रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
२२८ रसगङ्गाधरः
यथा—
निर्माणे यदि मामिकोऽसि नितरामत्यन्तपाकद्रव-
न्मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं सम्मुखे मादृशां
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥
अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स
चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्यत्वकष्टत्व-
योस्त्यागात्कान्तिसौकुमार्ययोर्गताथर्ता, प्रसादेन चार्थव्यक्तेरिति ॥
अर्थगुणेष्वपि— श्लेषः, ओजस आद्याश्चत्वारो भेदाश्च वैचित्र्यमात्र-
निर्माण इत्यादि । हे सखे ! यदि त्वम् अत्यन्तेन परिपाकेन निमित्तेन
द्रवन्त्याः प्रक्षरन्त्या मृद्वीकाया द्राक्षाया मधुनो मृष्टस्य रसस्य माधुर्यमदापहारे
नितरामतिशयेनोद्धुराणा मृद्वीकारसमाधुर्यतिरस्कारकारिणीनां गिरां निर्माणे संप्रयत्ने
मार्मिकोऽसि तर्हि मादृशां सहृदयानां सम्मुखे सुखेन स्वं काव्यं कथय । अन्यथा
आत्मना कृत दुष्कृतमिव स्वं सहृदयहृदयोद्वेजकं नीरस काव्याभास स्वान्ते
मनस्येव स्थापय, न त्वन्मत्समक्षं तद्बहिष्कुरु— इति पद्यार्थः ।
अत्रार्थानुसारेणादितस्तृतीयं चरणं यावदुद्धतश्चतुर्थे पुनरनुद्धतो मार्ग इत्याह—
अत्रेत्यादिना । इदानीं दोषाऽभावेऽन्तर्भावमाह— ग्राम्यत्वेत्यादिना । ग्राम्य-
त्वाभावः कान्तिः, कष्टत्वस्य परुषवर्णघटितत्वस्याभावः सौकुमार्यम् इत्यन्वयः ।
अर्थव्यक्तेरित्यस्य गतार्थतेत्यनेन पूर्ववाक्यस्थेनाभिसम्बन्धः । इतिशब्देन शब्दगुणान्त-
र्भावप्रकारोपसंहारः सूच्यते ॥
क्रमप्राप्तमर्थगुणान्तर्भावप्रकारमाह— अर्थगुणेष्वपीत्यादिना । वैचित्र्यमात्र-
मित्यत्र वैचित्र्यं कवेर्भङ्गिविशेषः । अन्यथा=वैचित्र्यमात्रस्य गुणत्वेऽभिमते ।
उदाहृत पद्य का अर्थ निम्नलिखित है—
"अरे मित्र ! पूरी तरह पक जाने से रस टपकाने वाले अङ्गुर के मधु-सदृश
माधुर्य के मद को भी ध्वस्त करने में समर्थ वाणी के विन्यास में यदि तू निपुण है
तब तो मेरे सामने अपना काव्य पढ़, नहीं तो—यदि तेरे काव्य में प्रचुर माधुर्य नहीं
है तो—अपने काव्य को अपने किये गये कुकर्म की तरह भीतर ही छिपा कर रख,
उसे बाहर मत कर !!" इसी प्रकार, ग्राम्यत्व-दोष का अभाव कान्ति-नामक
प्राचीनाभिमत गुण है, जब कि कष्टत्व-दोष का अभाव सौकुमार्य है । अर्थव्यक्ति तो
प्रसाद में हीं समाविष्ट है ।
प्राचीनाभिमत अर्थगुणों में भी श्लेष और ओज के प्रथमोक्त चार प्रकार तो
प्रथमाननम् २२९
रूपा न गुणान्तर्भावमर्हन्ति, अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्याद्गुण-
भेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर्माधुर्यम्, अपारुष्य-
शरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता. साभि-
प्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः,
स्फुटरसत्वरूपा कान्तिश्च, अधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लील ग्राम्य-
भग्नप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलङ्कारस्य
रसध्वनिरसवदलंकारयोश्च स्वीकरणेन च गतार्थानि । समाधिस्तु कविगतः
काव्यस्य कारणं न तु गुणः, प्रतिभाया अपि काव्यगुणत्वापत्तेः । अतस्त्रय एव
गुणभेदः=गुणानन्त्यम् । 'तदभावेऽपि काव्यव्यवहारप्रवृत्तेः' इति प्रकाशोक्तो हेतु-
रहेतुः, परैरेषां काव्यमात्रगुणत्वास्वीकारात् । अन्यथा गुणत्रयवादेऽपि प्रत्येकस्य
काव्यमात्रगतत्वाभावाद् अगुणत्वप्रसङ्गादिति पण्डितराजाशयः । अनधिकेत्यारभ्य
पञ्चम ओजसः प्रकार इत्यन्ते ग्रन्थे वर्णितानां वामनाद्यभिमतानां प्रसादादीनां
गुणानां क्रमशःअन्तर्भाव उच्यतेऽधिकपदत्वादिदोषाणामभावेषु—अधिकपदत्व . . . .
निराकरणेनेति । अर्थव्यक्तेः स्वभावोक्त्यलङ्कारे, कान्तेश्च यथासम्भवं रसध्वनौ
रसवदलङ्कारे चान्तर्भाव उच्यते—स्वभावोक्तीत्यादिना । अत्र विशेषः काव्य-
प्रकाशतट्टीकादिभ्योऽवसेयः । कारणमिति । ग्रन्थनीयार्थस्य कविकर्तृकालोचनाभावे
उक्तिवैचित्र्य मात्र है, इनको गुण कहना अनुचित है । अन्यथा—यदि उक्तिवैचित्र्य
को भी गुण माना जाय तो प्रत्येक श्लोक में भिन्न-भिन्न प्रकार के उक्तिवैचित्र्य को
एक-एक गुण कहना होगा । ऐसी स्थिति में दश हीं नहीं, अपितु अनन्त गुण हो
जायेंगे । प्रतिपाद्य अर्थ से (कम या) अधिक शब्दों के प्रयोग का अभाव, जिसे
प्राचीनों ने प्रसाद-नामक अर्थगुण कहा है, (न्यून-पदत्व दोष अथवा) अधिक-पदत्व-
दोष का अभाव हीं है, कोई भावात्मक गुण नहीं । उक्तिवैचित्र्य, अर्थात् एक हीं
अर्थ का भङ्गिभेद से पुनः कथन उनके मत में माधुर्य-नामक अर्थगुण है; यह वस्तुतः
अनवीकृतत्व-दोष का अभाव है। जिस अपारुष्य को उन्होंने सौकुमार्य-नामक अर्थगुण
कहा है वह भी अश्लीलता-दोष के घटक अमङ्गल का अभाव हीं है । उदारता-
नामक उनका अर्थगुण तो ग्राम्यत्व-दोष का अभाव-मात्र है—यह उन्हीं के लक्षण से
स्पष्ट है । उनकी वैषम्याभावरूप समता भी भग्नप्रक्रमता-दोष के अभाव से
अतिरिक्त कोई भावात्मक गुण नहीं । विशेषण की साभिप्रायता को उन्होंने
ओज का पञ्चम प्रकार कहा है, किन्तु यह भी वस्तुतः अपुष्टार्थत्व-दोष का अभाव-
मात्र है । स्वभाव-स्फुटता (-सम्पादक वर्णन) जो उनके मत में अर्थव्यक्ति नामक
अर्थगुण है, गुणत्रयवादियों के स्वभावोक्त्यलङ्कार का हीं नामान्तर है । स्फुटरसत्व
