सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 182, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 182

१२८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—अतिमुक्तकस्य = माधवीलतायाः, प्रफुल्लाम् = पुष्पिताम्, लताम् =
वल्लरीम्, चूतस्य = रसालस्य, पार्श्वे = समीपे, परिरभ्य = आलिङ्ग्य, जाताम् =
समुत्पन्नाम्, निशाम्य = आकर्ण्य, सुन्दरी = एतदाख्या नन्दपत्नी, माम् = नन्दम्,
अपि = एव, एवम् = अनेन प्रकारेण, श्लिष्टा = आश्लेषिता, भवेत् = स्यात्, इति =
एतत्, तदा = तस्मिन् काले, चिन्ताम् = शुचम्, अगमत् = अगच्छत् ॥ ८ ॥
हिन्दी—आम के पेड़ के पास उत्पन्न, उसमें लिपटी फूलों से लदी माधवी लता
को देखकर 'सुन्दरी मुझसे भी इसी तरह लिपटती थी' ऐसा नन्द ने सोचा ॥ ८ ॥
पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैरिव हेमगर्भैः ।
कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र ॥ ९ ॥
अन्वयः—तत्र हेमगर्भैः दान्तैः समुद्गैः इव पुष्पोत्कराला अपि नागवृक्षाः कान्तार-
वृक्षाः इव अस्य दुःखितस्य चक्षुः न आचिक्षिपुः ॥ ९ ॥
व्याख्या—तत्र = तस्मिन् मठे, हेमगर्भैः—हेमः = सुवर्णः, गर्भे = अन्तर्भागे, यस्य तैः,
दान्तैः—दन्तानामिमाः तैः दान्तैः = दशननिर्मितैः, समुद्गैः = सम्पुटैः, इव = यथा,
पुष्पोत्करालाः = कुसुमसमपन्नाः, अपि, नागवृक्षाः = पुन्नागतरवः, कान्तारवृक्षाः—
कान्तारस्य = गहनवनस्य, वृक्षाः = तरवः, इव = यथा, आचिक्षिपुः = आचिक्षिपन् ॥९॥
हिन्दी—उस आश्रम में सोने से भरे हुए गजदन्त के सम्पुटों की तरह, बीहड़
जंगल के पेड़ों की तरह फूलों से लदे नागकेशर के वृक्षगण भी उस दुःखी को
अपनी ओर आकृष्ट नहीं कर सके ॥ ९ ॥
गन्धं वमन्तोऽपि च गन्धपर्णा गन्धर्ववेश्या इव गन्धपूर्णाः ।
तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जहुर्हृदयं प्रतेपुः ॥ १० ॥
अन्वयः—गन्धर्ववेश्या इव गन्धपूर्णाः गन्धपर्णाः गन्धं वमन्तः अपि च अन्यचित्तस्य
शुगात्मकस्य तस्य घ्राणं न जहुः ( अपितु ) हृदयं प्रतेपुः ॥ १० ॥
व्याख्या—गन्धर्ववेश्या = स्वर्गगणिका, इव = यथा, गन्धपूर्णाः = सुगन्धयुक्ताः,
गन्धपर्णाः = एतदाख्यवृक्षाः, अस्य वृक्षस्य पत्राणि सुगन्धितानि सन्ति, गन्धम् = सुगन्धम्,
वमन्तोऽपि = उद्गिरन्तोऽपि, च = पुनः, अन्यचित्तस्य—अन्यस्याम् = अपरस्याम्,
चित्तम् = हृदयम्, यस्य तस्यान्यमनस्कस्य, शुगात्मकस्य = शोकाकुलचित्तस्य, तस्य =
नृपनन्दस्य, घ्राणम् = नासम्, न जहुः = न चाकर्षुः, प्रत्युत हृदयम् = चित्तम्, प्रतेपुः =
प्रातपन् ॥ १० ॥
हिन्दी—गन्धर्व-वेश्याओं की तरह सुगन्ध से भरे गन्धपर्णा की महक भी उसे
अपनी ओर आकृष्ट नहीं कर सकी, प्रत्युत उस अन्यमनस्क को उसने संतप्त ही
किया ॥ १० ॥
संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः ।
लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद ॥ ११ ॥