रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
२९८ रसगङ्गाधरः
अत्र मादकद्रव्यसेवनं विभावः। अव्यक्तालापाद्यनुभावः। अत्र मत्त-
स्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न स्वभावो-
क्त्यलङ्कारस्य प्राधान्यम्, अपि तु तद्ध्वन्युपस्कारकत्वमेव ।
इदं वा पुनरुदाहरणम्—
मधुरसान्मधुरं हि तवाधरं, तरुणि ! मद्वदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं, पपपतामि हहा ! भभूतले ॥
अत्रापि स एव विभावः। अधिकवर्णोच्चारणादिरनुभावः। पूर्वार्धगता
ग्राम्योक्तिः, उत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये स्वकरस्य तदुप-
मेयतया निरूपणं च मदमेव पोषयतः ।
बहुतर-शारीरव्यापारजन्मा निश्वासाङ्गसम्मर्दननिद्रादिकारणीभूतः
खेदविशेषः श्रमः ।
मत्तस्वभावेति । यद्यप्यत्र स्वभावोक्तिरलङ्कारः स्फुटः, तथापि मदाख्यभावो-
पकारकत्वान्न तस्य प्राधान्यम्, अपि तु मदस्यैव प्राधान्यम् । ननु क्षीबपदेन मदाश्रयो
मत्तपुरुषो वाच्यवृत्त्यैव ज्ञायते, तत्र मदोऽपि विशेषणतया वाच्य एव इति वाच्यालिङ्गि-
तस्य व्यङ्ग्यस्य कथं चमत्कारित्वमिति चेदुदाहरणान्तरं दर्शयति—इदं वेति ।
मधुरसेति । हे तरुणि ! मधुरसादपि मधुरतरं तवाधरं स्वकीयाधरं त्वं मद्वदने
मन्मुखे विनिवेशय । किञ्च त्वं स्वकरेण (साधारणेन) मम कराम्बुजं करकमलं गृहाण ।
हहा हन्त ! अहं भूतले पतामि । पकारद्वयं भकारद्वयं चाधिके मदभावसूचिके ।
स एव मादकद्रव्यसेवनादिः । ग्राम्योक्तिः स्ववदनेऽधरनिवेशनस्य गूढतया
प्राकाश्यस्य वाच्यरूपेणोक्तिः । स्वकरस्य कृते कमलविशेषणं नायिकाकरस्य कृते तु नेति
वैषम्योक्तिर्विपरीता मदस्य पोषिका ।
श्रमभावं निरूपयति—बहुतेरेति । बहुतेरेण अत्यधिकेन, शारीरव्यापारेण
भारवहनादिना जन्म उत्पत्तिर्यस्य । एतेन श्रमभावस्य विभावो दर्शितः । निश्वासो
यहाँ मादक द्रव्य का सेवन विभाव है । अव्यक्त आलाप आदि अनुभाव है ।
यहाँ मत्तस्वभाव का वर्णन रहने से स्वभावोक्ति अलंकार है, परन्तु वह मत्तव्यक्ति में
रहनेवाले मदभाव को अभिव्यक्त करने के लिए ही वर्णित हुआ है । अतः मदभाव ही
प्रधान है, न कि स्वभावोक्ति अलंकार । अपितु मदभाव ध्वनि के उपकारक (संस्कारक)
के रूप में गौणतया ही वह अलंकार उपस्थापित है । अथवा यह भी मद का
उदाहरण है—
हे तरुणि ! मधु रस से भी मधुर अपने अधर को तू मेरे मुख में डाल दो,
अपने हाथ से मेरे करकमल को पकड़ो, हाय हाय ! मैं तो भ भ भूतल पर प प गिर
रहा हूँ ।
प्रथमाननम् २९९
यदाहुः —
अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः ।
गात्रसंवाहनैरास्य-सङ्कोचैरङ्गमोटनैः ॥
निःश्वासैर्जृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥ इति ।
श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकृन्मतः ॥ इति च ।
अयं च सत्यपि बले जायते, शारीरव्यापारादेव जायते, न तु ग्लानिः ।
अतो ग्लानिः श्रमस्य च भेदः ।
दीर्घश्वासः, अङ्गसम्मर्दः स्वेनैव देहमर्दनं, निद्राऽऽलस्यादिः, एतेषां कारणस्वरूपः । एतेन
श्रमभावस्यानुभावो दर्शितः । खेदो दुःखं चित्तवृत्तिरेव श्रमभाव उच्यते ।
प्राचीनसम्मतिं दर्शयति—अध्वेति । अत्राध्वपदं श्रमकारणत्वेन अध्वगमनपरम् ।
मार्गगमन-व्यायाम-सेवाप्रभृतिभिः विभावैः, गात्रस्य शरीरस्य संवाहनैर्मर्दनैः, मुखसंकोचैः,
अङ्गतिर्यक्करणैः, दीर्घोष्णश्वासैः, जृम्भाकरणैः मन्दतया पादोत्क्षेपैश्चानुभावैः श्रमाख्यो
भावो जायते ।
इतरविपश्चिन्मतमप्याह—श्रम इति । अध्वगत्यादिकारणादुत्पन्नः खेद एव
श्रमो मतः, यो हि निद्रादिकारको भवति ।
ननु ग्लानिभावेऽपि खेद एव जायत इति तेनैवास्य श्रमस्य गतार्थतास्तु, इति
चेन्न, श्रमस्य सबलपुरुषेऽपि सत्त्वात् शारीरव्यापारादेव जन्यत्वात्, ग्लानेरतथात्वाच्च ।
यहाँ भी वही (मादक द्रव्य सेवन) विभाव है। अधिक वर्णों का उच्चारण
अनुभाव है। पद्य के पूर्वार्ध में ग्राम्य उक्ति (मुख में अधर देना) और उत्तरार्ध में
तरुणी के हाथ को कमल से उपमा देने के बजाय अपने हाथ को ही उपमा देना भी
मदभाव को ही पुष्ट कर रहे हैं।
अत्यधिक शारीरिक मिहनत से उत्पन्न एवं दीर्घ श्वास, देह मोड़ना, निद्रा आदि
का कारण जो खेद उसे श्रम संज्ञक भाव कहते हैं। जैसा कि प्राचीनाचार्यों ने कहा है—
राह में अधिक चलना व्यायाम एवं सेवादि करना इन विभावों के द्वारा एवं
देहमर्दन, मुँह सिकोड़ना, देह मोड़ना, लम्बी साँस, जम्हाई लेना, मन्द-मन्द पैर फेंकना
इन अनुभावों से श्रम को प्रकटित होते हुए माना गया है।
अन्यों ने भी कहा है कि मार्ग गमन आदि से उत्पन्न खेद को श्रम कहते हैं जो
निद्रा, श्वास आदि करनेवाला होता है।
यह श्रमभाव शरीर में बल रहने पर भी होता है, शारीरिक व्यापार से ही
होता है जबकि ग्लानिभाव में ऐसी बात नहीं है। अतः खेदविशेष रूप ऐक्य रहने के
बावजूद ग्लानि से श्रम का भेद है। उदाहरण—
३०० रसगङ्गाधरः
उदाहरणम्—
विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना ।
चिराय चित्रे लिखितेव तन्वी, न स्पन्दितुं मन्दमपि क्षमासीत् ॥
अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः । स्पन्दराहित्य-शयना-
दयोऽनुभावाः । न चात्र निद्रा-भावध्वननेन गतार्थतेति शङ्क्यं, सुषुप्तौ हि
ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्यस्यानतिप्रयो-
जनकत्वापत्तेः, शीङाभिहिततया तस्या व्यङ्ग्यत्वानुपपत्तेश्च । श्रमे त्वानुगुण्य-
मुचितम् ।
रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः ।
उदाहरति—विधायेति । सा तन्वी कोमलाङ्गी, कपोलमूलं मद्वदनानुकूलं विधाय
हृदये नायकस्योरसि शयाना सती, चिराय चिरकालं यावत् चित्रे लिखिता इव, मन्दं
स्वल्पमपि स्पन्दितुं शरीरसंचारं कर्त्तुं क्षमा समर्था नासीत् ।
न चात्रेति । अत्र श्रमोदाहरणपद्ये निर्व्यापारत्वादिन व्यज्यमाना निद्रैवेति
तयैव श्रमभावो गतार्थ इति नाशङ्कनीयम् । अत्र हेतुद्वयम्—सुषुप्तौ निद्रायां, ज्ञानाभावे-
नैव चेष्टाशून्यत्वं स्वतः सिद्धं, तदर्थं च स्पन्दराहित्यवर्णनं व्यर्थं स्यादित्येको हेतुः,
