सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

भार्या-विलापः ] षष्ठः सर्गः ११५
व्याख्या—ततः = तत्पश्चात्, भर्तरि = पत्यौ, ताम् = पूर्वोक्ताम्, प्रवृत्तिम् = वृत्ता-
न्तम्, श्रुत्वा = आकर्ण्य, सवेपथुः = कम्पन्ती, सा = सुन्दरी, सहसा = हठात्, उत्पपात =
उदपतत्, बाहू = भुजे, प्रगृह्य = प्रसार्य, हृदि = चित्ते, दिग्धाभिहता = विषलिप्तबाणा-
भिहता, करेणुः = हस्तिनी, इव = यथा, उच्चैः = तारस्वरेण, विरुर्राव = विललाप ॥ २४॥
हिन्दी-इसके बाद पति संन्यासी हो गये; यह खबर सुनते ही वह थरथर काँपते
हुए अचानक उछल पड़ी और बाँहे फैलाकर विषैले बाण से घायल हथिनी की तरह
जोर-जोर से रोने लगी ॥ २४ ॥
सा रोदनारोषितरक्तदृष्टिः सन्तापसङ्क्षोभितगात्रयष्टिः ।
पपात शीर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः ॥ २५ ॥
अन्वयः—रोदनारोषितरक्तदृष्टिः सन्तापसङ्क्षोभितगात्रयष्टिः शीर्णाकुलहारयष्टिः
सा फलातिभारात् चूतयष्टिः इव पपात ॥ २५ ॥
व्याख्या—रोदनं च = क्रन्दनञ्च, आरोषितञ्च = क्रोधितञ्च, रोदनारोषितम् =
क्रन्दनक्रोधितम्, ताभ्यां रक्ता = रक्तवर्णा, दृष्टिः = नेत्रम्, यस्याः सा, सन्तापसङ्क्षो-
भितगात्रयष्टि—सन्तापेन = सञ्ज्वरेण, सङ्क्षोभिता = क्षुब्धा, गात्रमेव = शरीरमेव,
यष्टिः = दण्डः, यस्याः सा, शीर्णाकुलहारयष्टिः—शीर्णा च = क्षीणा च, आकुला च
= व्याकुला च, हारयष्टिः = मालाश्रेणी, यस्याः सा = विकीर्णाऽस्तव्यस्तहारयष्टिः,
सा = सुन्दरी, फलातिभारात् = फलाधिक्यात्, चूतयष्टिः = आम्रदण्डः, इव = यथा,
पपात = न्यपतत् ॥ २५ ॥
हिन्दी-रुलाई और गुस्से के कारण लाल-लाल आँखों वाली, संताप के कारण
अशान्त शरीर वाली तथा अस्त-व्यस्त बिखरे हार वाली वह सुन्दरी जैसे अधिक फल
लगने के कारण आम की डाली टूटकर गिर जाती है, उसी तरह वह सुन्दरी टूटकर
गिर गई ॥ २५ ॥
सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षीम् ।
पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रगिवातपेन ॥ २६ ॥
अन्वयः—पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षीं सा विपद्मा पद्मा
लक्ष्मीः इव पतिता आतपेन पद्मस्रग् इव शुशोष ॥ २६ ॥
व्याख्या—पद्मरागम्—पद्मस्य = कमलस्य, रागः = लोहितवर्णः, यस्य तत् वसनम्
= वस्त्रम्, वसाना = दधाना, पद्मानना—पद्ममिव = कमलमिव, आननम् = मुखम्,
यस्याः सा, पद्मदलायताक्षी—पद्मस्य = कमलस्य, दले = पत्रे, इव, आयते = विशाले,
अक्षिणी = नेत्रे, यस्याः सा, सा = सुन्दरी, विपद्मा—विगतम् = विनष्टम्, पद्मम् =
कमलम्, यस्याः सा, पद्मा = पद्मासहिता, लक्ष्मीः = श्रोः, इव, पतिता = भ्रष्टा,
आतपेन = घर्मेण, पद्मस्रगिव = कमलमालेव, शुशोष = अशुष्यत् ॥ २६ ॥
हिन्दी – कमल की तरह हल्के गुलाबी रंग के कपड़े पहने हुए, कमल की तरह
मुखवाली, कमलपत्र की तरह फाँकदार आँखोंवाली वह सुन्दरी उसी तरह गिरी

११६ सौन्दरनन्द महाकाव्यम्
जैसे पद्म धारण करनेवाली लक्ष्मी गिरी हो; उसी तरह सूख गई जैसे धूप में झुलस
कर कमल-माला सूख जाती है ॥ २६ ॥
सञ्चिन्त्य सञ्चिन्त्य गुणांश्च भर्तुर्दीर्घं निशश्वास तताम चैव ।
विभूषणश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥ २७ ॥
अन्वयः—भर्तुः गुणान् सञ्चिन्त्य सञ्चिन्त्य दीर्घं निशश्वास च तताम चैव
विभूषणश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे विनिर्दुधाव ॥ २७ ॥
व्याख्या—भर्तुः = स्वामिनः, गुणान् = शीलान्, सञ्चिन्त्य = विचार्य, सञ्चिन्त्य =
स्मृत्वा, दीर्घम् = उष्णम्, निशश्वास=न्यश्वसत्, च=पुनः, तताम = ( तमु आकाङ्क्षा-
याम्, लिटि, तिपि ) आकाङ्क्ष्यं, चैव, विभूषणश्रीनिहिते-विभूषणस्य=अलङ्क-
रणस्य, श्रीः = शोभा, निहिताः = न्यस्ताः, ययोस्तस्मिन् = अलङ्करणकान्तिस्वरूपे,
प्रकोष्ठे = कफोणेरधो मणिबन्धपर्यन्तो हस्तभागे, ताम्रे = ताम्रवर्णे, कराग्रे = हस्ताग्रे,
विनिर्दुधाव = प्रकम्पयामास ॥ २७ ॥
हिन्दी—पति के स्वभाव को याद कर वह बार-बार लम्बी उसांसे लेने लगी,
उसकी सारी अभिलाषाएँ फिर एक बार हिलोरेँ लेने लगीं। कुहनी के नीचे का भाग,
जिनमें औरतें बहुधा आभूषण पहनती हैं; उन्हें हिलाकर ताम्र रंग की हथेलियों को
मलने लगी ॥ २७ ॥
“ न भूषणार्थो मम सम्प्रतीति सा दिक्षु चिक्षेप विभूषणानि ।
निर्भूषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ॥ २८ ॥
अन्वयः—सम्प्रति मम भूषणार्थः न इति सा विभूषणानि दिक्षु चिक्षेप निर्भूषणा
पतिता च विशीर्णपुष्पस्तबका लता इव सा चकाशे ॥ २८ ॥
व्याख्या—सम्प्रति = अधुना, मम = मे भूषणार्थः = अलङ्करणप्रयोजनम्, न =
नहि, इति = इत्यं निगद्य, सा = सुन्दरी, विभूषणानि = अलङ्करणानि, दिक्षु=आशासु,
चिक्षेप = अक्षिपत्, निर्भूषणा = आभूषणविहीना, सा = नन्दप्रिया, पतिता = धारायां
निपतिता, विशीर्णपुष्पस्तबकानि - विशीर्णानि = जीर्णानि, पुष्पाणाम् = कुसुमानाम्,
स्तबकानि = पुष्पगुच्छानि, यस्याः सा, लता = व्रततिः, इव = यथा, चकाशे =
शुशुभे ॥ २८ ॥
हिन्दी—अब मुझे इन आभूषणों की आवश्यकता ही क्या है ? ऐसा कहकर वह
सारे जेवरातों को इधर-उधर बिखेर कर गिर गई । उस समय वह वैसे ही लग
रही थी जैसे फूलों के गुच्छों से रहित कोई लता हो ॥ २८ ॥
धृतः प्रियेणायमभून्ममेति रुक्मत्सरुं दर्पणमालिलिङ्गे ।
यत्नाच्च विन्यस्ततमालपत्री रुष्टेव धृष्टं प्रममार्ज गण्डौ ॥ २९ ॥
अन्वयः—अयं मम प्रियेण धृतः अभूत् इति रुक्मत्सरुं दर्पणम् आलिल

