौः हृताऽपि विषयात् विषयान्तरं गता प्रचरति एव तथा अन्यत्र
गता अङ्गना अनवेक्षितपूर्वसौहृदा रमते ॥ ४१ ॥
व्याख्या—यथा = येन रूपेण, गौः = धेनुः, हृताऽपि = अपहृताऽपि, विषयात् =
स्वकीयस्थानात्, विषयान्तरम्—अन्यः = अपरः, विषयः = क्षेत्रः, तं विषयान्तरम् =
क्षेत्रान्तरम्, गता = प्राप्ता,, प्रचरति एव = तृणानि अत्त्येव, तथा = तेनैव प्रकारेण,
अन्यत्र = अन्यस्मिन् पुरुषे, गता = याता, अङ्गना = नारी, अनवेक्षितपूर्वसौहृदा—न =
नहि, अवेक्षितम् = स्मृतम्, पूर्वसौहृदम् = पूर्वमैत्र्यम्, रमते = रमणं कुरुते ॥ ४१ ॥
हिन्दी—चुराई गई गायें जैसे अपनी जगह छोड़कर दूसरी जगह जाने पर भी
चरती हैं । उसी तरह औरतें पहले मित्र को भूलकर दूसरे पुरुष के साथ रमण करती
हैं ॥ ४१ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १६१
प्रविशन्त्यपि हि स्त्रियश्चितामनुबन्धन्त्यपि मुक्तजीविताः ।
अपि बिभ्रति चैव यन्त्रणां न तु भावेन वहन्ति सौहृदम् ॥ ४२ ॥
अन्वयः—स्त्रियः हि चितामपि प्रविशन्ति, मुक्तजीविताः अनुबध्नन्ति अपि
यन्त्रणाम् अपि चैव बिभ्रति तु भावेन सौहृदं न वहन्ति ॥ ४२ ॥
व्याख्या—स्त्रियः=वामाः, हि=इति निश्चयेन, चितामपि=चित्याऽपि,
प्रविशन्ति=गच्छन्ति, मुक्तजीविताः-मुक्तम्=त्यक्तम्, जीवितम्=जीवनं याभिस्ताः,
अनुबध्नन्ति=अनुयान्ति, अपि=चेत्, यन्त्रणाम्=पीडामपि, चैव, बिभ्रति=वहन्ति,
तु=किन्तु, भावेन=चित्तेन, सौहृदम्=मित्रताम्, न=नहि, वहन्ति=धारयन्तीति ॥
हिन्दी—स्त्रियां जलती चिता में कूद सकती हैं, जान का डर छोड़कर भी पीछा
कर सकती हैं और यन्त्रणा भी सह सकती हैं, परन्तु हृदय से मित्रता नहीं निभा
सकतीं ॥ ४२ ॥
रमयन्ति पतीन् कथञ्चन प्रमदा याः पतिदेवताः क्वचित् ।
चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वमेव ताः ॥ ४३ ॥
अन्वयः—याः प्रमदाः पतिदेवताः क्वचित् कथञ्चन पतीन् रमयन्ति ताः
चलचित्ततया स्वमेव हृदयं सहस्रशः रमयन्ते ॥ ४३ ॥
व्याख्या—याः=नार्यः, प्रमदाः=स्त्रियः, पतिदेवताः—पतिः=भर्त्ता, एव,
देवता=परमात्मा, यासां ताः, क्वचित्=कुत्रापि, कथञ्चन=केनाऽपि प्रकारेण, पतीन्=
स्वामिनः, रमयन्ति=रमणं कुर्वन्ति, ताः=पूर्वोक्ताः, चलचित्ततया—चलम्=
चञ्चलम्, यत् चित्तम्=हृदयम्, तस्य भावः=मनोविकारस्तया, स्वमेव=स्वकीयमेव,
हृदयम् = चित्तम्, सहस्रशः=अनेकणः, रमयन्ते = आनन्दयन्ति ॥ ४३ ॥
हिन्दी—पति को देवता माननेवाली स्त्रियां कहीं किसी प्रकार अपने पति को
प्रसन्न करती हैं। वे अपने मन की चंचलता के कारण अपने ही दिल को हजारों बार
खुश करती हैं ॥ ४३ ॥
श्वपचं किल सेनजित्सुता चकमे मीनरिफुं कुमुद्वती ।
मृगराजमथो बृहद्रथा प्रमदानामगतिर्न विद्यते ॥ ४४ ॥
अन्वयः—किल सेनजित्सुता श्वपचं कुमुद्वती मीनरिफुम् अथ बृहद्रथाः मृगराजं
चकमे प्रमदानाम् अगतिः न विद्यते ॥ ४४ ॥
व्याख्या—किल=निश्चयेन, सेनजित्सुता=नृपसेनजित्पुत्री, श्वपचम्—श्वानं
पचतीति श्वपचम्=चाण्डालम्, कुमुद्वती=एतन्नाम्नी राजकन्या, मीनरिफुम्=
धीवरम्, अथ=अपि च, बृहद्रथा=एतदाख्या नारी, मृगराजम्=सिंहम्, चकमे=
अचीकमत्, प्रमदानाम्=नारीणाम्, अगतिः=अगमनम्, न=नहि, विद्यते=
अस्तीति ॥ ४४ ॥

१६२ सौन्दरनन्दं महाकाव्यम्
हिन्दी—राजा प्रसेनजित् की बेटी ने चाण्डाल की, कुमुद्वती ने कैवट की और
बृहद्रथा ने सिंह की कामना की थी । औरतों के लिए कुछ भी दुष्कर नहीं है ॥४४॥
कुरुहैहयवृष्णिवंशजा बहुमायाकवचोऽथ शम्बरः ।
मुनिरुग्रतपाश्च गौतमः समवापुर्वनितोद्धतं रजः ॥ ४५ ॥
अन्वयः—कुरुहैहयवृष्णिवंशजाः अथ बहुमायाकवचः शम्बरः उग्रतपाः मुनिः
गौतमश्च वनितोद्धतं रजः समवापुः ॥ ४५ ॥
व्याख्या—कुरुहैहयवृष्णिवंशजाः—कुरुश्च हैहयश्च वृष्णिश्च तेषां वंशे=कुले,
जाताः=समुत्पन्नाः, अथ=अपि च, बहुमायाकवचः—बह्वी=बहुप्रकारिकाः, माया=
इन्द्रजालम्, एव कवचम्=सन्नाहः, यस्य सः, शम्बरः=एतदाख्यः, उग्रतपाः—उग्रम्=
प्रचण्डम्, तपः=तपस्या, यस्य सः, मुनिः=ऋषिः, गौतमश्च=एतदाख्यश्च, वनितो-
द्धतम्=नारीनिःसृतम्, रजः=धूलिः, समवापुः=समाप्नुवन् ॥ ४५ ॥
हिन्दी—कुरु, हैहय और वृष्णि वंशीय राजा गणों, अत्यन्त मायावी शम्बर तथा
उग्र तपस्वी मुनि गौतम को इन औरतों ने धूल चटा दी ॥ ४५ ॥
अकृतज्ञमनार्यमस्थिरं वनितानामिदमीदृशं मनः ।