अपरश्च "शयाना" इतिपदेन वाच्यतयैव निद्रोपस्थिता कथं व्यङ्ग्यतां यास्यतीति ।
श्रमभावे तु निद्राह्युपकारकमेव ।
गर्वं निरूपयति—रूपेति । रूपधनादिकारणैः स्वस्मिन् उत्कर्षज्ञानेन जायमानं
परेषां अवज्ञा तिरस्कारः चित्तवृत्तिविशेषो गर्वाख्यो भावः । आत्मोत्कर्षप्रतिपादनं
गर्वस्य विभावः, परावहेलनजनको वाक्यप्रयोगोऽनुभावः ।
'वह कोमलाङ्गी अपने गाल के मूल को मेरे मुख के अनुकूल करके मेरे
( नायक के ) हृदय पर सोयी हुई देर तक तस्वीर में लिखित होने के समान थोड़ा
भी शारीरिक संचार करने में अक्षम थी ।
यहाँ विपरीत सुरत रूप शारीरिक व्यापार श्रम का विभाव है और हिलने में
असमर्थता, शयन आदि अनुभाव हैं। यहाँ निद्रा भाव के ध्वनित होने से ही श्रम को
गतार्थ नहीं माना जा सकता, क्योंकि निद्रित अवस्था में ज्ञानरहित होने से ही यत्न-
रहितत्व सिद्ध ही है, फिर "थोड़ा भो हिलने में सक्षम नहीं थी" इस कथन का
निष्प्रयोजन होने की आपत्ति आती है और शीङ् धातु के रूप "शयाना" के द्वारा
वाच्यरूप से उपस्थित निद्रा को व्यङ्ग्य कहना अनुपपन्न है। श्रमभाव में तो ऐसा
कथन अनुकूल ही है ।
रूप, धन, विद्या आदि के कारण अपने उत्कर्ष ज्ञान के अधीन अन्य व्यक्ति
का तिरस्कार ही गर्व भाव है ।
प्रथमाननम् ३०६
उदाहरणम्—
आमूलाद् रत्नसानोर्मलय-वलयिताद् आ च कूलात् पयोधे-
र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु।
मृद्वीका-मध्य-निर्यन्मसृण-रसझरीमाधुरीभाग्यभाजां
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥
अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः। पराधिक्षेपपरै-
तादृशवाक्यप्रयोगोऽनुभावः। इमं चासूयापि लेशतः पुष्णाति। उत्साहप्रधानो
गूढगर्बो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः।
आमूलादिति। रत्नसानोः सुमेरुपर्वतस्य, मूलमभिव्याप्य तत आरभ्य मलया-
चलवेष्टितात्, पयोधेः कूलं तटमभिव्याप्य तावत्पर्यन्तं यावन्तः यावत्सङ्ख्याकाः काव्य-
रचनाकुशलाः सन्ति, ते विशङ्कं निश्शङ्कं वदन्तु। अत्र मलयवेष्टितसमुद्रतटस्य
दक्षिणवर्तित्वात्सुमेरोरुत्तरवर्तित्वं स्वतः सिद्धम्, 'सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितम्'
इति पौराणिकवचनमप्येतत्साधकम्। 'आङ्मर्यादाभिविध्योः' इति सूत्रेण अभिविधा-
वर्थेऽत्र आङः कर्मप्रवचनीयसंज्ञा, तद्योगे पञ्चमी। किं वदन्त्वित्याह—मृद्वीकेति।
मृद्वीकानां द्राक्षाफलानां मध्यान्निर्यन्ती निस्सरन्ती मसृणा चिक्कणा रसझरी रसधारा
तस्या माधुरी मधुरतैव भाग्यं भजन्तीति तादृशीनां वाचाम् आचार्यतायाः पदं स्थानम्
अनुभवितुं मदन्यो मद्भिन्नो धन्यः कृतार्थः कोऽस्ति ? न कोऽपीत्यर्थः।
अनन्यसाधारणं सर्वोत्कृष्टम्। पराधिक्षेपपरः परतिरस्कारकः।। इममिति।
इमं गर्वम् असूया परयशोऽसहनं लेशतः प्रतीयमानापि पोषयति। ईषत्प्रतीताप्यसूयाऽ-
प्रधानेवेति भावः। उत्साहेति, वीरध्वनित्वमस्य निरस्यति। वीरध्वनौ हि गर्बोऽप्रधान-
उत्साह एव प्रधानः, गर्वध्वनौ गर्वस्य प्राधान्यम्, उत्साहस्याप्रतीतिश्चेति।
कोई अभिमानी कवि कह रहा है कि सुमेरु पर्वत के मूल से लेकर मलयपर्वत
से घिरे सागरतट पर्यन्त में बसनेवाले जितने भी काव्यरचना में निपुण कविगण हैं,
वे साफ-साफ कहें कि अंगूर के मध्य से निकलती हुई चिकनी रसधारा के माधुर्य-
भरी वाणियों के आचार्यत्व पद पाने वाले मुझे छोड़कर कौन धन्य हो सकता है ?
अर्थात् कोई नहीं।
यहाँ अपनी कविता का अन्य की कविता से असाधारण (उत्कृष्ट) होने का
ज्ञान विभाव और अन्यों पर आक्षेपयुक्त वाणी का प्रयोग अनुभाव है।
इस गर्वभाव को असूया (दूसरे के यश को न सहना) भी आंशिकरूप से
पुष्ट कर रही है। (अतः प्रतीयमाना भी असूया गौण ही है।) इस उदाहरण को
वीररसध्वनि नहीं कह सकते, क्योंकि वीररसध्वनि में उत्साह प्रधान रहता है और
गर्व गूढ़ रहता है, जबकि यहाँ तो गर्व ही प्रधान है। अतः वीररस-ध्वनि से इस
३०२ रसगङ्गाधरः
तथा हि—वीररसप्रसङ्गे प्रागुदाहृते "अपि वक्ति" (पृ० १५५) इत्यादि पद्य
गीष्पतिना गिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्यो-
त्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः, न तु
प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन
प्राधान्येन प्रतीयमानः ।
श्रमादिप्रयोज्यं चेतःसम्मोलनं निद्रा ।
नेत्रनिमीलन-गात्रनिष्क्रियत्वादयोऽस्यानुभावाः ।
उदाहरणम्—
सा मदगमन-बृंहिततोषा, जागरेण गमिताखिलदोषा ।
बोधितापि बुबुधे मधुपैर्न, प्रातराननज-सौरभलुब्धैः ॥
सोल्लुण्ठं साभिप्रायम् ।
निद्राख्यं भावं लक्षयति—श्रमादीति । श्रम-क्लम-निशीथादिकारणेन समुत्पन्नं
चेतः संमीलनं मनसः इन्द्रियसम्पर्करहितावस्था निद्रा। न्यायनये मनसः हृदयसमीपस्थपुरी-
तत्संज्ञकनाड्यां प्रवेशः सुषुप्तिः । वेदान्तनये तस्य हृदयसमीपस्थ-दाराकाशसंज्ञकशून्य-
स्थानेऽवस्थानं निद्रेति । निद्रायां चेतसो वृत्तिर्न भवति, स्वप्ने तु भवत्येवेति उभयोर्भेदः ।
उदाहरति—सेति । सा पूर्वानुभूतप्रीतिमती, मदागमनेन नायकस्य प्रवासादा-
गमनेन बृंहितो वर्द्धितस्तो षो
प्रथमाननम् ३०३
रात्रिजागरणश्रमोऽत्र विभावः। मधुपैर्बोधाभावोऽनुभावः।
शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः।
अत्र निःशङ्कतदर्थानुष्ठान-संशयोच्छेदादयोऽनुभावाः।
उदाहरणम्—
निखिलं जगदेव नश्वरं, पुनरस्मिन् नितरां कलेवरम्।
अथ तस्य कृते कियानयं, क्रियते हन्त ! मया परिश्रमः ॥
"शरीरमेतज्जलवुद्बुदोपमम्" इत्यादिशास्त्रपर्यालोचनमत्र विभावः।
हन्तपदगम्या स्वनिन्दा राजसेवाविविरतिवितृष्णता चानुभावः। झगिति
मतेरेव चमत्काराद् ध्वनिव्यपदेशहेतुता, न शान्तस्य, विलम्बेन प्रतीतेः ।
बोधाभाव इति। मधुपैर्बोधनानन्तरमपि बोधाभावोऽनुभाव इति तात्पर्यम् ।
मतिमंज्ञकभावं लक्षयति—शास्त्रादीति । शास्त्र-व्यवहारशिष्टोक्त्यादि-
विचारेणोत्पन्नो योऽर्थस्तस्य निर्धारण निर्णयस्वरूपा मतिरुच्यते।
निःशङ्कस्य असन्दिग्धतया ज्ञातस्य तदर्थस्य निर्णीतार्थस्य अनुष्ठानं व्यवहरणम्,
सन्देहदूरीकरणं चेत्यादयो मतेरनुभावा भवन्ति । शास्त्रवचनाद्यनुशीलनं विभावः ।