को कान्ति-नामक अर्थगुण माना है, परन्तु यह तो रस की प्रधानता होने पर रस-
२३० रसगङ्गाधरः
गुणा इति मम्मटभट्टादयः ॥
तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शभिरन्तस्थैश्च घटिता,
नैकट्येन प्रयुक्तैरनुस्वारपरसवर्णैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः
सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता, अवृत्तिर्मृदुवृत्तिर्वा
सत्काव्यरचनाऽसम्भवात्, अर्थालोचनरूपस्य समाधेः मुख्यतया (= समवायेन )
कविनिष्ठतया विषयतायाश्च वृत्त्यनियामकतया तस्य समाधेः काव्यनिष्ठत्वानुप-
पत्तेश्चेति तात्पर्यम् । काव्यकारणस्य काव्यगुणत्वाङ्गीकारे त्वनिष्टापत्तिमाह—
प्रतिभाया अपि इत्यादि । एतावता प्रबन्धेन मम्मटादिसम्मतं मतं निरूपितम् ॥
इदानीं माधुर्यव्यञ्जिकां रचनां विशेषेण निरूपयति—तत्रेत्यादिना । गुणत्रय-
मध्य इत्यर्थः । शभिः = शषसकारैः । अन्तःस्थैः = यवरलैः । नैकट्येन = अव्य-
वधानेनेषद्व्यवधानेन वा । येन व्यवधानमपानपरिहार्यन्तेन व्यवधानमपि पुनरव्यव-
धानमेव मन्तव्यम् । शुद्धानुनासिकैरिति । अनुनासिकेषु शुद्धत्वं परसवर्णद्य-
निष्पन्नत्वम् । तथा च ञमङणनकारैरित्यर्थः । अत्र च टवर्गवर्जितानां वर्गाणा-
मित्यस्य पूर्वोक्तस्य सम्बन्धो न विवक्षितः । अतो णकारस्यापि संग्रहः । अत एव
टवर्गे वर्जनीया आदितश्चत्वार एवेत्यपि बोध्यम् । अवृत्तिरिति । वृत्तिः समासोऽत्र
विवक्षितः। अभावार्थकश्च नञिति समासात्यन्ताभावे माधुर्यव्यञ्जकरचनायां स्वीकृते
तादृशव्यञ्जकत्वस्य निर्विषयत्वं विरलविषयत्वं वापततीतिहेतोर्मृदुवृत्तिरित्यप्युक्तम् ।
मृदुशब्दश्चाल्पार्थकः प्रसिद्धः । तथा चाल्पवृत्तिरिति पर्यवस्यति । तथैवोक्तं
विश्वनाथेनापि । एवं हि वैदर्भीरीतो सम्भवति । मम्मटेन तु मध्यमवृत्तिर्वैत्युक्तवता
पाञ्चाल्यपि संगृहीता । तत्र च द्वित्रिचतुष्पदान्तः समासो गृह्यत इति तद्व्या-
ख्यातारः । परमत्र स्वेदाम्बित्यादिदीर्घसमासमुदाहरतो ग्रन्थकृतः कीदृशं मृदुत्वं
वृत्तौ विवक्षितमिति विभावनीयम् । अपरुषवर्णतत्सम्मूहात्मकपदानि मृदूनित्यर्थो वा ।
ध्वनि में ओर अप्रधानता होने पर रसवदलङ्कार में समाविष्ट है । अतः उनके नौ
गुणों का यथासम्भव उक्तिवैचित्र्यादि में अन्तर्भाव हो जाने से उन्हें स्वतन्त्र अर्थगुण
मानने की आवश्यकता नहीं रह जाती । अब उनका एक समाधि-नामक अर्थगुण
अवशिष्ट है जो वस्तुतः गुण नहीं अपितु काव्य का कविनिष्ठ एक कारण है । यदि
कविनिष्ठ काव्य-कारणों को भी गुण कहा जाय तो प्रतिभा आदि काव्य-कारणों को
भी गुण कहना पड़ेगा । यह तो उन्हें भी इष्ट नहीं है । अतः माधुर्य, ओज और
प्रसाद ये हीं तीन गुण हैं—ऐसा मम्मट आदि आचार्यों का मत है ॥
उक्त तीन गुणों में माधुर्य-गुण का व्यञ्जक रचना—वर्णानुपूर्वी वह है जिसमें
टवर्ग से भिन्न चार व्यञ्जन-वर्गों के प्रथम और द्वितीय व्यञ्जन, शर्-प्रत्याहारान्त-
प्रथमाननम् २३१
रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका। द्वितीयचतुर्थास्तु वर्ग्या
गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया सनिवेशिताश्चेत्।
नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तोऽनुप्रासः। अन्ये तु
वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्यञ्जकतामाहुः ॥
उदाहरणम्—
तान्तमालतरुकान्तिलङ्घिनीङ्गीकृतनवाम्बुदत्विषम्।
स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम्॥
व्यञ्जिका इति। तथा च प्रोक्तानां वर्णानाम् अवृत्तेर्मुदुवृत्तेर्वा वर्णपदपौर्वापर्य्य-
रूपाया आनुपूर्व्या रचना-घटनादिशब्दाभिधेयायाश्च समुदितरूपेण माधुर्यव्यञ्जकत्वम्
इति पर्यवसितोऽर्थः। व्यञ्जकत्वं चात्र ग्रन्थकृन्मते प्रयोजकत्वरूपं तद्विषय-
व्यंजकत्वं वा ग्राह्यम्। वर्ग्या इति। टवर्गभिन्नवर्गस्था इत्यर्थः। अनुप्रास इति।
एतेन नैकट्येनासकृद् द्वितीयानामेकवर्गीणां चतुर्थानां वा प्रयोगे प्रतिकूलत्वं सूचयता
द्वितीयचतुर्थयोर्नैकट्येन सकृत् प्रयोगेऽपि प्रतिकूलत्वाभावः सूचितः। प्रकाशकारा-
दीनां मतमाह—अन्ये त्विति। वर्गस्थानामित्यत्र णकारातिरिक्तटवर्गवर्जिताना-
मित्यदिरनुसन्धेयः। अविशेषेणेति। दूरतया नैकट्येन वा प्रयुक्तानां सर्वेषा-
मित्यर्थः। आहुरित्यस्वरसोद्भावनम्। तद्बीजन्तु नैकट्येन प्रयुक्तानां वर्गस्थद्विती-
यानां चतुर्थानां चानुप्रासस्य सहृदयोद्वेजकत्वेन कटुत्वे प्रसिद्धेऽप्यस्मिन् पक्षे माधुर्य-
व्यञ्जकत्वापत्तिरेव।
तान्तमालेत्यादि। मे स्वान्त ? तमालतरो
२३२ रसगङ्गाधरः
यथा वा—
स्वेदाम्बुसान्द्रकणशालिकपोलपालि-
रन्तःस्मितालसविलोकनवन्दनीया।
आनन्दमङ्कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥
प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयक-
रतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका
किङ्करीकृता दासीकृता नवाम्बुदत्विड् यया तादृशीमथ च नैचिकीनामुत्तमाजां गवां
नयनैश्चुम्बितां तां विलक्षणां श्रीकृष्णश्रियं चिरं शान्तये शाश्वताय विश्रमाय कलय
समाश्रयेत्यर्थः। अत्र सम्बोधनप्रथमान्तस्य स्वान्तपदस्यासन्निहितत्वेन 'आमन्त्रितं
पूर्वमविद्यमानवत्' इत्यनुशासनेनाविद्यमानवद्भावादस्मत्पदस्य पदात्परत्वाभावेन 'मे'
इत्यादेशश्चिन्त्य इति चन्द्रिकायाम्।
स्वेदाम्बुसान्द्रेत्यादि। पूर्वोद्धृतेऽस्मिन् पद्ये द्वितीयपादे कुण्डलशब्दे 'ण्ड'
