रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 334, कुल 414 में से
संदर्भ में पढ़ें३०२ रसगङ्गाधरः
तथा हि—वीररसप्रसङ्गे प्रागुदाहृते "अपि वक्ति" (पृ० १५५) इत्यादि पद्य
गीष्पतिना गिरामधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्यो-
त्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः, न तु
प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन
प्राधान्येन प्रतीयमानः ।
श्रमादिप्रयोज्यं चेतःसम्मोलनं निद्रा ।
नेत्रनिमीलन-गात्रनिष्क्रियत्वादयोऽस्यानुभावाः ।
उदाहरणम्—
सा मदगमन-बृंहिततोषा, जागरेण गमिताखिलदोषा ।
बोधितापि बुबुधे मधुपैर्न, प्रातराननज-सौरभलुब्धैः ॥
सोल्लुण्ठं साभिप्रायम् ।
निद्राख्यं भावं लक्षयति—श्रमादीति । श्रम-क्लम-निशीथादिकारणेन समुत्पन्नं
चेतः संमीलनं मनसः इन्द्रियसम्पर्करहितावस्था निद्रा। न्यायनये मनसः हृदयसमीपस्थपुरी-
तत्संज्ञकनाड्यां प्रवेशः सुषुप्तिः । वेदान्तनये तस्य हृदयसमीपस्थ-दाराकाशसंज्ञकशून्य-
स्थानेऽवस्थानं निद्रेति । निद्रायां चेतसो वृत्तिर्न भवति, स्वप्ने तु भवत्येवेति उभयोर्भेदः ।
उदाहरति—सेति । सा पूर्वानुभूतप्रीतिमती, मदागमनेन नायकस्य प्रवासादा-
गमनेन बृंहितो वर्द्धितस्तो षो