उदाहरति—निखिलमिति । यतो निखिलं सम्पूर्णं, जगत् संसार एव नश्वरं विनाश-
शीलमस्ति, अस्मिन् जगति, कलेवरं शरीरं पुनर्निंतरां नश्वरं वर्तते । अथ तदा, तस्य
नश्वरस्य शरीरस्य कृते पोषणादिनिमित्तं हन्त ! मया अयं कियान् परिश्रमः क्रियते ।
व्यर्थं एव मया श्रमः क्रियत इति मे मूढतैवेति निर्णयोऽत्र मतिसंज्ञको भावः ।
ननु जगन्नश्वरता देहसंसारनिरर्थकता चेति निर्वेदमेव प्रकटयतस्तेन शान्ताख्य
एव रसोऽस्त्विति शङ्कां निराचष्टे—झगितीति । शरीरं क्षणिकमिति मतिरेव प्रथमोप-
रातें जागकर बिता दीं और प्रातःकाल मे उसके मुख की सुगन्धि से लुभाये भौंरों के
द्वारा जगाने पर भी वह नहीं जाग सकी।
यहाँ
३०४ रसगङ्गाधरः
रोगविरहादिप्रभवो मनस्तापो व्याधिः ।
गात्रशैथिल्य-श्वासादयोऽत्रानुभावाः । यदाहुः—
एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः ।
वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः ॥
इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ॥
उदाहरणम्—
हृदये कृतशैवलानुषङ्गा, मुहुरङ्गानि यतस्ततः क्षिपन्ती ।
तदुदन्तपरे मुखे सखीनाम्, अतिदीनामियमादधाति दृष्टिम् ॥
स्थितत्वाद् भावध्वनितामधिरोहति । शान्तस्तु तदनन्तरभावीति विलम्बितत्वान्न
प्रधान इति ।
व्याधिभावं लक्षयति—रोगेति । यद्यपि व्याधिशब्दो रोगपर्याय एव,
तथापि साहित्यशास्त्रे चित्तवृत्तिविशेषो रोगादिजन्यो गृह्यते । वात-पित्त-कफानां समेषा-
मन्यतमानां वा प्रकोपाद् रोगो जायते । प्रियविश्लेषो हि विरहस्तज्जन्यस्तापो दुःखं
व्याधिभावः कथ्यते ।
एकैकश इति । वात-पित्त-कफानां शरीरस्य व्यवस्थापकतत्त्वानां प्रकोपतः
अन्यतमस्य सर्वेषां वा विकृतावस्थापन्नत्वात् दोषतापन्नत्वात् ज्वरादयो व्याधयो
रोगास्त्रिदोषोत्पन्नाः । इह काव्यशास्त्रे तत्प्रभवो ज्वरादिव्याध्युत्पन्नस्य भावस्य व्याधि-
संज्ञास्ति ।
उदाहरति—हृदय इति । इयं वियोगिनीहृदये कृतः शैवलस्य अनुषङ्गः
सम्पर्कों यया तादृशी । अत्र कृत इत्यस्य हृदयपदसापेक्षत्वे कथं समास इति चेद् देव-
यहाँ विभाव और ‘हन्त’ पद से गम्य (प्रतीयमान) अपनी निन्दा अर्थात् राज-सेवादि
से विरति और तृष्णा का अभाव अनुभाव हैं ।
यहाँ यद्यपि वैराग्य की प्रतीति होने से शान्त रस की प्रतीति हो रही है, परन्तु
मति झट से चमत्कार लाती है, जब कि शान्त विलम्ब से । अतः यहाँ मति को ही
ध्वनि का पद मिल सकता है ।
रोग, विरह आदि से उत्पन्न मन के ताप (दुःख) को व्याधि कहते हैं ।
देह की शिथिलता, तेज श्वास आदि यहाँ अनुभाव हैं । जैसा कि कहा है :—
वात, पित्त और कफ इन तीनों में किसी एक के, दो के या तीनों के कुपित (उत्कट)
होने से जो ज्वर आदि होते हैं, उन्हें व्याधि कहा जाता है । इस साहित्यशास्त्र में
उस व्याधि से उत्पन्न भाव को ही व्याधि कहते हैं ।
यह विरहिणी हृदय पर शीतलता के लिए शैवाल के रखे जाने पर भी अङ्गों को
प्रथमाननम् ३०५
विरहोऽत्र विभावः, अङ्गक्षेपादिरनुभावः ।
भीरोर्घोरसत्त्वदर्शन-स्फूर्जथु-श्रवणादिजन्मा चित्तवृत्तिविशेषस्त्रासः ॥
अनुभावाश्चास्य रोमाञ्च-कम्प-स्तम्भ-भ्रमादयः । यदाहुः—
औत्पातिकैर्मनःक्षेपस्त्रासः कम्पादिकारकः ॥
उदाहरणम्—
आलीषु केली-रभसेन बाला, मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां, सौदामिनीयां सुषमामयासीत् ॥
दत्तस्य गुरुकुलमिति गुरुद्वारा देवदत्तस्य कुलेऽप्यन्वयाद्यथा समासस्तथैवेति । यतस्ततो
मुहुर्वारं वारं स्वाङ्गानि क्षिपन्ती, सखीनां तदुदन्तपरे तस्य नायकस्य य उदन्तो वृत्तान्तः
तद्वर्णनपरायणे मुखे इयं नायिका अतिदीनां दृष्टिम् आदधति । सखीनां कृते प्रयुक्ते मुख-
शब्दे एकवचनेन सर्वासां मुखे एक एव वृत्तान्तो नायकागमनसंकेतरहितः सूच्यते ।
त्रासाख्यभावमाह—भीरोरिति । भीरोर्भयशीलस्य, घोरसत्त्वानि व्याघ्र-
वराहादयः तेषां दर्शनेन, स्फूर्जथुः वज्रपातशब्दः तच्छ्रवणेन, आदिना विकृताकारपुरुष-
दर्शनेन चोत्पन्नः कम्पादिजनको मनोधर्मस्त्रासशब्देनोच्यते ।
घोरसत्त्वदर्शनादिर्विभावः, तज्जन्या रोमाञ्चादयोऽनुभावाः ।
औत्पातिकैरिति । उत्पातेन भव औत्पातिको वज्रनिर्घोषादिः तेनोत्पन्नो
मनःक्षेपो मनसो व्याकुलीभावः कम्प-रोमाञ्चादिजनक एव त्रासः । यथा—
आलीष्विति । नायकः सखायं वक्ति—सा बाला मुग्धा मत्प्रिया, केलीरभसेन
विलासकथनकौतुकेन, आलीषु सखीनां मध्ये, मुहुरनेकशः मम सम्बन्धिनम् आलापं
बार बार इधर-उधर फेंक रही है । सखियों ने जब उसके मन बहलाने के लिए उस
नायक के सम्बन्ध में बातें छेड़ीं तो यह अत्यन्त दीन होकर दृष्टि डाल रही है ।
यहाँ विरह विभाव और अङ्गक्षेपणादि अनुभाव है ।
डरपोक (भीरु) के मन में भयानक जीव के देखने या मेघ गर्जन सुनने से
उत्पन्न चित्तवृत्ति को त्रास कहते हैं ।
इसके विभाव घोरसत्त्वदर्शनादि और अनुभाव रोमाञ्च, कम्प, चेष्टाहीनत्व,
भ्रम आदि हैं । जैसा कि कहा है :—उत्पात करने वाले वस्तुओं या प्राणियों से उत्पन्न
मन की बेचैनी को त्रास कहते हैं, जो कम्प आदि को उत्पन्न करता है ।
(जैसे अमर्ष भाव के प्रसंग में मूलकार ने शंका की है कि स्थायीभाव क्रोध
और संचारी भाव अमर्ष में क्या भेद है ? वैसे ही यहाँ भी भयानक रस का स्थायीभाव
भय और इस संचारी भाव त्रास में क्या भेद है ? यह प्रश्न उठ सकता है । दोनों का
समाधान विषयता-वैलक्षण्य ही है । अर्थात् वही डर उत्कट दशा में भय और अनुत्कट
दशा में त्रास होगा ।) उदाहरण—
नायक कहता है कि वह बाला (मेरी मुग्धा प्रिया) क्रीडाकौतुकवश सखियों के
३०६ रसगङ्गाधरः
अत्र पत्या स्ववचनाकर्णनं विभावः। पलायनमनुभावः। न चात्र
लज्जाया व्यङ्ग्यत्वमाशङ्कनीयम्, शैशवेनैव तस्या निरासात् ।
इदं वा विविक्तमुदाहरणम्—
मा कुरु कशां कराब्जे, करुणावति ! कम्पते मम स्वान्तम् ।
खेलन् न जातु गोपैरम्ब ! विलम्बं करिष्यामि ॥
वार्तालापम् उपालपन्ती कथयन्ती सती आराद् दूरादेव मदीयां नायकस्य गिरं वाणीम्
उपाकर्ण्य श्रुत्वा, सौदामनीयां विद्युतसम्बन्धिनीं चपलां सुपमां शोभातिशयम् अयासीत्
अगमत् प्राप्तवतीत्यर्थः। सौदामनी विद्युत्, 'सुषमा परमा शोभे'त्यमरः । नायकशब्द-