कथमर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥ ४६ ॥
अन्वयः—वनितानाम् इदं मनः ईदृशम् अकृतज्ञम् अनार्यम् अस्थिरं पण्डितः तासु
चलात्मसु हृदयं सञ्जयितुं कथम् अर्हति ॥ ४६ ॥
व्याख्या—वनितानाम्=नारीणाम्, इदम्=एतत्, मनः=चित्तम्, ईदृशम्=अनेन
प्रकारेण, अकृतज्ञम्—कृतम्=अनुष्ठितम्, जानाति=वेत्तीति कृतज्ञम्, न कृतज्ञम्
अकृतज्ञम्=उपकारविस्मरणम्, अनार्यम्=असभ्यम्, अस्थिरम्=चपलम्, पण्डितः=
बुद्धिमान्, तासु=एतादृशासु, चलात्मसु=चञ्चलात्मसु, हृदयम्=चित्तम्, सञ्जयितुम्
=संसक्ताय, कथम्=केन रूपेण, अर्हति=समर्थो भवति ॥ ४६ ॥
हिन्दी—नारियों का यह मन यदि ऐसा अकृतज्ञ, अनार्य और चपल है तो फिर
कोई बुद्धिमान व्यक्ति इन चपलाओं में अपना मन कैसे लगा सकता है ? ॥ ४६ ॥
अथ सूक्ष्ममतिद्वयाशिवं लघु तासां हृदयं न पश्यसि ।
किमु कायमसद्ग्रहं स्रवद्वनितानामशुचिं न पश्यसि ॥ ४७ ॥
अन्वयः—अथ वनितानाम् अतिद्वयाशिवं सूक्ष्मं लघु हृदयं न पश्यसि किमु तासाम्
अशुचिं स्रवत् असद्ग्रहं कायं पश्यसि ॥ ४७ ॥
व्याख्या—अथ=चेत्, वनितानाम्=नारीणाम्, अतिद्वयाशिवम्—द्वयोः=रज-
स्तमसोः, अतिशयम्=आधिक्यम्, अतिद्वयम्, तेन अशिवम्=अमङ्गलम्, सूक्ष्मम्=
अत्यल्पम्, लघु=क्षुद्रम्, हृदयम्=चित्तम्, न=नहि, पश्यसि=अवलोकयसि, किमु=
इति प्रश्ने, तासाम्=प्रमदानाम्, अशुचिम्=अपवित्रम्, स्रवत्=प्रवहत्, असद्ग्रहम्=
असन्निधानम्, कायम्=देहम्, अपि न=नहि, पश्यसि=अवलोकयसि ? ॥ ४७ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १६३
हिन्दी—यदि तुम औरतों के क्षुद्र और छोटे हृदय को, जो रज और तम रूपी
दो कारणों की अधिकता से अकल्याणकारी है तो फिर उनके अपवित्र देह को जो
बहते हुए मल का घर है, उसे भी नहीं देख रहे हो ? ॥ ४७ ॥
यदहन्यहनि प्रधावनैर्वसनैश्चाभरणैश्च संस्कृतम् ।
अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ॥ ४८ ॥
अन्वयः—यत् अहनि अहनि प्रधावनैः वसनैः आभरणैश्च संस्कृतम् अशुभं
तमसावृतेक्षणः शुभतः गच्छसि न अवगच्छसि ॥ ४८ ॥
व्याख्या—यत् = यदि, अहन्यहनि=दिनं-दिनम्, प्रधावनैः = प्रक्षालनैः, वसनैः=
वस्त्रैः, आभरणैश्च = आभूषणैश्च, संस्कृतम् = अलङ्कृतम्, अशुभम् = अमङ्गलम्,
तमसावृतेक्षणः—तमसा=अन्धकारेण, आवृते = पिहिते, ईक्षणे = नेत्रे, यस्य सः=
अज्ञानाच्छन्नदृष्टिः, त्वम्, शुभतः=मङ्गलतः, गच्छसि = व्रजसि, तर्हि नावगच्छसि =
न जानासि ॥ ४८ ॥
हिन्दी—यदि प्रतिदिन धोने से तथा वस्त्र और आभूषणों से सुशोभित अशुभ
शरीर को अज्ञान से ढँकी आँखों के कारण शुभ समझ रहे हो तो वास्तविकता से तुम
बहुत दूर हो ॥ ४८ ॥
अथवा समवैषि तत्तनूमशुभां त्वं न तु संविदस्ति ते ।
सुरभि विदधासि हि क्रियामशुचेस्तत्प्रभवस्य शान्तये ॥ ४९ ॥
अन्वयः—अथवा त्वं तत्तनूम् अशुभां समवैषि तु ते संविद् नास्ति, हि तत् प्रभवस्य
अशुचेः शान्तये सुरभि क्रियां विदधासि ? ॥ ४९ ॥
व्याख्या—अथवा = यदि, त्वम् = भवान्, तत् = तस्य, तनूम् = देहम्, अशुभम् =
अपवित्रम्, समवैषि = जानासि, तु = तर्हि, ते = तव, संविद् = प्रज्ञा, नास्ति = न
विद्यते, हि = यतः, तत् प्रभवस्य = प्रमदाजातस्य, अशुचेः = अपवित्रतायाः, शान्तये =
उपशमनाय, सुरभिम् = सुगन्धिम्, क्रियाम् = सौन्दर्यवर्द्धकविविधोपायम्, विदधासि =
सम्पादयसि ॥ ४९ ॥
हिन्दी—यदि तुम उसकी देह को अपवित्र मानते हो, तो तुमको इसका सही
ज्ञान नहीं है; क्योंकि उससे उत्पन्न अपवित्रता को दूर करने के लिए सुगन्धि और
सौन्दर्यवर्द्धक काम तुम स्वयं कर रहे हो ॥ ४९ ॥
अनुलेपनमञ्जनं स्रजो मणिमुक्तातपनीयमंशुकम् ।
यदि साधु किमत्र योषितां सहजं तासु विचीयतां शुचि ॥ ५० ॥
अन्वयः—अनुलेपनम् अञ्जनं स्रजः मणिमुक्तातपनीयम् अंशुकं यदि साधु अत्र
योषितां किमु तासु सहजं शुचिः विचीयताम् ॥ ५० ॥

१६४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—अनुलेपनम् = गात्ररञ्जनम्, अञ्जनम् = कज्जलम्, स्रजः = मालाः,
मणिमुक्तातपनीयम् = रत्न-मौक्तिककनकम्, अंशुकम् = वस्त्रम्, यदि = चेत्, साधु =
युक्तम्, अत्र = अस्मिन् प्रसङ्गे, योषिताम् = प्रमदानाम्, किम् = किं महत्त्वम्, तासु =
प्रमदासु, सहजम् = स्वाभाविकम्, शुचि = पवित्रम्, विचीयताम् = अन्विष्यतामिति ।