भार्या-विलापः ] षष्ठः सर्गः ११७
व्याख्या—अयम् = एषः, मम = मे, प्रियेण = प्रियतमेन, धृतः = गृहीतः,
अभूत् = आसीत्, इति = इत्थं विचार्य, रुक्मत्सरुम् — रुक्मणः = सुवर्णस्य, त्सरुः =
मुष्टिका, तम्, दर्पणम् = मुकुरम्, आलिलिङ्गे = आलिङ्गवती, यत्नात् = सायासात्,
विन्यस्ततमालपत्रौ — विन्यस्तौ = रचितौ, तमालपत्रौ = कपोलोपरि चितचिह्नविशेषौ,
ययोस्तौ, गण्डौ = कपोलौ, रुष्टा इव = क्रुद्धावत्, धृष्टम् = साग्रहम्, प्रममार्ज =
प्रामार्जीत् ॥ २९ ॥
हिन्दी—'इसे मेरे प्रियतम ने पकड़ा था'—यह कहकर सोने की मूठवाले आईने
को छाती से चिपका लिया, फिर क्रोधित औरत की तरह दोनों गालों पर रचे
अङ्गराग को जोर से पोंछ डाला ॥ २९ ॥
सा चक्रवाकीव भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका ।
विस्पर्धमानेव विमानसंस्थैः पारावतैः कूजनलोलकण्ठैः ॥ ३० ॥
अन्वयः—श्येनाग्रपक्षक्षतचक्रवाका चक्रवाकी इव सा भृशं चुकूज विमानसंस्थैः
कूजनलोलकण्ठैः पारावतैः विस्पर्धमाना इव (आसीत्) ॥ ३० ॥
व्याख्या—श्येनाग्रपक्षक्षतचक्रवाकः—अग्रञ्चासौ पक्षः अग्रपक्षः, स चासौ क्षतः
अग्रपक्षक्षतः, स चासौ चक्रवाकः, श्येनेन अग्रपक्षक्षतचक्रवाकः यस्याः सा, चक्रवाकी =
कोकी, इव = यथा, सा = सुन्दरी, भृशम् = अत्यर्थम्, चुकूज = कूजितवती, विमान-
संस्थैः प्रासादस्थैः, कूजनलोलकण्ठैः—कूजनेन = विरुतेन, लोलाः = चपलाः, कण्ठाः =
गलाः, येषां तैः, विस्पर्धमाना = प्रतिस्पर्घमाना, इव = यथा, आसीत् ॥ ३० ॥
हिन्दी—चकवे के पंख के आगे का हिस्सा बाज के द्वारा तोड़ दिये जाने पर
चकवी जैसे रोती है, उसी तरह रोते हुए खोंप में रहनेवाले कबूतरों के कूजने से
मानो वह स्पर्धा करने लगी ॥ ३० ॥
विचित्रमृद्वास्तरणेऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डितेऽपि ।
रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥ ३१ ॥
अन्वयः—विचित्रमृद्वास्तरणेऽपि वैडूर्यवज्रप्रतिमण्डिते रुक्माङ्गपादे महार्हे
शयने अपि सुप्ता परिचेष्टमाना शर्म न लेभे ॥ ३१ ॥
व्याख्या—विचित्रमृद्वास्तरणेऽपि — विचित्रम् = विविधवर्णम्, मृदुः = कोमलम्,
आस्तरणम् = आच्छादनम्, यस्मिन् तस्मिन्, अपि = अपरञ्च, वैडूर्यवज्रप्रतिमण्डिते—
वैडूर्यञ्च = केतुरत्नञ्च, वज्रञ्च = प्रस्तरखण्डञ्च, ताभ्यां प्रतिमण्डिते = जटिते, रुक्माङ्ग-
पादे—रुक्मणः = सुवर्णस्य, अङ्गपादः = पर्यङ्कपादः, यस्य सः तस्मिन्, महार्हे =
बहुमूल्ये, शयनेऽपि = पर्यङ्केऽपि, सुप्ता = शयाना, परिचेष्टमाना = अनिवृत्तमाना,
शर्म = शान्तिम्, न = नहि, लेभे = प्राप्तवती ॥ ३१ ॥
हिन्दी—रंग-बिरंगे कोमल गद्देवाले पलंग पर, जिनके चारो पाए बहुमूल्य वैडूर्य
और वज्रमणि-खचित सोने के बने थे—लेटकर अशान्त और अधीर होकर छटपटाने
लगी ॥ ३१ ॥

११८ सौन्दरनन्दं महाकाव्यम्
सन्दृश्य भर्तुश्च विभूषणानि वासांसि वीणाप्रभृतींश्च लीलाः ।
तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥ ३२ ॥
अन्वयः—भर्तुः विभूषणानि वासांसि च वीणाप्रभृतीन् लीलाः सन्दृश्य तमः
विवेश च उच्चैः अभिननाद पङ्कावतीर्णा इव संससाद ॥ ३२ ॥
व्याख्या—भर्तुः=पत्युः, विभूषणानि=अलङ्करणानि, वासांसि=वस्त्राणि, च=
पुनः, वीणा=वल्लकी, प्रभृतीन् लीला=मनोरञ्जकवस्तूनि, सन्दृश्य=दृष्ट्वा,
तमः=मोहः, विवेश=प्राप्तवती, च=पुनः, उच्चैः=तारस्वरेण, अभिननाद=
रुरोद, पङ्के=कर्दमे, अवतीर्णा=संश्लिष्टा, इव=यथा, संससाद=दुःखिता
बभूव ॥ ३२ ॥
हिन्दी—प्रियतम के आभूषण, वस्त्र और वीणा प्रभृति मनोरंजन की वस्तुओं को
देखकर वह शोकाकुल हुई, जोर-जोर से रोई और कीचड़ में फँसी हुई की तरह
दुःखी हुई ॥ ३२ ॥
सा सुन्दरी श्वासचलोदरी हि वज्राग्निसम्भिन्नदरीगुहेव ।
शोकाग्निनान्तर्हृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ॥ ३३ ॥
अन्वयः—श्वासचलोदरी सा सुन्दरी वज्राग्निसम्भिन्नदरीगुहा इव अन्तर्हृदि
शोकाग्निना दह्यमाना तदा हि विभ्रान्तचित्ता इव बभूव ॥ ३३ ॥
व्याख्या—श्वासेन=उच्छ्वासेन, चलम्=कम्पमानम्, उदरम्=जठरम्, यस्याः
सा, सा=पूर्वोक्ता, सुन्दरी =नन्दपत्नी, वज्राग्निसम्भिन्नदरीगुहा—वज्रस्य=इन्द्रा-
युधस्य, अग्निना=वह्निना, सम्भिन्नः=विदीर्णा, दरीगुहा=अन्तर्भागः, इव=यथा,
अन्तर्हृदि =चित्ते, शोकाग्निना=परितापवह्निना, दह्यमाना=ज्वलन्ती, तदा हि=
तदानीं हि, विभ्रान्तचित्ता=विभ्रान्तम्=सन्दिग्धम्, चित्तम्=हृदयम्, यस्या सा,
'इव' इति सम्भावनायाम्, तेनोत्प्रेक्षाऽलङ्कारोऽत्र; तद्यथा—'भवेत् सम्भावनोत्प्रेक्षा—'
इति; बभूव=आसीत् ॥ ३३ ॥
हिन्दी—वज्र की अग्नि से जिसका अन्दरूनी भाग फट गया हो—ऐसी गुफा के
समान उस सुन्दरी के पेट में साँसों के कारण उत्कम्प होने लगा। शोकाग्नि से उसका
हृदय जलने लगा। उस समय उसका चित्त स्थिर नहीं रहा ॥ ३३ ॥
रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ ।
चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् ॥ ३४ ॥
अन्वयः—( सा ) रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ,
रोषं चकार माल्यं विचकार, वक्त्रं चकर्तं, वस्त्रं विचकर्ष ॥ ३४ ॥
व्याख्या—सा, रुरोद=अरोदत्, मम्लौ=जग्लौ, विरुराव=अरावीत्, जग्लौ=
अग्लानीत्, बभ्राम=अभ्रमत्, तस्थौ=अतिष्ठत्, विललाप=व्यलपत्, दध्यौ=
चिन्तयामास, रोषम्=क्रोधम्, चकार=अकरोत्, माल्यम्=पुष्पस्रक्, विचकारं=

भार्या-विलापः ] षष्ठः सर्गः ११९
व्यकरोत्, वक्त्रम् = आननम्, चकर्त्त = अकर्त्तीत्, वस्त्रम् = वसनम्, विचकर्प = व्यकृ-
पत्। अत्र सुन्दरी अत्यावेगेन विक्षिप्ताऽभवत्। येन प्रकारेण तस्याः क्रियाकलापे
न काऽपि सङ्गतिः किं वा औचित्यम् अस्ति, तेनैव प्रकारेण कविनाऽपि बहुविध-
समानार्थकक्रियायाः प्रयोगं कृतम्, यस्यौचित्यापेक्षया सुन्दर्याः विक्षिप्तावस्थायाः
प्रदर्शनस्य भावः अधिकोऽस्ति । अस्मिन् श्लोके—'रुद' 'म्लै' 'हृ' 'ग्लै' 'भ्रम्' 'स्था'
'ल्यप्' 'ध्यै' 'कृञ्' 'कृती' एवं 'कृष्' धातूनां लिट्लकारस्य प्रथमपुरुषैकवचने प्रयोगाः
कृताः सन्ति ॥ ३४ ॥
हिन्दी—वह सुन्दरी पागल हो गई। वह रोई, कुम्हलाई, चिल्लाई, निराश हुई,
चहलकदमी की, रुकी, विलाप किया, चिन्ता किया, क्रोध किया, माले को बिखेर
दिया, मुँह को दाँतों से काटा, कपड़े को चीर डाला ॥ ३४ ॥
तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः ।
अन्तर्गृहादारुरुहुर्विमानं त्रासेन किन्नर्य इवाद्रिपृष्ठम् ॥ ३५ ॥
अन्वयः—तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य परमाभितप्ताः नार्यः त्रासेन
अद्रिपृष्ठं किन्नर्यः इव अन्तर्गृहात् विमानम् आरुरुहुः ॥ ३५ ॥
व्याख्या—ताम् = नन्दपत्नीम्, चारुदन्तीम्—चारवः = मनोहराः, दन्ताः =
दशनाः, यस्याः सा ताम्, प्रसभम् = शीघ्रम्, रुदन्तीम् = विलपन्तीम्, संश्रुत्य = श्रुत्वा,
परमाभितप्ताः = अत्यधिकसन्तप्ताः, नार्यः = स्त्रियः, त्रासेन = भीत्या, अद्रिपृष्ठम् =
गिरिशिखरम्, किन्नर्यः = किन्नरजातेर्नार्यः, इव = यथा, अन्तर्गृहात् = गृहमध्यात्,
विमानम् = प्रासादम्, आरुरुहुः = आरुरुक्षन् ॥ ३५ ॥
हिन्दी—उस सुदन्ती की जोर-जोर से रुलाई सुनकर महल के भीतरी भाग से
बहुत सारी महिलाएँ घबड़ाकर महल पर चढ़ गईं, जैसे कभी-कभी डर कर
किन्नरियाँ पहाड़ की चोटी पर चढ़ जाती हैं ॥ ३५ ॥
बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः ।
स्थानानुरूपेण यथाभिमानं निलिल्यिरे तामनुदह्यमानाः ॥ ३६ ॥
अन्वयः—ताः वर्षेण आर्द्रपद्माः इव बाष्पेण क्लिन्नविषण्णवक्त्राः ताम् अनुदह्य-
मानाः स्थानानुरूपेण यथाभिमानं निलिल्यिरे ॥ ३६ ॥
व्याख्या—ताः = नार्यः, वर्षेण = वर्षाजलेन, आर्द्रपद्माः = क्लिन्नकमलानि,
इव = यथा, बाष्पेण = अश्रुजलेन, क्लिन्नविषण्णवक्त्राः—क्लिन्नानि = दुःखितानि,
विषण्णानि = म्लानानि, वक्त्राणि = मुखानि, यासां ताः, ताम् = सुन्दरीम्, अनुदह्य-
माना = प्रज्वाल्यमाना, स्थानानुरूपेण = परिस्थित्यनुसारेण, यथाभिमानम्=मानानु-
रूपम्, निलिल्यिरे = न्यलीयन्त ॥ ३६ ॥
हिन्दी—वर्षा-जल से भींगे कमल की तरह आंसू से तरबतर मुखवाली औरतें
दुःखी एवं उदास मन से अपने-अपने पद-मर्यादा के अनुसार बैठ गई ॥ ३६ ॥