श्रवणेनैव सद्य एव पलायितेति भावस्तेन त्रासो व्यज्यते । अत्रालापस्य नायकनिष्ठत्वात्
उपालोपस्य च नायिकानिष्ठत्वान्नाधिकपदत्वशङ्क ।
स्ववचनेति । नायिकाया वचनस्य आकर्णनं पतिद्वारेत्यर्थः। यद्यपि स्वशब्देन
सन्निकृष्टस्य पत्युरेव परामर्श इत्यायाति, तथापि स्वेति सर्वनाम्नो बुद्धिस्थसन्निकृष्टाया
नायिकाया एव परामर्शित्वम् । किञ्च स्वशब्दमहिम्नैव पतिकृत-नायिकावचनाकर्णनं
जातमिति नायिका यदा जानाति तदैव तस्य विभावत्वमिति लभ्यते ।
न चात्रेति । अत्र लज्जयापि पलायनं संभवतीति लज्जैव भावोऽस्तु, न त्रास
इति निराकरोति शैशवेनैवेति, बालापदबोध्येनेति भावः । ननु बालापदमत्र न शिशु-
मपि तु मुग्धामेव बोधयतीति पुनर्लज्जाया उपस्थितिरतदवस्थैवेति उदाहरणान्तरं
प्रस्तौति—इदं वेति । विविक्तं स्फुटम् लज्जया असंसक्तम् स्वतन्त्रं त्रासस्योदाहरणम् ।
मा कुर्विति । श्रीकृष्णो यशोदया तर्जितस्तां प्रति सभयं ब्रूते । हे करुणावति
अम्ब ! मातः ! मम कराब्जे करकमले कशां चर्मसटिकां मा नहि, कुरु ताडय ।
बीच मेरे विषय में बार-बार बातें कर रही थी, कि दूर से ही मेरी आवाज को सुनकर
बिजली की शोभा को प्राप्त कर गयी ( फुर्ती से भाग गयी ) ।
यहाँ पति के द्वारा अपने ( नायिका के ) वचन को सुन लेना विभाव और
भागना अनुभाव है ।
यहाँ लज्जा ही व्यंग्य है, ऐसी शंका नहीं करनी चाहिए, क्योंकि 'बाला' पद से
नायिका में शिशुत्व कहा गया है और बचपन में लज्जा का प्रश्न ही कहाँ है ।
यदि कहें कि यहाँ बाला पद से मुग्धा अभिप्रेत है, बच्ची नहीं तो त्रास और
लज्जा का सांकर्य ही मानना पड़ेगा । अतः लज्जा से असम्पृक्त स्वतन्त्र रूप से त्रास का
दूसरा उदाहरण प्रस्तुत किया जा रहा है :—
हे दयावती माता ! तू अपने करकमल में कोड़ा मत उठाओ, क्योंकि इससे
मेरा मन कांप जाता है । अब मैं गोपों के साथ खेलता हुआ कभी भी देर नहीं करूँगा ।
प्रथमाननम् ३०७
एषा भगवतो लीलागोपकिशोरस्योक्तिः ।
निद्राविभावोत्थज्ञानं सुप्तम् ॥
स्वप्न इति यावत् । अस्यानुभावः प्रलापादिः । नेत्रनिमीलनादयस्तु
निद्राया एवानुभावाः, न त्वस्य, अनिद्रजन्यत्वात् । यत्तु प्राचीनैः "अस्यानुभावा
निभृतगात्रनेत्रनिमीलनम्" इत्याद्युक्तं, तदन्यथासिद्धानामपि तेषामेतद्भावव्याप-
कत्वादिति ध्येयम् ।
उदाहरणम्—
अकरुण ! मृषाभाषासिन्धो ! विमुञ्च ममाञ्चलं
तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम् ।
अविरल-गलद्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे ! विना विनिवेदयेत् ॥
तेन मम स्वान्तं मनः, कम्पते । अम्ब ! गोपैः खेलन् अतः परं न जातु नैव, विलम्बं
करिष्यामि । लीलया गोपकिशोरोऽत एव त्रासमभवत्येव ।
सुप्ताख्यं भावं लक्षयति—निद्रेति । निद्रारूपविभावात् उत्थम् उत्पन्नं ज्ञानमेव
सुप्तं सुप्तज्ञानं सुप्ताख्यो भावः । स्वप्न इति फलितोऽर्थः । स्वयं भावरूपापि निद्रा
सुप्तभावस्य विभावो भवति । नेत्रनिमीलनं निद्राजन्यं, न स्वप्नजन्यम् । अनिद्रजन्य-
त्वात् अस्वप्नजन्यत्वात् । अन्यथासिद्धानां निद्रयैवोत्पन्नतवात् तेषां नेत्र-
मीलनादीनाम् एतद्भावव्यापकत्वात् स्वप्नभावः तावदेव यावन्नेत्रमीलनमिति स्वप्न-
काले नेत्रमीलनदर्शनेनैव प्राचीनैरेतद्भावानुभावत्वेनोक्तम् । वस्तुतो नैव तदुचितम् ।
विदेशस्थो नायकः स्वप्ने प्रियां दृष्ट्वा निद्रां प्रति वदति—अकरुणेति । हे भद्रे
निद्रे ! भवतीं विना को जनः एवंविधां तन्वीं कोमलाङ्गीं मत्प्रियां विनिवेदयेत्
यह उक्ति लीला करते हुए गोपकुमार श्रीकृष्ण की है ।
निद्रा विभाव से उत्पन्न या निद्रादशा में उत्पन्न ज्ञान को सुप्त भाव कहते हैं । इसे
ही स्वप्न कहा जाता है ।
इसके अनुभाव ( कार्य ) प्रलाप ( बड़बड़ाना ) आदि हैं । आंखों का बन्द
रहना तो निद्रा के अनुभाव हैं, सुप्त के नहीं, क्योंकि ये स्वप्न से उत्पन्न नहीं होते हैं ।
प्राचीनाचार्यों ने जो कहा है कि इस सुप्त के अनुभाव देह की निश्चेष्टता और
आँखों का बन्द रहना है । परन्तु वे तो अन्यथासिद्ध हैं । अर्थात् निद्रा से ही सिद्ध हैं,
इससे नहीं । उनका तात्पर्य है कि वे विभाव निद्रा के समय में रहने से इस सुप्तभाव
में भी रहते ही हैं ।
प्रवासी विरही नायक को स्वप्न में प्रिया का दर्शन हुआ था । जागने पर वह
निद्रा से कह रहा है—हे निद्रे ! कल्याणदायिनि ! आपके बिना कौन मुझे ऐसी प्रिया
२२ र०
३०८ रसगङ्गाधरः
एषा प्रवासगतस्य स्वप्नेऽपि प्रियामेवम्भाषिणीं दृष्टवतो निद्रां प्रति कस्य-
चिदुक्तिः। यद्यप्येवम्भूतायाः प्रियतमावस्थाया निवेदनेन "निद्रे मम भवत्या
महानुपकारः कृतः" इति वस्तु, विप्रलम्भशृङ्गारश्चात्र प्रतीतिपथमवतरति,
तथापि पुरःस्फूर्तिकतया स्वप्नध्वननमत्रोदाहृतं न प्रान्ते तयोर्ध्वननं
निरोद्धुमीष्टे ।
निद्रानाशोत्तरं जायमानो बोधो विबोधः ॥
निद्रानाशश्च तत्पूर्ति-स्वप्नान्त-बलवच्छब्द-स्पर्शादिभिर्जायत इति त
एवात्र विभावाः। अक्षिमर्दन-गात्रमर्दनादयोऽनुभावाः। तत्र संक्षेपेणोदाहरणम्—
उपस्थापयेत् ? न कोऽपीत्यर्थः । कीदृशीं प्रियाम् ? हे अकरुण ! प्रियादशां विस्मृत्य
निष्ठुरस्वरूप ! मिथ्याकथननागर ! मम अञ्चलं विमुञ्च, मया तव नायकस्य स्नेहः
सम्यक्तया परिचितः, तव स्नेहः कृत्रिमो, न वास्तविक इत्यर्थः, इत्येवं भाषिणीम् ।
किञ्च धाराप्रवाह-निपतदश्रुयुक्ताम्, परित्यक्तालङ्काराञ्चेति ।
विभावोऽत्र निद्रा, अनुभावश्च मुखविकास-हस्तसञ्चारादिः आक्षेप लभ्यः । स्वप्न-
ध्वननमत्र प्राथम्येनोपस्थाय प्राधान्यं भजते । वस्तु-रसध्वनिद्वयस्य पश्चाद्भावित्वेन
अप्राधान्यम् । स्वप्नध्वननं हि प्रान्ते अन्ते, तयोः वस्तुरसध्वन्योः ध्वननं न निरोद्धुं
समर्थम् । अङ्गितया स्वप्नभावः, अङ्गत्वेन च वस्तु-रसध्वनी अत्र विराजन्त एव ।
विबोधं लक्षयति—निद्रानाशेति । निद्राभङ्गानन्तरमुत्पद्यमानं प्रकृतिस्थं ज्ञानं
को दिखा सकता है ? अर्थात् कोई नहीं । स्वप्न में वह प्रिया धारा-प्रवाह आँसू बहा
रही थी, आभूषणों को उतार चुकी थी और मुझे कह रही थी कि हे निष्ठुर ! महा-
मिथ्यावादी ( झूठे का सागर ) ! मेरी आँचल छोड़ो, तेरे स्नेह को मैंने भलीभाँति
जान लिया है !