हिन्दी—यदि अंगराग, अंजन, माला, मणि, मुक्ता और सोने से वह सजी है तो
इसमें औरतों का क्या है ? उनमें स्वाभाविक पवित्रता क्या है ? इसकी तो खोज
करो ॥ ५० ॥
मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तरोमभिः ।
यदि सा तव सुन्दरी भवेन्नियतं तेऽद्य न सुन्दरी भवेत् ॥ ५१ ॥
अन्वयः—यदि सा तव सुन्दरी मलपङ्कधरा प्रकृतिस्थैः नखदन्तरोमभिः दिगम्बरा

स्त्री-विघ्नः ] अष्टमः सर्गः १६५
व्याख्या—यदि = चेत्, योषिताम् = नारीणाम्, कायम् = देहम्, त्वच्वेष्टितम् =
त्वगावृतम्, अस्थिपञ्जरम् = अस्थिनाम् = कीकसानाम्, पञ्जरम् = देहास्थिसमूहः,
तमर्थात् नरकङ्कालस्वरूपम्, समवैषि=मन्यसे, मदनेन = मन्मथेन, च = पुनः, बलात् =
बलपूर्वकात्, कृष्यसे = आकृष्यसे, खलु = निश्चयेन, मन्मथः = मदनः, 'मनः मथ्नाति
इति मन्मथः' अघृणः = न = नहि, विद्यते = अस्ति, घृणा = जुगुप्सा, यस्मिन् सः,
च = पुनः, अधृतिः = अधीरश्चास्ति ॥ ५३ ॥
हिन्दी—यदि महिलाओं की देह को चमड़ी से लिपटा हुआ कंकाल मानते हो
और काम से बलपूर्वक खींचे जा रहे हो तो निश्चय ही तुम्हारी वासना घृणा और
धैर्य शून्य है ॥ ५३ ॥
शुभतामशुभेषु कल्पयन्नखदन्तत्वचकेशरोमसु ।
अविचक्षण किं न पश्यसि प्रकृतिं प्रभवं च योषिताम् ॥ ५४ ॥
अन्वयः—अविचक्षण ! नखदन्तत्वचकेशरोमसु अशुभेषु शुभतां कल्पयन् किं
योषितां प्रकृतिं प्रभवं च न पश्यसि ? ॥ ५४ ॥
व्याख्या—अविचक्षण = हे मूढ ! नखदन्तत्वचकेशरोमसु = नखर-रदन-कृत्ति-कच-
लोमसु, अशुभेषु = अमङ्गलेषु, शुभताम् = शुभस्य भावः शुभता, ताम् = पवित्रताम्,
कल्पयन् = विचारयन्, किमिति प्रश्ने, योषिताम् = नारीणाम्, प्रकृतिम् = स्वभावम्,
च = पुनः, प्रभवम् = उत्पत्तिञ्च, न = नहि, पश्यसि = अवलोकयसि ? ॥ ५४ ॥
हिन्दी—हे अज्ञानी ! नाखून, दांत, चमड़ी, केश, रोएं जैसे अशुभों में शुभता की
कल्पना करते हुए नारियों की उत्पत्ति और उनके स्वभाव को भी नहीं देख रहे
हो ? ॥ ५४ ॥
तदवेत्य मनःशरीरयोर्वनिता दोषवतीर्विशेषतः ।
चपलं भवनोत्सुकं मनः प्रतिसङ्ख्यानबलेन वार्यताम् ॥ ५५ ॥
अन्वयः—ततः विशेषतः मनःशरीरयोः दोषवती वनितां अवेत्य भवनोत्सुकं
चपलं मनः प्रतिसङ्ख्यानबलेन वार्यताम् ॥ ५५ ॥
व्याख्या—ततः = तदनन्तरम्, विशेषतः = मुख्यतः, मनःशरीरयोः = मनदेहयोः,
दोषवती = दोषयुक्ताः, वनिताः = नार्यः, अवेत्य = ज्ञात्वा, भवनोत्सुकम् = गृहाभि-
मुखम्, चपलम् = चञ्चलम्, मनः = चित्तम्, प्रतिसङ्ख्यानबलेन = ज्ञानशक्त्या,
वार्यताम् = निवार्यताम् ॥ ५५ ॥
हिन्दी—प्रमुख रूप से मन और देह के दोषों से युक्त इन नारियों को पहचानकर
घर लौटने के लिए उत्सुक और चंचल मन को ज्ञान के बल से रोको ॥ ५५ ॥
श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् ।
उपगम्य यथा तथा पुनर्न हि भेत्तुं नियमं त्वमर्हसि ॥ ५६ ॥

१६६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—त्वं श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनं यथा तथा
नियमम् उपगम्य पुनः भेत्तुं न अर्हसि ? ॥ ५६ ॥
व्याख्या—त्वम् = भवान्, श्रुतवान्—श्रुतमस्ति अस्येति श्रुतवान् = शास्त्रज्ञः,
मतिमान् = बुद्धिमान्, कुलोद्गतः—कुले = कुलीनवंशे, उद्गतः = समुत्पन्नः, असि,
परमस्य = उत्कृष्टस्य, प्रशमस्य = परमशान्तेः, भाजनम्=पात्रम्, यथा तथा = येन केन
प्रकारेण, नियमम् = भिक्षुव्रतम्, उपगम्य = प्राप्य, पुनः = भूयः, भेत्तुम् = भिन्नं कर्तुम्,
नार्हसि = योग्यो नाऽसि ॥ ५६ ॥
हिन्दी—तुम विद्वान्, बुद्धिमान्, कुलीन और परमशान्ति के पात्र हो, जैसे-तैसे
भी एक बार व्रत लेकर उसे तोड़ना तुम्हारे लिए उचित नहीं है ॥ ५६ ॥
अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः ।
निधनमपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितम् ॥ ५७ ॥
अन्वयः—अभिजनमहतः मनस्विनः प्रिययशसः बहुमानम् इच्छतः स्थिरात्मनः
निधनम् अपि वरं च्युतविनयस्य जीवितं च नैव ॥ ५७ ॥
व्याख्या—अभिजनमहतः—अभिजनेन = कुलेन, महान् = श्रेष्ठः, तस्य, मनस्विनः=
बुद्धिमन्तः, प्रिययशसः—प्रियम् = अभिमतम्, यशः = कीर्तिः, यस्य सः तस्य, बहुमानम्
=सम्मानम्, इच्छतः = अभिलषितः, स्थिरात्मनः = अचपलचेतनः, निधनमपि = मरण-