इत्यस्य प्रतिकूलतया किञ्चित् परिवर्तितमत्र। अत्र च पालिरित्यन्तमेकं विशेषणं
दशायाः ,अन्यच्च वन्दनीयेत्यन्तम्। अन्तःस्मितकाले कपोलयोरुत्फुल्लतया नेत्रसंकोचा-
दलसत्वं विलोकनस्य लभ्यते।
अतिशयोक्तीति। श्रीकृष्णश्रियो वस्तुतस्तमालतरुकान्तिलङ्घकत्वाद्य-
सम्बन्धेऽपि तत्सम्बन्धवर्णनाद् बोध्याऽऽतिशयोक्तिः। तद्गतेति। तत्रयोज्येत्यर्थः।
है, नवीन घन की छवि भी जिसकी दासी बन चुकी है और दुधारू गायों की
अनुरक्त आँखें जिसे चूमती रहती हैं।"
इसका दूसरा उदाहरण है—'स्वेदाम्बुसान्द्र···' आदि पद्य। इसका अर्थ
निम्नलिखित है—
"मदमाती आँखों वाली कामिनी की वह अलौकिक रमणीय दशा, जिसमें उसके
गालों पर पसीने की घनी बूँदें छलक आई थीं और जो (दशा) मुस्कुराहट
और अलसाई आँखों के कारण प्रशंसनीय रही, स्मरणमात्र से मेरे मन में आनन्द
उत्पन्न कर रही है।"
प्रथम उदाहरण-पद्य में शान्तरसगत माधुर्य का व्यञ्जक वर्णविन्यास है, क्योंकि
उस पद्य में चाहे अतिशयोक्तिपूर्ण वर्णन में भगवान् कृष्ण के ध्यान की उत्सुकता
ध्वनित होती हो या उनमें रति (=भक्ति), दोनों का पर्यवसान तो अन्ततः शान्त-
रस में ही है। किन्तु द्वितीय उदाहरण में स्मरण से परिपुष्ट शृङ्गार-रस के माधुर्य
प्रथमाननम् २३३
रचनेयम् । द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य ॥
नैकटचेन द्वितीयचतुर्थवर्गवर्ण-टवर्गजिह्वामूलीयोपध्मानीयविसर्गसकार-
बहुलैर्वर्णैर्घटितो झयरेफान्यतरघटितसंयोगपरह्रस्वैश्च नैकटचेन प्रयुक्तै-
रालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः । अस्मिन्पतिताः प्रथमतृतीय-
वर्या गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश्चेत् । तद्घट-
कास्त्वनुकूला एव । एवमनुस्वारपरसर्गा अपि । यथा---'अयं पततु
तद्विषयति वा विवक्षितम् , एवमप्रेऽपि । स्मृत्युपष्टब्धेति । मदिरेक्षणादशा-
विशेषस्मृतिपरिपोषितेत्यर्थः ॥
ओजोव्यञ्जिकां रचनां निरूपयति-नैकटचेनेत्यादिना। अव्यवधानमीषद्व्यवधानं
च नैकटचम्, वैवक्षिकं वा । द्वितीये
२३४ रसगङ्गाधरः
निर्दयं दलितदृप्त'-इत्यादौ प्रागुदाहृते ॥
श्रुतमात्रा वाक्यार्थं करतलबदरमिव निवेदयन्ती घटना प्रसादस्य ।
अयं च सर्वसाधारणो गुणः । उदाहरणान्यत्र प्रायशो मदीयानि सर्वाण्येव
पद्यानि ।
तथापि यथा—
चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
घटका उदासीनाः, संयोगघटकास्त्वनुकूला एव भवन्तीत्यर्थः' इति चन्द्रिकोक्ति-
रयुक्ता, अनुस्वारस्य स्वरधर्मत्वेन संयोगघटकत्वासम्भवात् । शर्षु पाठेऽपि स्वरेण
सह तस्य संयोगासम्भवस्तथैव । परसवर्णस्य तु संयोगाऽघटकत्वमसम्भवमेवेति
सुव्यक्तमेव । प्रागुदाहृत इत्यस्य रौद्ररसप्रस्ताव इति शेषः ॥
करतलेति । करतलस्थमित्यर्थः । एतदपि सहृदयानां कृते । प्रायश इति
केषुचिदिहोदाहृतेषु पद्येषु पद्यांशेषु वा प्रसादाभावं सूचयति । अत्र प्रसङ्गात्तदुदाहरण-
जिज्ञासायान्त्वाह—तथापीत्यादि ।
चिन्तेत्यादि । अतिमानवतीं कामिनीम्प्रति क्रुद्धायाः कस्याश्चन सख्या उक्ति-
रियम् । मुग्धे सखि ! तवानेनातिमानेन मनसिजो वैफल्यभयात् चिन्तया मीलितं
सङ्कुचितं मानसं यस्य तादृशो जातः, तव सख्यश्च हतप्रभा जाताः, तव प्राणेशः
प्रणयाय व्याकुलः, एवं त्वदीयपरिजनान्तरव्याकुलत्वविषयिणी समस्ता कथा
सम्प्रति कालातिक्रमशङ्कयाऽनवसरेणाऽसम्भवेन च न वक्तव्येति सा तावदास्ताम् ।
अधुना तु यथावसरमेतावदेव त्वां विनिवेदयामि यद् यदि त्वं ममोक्तिं हितां
स्वकल्याणकरीं मन्यसे तर्हि मानं मा कुरु, अन्यथा प्रियतमाह्लादाऽजनकं रोषकलुषिता-
परसवर्ण भी (यदि निकट-प्रयुक्त न हों तो ) इस गुण के अनुकूल या प्रतिकूल नहीं
होते । इसका उदाहरण रौद्र रस के उदाहरण-रूप में पूर्व-निर्दिष्ट 'अयं पततु निर्दयं
••••' इत्यादि पद्याध है ॥
जो रचना सुनते हीं वाक्यार्थ का किसी आयास के बिना प्रतिपादन करने
वाली हो वह प्रसाद-गुण का अभिव्यञ्जक होती । यह प्रसाद गुण सभी रसों में
समान रूप से उपलब्ध हो सकता है । यद्यपि इसके उदाहरण तो मेरे द्वारा रचित
प्रायः सब के सब पद्य हैं तथापि प्रसङ्गवश 'चिन्तामीलितमानसो •••' आदि पद्य
भी उदाहरणार्थ प्रस्तुत है । पद्यार्थ यह है—
“अरी मूढ़ सखी ? तेरे इस हठ (=मान) के चलते कामदेव का मन चिन्ता
में डूब चुका है, तेरी सखियों में उदासी छा गई है, तेरे प्राणनाथ प्रणय के लिए
? No, it looks just like म.
Wait, why would it be मतएव? In many Sanskrit books, printers frequently confuse अ and म (or the typesetter picked म instead of अ because they look similar in the typecase: अ / म).
Wait, but could it be अ? Let's check if the left loop has an upper part. No, the top bar connects directly to the left stroke, exactly like म.
Wait, let's look at the text:
Is it अतएव? In meaning, it is 100% अतएव! ("अतएव विकृतवर्णं तवेदमाननं राकापतिः... इति पदार्थः ।")
Wait, does the prompt say "pure, clean Markdown in Unicode Devanagari"?
Should I transcribe what is printed, or correct it, or what?
Usually, transcribe faithfully to the print, but let's check whether it's अतएव or मतएव.
Wait, look at line 9: साफ-
At the end of line 9, it's साफ-.
Wait, where is ल्यम्?
Wait! Could the first letter of line 10 be ल्य? No, it's not ल्य.