१२० सौन्दरनन्द महाकाव्यम्
ताभिर्वृता हर्म्यतलेऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे ।
शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरदभ्रमध्ये ॥ ३७ ॥
अन्वयः—हर्म्यतले ताभिः अङ्गनाभिः वृताः चिन्तातनुः सा सुतनुः शरदभ्रमध्ये
शतह्रदाभिः परिवेष्टिताः शशाङ्कलेखा इव बभाषे ॥ ३७ ॥
व्याख्या—हर्म्यतले=राजभवने, ताभिः=पूर्वोक्ताभिः, अङ्गनाभिः=स्त्रीभिः,
वृताः=परिवृताः, चिन्तातनुः—चिन्तया=शोकेन, तनुः=क्षीणः, सा=सुन्दरी,
सुतनु—शोभनं तनुः = शरीरम्, यस्याः सा, शरदभ्रमध्ये—शरदः = शरत्कालीनः,
अभ्राणाम्=मेघानाम्, मध्ये = अन्तराले, शतह्रदाभिः =विद्युल्लताभिः, परिवेष्टिता=
आवृताः, शशाङ्कलेखा = चन्द्रलेखा, इव = यथा, बभाषे = चकाशे । अत्र साधर्म्येणोप-
माऽलङ्कारः ‘साधर्म्यमुपमाभेदे’ इत्यपि लक्षणेन विनिगमनाविरहेणाऽप्यत्रोपमात्वस्येष्ट-
त्वादुपमाऽलङ्कार इति ॥ ३७ ॥
हिन्दी—राजमहल में अन्य महिलाओं से घिरी, चिन्ता से दुर्बल देह वाली वह
सुन्दरी वैसे ही लग रही थी, जैसे शरत्कालीन मेघों के बीच बिजलियों से घिरी
चन्द्रलेखा हो ॥ ३७ ॥
या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च ।
सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच ॥ ३८ ॥
अन्वयः—तत्र या तासां मान्या वचसोपपन्ना च वयसाधिका च सा तस्याः तु
पृष्ठतः समालिलिङ्गे अश्रूणि च प्रमृज्य तां वचांसि उवाच ॥ ३८ ॥
व्याख्या—तत्र=तस्मिन् स्थाने, याः=स्त्रियः, तासाम् =स्त्रीणां मध्ये, मान्या=
वरेण्या, वचसा =वाण्या, उपपन्ना=प्रतिपन्ना, च=पुनः, वयसाऽधिका=वयोवृद्धा,
च सा=नारी, तस्याः=सुन्दर्याः, तु=इति पादपूर्त्यर्थम्, पृष्ठतः=पृष्ठभागात्,
समालिलिङ्गे = आलिङ्ग्य, अश्रूणि=नेत्रजलानि, च=पुनः, प्रमृज्य=मार्जयित्वा,
ताम् = विषण्णां सुन्दरीम्, वचांसि = वचनानि, उवाच = अकथयत् ॥ ३८ ॥
हिन्दी—उन औरतों में जो मान्या, वयोवृद्धा एवं वाक्-चतुरा थी, उसने पीछे
से सुन्दरी का आलिंगन कर, उसके आंसू पोंछ कर उससे कहा ॥ ३८ ॥
राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः ।
इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ ३९ ॥
अन्वयः—राजर्षिवध्वाः तव भर्त्तरि धर्माश्रिते जातु शोकः न अनुरूपः हि
इक्ष्वाकुवंशे तपोवनानि दायाद्यभूतानि अभिकाङ्क्षितानि च ॥ ३९ ॥
व्याख्या—राजर्षिवध्वाः=नृपमुनिपत्याः, तव =श्रीमत्याः, भर्त्तरि = स्वामिनि,
धर्माश्रिते = संन्यस्ते, जातु = सर्वथा, शोकम् = कष्टम्, न = नहि, अनुरूपम् =योग्यम्,
हि = यतः, इक्ष्वाकुवंशे=एतदाख्यकुले, तपोवनानि = तपस्यारण्यानि, दायाद्यभूतानि-
दायादानि इव भूतानि दायाद्यभूतानि = उत्तराधिकारे प्राप्तसम्पत्स्वरूपाणि, अभिका-
ङ्क्षितानि =अभीष्टानि, च सन्ति ॥ ३९ ॥

भार्या-विलापः ] षष्ठः सर्गः १२१
हिन्दी—तुम राजर्षि की पत्नी हो, पति के संन्यस्त होने पर इस तरह तुम्हें
शोक नहीं करना चाहिए। क्योंकि इक्ष्वाकुवंश में जन्म लेने वाले राजा को तपोवन
तो पैतृक सम्पत्ति की तरह ही होता है ॥ ३९ ॥
प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस्ते ।
तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदाश्रितानाम् ॥ ४० ॥
अन्वयः—मोक्षाय विनिःसृतानां शाक्यर्षभाणां स्त्रियः ते प्रायेण विदिताः साध्वी-
व्रतं कामवद् आश्रितानां यासां गृहाणि तपोवनानि इव ( सन्ति ) ॥ ४० ॥
व्याख्या—मोक्षाय = मुक्तये, विनिःसृतानाम् = बहिर्गतानाम्, शाक्यर्षभाणाम्—
शाक्येषु = शाक्यवंशेषु, ऋषभाः = श्रेष्ठाः, तेषाम्, स्त्रियः = नार्यः, ते = तव, विदिताः =
ज्ञाताः, साध्वीव्रतम् = सतीव्रतम्, कामवत् = कामोपभोगवत्, आश्रितानाम् =
अधीनस्थानाम्, यासाम् = नारीणाम्, गृहाणि = सदनानि, तपोवनानि = तपस्या-
रण्यानि, इव = यथा, आसन् ॥ ४० ॥
हिन्दी—मुक्ति के लिए संन्यस्त शाक्यश्रेष्ठों की स्त्रियों के बारे में तुम अच्छी
तरह जानती हो। उन्होंने साध्वी नारी के व्रत को कामोपासना की तरह तथा घर
को तपोवन की तरह समझा ॥ ४० ॥
यद्यन्यया रूपगुणाधिकत्वाद्भर्त्ता हृतस्ते कुरु बाष्पमोक्षम् ।
मनस्विनी रूपवती गुणाढ्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत् ॥४१॥
अन्वयः—यदि अन्यया रूपगुणाधिकत्वात् ते भर्त्ता हृतः वाष्पमोक्षं कुरु अत्र हि
का मनस्वनि रूपवती गुणाढ्या हृदि क्षते अश्रु न मुञ्चेत् ॥ ४१ ॥
व्याख्या—यदि = चेत्, अन्यया = अपरया कयाचित्, रूपगुणाधिकत्वात् = रूपञ्च
= आकृतिश्च, गुणञ्च = स्वभावञ्च, रूपगुणौ = सौन्दर्यशीले, तयोः अधिकः = विशेष-
स्तस्य भावस्तस्मात् = सौन्दर्यशीलोत्कर्षात्, ते = तव, भर्त्ता = पतिः, हृतः = अपहृतः,
बाष्पमोक्षम् = अश्रुमोचनम्, कुरु = विधेहि, अत्र = अस्मिन् विषये, हि = यतः, का
= अन्या, मनस्विनी = मानिनी, रूपवती = सौन्दर्यशालिनी, गुणाढ्या = गुणवती,
हृदि = चित्ते, क्षते = अभिघातिते, अश्रु = नेत्रजलम्, न = नहि, मुञ्चेत् = त्यजेत् ॥४१॥
हिन्दी—यदि किसी रूपसी ने अपने रूपगुण के कारण तुम्हारे पति का अपहरण
कर लिया है तो जितना रो सकती हो रोओ, क्योंकि ऐसी कौन मानिनी है कि
दिल में चोट लगने पर न रोए ॥ ४१ ॥
अथापि किञ्चिद् व्यसनं प्रपन्नो मा चैव तद्भूत्सदृशोऽत्र बाष्पः ।
अतो विशिष्टं न हि दुःखमस्ति कुलोद्गतायाः पतिदेवतायाः ॥ ४२ ॥
अन्वयः—अथापि किञ्चिद् व्यसनं प्रपन्नः मा च तद्भूत् अत्र बाष्पः सदृशः एव,
हि कुलोद्गतायाः पतिदेवतायाः अतो विशिष्टं दुःखं नास्ति ॥ ४२ ॥