यह उक्ति प्रवास-गत किसी नायक की है, जो स्वप्न में प्रिया को इस प्रकार
देखकर निद्रा से कह रहा है ।
यद्यपि इस प्रकार की प्रियतमावस्था के निवेदन से—( १ ) निद्रे ! आपने
मेरा महान् उपकार किया—ऐसा वस्तुध्वनि और ( २ ) विप्रलम्भ शृङ्गार यहाँ जाना
जाता है, तथा उनसे पहले ही स्वप्नभाव की स्फूर्ति होने से उसी भावध्वनि के रूप
में इसे यहाँ उदाहरण के रूप में रखा गया है । परन्तु यह ध्वनि अपने बाद अन्त में
उन दोनों ( वस्तु एवं शृंगार ) ध्वनि को रोकने में समर्थ नहीं है । अर्थात् ये ध्वनियाँ
भी यहाँ होते ही हैं । प्रथमोपस्थिति के कारण स्वप्नध्वनि प्रधान है ।
निद्रानाश के बाद होनेवाले ज्ञान को विबोध कहते हैं ।
निद्रा का नाश अनेक कारणों से होता है, जैसे—निद्रा पूर्ण होना, स्वप्न का
प्रथमाननम् ३०९
नितरां हितयाऽद्य निद्रया मे, बत ! यामे चरमे निवेदितायाः ।
सुदृशो वचनं शृणोमि यावन्, मयि तावत् प्रचुकोप वारिवाहः ॥
अत्र गर्जितश्रवणं विभावः । प्रियावचनश्रवणोल्लासनाशोऽनुभाव-
स्तन्नेयः ।
केचिदविद्याध्वंसजन्यमप्येनमामनन्ति । तेषां मते—
नष्टो मोहः स्मृतिर्लब्धा, त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः, करिष्ये वचनं तव ॥
इतिगीतापद्यमुदाहार्यम् ।
विवोधः, सद्यो जागृतावस्थायां समुत्पन्नं ज्ञानमित्यर्थः । त एवेति निद्रापूर्ति-स्वप्ना-
वसानोच्चशब्द-कठिनस्पर्शादयः ।
नितरामिति । बत हन्त ! अद्य मे मम, नितरामतिशयेन हितया प्रियकारिण्या
निद्रया निवेदिताया उपस्थापितायाः, सुदृशः सुलोचनायाः प्रियाया वचनं चरमे यामे
रात्र्यन्तिमप्रहरे यावत् शृणोमि, तावत् वारिवाहो मेघः, मयि नायके, प्रचुकोप अति-
कुपितोऽभूत् । घनगर्जितेन मधुरस्वप्नो भग्न इत्याशयः । उन्नेय उद्भावनीयः ।
-विवोधलक्षणे मतान्तरमाह —केचिदिति । अविद्यायाः स्वकर्तृत्वाभिमानादि-
रूपायाः ध्वंसजन्यम् आत्मज्ञानं विवोध इत्यपि स्वीकुर्वन्ति । तदनुसारम् —
नष्टो मोहः इतिपद्यमत्रोदाहरणीयम् । मोहः अज्ञानं शरीरात्मवादादि नष्टम्,
स्मृतिः आत्मस्मरणं तत्त्वज्ञानं, हे अच्युत श्रीकृष्ण ! त्वत्प्रसादात् त्वदुपदेशाल्लब्धम् ।
इदानीं विगतसन्देहोऽहं स्थितोऽस्मि, ते तव वचनं करिष्ये पालयिष्यामीति । अत्र
अविद्याध्वंसजन्यस्य विबोधस्य स्पष्टत्वात्तदुदाहरणमुपन्यस्तम् ।
अन्त, तेज आवाज, जोरदार स्पर्श आदि, ये कारण ही विवोध संज्ञक भाव के विभाव
होते हैं । आँख मलना, देह का अंगड़ाई लेना आदि अनुभाव हैं ।
संक्षिप्त रूप से उदाहरण—
आज रात के अन्तिम पहर में अत्यन्त हितकारिणी निद्रा के द्वारा लायी गयी
सुन्दरी का वचन जब-तक मैं सुनने लगा, तभी मेरे ऊपर मेघ कुपित हो गया ।
यहाँ गरजने का शब्द सुनना विभाव है । प्रिया के वचन को सुनने के उल्लास
का नाश अनुभाव है, जो ऊह करने पर जाना जाता है । ( साक्षात् प्रतिपादित न होने
से गम्य है । )
कोई आचार्य अविद्या ( अज्ञान ) नाश से उत्पन्न आत्मसाक्षात्कार को ही
विबोध मानते हैं । उनके मत में इसका उदाहरण निम्नांकित गीता का पद्य हो सकता
है । ( उपर्युक्त उदाहरण नहीं )—
हे श्रीकृष्ण ! आपकी कृपा से मेरा अज्ञान नष्ट हुआ, ज्ञान प्राप्त हुआ । अब
मैं सन्देह-रहित हो चुका हूँ । इसलिए तुम्हारा वचन ही करूँगा ।
३१० रसगङ्गाधरः
न तु वारिवाहविषयाया असूयाया एवात्र वाक्यार्थतेति शङ्क्यम्,
विबोधप्रतीतौ हि सत्यां तस्मिन्नौचित्यावगमे सत्यनुचित-विबोधजनकत्वेन
वारिवाहेऽसूयाया विलम्बेन प्रतीतेः, परमुखनिरीक्षकत्वात् । स्यादपि तस्या
अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिवोधकं किञ्चिदपि स्यात् । नापि
स्वप्नस्य, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा स्वप्नभावप्रशमेना-
सूयया च सहास्य सङ्करः ।
इदन्तु नोदाहार्यम्—
गाढमालिङ्ग्य सकलां, यामिनीं सह तस्थुषीम् ।
निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ॥
न त्विति । अत्र 'न चेति' पाठ एवोचितः । पूर्वोपन्यस्तोदाहरणे “नितरां
हितयेति” पद्ये सिंहावलोकनन्यायेन शङ्कते--न त्विति । वस्तुतः "केचिद्” इति
मतप्रदर्शनात्पूर्वमेवास्याः शङ्काया उपस्थापनं सुसङ्गतम् । यद्यप्यत्र मेघविषया असूया
प्रतीयते, तथापि सा न प्रधानम्, विबोधानन्तरमेव तस्याः प्रतीतिः, असूयाप्रतीतेः
कारणं विबोध एवात्र प्रधानम् । असूयाया विबोधज्ञानसापेक्षत्वमेव तस्याः परमुख-
निरीक्षकत्वरूपं गौणत्वम् । स्वप्नस्येति, वाक्यार्थता, प्राधान्यमितियावत् । यदि
सहृदयैः असूया स्वप्नश्च स्वातन्त्र्येण गृह्येते, तर्हि ताभ्यां सह विवोधस्यात्र सङ्करः
स्वीकार्यः । तत्रापि विबोधस्यैव मुख्यतेत्याशयः !