So ल्यम् । was simply
२३६ रसगङ्गाधरः
ल्यात् । किं बहुना ! रसस्यौजस्विनोऽमर्षादेर्भावस्य चाविवक्षायामपि वक्तरि
क्रुद्धतया प्रसिद्धे, वाच्ये वा क्रूरतरे, आख्यायिकादौ प्रबन्धे वा, परुष-
वर्णघटनेष्यते । यथा वा—
वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेऽपि न संस्पृशाम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥
इत्यादिनोपदेशेन सूचिता इति बोध्यम् । अत्र क्रोधस्य स्थायित्वे शृङ्गारभङ्गप्रसङ्ग
इत्यतस्तस्यात्र व्यभिचारित्वमुपपादयति—किं बहुनेत्यादिना । वाच्ये = विवक्षि-
तेऽर्थे । प्रबन्धे वेत्यत्र वा-शब्दः समुच्चये, तेन मुक्तकस्यापि संग्रहः ।
सम्प्रति प्रसादस्यासङ्कीर्णोदाहरणमप्याह—यथा वेत्यादिना ।
वाचेत्यादि । हे नाथ यदुपते ! निर्मलया सुधामधुरया च वाचा श्रुतिगीतादि-
रूपया त्वं मह्यं यां शिक्षामदास्तामहमहङ्कारावृतविवेकोऽत एव निर्लज्जः स्वप्नेऽपि
किमुत जाग्रद्दशायां न संस्पृशामि नानुसरामि । संस्पृशामीत्यस्य स्मरामीति
रसचन्द्रिकाव्याख्यानमसत्, विरुद्धत्वात् । जाग्रत्स्वप्नयोरनुसरणं वाच्यमेव, सुषुप्तौ
तु तदसम्भव एवेति भावः । एतेन सर्वावसरेषु शिक्षोपेक्षा गम्यते । अत एव
पुनः पुनरुपेक्षया आगःशतशालित्वमुपपद्यते । तथाविधमपि क्रियासमभिहारेण·
नायिका को समझाते-बुझाते वह थक चुकी है, पर वह मूढ़ नायिका अपना हठ
छोड़ने को तैयार नहीं । यह तथ्य उत्तरार्ध में निर्दिष्ट वर्णन से भी स्पष्ट होता है ।
इस विषय में (कि शृङ्गार आदि रसों में भी कदाचित् क्रोध की अभिव्यक्ति उचित
है) अधिक कहने की कोई आवश्यकता नहीं, क्योंकि ओजोगुण-युक्त रसों की और
उनके अमर्ष आदि व्यभिचारिभावों को अभिव्यक्ति के अभिप्रेत न होने पर भी
आख्यायिका आदि गद्य-काव्यों और प्रबन्ध-काव्यों में ओजो-व्यंजक रचना देखी
जाती है यदि वक्ता स्वभावतः क्रोधी हो अथवा वक्तव्य अर्थ हीं क्रूर—कठोर हो
तो । अतः उक्त उदाहरण में अंशतः ओजो-व्यंजक रचना अनुचित नहीं है ।
अथवा दूसरा उदाहरण—जिसमें केवल प्रसाद है, अन्य कोई गुण नहीं—'वाचा
निर्मलया······' आदि पद्य है । पद्यार्थ निम्नलिखित है—
"हे भगवन् ! में अहङ्कार से ओतप्रोत ऐसा निर्लज्ज अधम हूँ कि तुमने
निर्मल और अमृत के समान मधुर वेदादि शास्त्रों द्वारा मुझे जो उपदेश दिये उनका
तो मैं स्वप्न में भी पालन नहीं करता, फिर भी तुमने असंख्य अपराध करने वाले
मुझे अपने परिजनों में स्थान दे दिया है । अतः हे यदुनाथ ! न तो तुम से बढ़कर कोई
प्रथमाननम् २३७
अत्र गुणान्तरासमानाधिकरणः प्रसादः ॥
इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेष-
तश्च वर्जनीयं किञ्चिन्निरूप्यते—वर्णानां स्वानन्तर्यं सकृदेकपदगतत्वे
किंचिदश्रव्यम् । यथा—‘ककुभसुरभिः, विततगात्रः, पललमिवाभाति’
इत्यादौ । असकृच्चेदधिकम् । यथा—‘वितततरस्तरुरेष भाति भूमौ ।’
पराध्यन्तं मां स्वकीयेषु परिजनेषु बिभ्रतस्त्वत्त उत्कृष्टतरोऽन्यो दयानिधिर्नास्ति,
नापि मदधिकतरः कश्चनान्यो मत्त उन्मत्तोऽस्तीति पद्यार्थः ।
अत्र प्रसादस्य गुणान्तराऽसामानाधिकरण्यं कथमिति विवेचनीयम् । ‘मत्तो न
मत्तः’ इत्यत्र दीर्घसमासाभावात् कथञ्चिदोजस अभावोपपादनेऽपि पदविशेषे वाचे-
त्यादौ माधुर्यस्याभावो न स्वीकृतुं शक्यते यतः । पदसमूहात्मकमंशमादाय वा पदे
वर्त्तमानस्यापि गुणान्तरस्यात्राऽनभिव्यञ्जनमिति संगमनीयं कथञ्चित् । समूह-
श्चाव्यवहितानामिति तु प्रसिद्धमेव । वस्तुतश्चिन्त्यमेवैतत् ।
ककुभेत्यादि । अत्र ककारस्य स्वानन्तर्यम् । यद्यप्यत्रापि पूर्वककारोत्तर-
ककारयोरकारेण व्यवधानादानन्तर्यं नास्ति तथापि व्यञ्जनस्फुटोच्चारणार्थं ह्रस्व-
स्याकारस्य प्रसिद्धतया तदतिरिक्तह्रस्वाकारस्यापि तज्जातीयत्वेन तद्व्यवधानेऽ-
दया-निधान है और न मुझसे बढ़कर कोई उन्मत्त-कर्त्तव्यच्युत अधम ।"
इस पद्य में ग्रन्थकार का कहना है कि यहां केवल प्रसाद-गुण है, अन्य कोई
गुण नहीं। परन्तु चतुर्थ चरण में ( विशेष कर ‘मत्तो न मत्तः’ इस अंश में) ओजो-
व्यञ्जकता क्यों न मानी जाय—यह विचारणीय है ॥
अब भिन्न-भिन्न गुण की व्यंजकता में समर्थ रचना का परिचय देने के लिये
सभी गुणों के व्यंजक रचनाओं में और गुणविशेष-व्यंजक रचना-विशेष में जिन वर्ण-
विशेषों का प्रयोग वर्जनीय है उनका क्रमशः निरूपण किया जा रहा है। इनमें
प्रथमतः सामान्यरूप में वर्जनीय क्या हैं यह बताया जा रहा है—
किसी भी व्यजन का एक पद में बिना व्यवधान¹ के दो बार प्रयोग नहीं करना
चाहिए, क्योंकि इससे वह पद ( तथा तत्पदघटित वाक्य भी ) अश्रव्य—सुनने में
अप्रिय हो जाता है । जैसे—‘ककुभसुरभिः’, ‘विततगात्रः’, ‘पललमिवाभाति’
इत्यादि शब्दों में एक पद में क्रमशः ‘कक’, ‘तत’ और ‘लल’ के प्रयोग से अश्रव्यता
आ गई है । यदि दो से अधिक बार प्रयोग किया गया हो तब तो और भी
अधिक अश्रव्यता आ जाती है । यथा—‘वितततरस्तरुः’ इस शब्द में एक हीं
१. अकार का व्यवधान अथवा किसी अन्य ह्रस्वस्वर का व्यवधान होने पर भी
ग्रन्थोक्त आनन्तर्य—अव्यवधान मान्य है ।
२३८ रसगङ्गाधरः
एवं भिन्नपदगतत्वेऽपि । यथा---'शुक करोषि कथं विजने रुचिम्'
इत्यादौ । असकृद्भिन्नपदगतत्वे ततोऽप्यधिकम् । यथा---'पिक ककुभो
मुखरीकुरु प्रकामम्' । एवं स्वसमानवर्ण्यानन्तर्यं सकृदेकपद्गतत्वे किंचि-