१२२ सौन्दरनन्दं महाकाव्यम्
व्याख्या—अथापि=आहोस्वित्, किञ्चित् = ईषत्, व्यसनम्=कष्टम्, प्रपन्नः =
प्राप्तः, मा च तद्भूत् = एवं न स्यात्, अत्र = अस्मिन् विषये, बाष्पः=नयनजलप्रवाहः,
सदृश एव=उपयुक्त एव, हि = यतः, कुलोद्गतायाः—कुले = श्रेष्ठवंशे, उद्गतायाः =
उत्पन्नायाः, कुलोद्गतायाः = कुलीनायाः, पतिदेवतायाः—पतिः=भर्ता, एव देवता =
ईश्वरः, यस्याः सा तस्याः, अतो विशिष्टम् = इतोऽधिकम्, दुःखम् = पीडाम्, नास्ति =
न विद्यते। साध्वी-स्त्रियै पतिरेव देवता भवति। अतः पतिपरायणायै स्त्रियै नातोऽधिकं
कष्टं किमपि भवितुं शक्नोति ॥ ४२ ॥
हिन्दी—संभवतः यदि वे किसी कष्ट में पड़ जाय, भगवान् न करें ऐसा हो, तो
आंसू बहाना उचित ही है; क्योंकि कुलीना और पतिव्रता स्त्री के लिए इससे बढ़कर
कोई दुःख नहीं हैं ॥ ४२ ॥
अथ त्विदानीं लडितः सुखेन स्वस्थः फलस्थो व्यसनान्यदृष्ट्वा ।
वीतस्पृहो धर्ममनुप्रपन्नः किं विक्लवा रोदिषि हर्षकाले ॥ ४३ ॥
अन्वयः—अथ तु इदानीं सुखेन लडितः स्वस्थः फलस्थः व्यसनानि अदृष्ट्वा
वीतस्पृहः धर्मम् अनुप्रपन्नः हर्षकाले किं विक्लवा रोदिषि ? ॥ ४३ ॥
व्याख्या—अथ=अनन्तरम्, तु=किन्तु, इदानीम्=अधुना, सुखेन = आनन्देन,
लडितः=लालितः, स्वस्थः=अनामयः, फलस्थः = भोगयुक्तः, व्यसनानि=कष्टानि,
अदृष्ट्वा=अनवलोक्य, वीतस्पृहः = वीतरागः, धर्मम् = शुभकर्म, अनुप्रपन्नः=प्राप्तः,
हर्षकाले=प्रसन्नतासमये, किम्=कथम्, विक्लवा=विह्वला, रोदिषि=क्रन्दसि ? ॥४३॥
हिन्दी—किन्तु इस समय तो वे सुखी एवं स्वस्थ लोगों के बीच विपत्ति-विहीन
वीतराग होकर धर्म की शरण में गये हैं, तो फिर इस प्रसन्नता के समय इस तरह
विह्वल होकर तुम रो क्यों रही हो ? ॥ ४३ ॥
इत्येवमुक्तापि बहुप्रकारं स्नेहात् तया नैव धृतिं चकार ।
अथापरा तां मनसोऽनुकूलं कालोपपन्नं प्रणयादुवाच ॥ ४४ ॥
अन्वयः—इत्येवं बहुप्रकारम् उक्ताऽपि स्नेहात् तया धृतिं नैव चकार अथ अपरा
तां मनसः अनुकूलं कालोपपन्नं प्रणयात् उवाच ॥ ४४ ॥
व्याख्या—इत्येवम् = अनेन प्रकारेण, बहुप्रकारम्=अनेकविधम्, उक्ताऽपि = कथि-
ताऽपि, स्नेहात् = प्रेम्णः, तया = सुन्दर्या, धृतिम् = धैर्यम्, नैव = नास्त्येव, चकार =
दधार, अथ = अनन्तरम्, अपरा = अन्या, मनसः = चित्तस्य, अनुकूलम् = उपकारकम्,
कालोपपन्नम् = समयानुसारम्, प्रणयात् = प्रेम्णः, उवाच = जगाद ॥ ४४ ॥
हिन्दी—इस प्रकार उस महिला ने स्नेहपूर्वक उसे अनेक तरह से समझाया ।
फिर भी स्नेहवश उसने धैर्यं धारण नहीं किया । तब दूसरी महिला ने प्रेमपूर्वक
समयानुकूल उसके मन के अनुसार कहा ॥ ४४ ॥
ब्रवीमि सत्यं सुनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रमेव ।
त्वया विना स्थास्यति तत्र नासौ सत्त्वाश्रयश्चेतनयेव हीनः ॥ ४५ ॥

भार्या-विलापः ] षष्ठः सर्गः १२३
अन्वयः—मे सुविनिश्चितं सत्यं ब्रवीमि प्राप्तं प्रियं शीघ्रमेव द्रक्ष्यसि असौ
त्वया विना चेतनया हीनः सत्त्वाश्रयः इव तत्र न स्थास्यति ॥ ४५ ॥
व्याख्या—मे = मम, सुविनिश्चितम् = नियतम्, सत्यम् = ऋतम्, ब्रवीमि =
कथयामि, प्राप्तम् = समागतम्, प्रियम् = स्वपतिम्, शीघ्रमेव = त्वरितमेव, द्रक्ष्यसि =
अवलोकयिष्यसि, असौ = नन्दः, त्वया विना = भवत्या रहित, चेतनया हीनः = चेतना-
शून्यः, सत्त्वाश्रयः = सत्त्वस्य = जीवस्य, आश्रयः = आधारः, प्राणाधारदेहवत्, तत्र =
बुद्धाश्रमे, नहि, स्थास्यति = नैव निवसिष्यति ॥ ४५ ॥
हिन्दी—मैं जो कुछ कह रही हूँ, वह ध्रुव सत्य है; तुम्हारे पति तुम्हारे पास
शीघ्र लौट आयेंगे । प्राणों के बिना जैसे देह नहीं टिक सकती है, उसी तरह तुम्हारे
बिना वे एक क्षण भी उस आश्रम में नहीं रुकेंगे ॥ ४५ ॥
अङ्केऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः ।
आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखम् ॥४६॥
अन्वयः—लक्ष्म्याः अङ्केऽपि सः निर्वृत्तः न स्यात् यदि तत्र तस्य पार्श्वे त्वं न
स्याः, कृच्छ्रासु च आपत्सु आगतासु त्वां पश्यतः तस्य दुःखं न भवेत् ॥ ४६ ॥
व्याख्या—लक्ष्म्याः = श्रियाः, अङ्केऽपि = क्रोडेऽपि सः = राजा, निर्वृत्तः =
शान्तः, न = नहि, स्यात् = भवेत्, यदि = चेत्, तत्र = तस्मिन् स्थाने, तस्य = नृपनन्दस्य,
पार्श्वे = समीपे, त्वम् = भवती, न = नहि, स्याः = भवेत्, कृच्छ्रासु = कष्टकरेपु, आपत्सु
= विपत्सु, आगतासु = उपस्थितासु, त्वाम् = भवतीम्, पश्यतः = अवलोकयतः, तस्य
= नृपनन्दस्य, दुःखम् = कष्टम्, न = नहि, भवेत् = स्यात् ॥ ४६ ॥
हिन्दी—तुम्हारे बिना लक्ष्मी की गोद में भी वे सुखी नहीं होंगे । तुम्हारे पास
रहने पर वे भयंकर कष्ट भी खुशी के साथ झेल लेंगे ॥ ४६ ॥
त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात् परिरक्ष चक्षुः ।
यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात् स धर्मे ॥ ४७ ॥
अन्वयः—त्वं निर्वृतिं गच्छ बाष्पं नियच्छ तप्ताश्रुमोक्षात् चक्षुः परिरक्ष त्वयि
यः तस्य भावः यश्च रागः त्वद्विरहात् स धर्मे न रंस्यते ॥ ४७ ॥
व्याख्या—त्वम् = सुन्दरी, निर्वृतिम् = क्षोभरहित्यम्, गच्छ = याहि, बाष्पम् =
नेत्रजलम्, नियच्छ = अवरुंधि, तप्ताश्रुमोक्षात् = तप्तम् = उष्णम्, अश्रु = नेत्रजलम्,
तस्य मोक्षः = प्रवाहस्तस्मात् = सततसन्तप्ताश्रुप्रवाहेण नेत्रविकृतेः सम्भावना
वरीवर्त्ति तस्मात्, परिरक्ष = रक्षां कुरु, त्वयि = भवत्याम्, यः = पूर्ववर्णितः, भावः
= विचारः, यश्च रागः = अनुरागः, त्वद्विरहात् = त्वद्वियोगात्, सः = राजा, धर्मे =
धार्मिकानुष्ठाने, न नहि, रंस्यते = रमणङ्करिष्यति ॥ ४७ ॥
हिन्दी—तुम शान्त हो जाओ, रोना बन्द करो, आंसुओं के बहाने से आंखों को
बचाओ । तुम्हारे प्रति जो उनकी भावना या अनुराग है, उससे स्पष्ट है कि तुम्हारे
वियोग में उन्हें धार्मिक अनुष्ठानों में वहां मन नहीं लगेगा ॥ ४७ ॥

१२४ सौन्दरनन्दं महाकाव्यम्
स्यादत्र नासौ कुलसत्त्वयोगात् काषायमादाय विहास्यतीति ।
अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः ॥ ४८ ॥
अन्वयः—स्यात् अत्र कुलसत्त्वयोगात् असौ काषायम् आदाय न विहास्यति, इति
अनात्मना आदाय गृहोन्मुखस्य पुनः विमोक्तुं क इव दोषः अस्ति ? ॥ ४८ ॥
व्याख्या—स्यादिति प्रश्ने, अत्र=अस्मिन् विषये, कुलसत्त्वयोगात्=कौलिकमर्यादा-
परिपालनात्, असौ=नृपतिः, काषायम्=भिक्षुवसनम्, आदाय=नीत्वा, न=नहि,
विहास्यति=परिहरिष्यति, इति, अनात्मना=अनिच्छया, आदाय=गृहीत्वा,
गृहोन्मुखस्य=सदनोन्मुखस्य, पुनः=भूयः, विमोक्तुम्=त्यक्तुम्, कः=किम्, इव,
दोषः=अपराधः, अस्ति=भवति ॥ ४८ ॥
हिन्दी—यदि वे अपनी कुल-मर्यादा के कारण कषायवस्त्र धारण कर उसे नहीं
छोड़ेंगे तो अनिच्छापूर्वक उसे ग्रहण कर गृहोन्मुख व्यक्ति के लिए उसे छोड़ने में
क्या दोष है ? ॥ ४८ ॥
इति युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा ।
द्रमिडमभिमुखी पुरेव रम्भा क्षितिमगमत् परिवारिताप्सरोभिः ॥४९॥
इति सौन्दरनन्दे काव्ये भार्याविलापो नाम षष्ठः सर्गः ॥ ६ ॥
अन्वयः—युवतिजनेन इति सान्त्व्यमाना रमणेन हृतहृदया सा सुन्दरी पुरा
अप्सरोभिः परिवारिता द्रमिडम् अभिमुखी रम्भा इव क्षितिम् अगमत् ॥ ४९ ॥
व्याख्या—युवतिजनेन=कामिनीसमूहेन, इति=एवम्, सान्त्व्यमाना=प्रदत्त-
धैर्या, रमणेन=भर्त्रा, हृतहृदया=हृतम्=अपहृतम्, हृदयम्=चित्तम्, यस्याः साः,
सा=पूर्वोक्ता, सुन्दरी=नन्दभार्या, पुरा=प्राचीनकाले, अप्सरोभिः=वाराङ्गनाभिः,
परिवारिता=परिवृता, द्रमिडम्=निजपतिम्, अभिमुखी=सम्मुखी, रम्भा=अप्सरो-
विशेषः, इव=यथा, क्षितिम्=पृथिवीम्, निवासभवनं वा, अगमत्=जगाम ॥४९॥
हिन्दी—युवतियों ने इस प्रकार जब उसे सान्त्वना दी तब वह सुन्दरी, जिसका
दिल पति ने चुरा लिया, अप्सराओं से घिरी रम्भा की तरह अपने पति को खोजती
लक्ष्यभूमि की ओर चली गई ॥ ४९ ॥
सौन्दरनन्द-काव्य में 'भार्याविलाप' नामक षष्ठ सर्ग समाप्त ।