गाढेति । स नायकः सकलां यामिनीं रात्रिमभिव्याप्य गाढमालिङ्ग्य सह-
स्थितवतीं निद्रामेकां नायिकामिव प्रातःकाले विहाय अपरां नायिकामिव चेतनां जाग्रता-
विबोधभाव के पूर्वोक्त 'नितरां हितयाद्य' इस उदाहरण पर शंका करते हैं कि
यहाँ मेघविषयक असूया (ईर्ष्या) ही वाक्यार्थ है, प्रधान है। पर, ऐसी शंका उचित
नहीं है, क्योंकि पहले विबोध की प्रतीति होने पर उसमें औचित्यबोध के बाद अनुचित
विबोध के कारण मेघ में असूया की प्रतीति विलम्ब से होती है, कारण यह (असूया)
परमुखापेक्षी है, अर्थात् विबोधज्ञान पर अवलम्बित है। अतः यहाँ विबोध ही प्रधान
है। यदि कहें कि यहाँ स्वप्न ही प्रधान (वाक्यार्थ) है, तो यह भी उचित नहीं है,
क्योंकि मेघगर्जन से उसके (स्वप्न के) नाश की ही प्रतीति होती है। यदि कहें कि
असूया का प्राधान्य सहृदयानुमोदित है, तो यह भी मान सकते हैं कि स्वप्नभाव के
प्रशमन और असूया के साथ विबोध भाव का संकर (सम्मिश्रण) यहाँ है। पर,
उसमें भो प्राधान्य विबोध का ही रहेगा।
विबोधभाव के लिए इसे तो नहीं उदाहृत किया जा सकता है—
किसी नायक ने पूरी रात साथ-साथ रहने वाली निद्रा को कसके आलिङ्गित
करके सुबह में उसे छोड़कर चेतना (जाग्रतावस्था) को आलिङ्गित कर लिया।
प्रथमाननम् ३११
विबोधस्य चेतनापदवाच्यत्वात् ।
यथा कश्चित् सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालावुपभोगार्थं
दत्त्वा यथोचिते काल एकामुपभुज्य कालान्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते,
तथैवायं रात्रौ निद्रां, प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात् ।
परकृताऽवज्ञादि-नानापराधजन्यो मौन-वाक्पारुष्यादि-कारणीभूत-
श्चित्तवृत्तिविशेषोऽमर्षः ॥
प्राग्वत् कारणानां कार्याणां च क्रमेण विभावानुभावत्वम् ।
उदाहरणम्—
वक्षोजाग्रं पाणिनाऽऽमृश्य दूरे
यातस्य द्रागाननाब्जं प्रियस्य ।
वस्थां ( विबोधम् ) आलिलिङ्ग । अत्र विबोधस्य प्रतीतावपि चेतनापदेन तस्य वाच्याय-
मानत्वान्न भावत्वम् । समासोक्त्यलङ्कारस्यैवात्र प्राधान्यम् ।
अथामर्षं निरूपयति—परकृतेति । अन्येन केनापि कृता या अवज्ञा तिरस्कारः
प्रतिकूलाचरणादिश्च तज्जन्यं यत् स्वस्मिन् तूष्णीम्भाव-कठोरभाषण-लोचनवक्रत्वादि
तत्कारणमेवामर्षः असहिष्णुता । प्राग्वद् विबोधभाववत् । अमर्षस्य विभावः पर-
कृतापराधः, अनुभावास्तु मौनवाक्पारुष्यादयः ।
अमर्षमुदाहरति—वक्षोजेति । पाणिना स्वकरेण वक्षोजाग्रं नायिकायाः स्तनाग्रं
यहाँ प्रयुक्त 'चेतना' पद का वाच्यार्थ ही विबोध है, जो व्यंग्य न होने के
कारण भाव नहीं बन सकता ।
जैसे कोई नायक अपने वचन की सत्यता पर दृढ़ रहकर अपनी दो नायिकाओं
के उपभोग के लिए दो ( भिन्न-भिन्न ) समय देकर यथोचित समय पर एक (नायिका)
का उपभोग कर दूसरे समय में पहली को छोड़कर दूसरी का उपभोग कर दूसरे समय
में पहली को छोड़कर दूसरी का उपभोग करता है, वैसे ही यह व्यक्ति रात में निद्रा को
और सुबह में चेतना को आलिंगित करता है—इस प्रकार की समासोक्ति ( श्लेषयुक्त
विशेषणों के द्वारा प्रकृत के साथ अप्रकृत का भी उपस्थापन ) ही यहाँ प्रकाशित हो
रही है । अतः यह भावध्वनि न होकर अलङ्कारध्वनि ही है ।
अब अमर्ष भाव का निरूपण करते हैं—दूसरे के द्वारा किये गये अपमान,
विरुद्धकार्य आदि अनेक अपराधों से उत्पन्न तथा चुप होना, कठोर वचन, आँख तानना
आदि का कारण जो चित्तवृत्ति उसे ही अमर्ष कहते हैं ।
पूर्वभाव ( विबोध ) के समान ही यहाँ भी अमर्ष के कारण एवं कार्य क्रमशः
इसके विभाव एवं अनुभाव हैं। अर्थात् परकृतापराध विभाव एवं मौन-वाक्पारुष्यादि
अनुभाव होते हैं। उदाहरण—
( नायिका के ) स्तन के अग्रभाग को हाथ से छू-कर ( मार खाने के डर से )
३१२ रसगङ्गाधरः
शोणाग्राभ्यां भामिनी लोचनाभ्यां
जोषं जोषं जोषमेवावतस्थे ॥
इह त्वाकस्मिक-स्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे
अनुभावौ । ननु क्रोधामर्षयोः स्थायि-सञ्चारिणोर्भावयोः किं भेदकमिति चेद्,
विषयतावैलक्षण्यमेवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृत्ति-
र्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् ।
व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषो-
ऽवहित्थम् ॥
सहसा आमृश्य संस्पृश्य ( अपराधं कृत्वा ताडनभीत्या ) द्राग् झटिति दूरे यातस्य
प्रियस्य कृतापराधस्य रमणस्य, आननाब्जं मुखकमलं शोणाग्राभ्याम् कोपादीषद्रक्ताभ्यां
लोचनाभ्यां, जोषं जोषं दृष्ट्वा-दृष्ट्वा, भामिनी कोपनस्वभावा नायिका, जोषं तूष्णीमेव
अवतस्थे स्थितवती । जोषं जोषमिति णमुलन्तं 'जुपो प्रीतिसेवनयोरिति'धातोः ।
लोचनाभ्यां सेवनं दर्शनमेव ।
इह त्विति । अमर्षलक्षणे परकृतावज्ञा विभावत्वेनोक्ता, इह तु आदिपदेन
ग्राह्य आकस्मिककुचस्पर्श एव । क्रोधः स्थायी भावः, अमर्षस्तु संचारिभावः समान
एव प्रतीयते । तथापि उभयोः वस्तुगतवैलक्षण्येन पार्थक्यमस्ति । क्रोधे झटिति पर-
विनाशे प्रवृत्तिः, अमर्षे तु वचनवैमुख्यादिकमित्येव भेदः । किञ्च परकृतावज्ञादिजन्यस्य
भावस्य अनुत्कटावस्थाऽमर्षस्तेन मौनादिकार्यं जायते, तस्यैव उत्कटावस्था क्रोधस्तेन
क्षिप्रमेव परविनाशे प्रवृत्तिरूपं कार्यं जायते । इत्युभयोः कार्यमेव विषयतावैलक्षण्यं
ज्ञापयतीति ।
अवहित्थं भावं निरूपयति—व्रीडादिभिरिति । लज्जा-भयवञ्चना-धूर्त्ततादिभिः
कारणैर्विभावस्वरूपैः, हर्षोत्सुक्यादिजनितानामनुभावानामश्रुपात-रोमाञ्चमुखविकासादीनां
शीघ्र ही दूर भागे हुए प्रिय के मुख-कमल को कोपनस्वभावा नायिका लाल-लाल
आँखों से देख-देखकर चुप ही रही ।
यहाँ आकस्मिक रूप से स्तनाग्रस्पर्श विभाव तथा आँख लाल होना, अपलक
देखना आदि अनुभाव है । अब यहाँ शंका करते हैं कि स्थायीभाव क्रोध और संचारी-
भाव अमर्ष में क्या भेदक तत्त्व है, तो इसका उत्तर है कि भेदक तो कोई नहीं, पर
विषय के धर्म का विलक्षण होना ही भेदक है । अर्थात् परकृत-अपमान से उत्पन्न
सामान्य कोप अमर्ष एवं उत्कट कोप क्रोध है । इसमें नियामक कार्य का वैलक्षण्य ही