दश्रव्यम् । यथा---'वितथस्ते मनोरथः' । असकृच्चेदधिकम् । यथा---
'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा---'अथ तस्य
वचः श्रुत्वा' इत्यादौ । असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । यथा---'अथ
तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीयोस्तृतीयचतुर्थयोरान-
प्यानन्तर्यमुक्तम् । अत एवानुपदं गुरुव्यवायेनाश्रव्यत्वव्यतिरेकं वक्ष्यति । पूर्वोक्त-
स्याकारस्य ह्रस्वत्वादिना साजात्यं विवक्षितं चेद् ह्रस्वस्वरमात्रव्यबधानेऽप्यानन्तर्यं
न विघटत
प्रथमाननम् २३९
न्तर्यम् । प्रथमतृतीययोर्द्वितीयतृतीययोर्वाऽऽनन्तर्यं तु तथा नाश्राव्यम्, किं
त्वीषत्, निर्माणमार्मिकैकवेद्यम् । एतदप्यसकृच्चेत्ततोऽधिकत्वात्साधारणे-
रपि वेद्यम् । यथा—'खग कलानिधिरेष विजृम्भते', 'इति वदति
दिवानिशं स धन्यः' । पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्यं न तथा ।
यथा- 'तनुते तनुतां तनौ' । स्वानन्तर्यं त्वश्राव्यमेव । यथा—'मम
महती मनसि व्यथाविरासीत्' ।
एतानि चाश्राव्यत्वानि गुरुव्यवायेनापोद्यन्ते । यथा—'संजायतां कथंकारं
काके केकाकलस्वनः' ।
अधिकम् । ईषदित्यस्य तात्पर्यमाह—निर्माणमार्मिकैकवेद्यमिति । स्वानन्तर्यम् =
वर्गस्थपञ्चमानां स्वानन्तर्यमित्यर्थः ।
सञ्जायतामित्यादौ 'काके', 'केके', 'केका', 'काक' इत्यत्र च गुरुव्यवायः ।
द्वितीय व्यंजनों तथा तृतीय और चतुर्थ व्यंजनों के विषय में हीं समझनी
चाहिए । जहाँ तक समानवर्गीय प्रथम-तृतीय और द्वितीय-तृतीय व्यञ्जनों के भिन्न
पदों में एक वार आनन्तर्य का प्रश्न है, अश्रव्यता तो उसमें भी है हीं, किन्तु
अत्यल्प । इसे कुछ विशिष्ट रचनाकार—कवि हीं समझ सकते, साधारणजन नहीं,
जब कि पूर्व-वर्णित अश्रव्यता तो साधारण जन के भी समझ में आ जाती है। हाँ,
यदि इनका भी आनन्तर्य अनेक वार हो तो स्पष्ट रूप में अश्रव्यता आ हीं जाती
है जिसका साधारणजन को भी अनुभव हो हीं जाता है । 'जैसे 'ख-ग-क' इस प्रकार
द्वितीय-तृतीय-प्रथम समानवर्गीय व्यंजनो के प्रयोग से जो अश्रव्यता है वह सुस्पष्ट
है । इसी प्रकार 'इति वदति दिवानिशं······' इस वाक्य में भी 'द-ति-दि' यह
आनन्तर्य-प्रयोग सुस्पष्ट रूप में अश्रव्य है हीं । किन्तु सभी वर्गों के पञ्चम व्यंजनों
के मधुर होने से इनका यदि स्ववर्गीय व्यंजनों से आनन्तर्य हो तो भी उसमें
अश्रव्यता नहीं आती । जैसे 'तनुते तनुतां तनौ' इस वाक्य में प्रथम-पञ्चम का
अनेक बार आनन्तर्य होने पर भी अश्रव्यता नहीं आई है। हाँ, यदि समान पंचम
व्यञ्जनों का आनन्तर्य हो तब अश्रव्यता आ हीं जाती है । जैसे—'मम महती
मनसि····' इत्यादि वाक्य में ।
यदि उपर्युक्त अश्रव्यताधायक एक अथवा एकवर्गीय व्यंजनों के मध्य गुरु-
स्वर (दीर्घ-स्वर) हो तो उपर्युक्त अश्रव्यता नहीं आती । जैसे—'संजायतां ····
काके केकाकल····' इत्यादि वाक्य में 'काके' 'केके', 'केका' और 'काक' शब्दों में
दीर्घ-स्वर के व्यवधान के कारण अश्रव्यता नहीं है ।
२४० रसगङ्गाधरः
यथा वा—
यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता ।
तथा तथा तत्त्वकथैव सर्वतो विकृष्य मामेकरसं चकार सा ॥
इदं तु दीर्घव्यवाये । संयोगपरव्यवाये तु—
सदा जयानुषङ्गाणामङ्गानां सङ्गरस्थलम् ।
रङ्गाङ्गणमिवाभाति तत्तत्तुरगताण्डवैः ॥
यथा यथेत्यादि-पद्यपूर्वार्द्धे 'या ता' इत्यत्र, पद्योत्तरार्धे च 'तथा तथा
तत्त्व' इत्यत्र 'यात' 'यात' इत्यनयोर्गुरुव्यवायेनाश्रव्यत्वनिरासः । 'तथा तथा'
इत्यत्र तु तकारथकारयोर्गुरुव्यवायाभावादानन्तर्यं भवत्येवाश्रव्यमिति वक्ष्यति—इदं
तु बोद्धव्यमित्यादिग्रन्थेन । तत्त्वशब्दे तु प्रथमतकारोत्तराकारस्य संयोगपरतया
गुरुत्वेन तद्व्यवायान्नाश्रव्यत्वमिति बोध्यम् । प्रकृतपद्ये तामरसायतेक्षणेत्यस्य
कमलोत्फुल्लोचनेत्यर्थः । एकरसमित्यत्रैकशब्दो नायिकार्थकः, उपमाने तु ब्रह्मार्थको
बोध्यः ।
'संयोगे गुरु' इति शास्त्रानुसारेण प्रसिद्धमूलकेन संयोगपूर्ववर्तिनो ह्रस्वस्यापि
पारिभाषिकं गुरुत्वमस्त्येवेति तद्व्यवायेऽपि गुरुव्यवायकृतमश्रव्यत्वाभावमाह—
संयोगेत्यादिना ।
सदा जयेत्यादि । सर्वदा जयेऽनुषङ्गः सम्बन्धो येषान्तेषामङ्गदेशाधिपाना
अन्य उदाहरण भी देखिए—'यथा यथा ताम··· तत्त्व' आदि पद्य में। इसमें '(य)
था ता (म···)' में द्वितीय-प्रथम का आनन्तर्य दीर्घ-स्वर के व्यवधान के कारण अश्रव्य
नहीं है । इसी प्रकार उत्तरार्ध में '(त) था त' और 'था तत्त्व' में दीर्घ-स्वर के
व्यवधान से अश्रव्यता का निराकरण हो जाता है । 'त(त्त्व)' में त कारोत्तरवर्ती
अकार में 'संयोगे गुरु' के अनुसार दीर्घत्व ज्ञातव्य है । किन्तु 'तथा-तथा' में प्रथम-
तृतीय के आनन्तर्य में तो सूक्ष्म अश्रव्यता है हीं । इसी प्रकार 'तत् (व)' में स्वा-
नन्तर्य-प्रयुक्त अश्रव्यता वर्तमान है । 'मामे····' में पञ्चम का स्वानन्तर्य-प्रयुक्त
अश्रव्यता का भी दीर्घ व्यवधान के कारण अभाव ज्ञातव्य है । पद्यार्थ इस प्रकार है—
“ज्यों ज्यों मैं कमल के समान विकसित नेत्रों वाली इस कामिनी की अधिका-
धिक सेवा (सम्पर्क) करता गया त्यों-त्यों तत्त्व-कथा की तरह इसने मुझे सब तरफ
से मोड़कर एकरस कर दिया ।” तात्पर्य यह है कि जैसे तत्त्वविद्या-सम्पन्न व्यक्ति