मपि, वरम् = श्रेष्ठम्, च्युतविनयस्य—च्युतः = भ्रष्टः, विनयः = नियमः, यस्य तस्य,
जीवितम् = जीवनम्, च न वरमस्ति ॥ ५७ ॥
हिन्दी—जिसका कुल महान् है, जो मनस्वी है, जो कीर्तिकामी है, जो
अत्यधिक सम्मान चाहता है, उस स्थिरात्मा के लिए मर जाना अच्छा है, परन्तु
व्रतभंग कर जीना उचित नहीं ॥ ५७ ॥
बद्ध्वा यथा हि कवचं प्रगृहीतचापो
निन्द्यो भवत्यपसृतः समराद्रथस्थः ।
भैक्षाकमभ्युपगतः परिगृह्य लिङ्गं
निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः ॥ ५८ ॥
अन्वयः—यथा हि कवचं बद्ध्वा प्रगृहीतचापः रथस्थः समरात् अपसृतः निन्द्यः
भवति, तथा लिङ्गं परिगृह्य भैक्षाकम् अभ्युपगतः कामहृतेन्द्रियाश्वः निन्द्यः
भवति ॥ ५८ ॥
व्याख्या—यथा = येन प्रकारेण, हि = यतः, कवचम् = सन्नाहः, बद्ध्वा = सन्नियम्य,
प्रगृहीतचापः—प्रगृहीतम् = धृतम्, चापम् = बाणम्, येन सः, रथस्थः—रथे = स्यन्दने,
तिष्ठति = आरोहति इति, समरात् = सङ्ग्रामात् अपसृतः = पलायितः, निन्द्यो भवति =
गर्हणीयो भवति, तथा = तेनैव प्रकारेण, लिङ्गम् = भिक्षुवेषम्, परिगृह्य = धारणं कृत्वा,
भैक्षाकम् = भैक्षजीवनम्, अभ्युपगतः = सम्प्राप्तः, कामहृतेन्द्रियाश्वः—इन्द्रियाणि =

स्त्री-विघ्नः ] अष्टमः सर्गः १६७
करणानि, एव अश्वाः = घोटकाः, इति इन्द्रियाश्वः, कामेन = मदनेन, हृताः = अपहृताः,
इन्द्रियाश्वाः, यस्य सः, निन्द्यः = गर्हणीयः, भवति = जायते ॥ ५८ ॥
हिन्दी—जैसे कवच पहनकर, आयुध लेकर, रथ पर सवार होकर कोई योद्धा
युद्ध के मैदान से भागकर निन्दित होता है, उसी प्रकार भिक्षुवेश धारण कर फिर
उसे छोड़कर इन्द्रियरूपी कामाश्व से अपहृत होकर व्यक्ति निन्दा का पात्र बन जाता
है ॥ ५८ ॥
हास्यो यथा च परमाभरणावरस्रग्
भैक्षं चरन्धृतधनुश्चलचित्रमौलिः ।
वैरूप्यमभ्युपगतः परपिण्डभोजी
हास्यस्तथा गृहसुखाभिमुखः सतृष्णः ॥ ५९ ॥
अन्वयः—यथा परमाभरणावरस्रक् चलचित्रमौलिः धृतधनुः च भैक्ष्यं चरन् हास्यः
तथा वैरूप्यम् अभ्युपगतः परपिण्डभोजी सतृष्णः गृहसुखाभिमुखः हास्यः भवति ॥५९॥
व्याख्या—यथा = येन प्रकारेण, परमाभरणावरस्रक्—परमम् = उत्तमम्, आभ-
रणम् = अलङ्करणम्, अम्बरम् = महार्घवरत्रम्, स्रक् = माला, यस्य सः, चलचित्र-
मौलिः—चलम् = चपलम्, चित्रम् = विचित्रम्, मौलौ = उत्तमाङ्गे, यस्य सः, धृतधनुः—
धृतम् = गृहीतम्, धनुः = चापम्, येन सः, च = पुनः, भैक्ष्यम् = भिक्षाटनम्, चरन्
= भ्रमन्, हास्यः = उपहासास्पदो भवति, तथा = तेनैव प्रकारेण, वैरूप्यम्—विरूपस्य
भावः वैरूप्यम् = भिक्षुवेषम्, अभ्युपगतः = प्राप्तः, परपिण्डभोजी—परेषाम् =
अन्येषाम्, पिण्डम् = अन्नम्, भुङ्क्ते = अत्ति, इति, सतृष्णः—तृष्णया = इच्छया,
सहितः = समन्वितः, गृहसुखाभिमुखः—गृहस्य = सदनस्य, सुखम् = आनन्दम्, तदभि-
मुखम् = गमनेच्छुः, हास्यः भवति = उपहसनीयो भवति ॥ ५९ ॥
हिन्दी—जैसे कोई उत्तम अलङ्कार, वस्त्र तथा माला पहन कर, हाथ में धनुष
लेकर भीख मांगे तो हंसी का पात्र बन जायेगा, उसी तरह भिक्षुवेष धारण कर
दूसरों के अन्न पर जीनेवाला सतृष्ण होकर गृहसुख के लिए घर की ओर भागे तो
निश्चय ही उपहास का पात्र बन जायेगा ॥ ५९ ॥
यथा स्वन्नं भुक्त्वा परमशयनीयेऽपि शयितो
वराहो निर्मुक्तः पुनरशुचि धावेत् परिचितम् ।
तथा श्रेयः शृण्वन् प्रशमसुखमास्वाद्य गुणवद्
वनं शान्तं हित्वा गृहमभिलषेत् कामतृषितः ॥ ६० ॥
अन्वयः—यथा स्वन्नं भुक्त्वा परमशयनीये शयितः अपि निर्मुक्तः वराहः पुनः
परिचितम् अशुचि धावेत् तथा श्रेयः शृण्वन् गुणवत् प्रशमसुखम् आस्वाद्य कामतृषितः
शान्तं वनं हित्वा गृहम् अभिलषेत् ॥ ६० ॥
व्याख्या—यथा = येन प्रकारेण, स्वन्नम्—शोभनम् = सुष्ठु, अन्नम् = भोज्यम्,
भुक्त्वा = खादित्वा, परमशयनीये—परमः = उत्तमश्चासौ शयनीयः = पर्यङ्कः, तस्मिन्

१६८ सौन्दरनन्दं महाकाव्यम्
शयितः=सुप्तः, अपि=चेत्, निर्मुक्तः = बन्धनविहीनः सन्, वराहः=सूकरः, पुनः=
भूयः, परिचितम् = पूर्वज्ञातम्, अशुचिम् = अपवित्रम्, धावेत् = गच्छेत्, तथा = तेनैव
प्रकारेण, श्रेयः = परमार्थम्, शृण्वन् = आकर्णयन्, गुणवत् = गुणशालि, प्रशमसुखम् =
परमशान्तिजन्यानन्दम्, आस्वाद्य = आस्वादनं कृत्वा, कामतृषितः=मदनमथितः,
शान्तम् = शमम्, वनम् = तपोवनम्, हित्वा = परित्यज्य, गृहम् = सदनम्, अभिलषेत् =