है कि क्रोध में परविनाश के लिए झट से प्रवृत्ति होती है, जब कि अमर्ष में वचन देने
से विमुख होना आदि ही होता है ।
लज्जा, भय, धृष्टता आदि कारणों से हर्ष, औत्सुक्य आदि के अनुभावों (अश्रु-
प्रथमाननम् ३१३
तदुक्तम्—
अनुभाव-पिधानार्थेऽवहित्थं भाव उच्यते ।
तद् विभाव्यं भय-व्रीडा-धार्ष्ट्य-कौटिल्य-गौरवैः ॥
यथा—
प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते-
रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजालं झगिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥
अत्र व्रीडा विभावः । तादृश-कालियकथाप्रसङ्गोऽनुभावः । एवं भयादि-
प्रयोज्यमप्युदाहार्यम् ।
गोपनाय निगूहनाय उत्पन्नो भावोऽवहित्थम् । अत्र विभावो व्रीडादिः, अनुभावश्च
हर्षादिगोपनचेष्टादिः ।
अत्र प्राचीनाचार्यसम्मतिं दर्शयति—तदुक्तमिति । अनुभावस्य हर्षादिजनि-
तरोमाञ्चादेः, पिधानार्थे गापनार्थे जनितो भावोऽवहित्थमुच्यते । तद् अवहित्थं,
भयादिभिर्विभावैर्विभावनीयम् । यथा—प्रसङ्ग इति ।
गोपानां मुखात् कथाप्रस्तावक्रमे गुरुजनानां समक्षमेव यदुपतेः श्रीकृष्णस्य
महिमानम् उपाकर्ण्य श्रुत्वा कुलवधूः गोपकुलाङ्गना काचित् स्वेद-पुलकयुक्तगण्डस्थला
जाता । श्रीकृष्णप्रेम्णा पुलकभावप्रकाशो गुरुजन-समीपे नोचित इति मनसि निधाय सा
तद्गोपनाय विषज्वालाराशिं झगिति 'अतिशीघ्र' वमत उद्गिरतः पन्नगपतेः कालिय-
पात, रोमांच आदि ) को छिपाने के लिए उत्पन्न भाव-विशेष ( एक प्रकार के भाव )
को अवहित्थ कहते हैं ।
जैसा कि कहा गया है—
अनुभाव को छिपाने के लिए उत्पन्न भाव को अवहित्थ कहा जाता है । वह
भय, लज्जा, धृष्टता, कुटिलता और गौरव से प्रकाशित होता है । उदाहरण—
गोपों के मुख से कथावर्णन-क्रम में गुरुजनों ( ससुर आदि ) के समक्ष ही
श्रीकृष्ण के गुणवर्णन को सुनकर गोपकुलवधू के गालों पर ( प्रेमवश ) आनन्द के
कारण जलकण उछल पड़े । तब वह विष की ज्वालाओं को तुरन्त वमन करते हुए
सर्पराज कालिय नाग के फणा पर श्रीकृष्ण के ताण्डव नृत्य करने की घटना को आश्चर्य
से कहने लगी । ( तात्पर्य यह कि यह गाल पर जलकण, इस घटना की वजह से ही
प्राप्त हैं, न कि प्रेम से । )
यहाँ लज्जा विभाव है । इस प्रकार को कालिय-कथा अनुभाव है । इसी तरह
भय के कारण भी हर्षादि के छिपाने का उदाहरण प्रस्तुत करना चाहिए ।
३१४ रसगङ्गाधरः
अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृत्ति-
रुग्रता ॥
यदाहुः—
नृपापराधोऽसद्दोषकीर्तनं चोरधारणम् ।
विभावाः स्युरथो बन्धो वधस्ताडन-भर्त्सने ।
एते यत्राऽनुभावास्तदौग्र्यं निर्दयतात्मकम् ॥ इति ।
यथा—
अवाप्य भङ्गं खलु सङ्गराङ्गणे, नितान्तमङ्गाधिपतेरमङ्गलम् ।
परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ॥
नागस्य फणायां श्रीकृष्णस्य ताण्डवविधिं समुद्धतनृत्यरीतिं साश्चर्यं कथयतितराम् ।
तदाश्चर्येणैव स्वेद-पुलकादिकं जातमिति बोधयितुं तथा कथनम् ।
उग्रताख्यं भावं निरूपयति—अधिक्षेपेति । निन्दापमानवृथारोपादिकारणै-
रुत्पन्ना ‘किमस्य दण्डविधानं करोमी’त्याद्याकारा चित्तवृत्तिः उग्रतासंज्ञको भावः ।
यदाहुरिति । प्राचीनाचार्या इति शेषः । यस्मिन् जने उग्रता भाविनी तं
प्रति तत्कारणतया ( १ ) राज्ञोऽपराधोऽनुचितशासनम्, ( २ ) तस्मिन् जनेऽविद्यमानस्य
गूढतया विद्यमानस्य वा असतोऽक्षम्यस्य दोषस्य अन्येन कथनम्, ( ३ ) तद्वस्तु-चोरस्य.
अन्येन धारणम् आश्रयप्रदानम् इत्येतानि उग्रताया विभावस्वरूपाणि । तत्कार्यतया बन्ध-
वध-ताडन-भर्त्सनानि अनुभावस्वरूपाणि । निर्दयता एव औग्र्यम् उग्रतासंज्ञको भावः ।
सङ्गराङ्गणे युद्धप्राङ्गणे अङ्गराजाद् कर्णात् नितान्तमत्यन्तम् अमङ्गलमशुभं
भङ्गं पराजयम् अवाप्य प्राप्य, खलु निश्चयेन, पर उत्कृष्टः प्रभावो यस्य तादृशं मम
अर्जुनस्य गाण्डिवं धनुः तदाख्यं चापं विनिन्दतः, ते युधिष्ठिरस्य हृदयं न कम्पते,
‘कथं न कम्पत’ इति काक्वा ‘अवश्यं कम्पनीयम्’ इति व्यज्यते । गण्डिः वृक्षमूलाच्छा-
खोद्गमस्थानपर्यन्तो भागः अस्यास्तोति संज्ञायां वः, पूर्वपदस्य विकल्पेन दीर्घ इति
निन्दा, अपमान, निरर्थक अभियोग आदि से उत्पन्न “मैं इसका क्या अनिष्ट कर
डालूं” इत्यादि प्रकार की चित्तवृत्ति को उग्रता कहते हैं ।
जैसे कि आचार्यों ने कहा है :—
जहां राजा का अत्याचार, अनुचित दोष कथन, चोर को आश्रय देना आदि
विभाव हैं तथा बान्धना, वध करना, पीटना, डांटना ये अनुभाव हैं, वहाँ निर्दयता-
स्वरूप उग्रता नामक भाव होता है । जैसे—
युद्धभूमि में कर्ण से अत्यन्त अमंगल पराजय पाकर उत्कृष्ट प्रभाव वाले मेरे
( अर्जुन के ) गाण्डीव धनुष की निन्दा करते हुए आपका ( युधिष्ठिर का ) हृदय
प्रथमाननम् ३१५
एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं, युधिष्ठिरं प्रति धनञ्जयस्योक्तिः।
युधिष्ठिरकर्त्तृका गाण्डिवनिन्दात्र विभावः। वधेच्छानुभावः।
न चामर्षोग्रतयोर्नास्ति भेद इति वाच्यम्, प्रागुदाहृतेऽमर्षध्वनावुग्रताया
अप्रतीतेः। नाप्यसौ क्रोधः, तस्य स्थायित्वेन अस्याः सञ्चारिणीत्वेनैव भेदात्।
विप्रलम्भ-महापत्ति-परमानन्दादिजन्माऽन्यस्मिन्नन्यावभास उन्मादः॥
शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्।
गाण्डीवो गाण्डिवश्चेति सिद्धौ। युधिष्ठिरद्वारा अनुपमप्रभावस्य गाण्डिवस्य निन्द्रां श्रुत्वा
अर्जुनः उग्रतया शत्रुवधेच्छामकरोदिति भावः।
प्रागुदाहृते "वक्षोजाग्रं पाणिनेति" पद्ये। अमर्षे मौन-वाक्पारुष्याद्यनुभावाः
तस्य अनुत्कटताम्, उग्रतायां तु वध-बन्धादयोऽनुभावा उत्कटतां द्योतयन्ति। अस्या
उग्रतायाः सञ्चारिभावत्वात् क्षणिकत्वम्।
उन्मादं निरूपयति-विप्रलम्भेति। विप्रलम्भो वियोगः, महापत्तिर्घोरविपत्तिः,
अतिशयानन्दादिभ्य उत्पन्नो योऽन्यवस्तुनि तदितरवस्तुनोऽवभासो ज्ञानं, स एव उन्माद-
संज्ञको भावः। वियोगादयो विभावाः, अन्यस्मिन्नन्यावभासव्यवहारोऽनुभावः। शुक्तौ
रजतभ्रमस्थलेऽतिव्याप्तिवारणाय जन्मान्तं 'परमानन्दादिजन्मा' इत्यन्तं लक्षणे निवेशितम्।