को सर्वत्र-सर्वदा तत्त्व —ब्रह्म हीं ब्रह्म दीखता है वैसे हीं मुझे सर्वत्र-सर्वदा यही
कामिनी दीखती है ।
ये सब उदाहरण स्वतः दीर्घ-स्वर के व्यवधान से अश्रव्यता के निराकरण के
हैं । (इनमें भी 'तत्त्व' शब्द में जो दीर्घ-स्वर का व्यवधान है वह तकारोत्तरवर्ती
प्रथमाननम् २४१
इदं तु बोद्धव्यम्—गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतम-
श्रव्यत्वमपवदति । तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकार-
थकारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव ।
एव त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः—'राष्ट्रं तवोष्ट्र्यः परितश्च-
रन्ति' इति । एवमादयः श्रुतिकटुत्वभेदा अन्येऽप्यनुभवानुसारेण बोध्याः ।
सङ्गरस्थलं रणभूमिः तस्य तस्य तुरगस्य ताण्डवैः रङ्गाङ्गणं नृत्यशालेवाभातीति
पदार्थाः । रङ्गाङ्गणेत्यत्र णत्वं चिन्त्यम् । अनेककर्तृकत्वात्ताण्डवानां बहुत्वमुक्तम् ।
अत्र च पद्ये चतुर्थपादे 'तत्तत्···' इत्यत्र प्रथमद्वितीययोर्ह्रस्वाकारयोः संयोगपरत्वेन
तद्व्यवधानादश्रव्यत्वाभावः । '(आभा) ति त···' इत्यत्र तु ह्रस्वेकारव्यवधानेऽपि
स्वानन्तर्यसत्त्वादश्रव्यत्वमनपोदितमेव मन्तव्यम् । अत्र परसवर्णभूयस्त्वं दोषः ।
प्रकारान्तरमाह—एवमित्यादि । त्र्यादीनामित्यत्रादिशब्दश्चतुर्णां ग्राहकः,
तदधिकानां संयोगस्याऽप्रसिद्धत्वात् । राष्ट्र इत्युदाहरणे ष्ट्र इत्यत्र त्रयाणां ष्ट्र्य
अकार के स्वरूपतः दीर्घ होने से नहीं, अपितु उसके संयोग-पूर्वक होने से) इसके
अतिरिक्त संयोग-पूर्ववर्त्ती ह्रस्व-स्वर के पारिभाषिक गुरुत्व-दीर्घत्व को लेकर दीर्घ-
स्वर के व्यवधान के आधार पर अश्रव्यता के अभाव का (एक अन्य) उदाहरण
'सदा जयानु··· तत्तत्तुरगताण्डवैः' इस पद्य में द्रष्टव्य है। यहाँ 'तत्तत्···' आदि शब्द
में दो तकार-द्वयों का आनन्तर्य संयोगपूर्वत्व-निमित्तक गुरु-दीर्घ-स्वर के व्यवधान के
कारण अश्रव्यताधायक नहीं है । इस पद्य का अर्थ यह है—
"जिनका जय के साथ नित्य सम्बन्ध बना हुआ है ऐसे अङ्गदेश के राजाओं
की युद्धभूमि विभिन्न अश्वों के ताण्डव से नृत्य-शाला के समान शोभित हो
रही है ।"
इस प्रसङ्ग में यह ज्ञातव्य है कि जिन दो के बीच स्वाभाविक या पारिभाषिक
दीर्घ-स्वर होता उन्हीं दोनों के आनन्तर्य में अश्रव्यतापादकता नहीं होती; गुरु-
व्यवधानरहित व्यञ्जनों, चाहे जिनके बीच दीर्घ स्वर हो उन्हीं में से कोई एक
क्यों न हो, के आनन्तर्य में तो अश्रव्यता होगी हीं । अतएव 'यथा यथा····' इत्यादि
उदाहरण में 'तथा' शब्द मे तकार-थकार के और 'तत्तु' शब्द में तकार तकार
के आनन्तर्य से अश्रव्यता बनी हीं है । इसी प्रकार, 'सदा जयानु····' इत्यादि
उदाहरण में भी '(····भा) ति त (त्तुरग····)' के आनन्तर्य से जो अश्रव्यता है
वह भी अक्षुण्ण है ।
उपर्युक्त अश्रव्यता के समान तीन-चार व्यञ्जनों का संयोग भी सामान्यतया
अश्रव्य होता । जैसे —'राष्ट्रं तवोष्ट्र्यः परितश्चरन्ति' इस पद्यांश में 'ष्ट्र' शब्द में
२४२ रसगङ्गाधरः
अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदगतस्य सकृदप्यश्रव्यम्; (असकृत्तु
सुतराम्) ॥
हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते ।
सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ॥
असकृत्तु सुतराम्¹। यथा—‘एषा प्रिया मे क्व गता त्रपाकुला ।’
इत्यत्र चतुर्णां संयोगः । प्रपञ्च्यतामित्यादौ त्र्यादीनां संयोगस्य श्रुतिकटुत्वाभावात्
प्रायेणेत्युक्तम् । दीर्घानन्तर्यमित्यत्र दीर्घो न संयोगपरो ह्रस्वो विवक्षितः । अस-
कृदिति । सरूपस्य विरूपस्य वेति नानयोर्विशेषः । सुतरामित्यस्याधिकमित्यर्थः ।
अग्रे वर्णनादिदं प्रक्षिप्तमत्र ।
हरिणीत्यादि । यत्र भवने हरिण्याः प्रेक्षणमिव प्रेक्षणं यस्यास्तादृशी गृहिणी
प्रियतमा न विलोक्यते तद्भवनं सर्वसम्पद्भिः परिपूर्णमपि वस्तुतो वनं निवासायो ग्यं
स्थानमेव गृहस्थस्य कृत इत्यर्थः । वनशब्दोऽत्रौपचारिकः । अत्र च पद्ये प्रेक्षणेति
उत्तरपदादेः प्रेतिसंयोगस्य णीशब्दोत्तरं सत्त्वादश्रव्यत्वम् । असकृदित्यादि ।
ष् ट् र् का संयोग और ‘ष्ट्र्यः’ शब्द में ष्-ट्-र्-य् का संयोग अश्रव्य है । कभी-
कभी इनमें अश्रव्यत्व नहीं भी होता । जैसे—‘सन्त्वमी’ इत्यादि शब्दों में न्-त्-व्
का संयोग । इसी प्रकार अन्य अश्रव्यत्व—श्रुतिकटुत्व के भेदों का अनुसन्धान
पाठक को अपने अनुभव के आधार पर स्वयं करना चाहिए ।
दीर्घ स्वर² के बाद यदि भिन्न-पदगत एक भी संयोग हो तो वह अश्रव्य होता,
अनेक होने पर तो कुछ कहना ही नहीं । जैसे—‘हरिणीप्रेक्षणा यत्र ⋯, इत्यादि
पद्य में ‘णी’ इसके बाद ‘प्रे’ इस संयोग में अश्रव्यता है । इसी प्रकार ‘हरिणीप्लुता’
शब्द में ‘णी’ के बाद ‘प्लु’ इस संयोग में भी अश्रव्यता है हीं । उदाहृत पद्य का
अर्थ इस प्रकार है :—
“जिस भवन में मृगनयनी गृहिणी न देखी जाय वह सभी सम्पत्तियों से युक्त
होने पर भी भवन नहीं, अपितु वन हीं है ॥”
परन्तु दीर्घ-स्वर के बाद यदि भिन्न-पदगत संयोग बारम्बार¹ आये हों
१. अग्रे मुद्रितोऽप्ययं पाठः प्रसङ्गानुरोधादत्रास्माभिः स्थापितः ।
२. यहाँ स्वाभाविक दीर्घ-स्वर विवक्षित है, पारिभाषिक नहीं ।
३. 'विवक्षितमित्यदोषः' इस परवर्त्ती ग्रन्थ के बाद मुद्रित—'असकृत्तु सुतराम् ।
