सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 174, कुल 496 में से
संदर्भ में पढ़ें१२० सौन्दरनन्द महाकाव्यम्
ताभिर्वृता हर्म्यतलेऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे ।
शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरदभ्रमध्ये ॥ ३७ ॥
अन्वयः—हर्म्यतले ताभिः अङ्गनाभिः वृताः चिन्तातनुः सा सुतनुः शरदभ्रमध्ये
शतह्रदाभिः परिवेष्टिताः शशाङ्कलेखा इव बभाषे ॥ ३७ ॥
व्याख्या—हर्म्यतले=राजभवने, ताभिः=पूर्वोक्ताभिः, अङ्गनाभिः=स्त्रीभिः,
वृताः=परिवृताः, चिन्तातनुः—चिन्तया=शोकेन, तनुः=क्षीणः, सा=सुन्दरी,
सुतनु—शोभनं तनुः = शरीरम्, यस्याः सा, शरदभ्रमध्ये—शरदः = शरत्कालीनः,
अभ्राणाम्=मेघानाम्, मध्ये = अन्तराले, शतह्रदाभिः =विद्युल्लताभिः, परिवेष्टिता=
आवृताः, शशाङ्कलेखा = चन्द्रलेखा, इव = यथा, बभाषे = चकाशे । अत्र साधर्म्येणोप-
माऽलङ्कारः ‘साधर्म्यमुपमाभेदे’ इत्यपि लक्षणेन विनिगमनाविरहेणाऽप्यत्रोपमात्वस्येष्ट-
त्वादुपमाऽलङ्कार इति ॥ ३७ ॥
हिन्दी—राजमहल में अन्य महिलाओं से घिरी, चिन्ता से दुर्बल देह वाली वह
सुन्दरी वैसे ही लग रही थी, जैसे शरत्कालीन मेघों के बीच बिजलियों से घिरी
चन्द्रलेखा हो ॥ ३७ ॥
या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च ।
सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच ॥ ३८ ॥
अन्वयः—तत्र या तासां मान्या वचसोपपन्ना च वयसाधिका च सा तस्याः तु
पृष्ठतः समालिलिङ्गे अश्रूणि च प्रमृज्य तां वचांसि उवाच ॥ ३८ ॥
व्याख्या—तत्र=तस्मिन् स्थाने, याः=स्त्रियः, तासाम् =स्त्रीणां मध्ये, मान्या=
वरेण्या, वचसा =वाण्या, उपपन्ना=प्रतिपन्ना, च=पुनः, वयसाऽधिका=वयोवृद्धा,
च सा=नारी, तस्याः=सुन्दर्याः, तु=इति पादपूर्त्यर्थम्, पृष्ठतः=पृष्ठभागात्,
समालिलिङ्गे = आलिङ्ग्य, अश्रूणि=नेत्रजलानि, च=पुनः, प्रमृज्य=मार्जयित्वा,
ताम् = विषण्णां सुन्दरीम्, वचांसि = वचनानि, उवाच = अकथयत् ॥ ३८ ॥
हिन्दी—उन औरतों में जो मान्या, वयोवृद्धा एवं वाक्-चतुरा थी, उसने पीछे
से सुन्दरी का आलिंगन कर, उसके आंसू पोंछ कर उससे कहा ॥ ३८ ॥
राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः ।
इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ ३९ ॥
अन्वयः—राजर्षिवध्वाः तव भर्त्तरि धर्माश्रिते जातु शोकः न अनुरूपः हि
इक्ष्वाकुवंशे तपोवनानि दायाद्यभूतानि अभिकाङ्क्षितानि च ॥ ३९ ॥
व्याख्या—राजर्षिवध्वाः=नृपमुनिपत्याः, तव =श्रीमत्याः, भर्त्तरि = स्वामिनि,
धर्माश्रिते = संन्यस्ते, जातु = सर्वथा, शोकम् = कष्टम्, न = नहि, अनुरूपम् =योग्यम्,
हि = यतः, इक्ष्वाकुवंशे=एतदाख्यकुले, तपोवनानि = तपस्यारण्यानि, दायाद्यभूतानि-
दायादानि इव भूतानि दायाद्यभूतानि = उत्तराधिकारे प्राप्तसम्पत्स्वरूपाणि, अभिका-
ङ्क्षितानि =अभीष्टानि, च सन्ति ॥ ३९ ॥