वाञ्छेत् ॥ ६० ॥
हिन्दी—जैसे शोभन अन्न खाकर, सुन्दर पलंग पर सोकर भी सूअर बन्धन मुक्त
होते ही परिचित गन्दगी की ओर दौड़ता है, उसी प्रकार श्रेय को सुनने के बाद गुण
युक्त शान्त सुख का आस्वादन करके काम तृष्णा से मानव शान्त तपोवन को छोड़कर
घर की ओर भागता है ॥ ६० ॥
यथोल्का हस्तस्था दहति पवनप्रेरितशिखा
यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।
यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः
तथा स्त्रीसंसर्गो बहुविधमनर्थाय भवति ॥ ६१ ॥
अन्वयः—यथा हस्तस्थाः पवनप्रेरितशिखा उल्का दहति, यथा पादाक्रान्तः
क्रोधरभसः भुजगः दशति, यथा गृहीतः गृहगतः शिशुः अपि व्याघ्रः हन्ति, तथा
स्त्रीसंसर्गः बहुविधम् अनर्थाय भवति ॥ ६१ ॥
व्याख्या—यथा = येन प्रकारेण, हस्तस्थाः—हस्ते = करे, तिष्ठतीति हस्तस्थाः =
करस्थाः, पवनप्रेरितशिखा - पवनेन = वायुना, प्रेरिता = उत्तेजिता, शिखा = ज्वालः,
यस्याः साः, उल्का = खोल्का, दहति = ज्वलति, यथा = येन प्रकारेण, पादाक्रान्तः—
पादेन = चरणेन, आक्रान्तः = अभिघातितः, क्रोधरभसः—क्रोधेन = कोपेन, रभसः =
उग्रः, भुजगः = विषधरः, दशति = दंशनं करोति, यथा = येन रूपेण, गृहीतः = वशीकृतः,
गृहगतः = सदनस्थः, शिशुरपि = शावकोऽपि, व्याघ्रः = मृगान्तकः, हन्ति = हिनस्ति,
तथा = तेनैव प्रकारेण, स्त्रीसंसर्गः = नारीसम्पर्कः, बहुविधम् = अनेकप्रकारकम्, अनर्थाय
= अमङ्गलाय, भवति ॥ ६१ ॥
हिन्दी—जैसे हाथ में लिए मशाल की ज्वाला हवा के झोके खाकर हाथ को जला
देती है, पैर से कुचला सांप प्रचण्ड क्रोधकर डँसता है, घर में पला हुआ बाघ का
छोना भी हत्या करता है, उसी तरह नारी का संपर्क अनेक अमंगलों का कारण होता
है ॥ ६१ ॥
तद्विज्ञाय मनः शरीरनियतान्नारीषु दोषानिमान्
मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।
दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगन्
निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि ॥ ६२ ॥
सौन्दरनन्दे महाकाव्ये स्त्रीविघातो नामाष्टमः सर्गः ॥ ८ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १६९
अन्वयः—तत् नारीषु मनःशरीरनियतान् इमान् दोषान् विज्ञाय नदीजलचलं
कामसुखं क्लेशाय शोकाय च मत्वा मृत्युपसृष्टं जगत् आमपात्रसदृशं दुर्बलं दृष्ट्वा
अतुलां बुद्धिं निर्मोक्षाय कुरुष्व उत्कण्ठितुं नार्हसि ॥ ६२ ॥
व्याख्या—तत् = तस्मात्, नारीषु = प्रमदासु, मनःशरीरनियतान् = मनश्च =
चित्तञ्च, शरीरञ्च = देहञ्च, तयोः नियतान् = निहितान्, इमान् = एतान्, दोषान् =
दुर्गुणान्, विज्ञाय = ज्ञात्वा, नदीजलचलम् = नद्याः = तटिन्याः, जलमिव = सलिलमिव,
चलम् = चपलम्, कामसुखम् = रतिजन्यानन्दम्, क्लेशाय = पीडायै, शोकाय = चिन्तायै,
च मत्वा = अवगम्य, मृत्युपसृष्टम् = मृत्युना = तनुत्यागेन, उपसृष्टम् = ग्रस्तम्, जगत् =
संसारम्, आमपात्रसदृशम्—आमञ्च = अपक्वञ्च, यत् पात्रम् = भाण्डम्, तस्य, सदृशम् =
तुल्यम्, दुर्बलम् = शक्तिहीनम्; दृष्ट्वा = अवलोक्य, अतुलाम्—न विद्यते तुला यस्याः
सा, ताम् = अनुपमाम्, बुद्धिम् = मतिम्, निर्मोक्षाय = मुक्तये, कुरुष्व = विधेहि,
उत्कण्ठितुम् = उत्कण्ठां कर्तुम्, नार्हसि = न योग्योऽसि ॥ ६२ ॥
हिन्दी—स्त्रियों में मन और शरीर के नियत दोषों को जानकर, कामसुख को
नदी-जल की तरह चंचल पीडा हेतु और शोक के लिए मानकर, संसार को मृत्यु-
ग्रस्त कच्चे घड़े की तरह दुर्बल देखकर अपनी अनुपम बुद्धि को मुक्ति के लिए
लगाओ । अतः तुम्हें घर जाने की उत्कंठा नहीं करनी चाहिए ॥ ६२ ॥
सौन्दरनन्द महाकाव्य में 'स्त्री-विघात' नामक अष्टम सर्ग समाप्त ॥ ८ ॥

नवमः सर्गः
मदापवादः
रत्नजटित दीवारों का अभिमान उभर कर मुस्काया ।
जी चाहे तो जान सको इसमें क्या खोया क्या पाया ॥
अथैवमुक्तोऽपि स तेन भिक्षुणा जगाम नैवोपशमं प्रियां प्रति ।
तथा हि तामेव तदा स चिन्तयन्न तस्य शुश्राव विसंज्ञवद्वचः ॥ १ ॥
अन्वयः—अथ तेन भिक्षुणा एवम् उक्तः अपि सः प्रियां प्रति उपशमं नैव जगाम,
तथा हि तदा सः ताम् एव चिन्तयन् विसंज्ञवत् तस्य वचः न शुश्राव ॥ १ ॥
व्याख्या—अथ = तदनन्तरम्, तेन = पूर्वोक्तेन, भिक्षुणा = प्रव्रजितेन, एवम् =