यथा—'एषा प्रिया मे क्व गता त्रपाकुला ।" अंश को 'हरिणीप्रेक्षणा' आदि
पद्य के बाद औचित्य के आधार पर मैंने रखा है । इसी से यहीं इस अंश की
व्याख्या की गयी है ।
एकपदगतस्य तु तथा नाश्राव्यम् । यथा—'जाग्रता विचितः पन्थाः
शात्रवाणां वृथोद्यमः'। परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्भिन्न-
पदगतत्वाभावान्मधुरत्वाच्चानन्तर्यं न मनागप्यश्राव्यम् । यथा—'तान्तमाल-
तरुकान्ति-' इत्यादिपद्ये । अत्र तामित्यत्र नीमित्यत्र च परस-
भिन्नपदगतस्य संयोगस्यानेकवारं प्रयोगेऽधिकमश्राव्यत्वमित्यर्थः ।
तथा = दीर्घानन्तर्यं संयोगस्य सकृदसकृद्वा । यद्वासकृत्संयोगस्य दीर्घानन्तर्य-
मित्यनुवर्त्य तथेत्यस्य सुतरामश्राव्यमित्यर्थः कार्यः । तथा च किञ्चिदश्राव्यत्वं
भवत्येवेति तात्पर्यं कल्पनीयम्, जाग्रतेत्युदाहरणे जा, शा, थो इति त्रयाणां
संयोगपूर्वाणां दीर्घाणामुपलम्भात् । सर्वथेति । अव्यवहितयोर्द्वयोर्हलोः संयोगसंज्ञेति
पक्षे परस्य हलः परपदावयवत्वेन तद्घटितसमुदायरूपस्य संयोगस्य न पूर्णतः पूर्वपद-
घटकत्वं न वा पूर्णत उत्तरपदघटकत्वमित्यभिप्रायेणोक्तं सर्वथेति । दीर्घादित्यस्य
आनन्तर्यमित्यनेनान्वयः । नीमित्यत्रेत्यादि । लङ्गिनीङ्किङ्करीत्येतद्घटकस्येत्यर्थः ।
तब तो अश्राव्यता का आधिक्य हो जाता है। जैसे—'एषा प्रिया मे क्व गता
त्रपाकुला' इस पद्यांश में 'षा' के बाद 'प्रि' और 'ता' के बाद 'त्र' इन संयोगों में
अधिक अश्राव्यता है । किन्तु यदि दीर्घोत्तरवर्त्ती संयोग एक-पदनिष्ठ हो, अर्थात्
जिस पद में दीर्घ स्वर हो उसी पद में दीर्घोत्तरवर्त्ती संयोग भी हो, तो अश्राव्यता
नहीं आती । जैसे—उक्त पद्य में ही 'विलोक्यते' पद में 'लो' में दीर्घ स्वर के बाद
'क्य' में क्-य् का संयोग अश्राव्य नहीं है । इसी प्रकार 'जाग्रता विचितः पन्थाः
शात्रवाणां वृथोद्यमः' (शत्रुओं का सारा प्रयास निरर्थक हो गया, क्योंकि जगे हुए
उसके विरोधी ने उसके गुप्त मार्ग को खोज लिया ) इस पद्यार्ध में 'जा' के बाद
'ग्र' और 'शा' के बाद 'त्र' इन संयोगों में अश्राव्यता नहीं है । यदि दीर्घ-स्वर
के बाद का भिन्न-पदगत संयोग परसवर्ण-सन्धि से निष्पन्न-परसवर्णोद्देशहल्घटित
हो तो उसमें अश्राव्यता—श्रुतिकटुता नहीं आती । इसके दो कारण हैं—एक तो यह
कि उस संयोग का घटक पूर्ववर्त्ती व्यञ्जन पूर्व-पद का अन्त्यावयव होता और इस
लिए उस परसवर्णनिष्पन्न व्यञ्जन तथा परवर्त्ती पद के आद्य व्यञ्जन का संयोग
उत्तरवर्त्ती पद का आद्य अवयव होता ही नहीं, उसका अवयव तो उस संयोग का
केवल परवर्त्ती व्यञ्जन होता जो स्वयं में संयोग नहीं हैं। दूसरा कारण यह है कि
परसवर्णनिष्पन्न संयोग स्वरूपतः मधुर होता जिससे उस संयोग के ह्रस्व या दीर्घ
स्वर के परवर्त्ती होने पर भी उसमें अश्राव्यता आ ही नहीं सकती। जैसे—
'तान्तमालतरुकान्ति....' इत्यादि पूर्वोदाहृत पद्य में 'न्त' और 'न्ति' में जो संयोग हैं
वे दीर्घ स्वर से परवर्त्ती होने पर भी उक्त कारणों से अश्राव्य नहीं हैं। यह विचार
१८ २०
२४४ रसगङ्गाधरः
वर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येकं संयोगसंज्ञेति
पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः । नवाम्बुदेत्यत्र त्वे-
तानित्यत्र नीडित्यत्र च इति पाठः श्रेयान् । प्रत्येकमित्यादि ।
अयं च पक्षः संयोगसंज्ञासूत्रभाष्योक्तः । एवञ्च परसवर्णनिष्पन्नो हलेकः संयोगः,
यस्मिंश्च परे परसवर्णः सोऽन्यः संयोग इति लभ्यते । तथा च तान्तमाले-
त्यादौ न् इत्येकः, त् इत्यपरः संयोगः । भिन्नपदगतः संयोगः = परपदाद्या-
वयवह्ल्रूपः । न दीर्घादित्यादि । पूर्वपदान्त्यावयवभूतेन परसवर्ण-
निष्पन्नहला संयोगरूपेण व्यवधानादिति भावः । यश्च पूर्वः संयोगः परसवर्णरूपः
स न भिन्नपदगत इत्यपि बोध्यम् । 'तान्तमाल.' इत्यादिपद्यद्वितीयपादघटके
'नवाम्बुद' शब्दे विचारयति-नवाम्बुदेत्यादिना । एकादेशस्य = नव + अम्बुदेत्यत्र
तो पूर्व और उससे अव्यवहितोत्तरवर्त्ती दोनों व्यञ्जनों के समूह की संयोग संज्ञा
होती है-इस पक्ष के अनुसार किया गया । अब पाणिनि के "हलोऽनन्तराः संयोगः"
इस संयोग-संज्ञाविधायक सूत्र के महाभाष्य में निर्दिष्ट पक्षान्तर-'प्रत्येकं संयोग-
संज्ञा', अर्थात् जो दो व्यञ्जन अव्यवहित पूर्वापर हों-जिन दो व्यञ्जनों के मध्य
में कोई स्वर न हो-उनमें से प्रत्येक व्यञ्जन संयोग कहलाता-पूर्व व्यञ्जन भी
एक संयोग है और परवर्त्ती व्यञ्जन भी एक संयोग है-के अनुसार भी विचार
करने पर परसवर्णनिष्पन्न संयोग में श्रुतिकटुता नहीं आती, क्योंकि जो प्रथम संयोग
परसवर्णनिष्पन्न व्यंजन है वह यदि दीर्घ स्वर के बाद आया भी हो तो वह भिन्न-
पदगत नहीं होता और जो द्वितीय संयोग-परवर्त्ती पद का आद्यावयव व्यंजन है
वह पूर्ववर्त्ती पद के दीर्घ-स्वर से नहीं अपितु उसके अन्त्यावयवभूत परसवर्णनिष्पन्न
प्रथमसंयोगस्वरूप व्यंजन से परवर्त्ती है । इस प्रकार स्पष्ट है कि परसवर्णनिष्पन्न
संयोग वहां भी श्रुतिकटु नहीं होता जहां उसका एक व्यंजन पूर्वपद का अन्त्यावयव
हो और दूसरा दूसरे पद का आद्यावयव । जहां एक हीं पद में परसवर्ण है वहां तो
उसके श्रुतिकटु होने का कोई प्रश्न ही नहीं उठता । अब 'तान्तमालतरुकान्ति...'