सप्तमः सर्गः
नन्द-विलापः
कसक उठी नव पीर हृदय की, विश्वासों ने ठोकर खाई ।
हाय नन्द की भींगी पलकों को, स्मृति ने फिर दुलराई ॥
लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन्न तु चेतसा तत् ।
भार्यागतैरेव मनोवितर्कैर्जेह्रीयमाणो न ननन्द नन्दः ॥ १ ॥
अन्वयः—ततः शास्तृविधिप्रदिष्टं तत् लिङ्गं गात्रेण बिभ्रत् न तु चेतसा
भार्यागतैः एव मनोवितर्कैः जेह्रीयमाणः नन्दः न ननन्द ॥ १ ॥
व्याख्या - ततः = तदनन्तरम्, शास्तृविधिप्रदिष्टम्-शास्तुः = अधिष्ठातुः,
विधिना = रीत्या, प्रदिष्टम् = निर्दिष्टम्, तत् = पूर्वोक्तम्, लिङ्गम् = चिह्नम्, भिक्षु-
वेषम्, गात्रेण = देहेन, बिभ्रत् = दधानः, न तु = न च, चेतसा = हृदयेन, भार्यागतैः=
पत्नीविषयकैः, एव = इति निश्चयेन, मनोवितर्कैः-मनसि = चेतसि, गताः = याताः,
वितर्काः = ऊहापोहास्तैः, जेह्रीयमाणः = अतिलज्जितः सन्, नन्दः = तथागतानुजः,
न = नहि, ननन्द = आनन्दितो बभूव ॥ १ ॥
हिन्दी—शास्ता के विधानानुसार नन्द ने उस वेष को शरीर से धारण किया, न
कि मन से । भार्या विषयक मानसिक विचारों के कारण नन्द आत्मग्लानि में डूबे हैं,
प्रसन्न नहीं है ॥ १ ॥
स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः ।
यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥ २ ॥
अन्वयः—पुष्पमासस्य च पुष्पलक्ष्म्या पुष्पकेतोः सर्वाभिसारेण च यौवनस्य
यानीयभावेन च विहारसंस्थः स शमं न जगाम ॥ २ ॥
व्याख्या - पुष्पमासस्य = वसन्तऋतोः, च = पुनः, पुष्पलक्ष्म्या = सुमनशोभया,
पुष्पकेतोः = मदनस्य, सर्वाभिसारेण—सर्वस्मिन् = सर्वत्र, अभिसारः = गमनस्तेन =
सर्वतोव्याप्त्या, च = पुनः, यौवनस्य = तारुण्यस्य, यानीयभावेन = गमनीयभावनया,
च = पुनः, सः = नन्दः, शमम् = शान्तिम्, न = नहि, जगाम = अगच्छत् ॥ २ ॥
हिन्दी—वसन्त की शोभा, मदन की सर्वत्र व्याप्ति एवं जवानी की भावनाओं के
कारण विहार में रहते हुए भी नन्द के मन में शान्ति नहीं आई ॥ २ ॥
स्थितः स दीनः सहकारवीथ्यामालीनसम्मूर्च्छितषट्पदायाम् ।
भृशं जजृम्भे युगदीर्घबाहुर्ध्यात्वा प्रियां चापमिवाचकर्ष ॥ ३ ॥
सौ०-12

has ृ: जजृम्भे.
Wait, let's look at the dot under the first ज in L3:
Wait, is it a dot or smudge? In Hindi/Sanskrit, जज़ृम्भे doesn't exist, it's standard Sanskrit root जृम्भ् -> जजृम्भे (लिट् लकार, प्रथम पुरुष, एकवचन, आत्मनेपद).
So it is definitely "जजृम्भे"!

Wait, in :
"अत्यर्थम्, जजृम्भे = जजम्भे, तदा, चापम् = धनुः, इव = यथा, आचकर्ष = आकृष्ट-"
Wait, is it "जजृम्भे = जजम्भे" or "जजृम्भे = जज़म्भे"?
It's "जजृम्भे = जजम्भे".

Let's check :
"व्याख्या —आलीनसम्मूर्च्छितषट्पदायाम् -- आलीनाः = = व्याप्ताः, सम्मूर्च्छिताः ="
Wait, look at the dash/equals:
"व्याख्या —आलीनसम्मूर्च्छितषट्पदायाम् -- आलीनाः = व्याप्ताः, सम्मूर्च्छिताः ="
Wait, look at the sign between "आलीनसम्मूर्च्छितषट्पदायाम्" and "आलीनाः":
It's two hyphens: "--" or a dash? It's "--".
Then "आलीनाः = = व्या

नन्द-विलापः ] सप्तमः सर्गः १२७
हिन्दी-आश्रितों के शोक को हरण करने वाला तथा अभिमानियों के लिए
दुःख का विधान करने वाला वह नन्द अपनी उस कान्ता के लिए, जिसे अशोक
अत्यन्त प्रिय वन था, अशोक वृक्ष का सहारा लेकर चिन्तित हुआ ॥ ५ ॥
प्रियां प्रियायाः प्रतनुं प्रियङ्गुं निशाम्य भीतामिव निष्पतन्तीम् ।
सस्मार तामश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम् ॥ ६ ॥
अन्वयः—सबाष्पः प्रियायाः प्रियां प्रतनुं प्रियङ्गुं भीताम् इव निष्पतन्तीं निशाम्य
प्रियङ्गुप्रसवावदातां ताम् अश्रुमुखीं प्रियां सस्मार ॥ ६ ॥
व्याख्या—सबाष्पः = रुदन्, प्रियायाः = प्रियपत्न्याः, प्रियाम् = कान्ताम्, प्रतनुम् =
सुखस्पर्शांम्, प्रियङ्गुम् = एतन्नाम्नीं लताम्, भीताम् = भयाक्रान्ताम्, इव = यथा,
निष्पतन्तीम् = निस्सरन्तीम्, निशाम्य = अवलोक्य, प्रियङ्गुप्रसवावदाताम्—प्रियङ्गू-
नाम् = एतदाख्यलतानाम्, प्रसवानामिव = कुसुमानामिव, अवदाता = श्वेता ताम्,
ताम् = सुन्दरीम्, अश्रुमुखीम् = सबाष्पाम्, प्रियाम् = कान्ताम्, सस्मार =
अस्मार्षीत् ॥ ६ ॥
हिन्दी-डरी, सहमी घर से बाहर निकलती, आँसू से तर-बतर मुखवाली,
प्रियङ्गुलता के पुष्प की तरह श्वेतवर्णा, कोमलाङ्गी कान्ता को नन्द ने रोते हुए याद
किया ॥ ६ ॥
पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् ।
सङ्कल्पयामास शिखां प्रियायाः शुक्लांशुकेऽट्टालमपाश्रितायाः ॥ ७ ॥
अन्वयः—तिलकद्रुमस्य पुष्पावनद्धे शिखरे निविष्टाम् अन्यपुष्टां दृष्ट्वा शुक्लांशुके
अट्टालम् अपाश्रितायाः प्रियायाः शिखां सङ्कल्पयामास ॥ ७ ॥
व्याख्या - तिलकद्रुमस्य = तमालपत्रवृक्षस्य, पुष्पावनद्धे = पुष्पैः = कुसुमैः, अवन-
द्धम् = व्याप्तम्, तस्मिन्, शिखरे = शृङ्गे, निविष्टाम् = उपविष्टाम्, अन्यपुष्टाम् =
कोकिलाम्, दृष्ट्वा = अवलोक्य, शुक्लांशुके = शुभ्रवसने, अट्टालम् = राजभवनम्,
अपाश्रितायाः = स्थितायाः, ( अप + आ + श्रिल् + क्त + टापि ), षष्ठ्येकवचने,
प्रियायाः = कान्तायाः, शिखाम् = केशपाशाम्, सङ्कल्पयामास = सम्यग्रूपेणा-
कल्पयत् ॥ ७ ॥
हिन्दी-तिलक वृक्ष श्वेत पुष्पों से भरी ऊपर की फुनगी पर बैठी काली कोयल
को देखकर उसने अट्टालिका पर खड़ी श्वेत वस्त्र वाली अपनी प्रिया के केशपाश की
कल्पना की ॥ ७ ॥
लतां प्रफुल्लामतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् ।
निशाम्य चिन्तामगमत् तदैवं श्लिष्टा भवेन्मामपि सुन्दरीति ॥ ८ ॥
अन्वयः—अतिमुक्तकस्य प्रफुल्लां लतां चूतस्य पार्श्वे परिरभ्य जातां निशाम्य
सुन्दरी माम् अपि एवं श्लिष्टा भवेत् इति तदा चिन्ताम् अगमत् ॥ ८ ॥