कांपता नहीं है? अर्थात् अवश्य काँपना उचित है, मैं अवश्य इस धनुष से शत्रु का
नाश करूँगा।
यह उक्ति कर्ण से परास्त एवं गाण्डीव धनुष की निन्दा करते हुए युधिष्ठिर के
प्रति अर्जुन की है। युधिष्ठिर के द्वारा की गयी गाण्डीव की निन्दा यहाँ विभाव और
शत्रुवध की इच्छा अनुभाव है।
अमर्ष और उग्रता में भेद नहीं है—ऐसा नहीं कहा जा सकता है, क्योंकि
अमर्षध्वनि के "वक्षोजाग्रम्" इस पूर्वोदाहृत पद्य में उग्रता की प्रतीतिं नहीं होती हैं।
विषयगत अनुत्कटता एवं उत्कटता ही दोनों में भेदक है। यह उग्रता क्रोध के अन्तर्गत
भी नहीं आ सकती, क्योंकि क्रोध स्थायीभाव है, जबकि उग्रता संचारीभाव (क्षणिक
है), और यही दोनों में भेद है।
वियोग, घोर विपत्ति, अतिशय आनन्द इत्यादि से उत्पन्न जो किसी एक वस्तु
में अन्य वस्तु होने का ज्ञान उसे उन्माद कहते हैं।
इस लक्षण में 'जन्मा' यहाँ तक का अंश इसलिए दिया गया कि यह लक्षण
'शुक्ति में रजत-भ्रम' स्थल में न चला जाय। रजतभ्रम का कारण वियोगादि नहीं,
अपितु चाकचिक्य, दूरत्व आदि है।
३१६ रसगङ्गाधरः
उदाहरणम्—
अकरुणहृदय ! प्रियतम ! मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥
एषा प्रवासगतं स्वनायिकावृत्तान्तं नायकं प्रति कस्याश्चित् सन्देश-
हारिण्या उक्तिः । प्रियविरहोऽत्र विभावः । असम्बद्धोक्तिरनुभावः । उन्मादस्य
व्याधावन्तर्भावे सम्भवत्यपि पृथगुपादानं 'व्याध्यन्तरापेक्षया वैचित्र्यविशेष-
स्फोरणाय ।
रोगादिजन्या मूर्च्छारूपा मरणप्रागवस्था मरणम् ॥
न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम्, चित्तवृत्त्यात्म-
केषु भावेषु तस्याप्रसक्तेः, भावेषु च सर्वेषु कार्य-सहवर्त्तितया शरीरप्राणसंयोगस्य
हेतुत्वात् ।
अकरुणेति । विकला सा वियोगिनी, आलीजनस्य सखीजनस्य करकमलं
गृहीत्वा 'अकरुणहृदय ! निष्ठुर ! प्रियतम ! त्वाम् ( चिरान्मिलितं ) इतःपरमद्यप्रभृति
अहं न मुञ्चामि' इति आलपति । अत्र सखीजने प्रियतमावभासः, तेनैवंविधा उक्तिः ।
व्याध्यन्तरेति । व्याधिभावे शय्याशयनम्, उन्मादे भ्रान्तिरसम्बद्धप्रलापः,
मरणे मूर्च्छा, अपस्मारे कम्प-श्वास-पतनादय इत्येव वैचित्र्यम् ।
मरणाख्यं भावं लक्षयति—रोगादीति । रोग-शोक-वियोगादिकारणेनोत्पन्ना
चेतनाशून्या मरणात्पूर्वावस्था ( न तु वास्तविकं मरणम् ) मरणाख्यो भावः ।
कोई वियोगिनी नायिका विकल होकर सखी के करकमल को पकड़कर बोलती
है—निष्ठुरहृदय ! प्रियतम ! तुझे इसके बाद मैं कभी नहीं छोड़ूँगी' । यहाँ सखी को
प्रियतम मानकर कहना ही उन्माद को प्रकटित करता है ।
यह उक्ति किसी सन्देशहारिणी दूती की है, जो प्रवासस्थित नायक के प्रति
उसकी नायिका की दशा कह रही है । प्रिय का विरह यहाँ विभाव है । असम्बद्ध उक्ति
अनुभाव है । यद्यपि उन्माद भी व्याधि ( भाव ) में ही आ जाता है, तथापि इसका
अलग से कथन इसलिए किया गया है कि यह अन्य व्याधि की अपेक्षा अधिक
चमत्कारी होता है, जो सहृदय के द्वारा स्वतः अनुभूत होता है । व्याधि में बिछावन
पर पड़े रहना, उन्माद में भ्रम एवं असम्बद्ध बोलना, मरण में मूर्छा तथा अपस्मार में
काँपकर गिरना आदि वैशिष्ट्य हैं ।
रोग, शोक एवं वियोगादि से उत्पन्न जो मूर्छा, जिसे मरण की पूर्वावस्था कह
सकते हैं, वह मरण-संज्ञक भाव है ।
यहाँ प्राणवियोग रूप मुख्य मरण का ग्रहण करना उचित नहीं है, क्योंकि
चित्तवृत्ति ( मन में रहने वाले ) स्वरूप भावों में प्राणवियोगात्मक ( चित्तरहित )
प्रथमाननम् ३६७
उदाहरणम्—
दयितस्य गुणाननुस्मरन्ती
शयने सम्प्रति या विलोकितासीत् ।
अधुना खलु हन्त ! सा कृशाङ्गी
गिरमङ्गीकुरुते न भाषितापि ॥
प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः । हन्तपदस्यात्रात्यन्तमु-
पकारकत्वाद् वाक्यव्यङ्ग्योऽप्ययं भावः पदव्यङ्ग्यतामावहति । एतेन भावस्य
पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यमिति परास्तम् । दयितस्य गुणाननुस्मरन्ती-
त्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभूदिति वस्तु
विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम् ।
दयितेति । प्रवासस्थस्य दयितस्य प्रियस्य, गुणोत्कीर्त्तनं कुर्वती अतिदौर्बल्याद्
या शयने शय्यायां दृष्टा, सैव कृशाङ्गी प्रियविरहेऽतिशयितं दुर्बलाङ्गी अधुना क्षणा-
नन्तरमेव हन्त ! भाषितापि पृष्टापि गिरं स्ववचनं नैव अङ्गीकुरुते स्वीकुरुते प्रत्युत्तरं
नैव ददातीति भावस्तेन मूर्च्छावस्था गम्यते ।
वचनविरामो भाषणशक्तिनिवृत्तिः । हन्तपदस्य दुःखातिशयबोधकस्य ।
एतेन पदव्यङ्ग्यतायां . चमत्कारातिशयप्रदर्शितेन । व्यज्यमानं वस्तु विप्रलम्भस्य
शोकस्य वा पोषकमित्यन्वयः । चरमावस्था मरणम् । चरममभिव्यक्तस्य अन्ते
मरण का प्रसंग ही नहीं है और सभी भावों में, कार्य ( अनुभाव ) के साथ-साथ रहने
वाला शरीर के साथ प्राण का संयोग ही हेतु है। ( यह कारण कार्य से पूर्व नष्ट न
होकर कार्यकाल में भी रहता ही है )।
जो दुर्बल अङ्गवाली अपने प्रियतम के गुणों का स्मरण करती हुई अभी-अभी
बिछावन पर लेटी हुई देखी गयी, वही अब तुरत ही हाय हाय ! पूछने पर भी नहीं
बोलती है ! उसे बोलने की भी शक्ति नहीं रही।
यहाँ प्रिय का विरह विभाव है। बोलने की भी शक्ति का अभाव अनुभाव है।
दुःखातिशयबोधक 'हन्त' पद यहाँ ( मरणभाव में ) अत्यन्त उपकारक है, इसलिए
वाक्य द्वारा व्यंग्य होने पर यह मरण-भाव पदव्यंग्य बन जाता है। इस प्रकार पदव्यंग्य
में भी वैलक्षण्य देखने के कारण किसी आचार्य का यह मत खण्डित हो जाता है कि
'भाव की पदव्यंग्यता में कोई चमत्कार नहीं है'।
“प्रिय के गुणों का स्मरण करती हुई" इस उक्ति से व्यंग्य वस्तु ध्वनि यह है
कि “अन्तिम ( मरण ) अवस्था में भी वह प्रिय के गुणों को नहीं भूली" । यह वस्तु-
ध्वनि भी अन्त में अभिव्यक्त विप्रलम्भ या शोक का पोषक होता है। प्रथमतः प्रतीत
मरण भावध्वनि ही प्रधान है। वस्तु एवं रस ध्वनि बाद में प्रतीत हो रहे हैं।