इत्थम्, उक्तः = कथितः, अपि = चेत्, सः = नृपनन्दः, प्रियाम्प्रति = कान्ताम्प्रति,
उपशमम् = शान्तिम्, नैव जगाम = अगच्छत्, तथा हि, तदा = तस्मिन् काले, हि =
यतः, सः = राजानन्दः, तामेव = कान्तामेव, चिन्तयन् = स्मरणं कुर्वन्, विसंज्ञवत् =
चेतनाशून्यवत्, तस्य = भिक्षोः, वचः = वचनम्, न = नहि, शुश्राव = श्रुतवान् ॥ १ ॥
हिन्दी—उस भिक्षु ने उसे जब इस तरह समझाया, तब भी उसे अपनी प्रिया के
प्रति शान्ति नहीं आई। उस समय तक भी वह अपनी प्रेयसी का ही चिन्तन करता
रहा तथा बेहोश की तरह उस भिक्षु के उपदेश को सुन कर भी नही सुना ॥ १ ॥
यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्णाति मुमूर्षुर्रातुरः ।
तथैव मत्तो बलरूपयौवनैर्हितं न जग्राह स तस्य तद्वचः ॥ २ ॥
अन्वयः—यथा हि मुमूर्षुः आतुरः शिवं चिकीर्षतः वैद्यस्य वचः न गृह्णाति, तथैव
बलरूपयौवनैः मत्तः सः तस्य हितं तद्वचः न जग्राह ॥ २ ॥
व्याख्या—यथा = येन प्रकारेण, हि = इति निश्चयेन, मुमूर्षुः = मरणासन्नः,
आतुरः = रोगापन्नः, शिवम् = कल्याणम्, चिकीर्षतः = कर्त्तुमिच्छतः, वैद्यस्य =
भिषग्वरस्य, वचः = कथनम्, न = नहि, गृह्णाति=स्वीकरोति, तथैव = तेनैव प्रकारेण,
बलरूपयौवनैः—बलञ्च = सामर्थ्यञ्च, रूपञ्च = सौन्दर्यञ्च, यौवनञ्च = तारुण्यञ्च, तैः,
मत्तः = प्रमत्तः, सः = राजानन्दः, तस्य = बौद्धसाधोः, हितम् = हितकरम्, तद्वचः =
तस्य कथनम्, न = नहि, जग्राह=शुश्रावेति । बलरूपयौवनैः प्रमत्तो नन्दस्तस्य भिक्षोः
हितकरमपि वचनं न जग्राहेति । यतः—रूपयौवनसम्पन्नः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ २ ॥
हिन्दी—जैसे 'मरणासन्न' रोगी कल्याणकारी चिकित्सक की बातें नहीं सुनता,
उसी तरह बल, रूप और यौवन से उन्मत्त नन्द ने उस भिक्षु की कल्याणकारी बातें
नहीं सुनी ॥ २ ॥
न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतात्मनः ।
नरस्य पाप्मा हि तदा निवर्तते यदा भवन्त्यन्तगतं तमस्तनु ॥ ३ ॥

मदापवादः ] नवमः सर्गः १७१
अन्वयः—अत्र च चित्रं न यदि तमोवृतात्मनः मनः रागपाप्मना अभिभूयेत, हि
नरस्य पाप्मा तदा निवर्त्तते यदा अन्तगतं तमः तनु भवति ॥ ३ ॥
व्याख्या—अत्र = अस्मिन् प्रसङ्गे, च = पुनः, चित्रम् = किमप्याश्चर्यम्, न = नहि,
यदि = चेत्, तमोवृतात्मनः—तमसा = अज्ञानेन, वृतः = आच्छादितः, आत्मा = चेतना,
यस्य तस्य, मनः = चित्तः, रागपाप्मना—रागः = आसक्तिः, तदेव पाप्मा = दोषस्तेन,
अभिभूयेत = वशीभूयेत, हि = यतः, नरस्य = लोकस्य, पाप्मा = दुर्गुणः, तदा = तस्मिन्
काले, निवर्त्तते = नश्यते, यदा = यस्मिन् समये, अन्तगतम् = आन्तरिकम्, तमः =
अज्ञानम्, तनु = क्षीणं भवति ॥ ३ ॥
हिन्दी-और इसमें कोई विचित्र बात नहीं कि तम रूपी अज्ञान से आवृत्त मन
आसक्तिरूप पाप से अभिभूत हो, मनुष्य का पाप तभी नष्ट होता है जब उसका
अज्ञान मिट जाता है ॥ ३ ॥
ततस्तथा क्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च ।
गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये ॥ ४ ॥
अन्वयः—ततः तदा तं बलेन रूपेण च यौवनेन च तथा क्षिप्तं गृहप्रयाणं प्रति
च व्यवस्थितं तम् अवेक्ष्य सः श्रमणः शान्तये नन्दं शशास ॥ ४ ॥
व्याख्या—ततः = तत्पश्चात्, तदा = तस्मिन् काले, तम् = नन्दम्, बलेन =
सामर्थ्येन, रूपेण = आकृत्या, च = पुनः, यौवनेन = तारुण्येन, च, तथा = तेन रूपेण,
क्षिप्तम् = प्रमत्तम्, गृहप्रयाणम्—गृहाय = गेहाय, प्रयाणम् = गमनम्, प्रति, च,
व्यवस्थितम् = कृतनिश्चयम्, तम् = नन्दम्, अवेक्ष्य = दृष्ट्वा, सः = असौ, श्रमणः =
भिक्षुः, शान्तये = शमनाय, नन्दम् = नृपम्, शशास = उपदिदेश ॥ ४ ॥
हिन्दी—तब उसे बल, रूप और यौवन के कारण वैसा उन्मत्त तथा घर लौटने
के लिए कृतसंकल्प देखकर उस साधु ने नन्द को उपदेश दिया ॥ ४ ॥
बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि ।
अहं त्विदं ते त्रयमव्यवस्थितं यथावबुद्धो न तथावबुध्यसे ॥ ५ ॥
अन्वयः—बलञ्च रूपञ्च नवं यौवनं च तथा अवगच्छामि तथा अवगच्छसि तु
अहं ते इदं त्रयं यथा अव्यवस्थितम् अवबुद्धः तथा न अवबुध्यसे ॥ ५ ॥
व्याख्या—बलञ्च = सामर्थ्यञ्च, रूपञ्च = आकृतिश्च, नवम् = नूतनम्, यौवनञ्च =
तारुण्यञ्च, अहम्, तथा = तेन प्रकारेण, अवगच्छामि = जानामि, यथा = येन रूपेण,