१२८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—अतिमुक्तकस्य = माधवीलतायाः, प्रफुल्लाम् = पुष्पिताम्, लताम् =
वल्लरीम्, चूतस्य = रसालस्य, पार्श्वे = समीपे, परिरभ्य = आलिङ्ग्य, जाताम् =
समुत्पन्नाम्, निशाम्य = आकर्ण्य, सुन्दरी = एतदाख्या नन्दपत्नी, माम् = नन्दम्,
अपि = एव, एवम् = अनेन प्रकारेण, श्लिष्टा = आश्लेषिता, भवेत् = स्यात्, इति =
एतत्, तदा = तस्मिन् काले, चिन्ताम् = शुचम्, अगमत् = अगच्छत् ॥ ८ ॥
हिन्दी—आम के पेड़ के पास उत्पन्न, उसमें लिपटी फूलों से लदी माधवी लता
को देखकर 'सुन्दरी मुझसे भी इसी तरह लिपटती थी' ऐसा नन्द ने सोचा ॥ ८ ॥
पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैरिव हेमगर्भैः ।
कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र ॥ ९ ॥
अन्वयः—तत्र हेमगर्भैः दान्तैः समुद्गैः इव पुष्पोत्कराला अपि नागवृक्षाः कान्तार-
वृक्षाः इव अस्य दुःखितस्य चक्षुः न आचिक्षिपुः ॥ ९ ॥
व्याख्या—तत्र = तस्मिन् मठे, हेमगर्भैः—हेमः = सुवर्णः, गर्भे = अन्तर्भागे, यस्य तैः,
दान्तैः—दन्तानामिमाः तैः दान्तैः = दशननिर्मितैः, समुद्गैः = सम्पुटैः, इव = यथा,
पुष्पोत्करालाः = कुसुमसमपन्नाः, अपि, नागवृक्षाः = पुन्नागतरवः, कान्तारवृक्षाः—
कान्तारस्य = गहनवनस्य, वृक्षाः = तरवः, इव = यथा, आचिक्षिपुः = आचिक्षिपन् ॥९॥
हिन्दी—उस आश्रम में सोने से भरे हुए गजदन्त के सम्पुटों की तरह, बीहड़
जंगल के पेड़ों की तरह फूलों से लदे नागकेशर के वृक्षगण भी उस दुःखी को
अपनी ओर आकृष्ट नहीं कर सके ॥ ९ ॥
गन्धं वमन्तोऽपि च गन्धपर्णा गन्धर्ववेश्या इव गन्धपूर्णाः ।
तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जहुर्हृदयं प्रतेपुः ॥ १० ॥
अन्वयः—गन्धर्ववेश्या इव गन्धपूर्णाः गन्धपर्णाः गन्धं वमन्तः अपि च अन्यचित्तस्य
शुगात्मकस्य तस्य घ्राणं न जहुः ( अपितु ) हृदयं प्रतेपुः ॥ १० ॥
व्याख्या—गन्धर्ववेश्या = स्वर्गगणिका, इव = यथा, गन्धपूर्णाः = सुगन्धयुक्ताः,
गन्धपर्णाः = एतदाख्यवृक्षाः, अस्य वृक्षस्य पत्राणि सुगन्धितानि सन्ति, गन्धम् = सुगन्धम्,
वमन्तोऽपि = उद्गिरन्तोऽपि, च = पुनः, अन्यचित्तस्य—अन्यस्याम् = अपरस्याम्,
चित्तम् = हृदयम्, यस्य तस्यान्यमनस्कस्य, शुगात्मकस्य = शोकाकुलचित्तस्य, तस्य =
नृपनन्दस्य, घ्राणम् = नासम्, न जहुः = न चाकर्षुः, प्रत्युत हृदयम् = चित्तम्, प्रतेपुः =
प्रातपन् ॥ १० ॥
हिन्दी—गन्धर्व-वेश्याओं की तरह सुगन्ध से भरे गन्धपर्णा की महक भी उसे
अपनी ओर आकृष्ट नहीं कर सकी, प्रत्युत उस अन्यमनस्क को उसने संतप्त ही
किया ॥ १० ॥
संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः ।
लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद ॥ ११ ॥

नन्द-विलापः ] सप्तमः सर्गः १२९
अन्वयः—संरक्तकण्ठैः च विनीलकण्ठैः तुष्टैः प्रहृष्टैः अपि च अन्यपुष्टैः मधु-
लेलिह्यमानैः द्विरेफैः स्वनद् वनं तस्य मनः नुनोद ॥ ११ ॥
व्याख्या—संरक्तकण्ठैः = वद्धानुरागस्वरैः, च=पुनः, विनीलकण्ठैः =मयूरैः,
तुष्टैः=तृप्तैः, प्रहृष्टैः = प्रमुदितैः, अपि च=अन्यच्च, अन्यपुष्टैः = पिकैः, मधु-
लेलिह्यमानैः=मधु=कुसुमासवः, लेलिह्यमानैः=पिब्यमानैः, द्विरेफैः=मधुकरैः,
स्वनद्=गुञ्जनं कुर्वत्, वनम्=काननम्, तस्य = नन्दस्य, मनः = चित्तम्, नुनोद=
अनुदत् ॥ ११ ॥
हिन्दी—प्रणयासक्त कंठ वाले मयूर, संतुष्ट एवं खुशदिल कोयल तथा मधु पीते
हुए मधुकरों से अनुगुंजित उस वन ने नन्द के मन को चंचल बना दिया ॥ ११ ॥
स तत्र भार्यारणिसम्भवेन वितर्कधूमेन तमःशिखेन ।
कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत्तत् ॥ १२ ॥
अन्वयः—तत्र भार्यारणिसम्भवेन वितर्कधूमेन तमःशिखेन कामाग्निना अन्तर्हृदि
दह्यमानः स धैर्यं विहाय तत्तत् विललाप ॥ १२ ॥
व्याख्या—तत्र=तस्मिन् आश्रमे, भार्यारणिसम्भवेन-भार्या=पत्नी, सा एव
अरणिः=अग्निमन्थनकाष्ठम्, तस्याः सम्भवः=समुत्पन्नस्तेन = कान्ताकाष्ठोत्पन्नेन,
वितर्कधूमेन—वितर्कः = चिन्ता, एव धूमः=अग्निवाहस्तेन, तमःशिखेन-तमः = मोहः,
तदेव शिखा=ज्वालः, यस्य तेन, कामाग्निना—कामः = मनोरथः, एव अग्निः =
वह्निः, तेन, अन्तर्हृदि = अन्तर्मनसि, दह्यमानः=प्रज्वलन्, सः = नन्दः, धैर्यम्=धृतिम्,
विहाय=त्यक्त्वा, तत्तत् = बहुविधम्, विललाप = रुरोद ॥ १२ ॥
हिन्दी—पत्नी की याद रूपी अरणि से उत्पन्न चिन्तारूपी धुंआ वाली जिससे
शोक रूपी ज्वाला फूट रही थी—ऐसी दिल जलाने वाली आग में जलते हुए नन्द ने
बहुत विलाप किया ॥ १२ ॥
अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च ।
त्यक्त्वा प्रियामश्रुमुखीं तपो ये चेरुश्चरिष्यन्ति चरन्ति चैव ॥ १३ ॥
अन्वयः—अद्य अवगच्छामि ते सुदुष्करं चक्रुः करिष्यन्ति च कुर्वंते च ये अश्रुमुखीं
प्रियां त्यक्त्वा तपः चेरुः चरिष्यन्ति चरन्ति चैव ॥ १३ ॥
व्याख्या—अद्य=सम्प्रति, अवगच्छामि = जानामि, ते = तव, सुदुष्करम्=अकृ-
त्यम्, चक्रुः =अकुर्वन्, करिष्यन्ति = विधास्यन्ति, कुर्वंति=विदधति, ये=लोकाः,
अश्रुमुखीम् = विलपन्तीम्, प्रियाम्=कान्ताम्, त्यक्त्वा =परित्यज्य, तपः =तपस्याम्,
चेरुः=कृतवन्तः, चरिष्यन्ति=विधास्यन्ति, चरन्ति चैव=कुर्वन्ति चैवेति ॥१३॥
हिन्दी—आज मेरी समझ में यह बात आ रही है कि उन लोगों ने बड़ा ही
कठोर काम किया है, करेंगे और करते हैं, जिन्होंने बिलखती कान्ता को छोड़कर तप
किया, करेंगे या करते हैं ॥ १३ ॥

१३० सौन्दरनन्दं महाकाव्यम्
तावद् दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा ।
यावद् दृढं बन्धनमेतदेव मुखं चलाक्षं ललितं च वाक्यम् ॥ १४ ॥
अन्वयः—लोके दारवं तान्तवम् आयसं वा बन्धनं तावत् दृढं नास्ति यावत् दृढं
चलाक्षं मुखं ललितं वाक्यं च एतदेव बन्धनम् ( अस्ति ) ॥ १४ ॥
व्याख्या—लोके = संसारे, दारवम् = काष्ठनिर्मितम्, तान्तवम् = तन्तुविनिर्मितम्,
आयसम् = लोहनिर्मितम्, वा = अथवा, बन्धनम् = प्रतिबन्धम्, तावत् = तावत्काल-
पर्यन्तम्, दृढम् = प्रगाढम्, नास्ति = न विद्यते, यावत् = यावत्कालपर्यन्तम्, दृढम् =
कठोरम्, चलाक्षम् = चपलनयनम्, मुखम् = आननम्, ललितम् = रम्यम्, च = पुनः,
वाक्यम् = कथनम्, च = पुनः, एतदेव = इदमेव, बन्धनम् = प्रतिबन्धम् अस्ति ॥१४॥
हिन्दी—संसार में लकड़ी, रस्सी अथवा लोहे का बंधन इतना मजबूत नहीं
होता, जितना मजबूत बन्धन चंचल आँखों वाला मुखड़ा तथा मीठी बातों का होता
है ॥ १४ ॥
छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्बलाच्च ।
ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः ॥ १५ ॥
अन्वयः—स्वपौरुषात् च सुहृद्बलात् चैव हि तानि छित्त्वा च भित्त्वा च
( पारम् ) यान्ति, स्नेहमयस्तु पाशः ज्ञानात् च पाशात् च विना विमोक्तुं न
शक्यते ॥ १५ ॥
व्याख्या—स्वपौरुषात् = स्वकीयोद्योगात्, च = पुनः, सुहृद् = मित्रम्, बलात् =
सहयोगात्, च = पुनः, हि = यतः, तानि = पूर्वोक्तबन्धनानि, छित्त्वा = त्रोटयित्वा,
च = पुनः, भित्त्वा = भेदनं कृत्वा, च = पुनः, पारं यान्ति = व्रजन्ति, स्नेहमयस्तु = प्रण-
यान्वितस्तु, पाशः = बन्धनम्, ज्ञानात् = तत्त्वज्ञानात्, च = पुनः, पाशात् = बन्धनात्,
विना = रहितम्, विमोक्तुम् = मोचयितुम्, न = नहि, शक्यते = प्रभूयते ॥ १५ ॥
हिन्दी—रस्सी और कड़ी के बन्धन तो लोग अपने पुरुषार्थ एवं मित्र-बल से
तोड़ सकते हैं, किन्तु स्नेह के बन्धन तो तत्त्वज्ञान के बिना कोई तोड़ ही नहीं
सकता ॥ १५ ॥
ज्ञानं न मे तच्च शमाय यत्स्यान्न चास्ति रौक्ष्यं करुणात्मकोऽस्मि ।
कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितोऽन्तरे चक्रगतेरिवास्मि ॥ १६ ॥
अन्वयः—मे तत् ज्ञानं नास्ति यत् शमाय स्यात् न च रौक्ष्यम् अस्ति ( अहं तु )
करुणात्मकः अस्मि कामात्मकः अस्मि च मे गुरुः बुद्धः चक्रगते अन्तरे इव स्थितः
अस्मि ॥ १६ ॥
व्याख्या—मे = मम नन्दस्य, तत् = पूर्वोक्तम्, ज्ञानम् = बुद्धिम्, नास्ति = न विद्यते,
यत् = सर्वः, शमाय = शान्त्यर्थम्, स्यात् = भवेत्, तत्त्वज्ञानादेव आत्मिकशान्तिर्भवति,
तदभावे नन्दाय शान्तिस्तु दुर्लभैव, न च = न तु, रौक्ष्यम् = स्नेहाभावः, अस्ति = विद्यते,

नन्द-विलापः ] सप्तमः सर्गः १३१
अहं तु, करुणात्मकः = दयालुः, अस्मि = भवामि, एकतस्तु अहम्, कामासक्तः = प्रणया-
सक्तः, अस्मि = भवामि, प्रथमं तावत् नन्दस्य कामासक्तत्वात् तस्य चित्तं प्रियतमा-
म्प्रति समाकृष्टमस्ति, अपरं तु तस्य गुरुः बुद्धोऽस्ति यो हि ज्ञानी वर्त्तते, तस्योपदेश-
प्रभावेन नन्दः आश्रमे स्थित्वा तत्त्वज्ञानाय प्रतिबद्धोऽस्ति, मे = मम, गुरुः = उपदेष्टा,
बुद्धः = सुगतः, अस्ति, चक्रगते, अन्तरे = मध्ये, इवाहम्, स्थितः = विद्यमानः, अस्मि
= भवामि ॥ १६ ॥
हिन्दी—मुझमें उस शान्ति की कमी है, जो तत्त्वज्ञान से मिलती है, मैं नीरस भी
नहीं हूँ, मैं तो दयालु एवं प्रणयासक्त हूँ, मेरे गुरु बुद्ध हैं । इस प्रकार मैं दो चक्कों के
बीच पिस रहा हूँ ॥ १६ ॥
अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातृषिणा द्विर्गुरुणानुशिष्टः ।
सर्वास्ववस्थासु लेभे न शान्तिं प्रियावियोगादिव चक्रवाकः ॥ १७ ॥
अन्वयः—अहं हि भिक्षुलिङ्गं गृहीत्वाऽपि भ्रातृषिणा द्विगुरुणा अनुशिष्टः सर्वासु
अवस्थासु प्रियावियोगात् चक्रवाकः इव शान्तिं न लेभे ॥ १७ ॥
व्याख्या—अहम् = नन्दः, हि = यतः, भिक्षुलिङ्गम् = संन्यासीवेषम्, गृहीत्वाऽपि
=धृत्वाऽपि, भ्रातृषिणा --भ्राता च =अग्रजश्च, ऋषिः =मुनिश्च, तेन द्विगुरुणा=द्विधा
गुरुस्तेन, अनुशिष्टः =समुपदिष्टः, सर्वासु =सकलासु, अवस्थासु =दशासु, प्रिया-
वियोगात् = कान्ताविरहात्, चक्रवाकः = कोकः, इव =तुल्यम्, शान्तिम् = शमम्, न=
नहि, लेभे = प्राप्नोमि ॥ १७ ॥
हिन्दी—यद्यपि मैंने भिक्षु वेष धारण कर लिया है तथा अग्रज एवं मुनि द्विविध
व्यक्तित्व वाले गुरु भगवान् बुद्ध से उपदेश ग्रहण किया है, फिर भी प्रियाविहीन चकवे
की तरह शान्ति नहीं पा रहा हूँ ॥ १७ ॥
अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा ।
कृतानृतक्रोधकमब्रवीन्मां कथं कृतोऽसीति शठं हसन्तीम् ॥ १८ ॥
अन्वयः—मया दर्पणे व्याकुलिते सा हसन्तीं कृतानृतक्रोधकं शठं यत् माम्
अब्रवीत् ‘कथं कृतः असि’ इति तत् च अद्यापि मे हृदि वर्त्तते ॥ १८ ॥
व्याख्या—मया = नन्देन, दर्पणे = मुकुरे, व्याकुलिते = समलीकृते, सा = सुन्दरी,
हसन्तीम् = हासं कुर्वन्तीम्, कृतानृतक्रोधकम् — कृतम् = विहितम्, अनृतम् = मिथ्या,
क्रोधकम् = रोषम्, यथा तथा, शठम् = प्रवञ्चनापूर्वकैन, `यत् = यत्किञ्चित्, माम् =
नन्दम्, अब्रवीत् = अकथयत्, ‘कथम् = कया रीत्या, जातः = अनुष्ठितः, असि = भवसि’,
इति = इत्थम्, तत् च = पूर्वोक्तं च, अद्यापि = अधुनाऽपि, मे = मम नन्दस्य, हृदि =
चित्ते, वर्त्तते = अस्ति ॥ १८ ॥
'हिन्दी—मैंने जब उसके आईने को गन्दा कर दिया था, तब उसने झूठा क्रोध
दिखलाते हुए प्रतारणापूर्वक जो कहा था—‘कैसे हो गये हो ?’ यह आज भी मेरे
दिल में मौजूद है ॥ १८ ॥

१३२ सौन्दरनन्द महाकाव्यम्
यथैष्यनाश्यानविशेषकायां मयीति यन्मामवदच्च साश्रु ।
पारिप्लवाक्षेण मुखेन बाला तन्मे वचोऽद्यापि मनो रुणद्धि ॥ १९ ॥
अन्वयः—बाला साश्रु पारिप्लवाक्षेण मुखेन यथा अनाश्यानविशेषकायाम् मयि
एषि इति यत् माम् अवदत् तद्वचः अद्यापि मे मनः रुणद्धि ॥ १९ ॥
व्याख्या—बाला = सा सुन्दरी, साश्रु = अश्रुपूर्णेण, पारिप्लवाक्षेण = कातरनेत्रेण,
मुखेन = आननेन, यथा = येन प्रकारेण, अनाश्यानविशेषकायाम् = न=नहि, आश्यानः=
शुष्कः, विशेषकः = अङ्गरागः, यस्याः तस्यां ( साश्रुपदस्य पृथक् प्रयोगेण पारिप्लवस्य
चञ्चल एवार्थः समुचितः प्रतीतो भवत्यत्र । ), मयि=सुन्दर्याम्, एषि=आगच्छसि, इति=
एवम्, यत् = यत्किञ्चित्, माम् = नन्दम्, अवदत् = अकथयत्, तद्वचः = तत्कथनम्,
अद्यापि = सम्प्रत्यपि, मे = नन्दस्य, मनः = हृदयम्, रुणद्धि = व्यथयति ॥ १९ ॥
हिन्दी—चंचल, सहमी एवं डबडबाई आँखों वाली उस सुन्दरी ने चलते समय
मुझसे कहा था—'मेरे अङ्गराग सूखने के पहले ही तुम आ जाना।' उसका यह कथन
मेरे मन को आज भी मथ रहा है ॥ १९ ॥
बद्धवासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः ।
सक्तः क्वचिन्नाहमिवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः ॥ २० ॥
अन्वयः—एषः भिक्षुः आसनं बध्वा पर्वतनिर्झरस्थः स्वस्थः यथा ध्यायति, नूनम्
एषः अहम् इव क्वचित् सक्तः न शान्तः तथा तृप्तः इव उपविष्टः ॥ २० ॥
व्याख्या —एषः = अयम्, भिक्षुः = बौद्धसंन्यासी, आसनम्=अष्टाङ्गयोगस्य तृतीय-
मङ्गम्, बध्वा = नियन्त्रयित्वा, पर्वतनिर्झरस्थः—पर्वतस्य = भूधरस्य, निर्झरे = प्रपाते,
तिष्ठति = स्थितोऽस्ति, इति गिरिनिर्झरस्थः, स्वस्थः = अनामयः, यथा = येन प्रकारेण,
ध्यायति = ध्यानं करोति, तथा नूनम् = निश्चयेन, एषः = अयं संन्यासी, अहम् =
नन्दः, इव = सदृशः, क्वचित् = कुत्राऽपि, सक्तः = आसक्तः, न = नहि, शान्तः = स्वस्थ-
चित्तः, तथा = अपि च, तृप्तः = तुष्टः, इव = समम्, उपविष्टः = तिष्ठतीति ॥ २० ॥
हिन्दी—यह बौद्धसंन्यासी पहाड़ की चोटी पर आसन बाँधकर जिस तरह ध्यान-
मग्न है, इससे पता चलता है कि निश्चय ही यह समस्त भोगों से संतुष्ट है तथा
इसका मन भी किसी में आसक्त नहीं है ॥ २० ॥
पुंस्कोकिलानांमविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य चक्षुः ।
शास्त्रं यथाऽभ्यस्यति चैव युक्तः शङ्के प्रियाऽऽकर्षति नास्य चेतः ॥२१॥
अन्वयः—पुंस्कोकिलानां घोषम् अविचिन्त्य वसन्तलक्ष्म्यां चक्षुः अविचार्य च
युक्तः एषः यथा शास्त्रम् अभ्यस्यति, शङ्के अस्य चेतः प्रिया न आकर्षति ॥ २१ ॥
व्याख्या —पुंस्कोकिलानाम् = पिकानाम्, घोषम् = खगध्वनिः, अविचिन्त्य = अवि-
चार्य, वसन्तलक्ष्म्याम्=वसन्तश्रियाम्, चक्षुः = नयनम्, अविचार्य=असम्प्रेक्ष्य, च = पुनः,
युक्तः=निरुद्धचित्तवृत्तिः, एषः=अयं भिक्षुः, यथा=यया रीत्या, बौद्धभिक्षोः, चेतः