त्वम् अवगच्छसि = जानासि, तु = किन्तु, अहम् = भिक्षुः, ते = तव, इदम् = एतत्,
त्रयम् = त्रिसङ्ख्यकमपि, यथा = येन प्रकारेण, अव्यवस्थितम् = अस्थिरम्, अवबुद्धः =
ज्ञातः, तथा = तेन रूपेण, न = नहि, अवबुध्यसे = ज्ञायसे । नन्दस्तु यथा बलरूपादि-
कस्यास्थिरत्वेनानभिज्ञो भूत्वाऽऽसक्तोऽस्ति, तथैव भिक्षुः तेषामस्थिरत्वस्य विज्ञो भूत्वा
अनासक्तोऽस्ति ॥ ५ ॥

१७२ सौन्दरनन्दं महाकाव्यम्
हिन्दी—बल, रूप और नव यौवन को जैसा तुम जान रहे हो, वैसा मैं समझ
रहा हूँ, मैं तो तुम्हारे इन तीनों को जैसा अव्यवस्थित जान रहा हूँ, वैसा तुम नहीं
समझ रहे हो ॥ ५ ॥
इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलम् ।
न वेत्सि देहं जलफेनदुर्बलं बलस्थतामात्मनि येन मन्यसे ॥ ६ ॥
अन्वयः—हि इदं रोगायतनं जरावशं नदीतटानोकहवत् चलाचलं जलफेनदुर्बलं
देहं न वेत्सि येन आत्मनि बलस्थतां मन्यसे ॥ ६ ॥
व्याख्या --हि = यतः, इदम् = एतत्, रोगायतनम् - रोगस्य = व्याधेः, आयतनम्
= गृहम्, जरायाः = वृद्धावस्थायाः, वशम् = वशीभूतम्, नदीतटानोकहवत् - नद्याः =
तटिन्याः, तटस्य = कूलस्य, अनोकहः = वृक्षस्तद्वत्, चलाचलम् = अस्थिरम्, जलफेन-
दुर्बलम् - जलस्य = सलिलस्य, फेनः = जलहासः, इव = यथा, दुर्बलम् = नश्वरम्,
देहम् = शरीरम्, न = नहि, वेत्सि = जानासि, येन = कारणविशेषेण, आत्मनि =
स्वस्मिन्, बलस्थताम् - बले तिष्ठतीति बलस्थः, तस्य भावस्ताम्=सामर्थ्यस्यास्थिरताम्,
मन्यसे = ज्ञायसे । वस्तुतः शारीरिकामगुणिनः नश्वरताञ्च सर्वे जानन्ति किञ्च
तेषामनुभवस्तु ज्ञानिनः एव कर्तुं शक्यन्ते । यतोहि ते मोहग्रस्ताः न भवन्ति ॥ ६ ॥
हिन्दी—यह देह रोगों का घर है, बुढौती के वश में है, नदीतटवर्त्ती वृक्ष की
तरह चलायमान और जल के फेन की तरह क्षणिक है; तुम नहीं जानते इसे, इसीलिए
अपने बल को तुम स्थिर मान रहे हो ॥ ६ ॥
यदान्नपानासनयानकर्मणामसेवनादप्यतिसेवनादपि ।
शरीरमासन्नविपत्ति दृश्यते बलेऽभिमानस्तव केन हेतुना ॥ ७ ॥
अन्वयः-यदा अन्नपानासनयानकर्मणाम् असेवनात् अपि अतिसेवनात् अपि आसन्न-
विपत्तिः शरीरं दृश्यते, बले तव अभिमानः केन हेतुना ? ॥ ७ ॥
व्याख्या-यदा = यस्मिन् काले, अन्नपानासनयानकर्मणाम् - अन्नञ्च = भक्ष्य-
पदार्थञ्च, पानञ्च = पेयद्रव्यञ्च, आसनञ्च = स्थितिञ्च, यानञ्च = प्रवहणञ्चेति तेषां
कर्मणि = कर्त्तव्ये, तेषाम्, असेवनात् = अकरणात्, अपि = चेत्, अतिसेवनात् =
अत्यधिककरणात्, अपि, आसन्नविपत्तिः - आसन्नाः = समीपवर्त्तिनी, विपत्तिः =
आपत्तियँस्य तत्, शरीरम् = देहम्, दृश्यते = अवलोक्यते, तदा, बले = सामर्थ्ये, तव =
भवतः, अभिमानः = दर्पः, केन हेतुना = केन कारणेन भवतीति ॥ ७ ॥
हिन्दी-जब अन्न, पान, आसन और यान-इनमें जिन कर्मों का सेवन नहीं
करने से और अतिसेवन से भी देह में विपत्ति नजदीक में दिखलायी पड़ती है, तो
फिर किस कारण से तुम बल पर घमंड करते हो ? ॥ ७ ॥
हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत् ।
जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलंदृप्त मन्यसे ॥ ८ ॥

मदापवादः ] नवमः सर्गः १७३
अन्वयः—बलदृप्त ! यदा हिमातपव्याधिजराक्षुदादिभिः अनर्थैः अपि जगत्
उपमीयते, शुचौ मासे अर्करश्मिभिः क्षयं व्रजन् जलम् इव किं मन्यसे ? ॥ ८ ॥
व्याख्या—बलदृप्त ! = हे शक्त्यभिमानी ! हिमातपव्याधिजराक्षुदादिभिः—
हिमञ्च = शीतञ्च, आतपञ्च = उष्णता च, व्याधिश्च = रोगश्च, जरा च = वृद्धावस्था
च, क्षुत् च = बुभुक्षा च, आदयः = प्रभृतयस्ताभिः, अनर्थैः = अनिष्टैः, अपि = चेत्,
जगत्—गच्छतीति जगत् = संसारः, उपमीयते = तुल्यते, शुचौ = ज्येष्ठे मासे, अर्क-
रश्मिभिः—अर्कस्य = दिवाकरस्य, रश्मयः = मयूखानि, ताभिः, जलमिव = सलिल-
मिव, क्षयम् = विनाशम्, व्रजन् = गच्छन्, जलमिव किम् = कथम्, मन्यसे =
चिन्तयसि ? ॥ ८ ॥
हिन्दी—जब जाड़ा, गर्मी, रोग, भूख और बुढ़ौती आदि अनर्थों से सारी दुनियाँ
पीड़ित हो रही है, तब जेठ के महीने में सूर्य की किरणों से सूखते पानी की तरह हे
बलाभिमानी ! तुम क्या शोच रहे हो ? ॥ ८ ॥
त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति ।
अजस्रमार्तं सततप्रक्रियं बलान्वितोऽस्मीति कथं विहन्यसे ॥ ९ ॥
अन्वयः—यदा त्वगस्थिमांसक्षतजात्मकं शरीरम् आहारवशेन तिष्ठति अजस्रम्
आर्तम् सततप्रक्रियं बलान्वितः अस्मि इति कथं विहन्यसे ? ॥ ९ ॥
व्याख्या—यदा = यस्मिन् काले, त्वगस्थिमांसक्षतजात्मकम्—त्वक् च = कृतिश्च,
अस्थि च = कीकसञ्च, मांसञ्च = पिशितञ्च, क्षतजञ्च—क्षताज्जातम्, क्षतजम् = व्रणात्
बहिरागतं रक्तम् इति तदात्मकम्, शरीरम् = देहम्, आहारवशेन = भोजनपानादि-
वशेन, तिष्ठति = विद्यते, अजस्रम् = अनवरतम्, आर्तम् = रोगातंम्, सततप्रक्रियम्—
सततम् = सदा, प्रतिक्रिया = प्रत्याघातः यस्मिन् तत्, एवमस्ति तदा, बलान्वितः =
सामर्थ्यवान्, अस्मि = भवामि, इति = एवम्, कथम् = केन रूपेण, विहन्यसे =
प्रतार्यसे ? ॥ ९ ॥
हिन्दी—जब हड्डी, चमड़ी, मांस और लहू से और आहार का वशवर्त्ती यह शरीर
सदा प्रतिकार में ही लगा है, तो फिर मैं 'बलवान् हूँ' ऐसा विचार क्यों कर रहे
हो ? ॥ ९ ॥
यथा घटं मृन्मयाममाश्रितो नरस्तितीर्षेत् क्षुभितं महार्णवम् ।
समुच्छ्रयं तद्वदसारमुद्वहन् बलं व्यवस्येद्विषयार्थमुद्यतः ॥ १० ॥
अन्वयः—यथा मृन्मयम् आमं घटम् आश्रितः नरः क्षुभितं महार्णवं तितीर्षेत्, तद्वत्
असारम् उद्वहन् विषयार्थम् उद्यतः समुच्छ्रयं बलं व्यवस्येत् ॥ १० ॥
व्याख्या—यथा = येन रूपेण, मृन्मयम्—मृदः = मृत्तिकायाः, विकारः = परिणामः,
(विकारार्थेऽत्र मयट् ), मृन्मयम् = मृन्निर्मितम्, आमम् = अपक्वम्, घटम् = कुम्भम्,
आश्रितः = निर्भरः, नरः = लोकः, क्षुभितम् = कुपितम्, महार्णवम्—महान् चासौ
सौ०-15

१७४ सौन्दरनन्दं महाकाव्यम्
अर्णवस्तम् = महासमुद्रम्, तितीर्षेत् = तर्तुमिच्छेत्, तद्वत् = तेनैव प्रकारेण, असारम् =
सारहीनं शरीरम्, उद्वहन् = धारयन्, विषयार्थम् = विषयभोगनिमित्तम्, उद्यतः =
तत्परः, समुच्छ्रयम् = देहम्, बलम् = सामर्थ्यम्, व्यवस्येत् = प्रयतेत् ॥ १० ॥
हिन्दी—जैसे कोई आदमी मिट्टी के कच्चे घड़े के सहारे कुपित सागर को पार
करना चाहता है, उसी तरह विषय-भोग के लिए तत्पर आदमी अपने को शक्तिशाली
समझने का प्रयास करता है ॥ १० ॥
शरीरमामादपि मृन्मयाद् घटा-
दिदं तु निःसारतमं मतं मम ।
चिरं हि तिष्ठेद्विधिवद् धृतो घटः
समुच्छ्रयोऽयं सुधृतोऽपि भिद्यते ॥ ११ ॥
अन्वयः—इदं शरीरं मृन्मयात् आमात् घटात् अपि निःसारतमं मम मतम्, हि
विधिवत् धृतः घटः चिरं तिष्ठेत्, अयं समुच्छ्रयः सुधृतः अपि भिद्यते ॥ ११ ॥
व्याख्या—इदम् = एतत्, शरीरम् = देहम्, मृन्मयात् = मृत्पिण्डजातात्, आमात् =
अपरिपक्वात्, घटात् = कुम्भात्, अपि = चेत्, निःसारतमम् = सारहीनम्, इति मम =
श्रमणस्य, मतम् = विचारम्, हि = यतः, विधिवत् = नियमपूर्वकम्, धृतः = स्थापितः,
घटः = कुम्भः, चिरम् = चिरकालपर्यन्तम्, तिष्ठेत् = वर्त्तेत, अयम् = एषः, समुच्छ्रयः =
देहम्, सुधृतः = सुष्ठुरूपेण गृहीतः, अपि = चेत्, भिद्यते = नश्यते ॥ ११ ॥
हिन्दी—यह शरीर तो मिट्टी के कच्चे घड़े से भी बदतर है, क्योंकि मैं समझता
हूँ कि नियमपूर्वक रखे जाने पर मिट्टी के घड़े तो बहुत दिनों तक टिक सकते हैं,
किन्तु यह शरीर अच्छी तरह रखने के बावजूद भी नष्ट हो जाती है ॥ ११ ॥
यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः ।
भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ १२ ॥
अन्वयः—यदा अम्बुभूवाय्वनलाः धातवः शरीरम् आश्रिताः विषमाः उरगाः इव
सदा विरुद्धाः अनर्थाय च भवन्ति, रोगविधः कथं बलं व्यवस्यसि ? ॥ १२ ॥
व्याख्या—यदा = यस्मिन् काले, अम्बुभूवाय्वनलाः—अम्बु च = जलञ्च, भूञ्च =
पृथ्वी च, वायुश्च = पवनञ्च, अनलश्चेति = अग्निश्चेति, धातवः = शरीरकारणानि
( शरीरस्थम् आकाशादितत्त्वम्, अस्थिमांसादितत्त्वञ्च धातुपदेन व्यपदिश्यते ), शरीरम्
= देहम्, आश्रिताः = समाश्रिताः, विषमाः = असमाः, उरगाः = सर्पाः, इव = यथा,
सदा = सर्वदा, विरुद्धाः = विपरीताः, अनर्थाय = अशिवाय, च = पुनः, भवन्ति =
जायन्ते, रोगविधः = व्याधिधर्मः, कथम् = केन कारणेन, बलम् = सामर्थ्यम्, व्यवस्यसि
= अवगच्छसि ? ॥ १२ ॥
हिन्दी—जब आग, पानी, पृथ्वी और वायु—ये धातुएं शरीर में एक साथ रहकर
भी विषम विषधरों की तरह सदैव विरुद्ध रहती हैं और अनर्थकारी बन जाती हैं, तो
फिर इस रोगधर्मा शरीर को ताकतवर कैसे मान रहे हो ? ॥ १२ ॥