नन्द-विलापः ] सप्तमः सर्गः १३३
=हृदयम्, प्रिया=कान्ता, न=नहि, आकर्षति=आकर्षणं करोति। अस्मिन् श्लोके
'उत्प्रेक्षाऽलङ्कारः।' तद्यथा—
'सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तापदाद्यत्र सिद्धासिद्धास्पदे परे ॥' २१ ॥
हिन्दी—यह भिक्षु शास्त्र के अध्ययन में इस तरह डूबा है कि इसे न तो कोयल
की काकली की चिन्ता है और न वसन्त-श्री ही इसकी आँखों को अपनी ओर खींचती
है। इससे स्पष्ट पता चलता है कि प्रिया इसके चित्त को आकृष्ट नहीं कर
रही है ॥ २१ ॥
अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।
शान्तात्मनेऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ २२ ॥
अन्वयः—स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय शान्तात्मने अन्तर्गतमानसाय
चङ्क्रम्यमाणाय निरुत्सुकाय अस्मै नमः अस्तु ॥ २२ ॥
व्याख्या—स्थिरनिश्चयाय—स्थिरः=सुदृढः, निश्चयः=निर्णयः, यस्य सः तस्मै,
निवृत्तकौतूहलविस्मयाय—निवृत्तौ=विरतौ, कौतूहल-विस्मयौ=उत्कण्ठा-चमत्कारौ,
यस्य सः तस्मै, शान्तात्मने—शान्तः=शमितः, आत्मा=चेतनः, यस्य सः तस्मै,
अन्तर्गतमानसाय—अन्तर्गतम्=अन्तर्भूतं समाविष्टं वा; मानसम्=चित्तम्, यस्य सः
तस्मै, चङ्क्रम्यमाणाय=बभ्रम्यमाणाय, निरुत्सुकाय=उत्सुकतारहिताय, अस्मै=
सम्मुखस्थभिक्षवे, नमः=नमस्कारः, अस्तु=भवतु ॥ २२ ॥
हिन्दी—दृढ निश्चयवाले, विस्मय एवं उत्कण्ठा से रहित, शान्तचित्त, अन्तर्मुख,
निरुत्सुक और भ्रमणशील इस भिक्षु को नमस्कार है ॥ २२ ॥
निरीक्षमाणस्य जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् ।
कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ॥ २३ ॥
अन्वयः—धर्मसपत्नभूते मधौ मासे सपद्मं जलं फुल्लं परपुष्टजुष्टं च वनं
निरीक्षमाणस्य कस्य नवयौवनस्य धैर्यम् अस्ति ॥ २३ ॥
व्याख्या—धर्मसपत्नभूते=धर्मशत्रुभूते, मधौ=वसन्ते, मासे=ऋतौ, सपद्मम्=
सरसिजसहितम्, जलम्=सलिलम्, फुल्लम्=कुसुमितम्, परपुष्टजुष्टम्—परेण पुष्टः
परपुष्टस्तेन परपुष्टेन=कोकिलेन, जुष्टः=सेवितः, च=पुनः, वनम्=अरण्यम्,
निरीक्षमाणस्य=पश्यतः, कस्य=जनस्य, नवयौवनस्य=तरुणस्य, धैर्यम्=मनः-
स्थैर्यम्, अस्ति=विद्यते, न कस्यापीति ॥ २३ ॥
हिन्दी—धर्म के दुश्मन-स्वरूप वसन्त-मास में कमलयुक्त जलाशय एवं कोयल
की काकली से अनुगूंजित फूलों से लदे वन को देखकर किस युवक का धैर्य बना
रहेगा ॥ २३ ॥
भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।
जह्रुः स्त्रियो देवनृपर्षिसङ्घान् कस्माद्धि नास्मद्विधमाक्षिपेयुः ॥ २४॥

१३४ सौन्दरनन्दं महाकाव्यम्
अन्वयः—स्त्रियः भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः देव-
नृपर्षिसङ्घान् जह्रुः कस्माद्धि अस्मद्विधम् न आक्षिपेयुः ॥ २४ ॥
व्याख्या—स्त्रियः = वनिताः, भावेन = मनोविकारेण, गर्वेण = मदेन, गतेन =
यातेन, लक्ष्म्या = श्रिया, स्मितेन = मन्दहास्येन, कोपेन = रोषेण, मदेन = उन्मादेन,
वाग्भिः = वचनैः, देवनृपर्षिसङ्घान् = देवराजर्षिसमुदयान् जह्रुः = अहरन्, कस्माद्धि
कुतो हि, अस्मद्विधम् = मत्लुल्यम्, न = नहि, आक्षिपेयुः = आहरेयुः ॥ २४ ॥
हिन्दी—औरतों ने अपने हावभाव, अपनी चाल और सुन्दरता, मद, मुस्कान,
कोप, गर्व, और वचन से देवर्षियों और र्राजर्षियों के भी मन को जहाँ हरण किया
है, वहाँ मुझ जैसे लोगों को भला कैसे नहीं आकृष्ट करेगी ॥ २४ ॥
कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवानहल्याम् ।
सत्त्वेन सर्गेण च तेन हीनः स्त्रीनिर्जितः किं बत मानुषोऽहम् ॥२५॥
अन्वयः—कामाभिभूतः हि हिरण्यरेताः स्वाहां मघवान् अहल्यां सिषेवे तेन सत्त्वेन
सर्गेण च हीनः स्त्रीनिर्जितः मानुषः अहं किं बत ? ॥ २५ ॥
व्याख्या—कामाभिभूतः = कामेन = मदनेन, अभिभूतः = पीडितः, हीति निश्चयेन,
हिरण्यरेताः = हिरण्यमिव = सुवर्णमिव, रेत:=वेगवान् जलधारः, यस्य सोऽग्निः,
स्वाहाम् = अग्निप्रियाम्, ( 'स्वाहा' पदस्य प्रयोगस्तु देवेभ्यो दानाय एव प्रयुक्तो भवति,
किन्त्वत्राग्निप्रियार्थे प्रयोगोऽस्ति । ) मघवान् = इन्द्रः, अहल्याम् = गौतमपत्नीम्, सिषेवे
सेवयामासुः, तेन = पूर्वोक्तेन, सत्त्वेन = प्रकृतेर्गुणविशेषेण, सर्गेण = निश्चयेन, च =
पुनः, हीनः = रहितः, स्त्रीनिर्जितः = स्त्रिया = नार्या, निःशेषेण जितः निर्जितः =
वशीभूतः, मानुषः = मनुष्यः, अहम् = नन्दः, किं बत = का कथेति ? 'किं बत ?' इति
त्वत्राऽऽक्षेपार्थकोऽस्ति । दृष्टान्ताधिकस्योद्धरणमश्वघोषस्य विशेषताऽस्ति ॥ २५ ॥
हिन्दी—काम से पीड़ित अग्नि ने स्वाहा तथा इन्द्र ने गुरुपत्नी अहल्या का सेवन
किया, तो फिर सत्त्व और निश्चय विहीन मेरे जैसे सामान्य जन का कहना ही
क्या ? ॥ २५ ॥
सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः ।
यामश्वभूतोऽश्ववधूं समेत्य यतोऽश्विनौ तौ जनयाम्बभूव ॥२६॥
अन्वयः—सरण्यूं प्रति सूर्यः जातरागः तत्प्रीतये तष्टः इति नः श्रुतम् अश्वभूतः
याम् अश्ववधूं समेत्य यतः तौ अश्विनौ जनयाम्बभूव ॥ २६ ॥
व्याख्या —सरण्यूं प्रति = एतदाख्य अश्वाम्प्रति, सूर्यः = दिवाकरः, जातरागः—
जातः = समुत्पन्नः, रागः = प्रीतिः, यस्य सः, तत्प्रीतये = तस्याः = वडवायाः, प्रीतये=
प्रसन्नतायै, तष्टः = कर्त्तनमकरोत्, इति = एवम्, नः = अस्माकम्, श्रुतम् = आकर्णि-
तम्, अश्वभूतः = घोटकरूपमादाय, याम् = सरण्यूम्, अश्ववधूम् = वडवाम्, समेत्य =
सङ्गम्य, यतः = यस्मात्, तौ = पुराणप्रसिद्धौ, अश्विनौ = अश्विनीकुमारौ, जनया-
म्बभूव = उत्पादयामासेति ॥ २६ ॥