आदि पद्य के उत्तरार्ध में आये 'नवाम्बुद...' एवं इस प्रकार के अन्य 'म्बु' आदि
शब्दों में जो दीर्घ स्वर के बाद परसवर्ण-निष्पन्न संयोग-श्रूयमाण हैं उनके विषय में
विचार कर लेना चाहिए कि वे श्रुतिकटु (अश्रव्य) होते या नहीं । एकादेश के
विषय में पाणिनि का एक योग है-"अन्तादिवच्च' (६।१।८५) । इसका
अर्थ यही है कि पूर्व-पर स्वरों के स्थान में हुआ एक आदेश, जैसे अ + अ के स्थान
में हुआ सवर्णदीर्घ एकादेश 'आ', साधारणतया पूर्वपद का आद्यावयव भी
माना जाता और परपद का अन्त्यावयव भी । इसके अनुसार नव + अम्बुद इन दो
पदों में पूर्वपद 'नव' के अन्तिम अकार और परपद 'अम्बुद' के आद्य अकार के
प्रथमाननम् २४५
कादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि
परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वमेकपदगतभिन्नत्वं
विवक्षितमित्यदोषः । (असकृत्तु सुतराम् । यथा—‘एषा प्रिया मे क्व गता
सवर्णदीर्घस्य आकारस्य । पदद्वयभक्ततयेति । 'अन्तादिवच्च' इति पाणिन्यनु-
शासनादित्यर्थः । तथा च आकारोऽयं पूर्वपदस्यान्तावयवोऽपि मन्यते, उत्तरपदस्या-
द्यावयवोऽपि । तत्र च पूर्वपदस्यान्तावयवत्वे 'म्बु' इत्यस्य दीर्घादव्यवहितोत्तरसंयोग-
त्वादश्रव्यत्वापत्तिरिति पूर्वपक्षः । अम्बुशब्दश्च भौवादिकाद् 'अवि शब्दे' इत्यात्मने-
पदिनो धातोर्बाहुलकादौणादिके उ-प्रत्यये धातोश्चेदित्त्वान्नुमागमे 'अम्बु' इत्यत्र
नकारस्यापदान्तस्य परसवर्णे च कृते निष्पन्न इति भवति 'म्बु' शब्दस्य पर-
सवर्णकृतसंयोगत्वम् । एकपदगतभिन्नत्वमिति । अत्र पञ्चमीतत्पुरुषे हरिणी-
प्रेक्षणेति पूर्वोदाहरणे समस्तादेकपदाद्भिन्नपदगतत्वाभावो भवत्येव प्रेति-
संयोगस्येति तत्राश्रव्यत्वोक्तिरसङ्गता स्यादित्यत एकपदगतश्च तद्भिन्नश्चेत्येकपद-
गतभिन्नस्तत्त्वमिति विग्रहो न्याय्यः । तथा च यत्र संयोगे ऐकपद्ये समासादौ दीर्घा-
व्यवहितोत्तरत्वमथ च तद्भिन्न ऐकपद्याभावेऽपि तथा तस्यैवाश्रव्यत्वमिति स्थितौ
हरिणीप्रेक्षणेत्यत्रोभयथापि दीर्घाव्यवहितोत्तरत्वसत्त्वादश्रव्यत्वोपपत्तिः, नवाम्बुदेत्यत्र
तु एकादेश एव संयोगस्य 'म्बु'-इत्यस्य तथात्वान्नाश्रव्यत्वमिति तात्पर्यमुत्तरपक्षस्य ।
एकपदगतभिन्नत्वमित्यत्र पञ्चमीसमासाभिप्रायेण प्रकारान्तरेण रसचन्द्रिकायां कृतः
परिष्कारो युक्तोऽपि ग्रन्थाक्षराननुगुणत्वादस्माभिरुपेक्षितः। असकृत्त्वित्यादि । अय-
मंशो व्याख्यातपूर्वः । एषेत्यादि । अत्र प्र-क्व-त्रेति त्रिषु संयोगेष्वश्रव्यत्वाधिक्यम् ।
स्थान में सवर्णदीर्घस्वरूप एकादेश से निष्पन्न दीर्घ स्वर (नव् + ) 'आ' पूर्व-पद का
आद्यावयव माना ही जा सकता है (अर्थात् 'नवा' पूर्व-पद हो जाता है) । इससे भिन्न
पद 'म्बुद' में जो संयोग है वह दीर्घ-स्वर के बाद आने वाला भिन्नपदगत परसवर्ण-
निष्पन्न संयोग है ही। अतः इसमें अश्रव्यता माननी चाहिए या नहीं। १ समाधान
करते हुए पण्डितराज कहते हैं कि पूर्वोक्त 'भिन्नपदगत संयोग' का तात्पर्य उस
संयोग में है जो 'एकपदगतभिन्न' हो । इसका आशय यही है कि जो संयोग
समास एवम् सन्धि आदि करने पर भी दीर्घ-स्वर के अव्यहित उत्तर में भिन्न
पद के आरम्भ में श्रूयमाण हो और उनके बिना भी पूर्वपदवर्त्ती दीर्घ-स्वर से
अव्यवहित उत्तर में भिन्न पद में श्रूयमाण हो वही 'भिन्नपदगत संयोग' के रूप
में विवक्षित है, अन्य प्रकार का संयोग नहीं। ऐसी स्थिति में, परसवर्णनिष्पन्न
१. यह विचार परसवर्णनिष्पन्न संयोग की स्वाभाविक मधुरता की मान्यता को
ध्यान में न रखकर किया गया है। इसका उद्देश्य 'भिन्नपदगत' शब्द का
परिष्कृत अर्थ प्रस्तुत करना है ।
२४६ रसगङ्गाधरः
त्रपाकुला' ।) इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयते ।
अथ स्वेच्छया संध्यक्षरणं सकृदप्यश्रव्यम् । यथा--'रम्याणि इन्दुमुखि
ते किलकिञ्चितानि' । प्रगृह्यताप्रयुक्तं त्वसकृदेव--'अहो अमी इन्दुमुखी-
पूर्वोक्तं सर्वमेवाश्रव्यत्वं वक्ष्यमाणं च काव्यांशविशेषे वर्त्तमानं तच्छरीरे वर्त्तमानेन
पङ्गुत्वेन तुल्यं चमत्कारापहारि, ततश्च रसाद्यप्रतीत्यापत्तिरित्याह--इदं चेत्या-
दिना ।
प्रकारान्तरमश्रव्यत्वस्याह--स्वेच्छयेत्यादिना । स्वेच्छया = अनुशासनं विना ।
'णि' 'इन्द्र' इत्यत्रेकारसवर्णदीर्घसन्ध्यभावः स्वेच्छया कृतः । 'चन्द्रमुखि !' इति पाठे
तु नाश्रव्यत्वं स्यात् , असकृदेवेति । एतेन सकृत् प्रगृह्यताप्रयुक्तसन्ध्यभावो
नाश्राव्यत्वापादक इति लभ्यते, अन्यथा काव्ये तदनुशासनानर्थक्यमननुष्ठानलक्षणं
स्यात् । सकृदनुष्ठानेन शास्त्रसार्थक्ये पुनस्तदननुष्ठानं न शास्त्रवैयर्थ्यात्मकमिति
तात्पर्यम् । अहो इत्यत्र 'ओत्' इति सूत्रेण, 'अमो' इत्यत्र च 'अदसो मात्' इति
सूत्रेण प्रगृह्यता । चन्द्रमुखीतिपाठे त्वत्राप्यश्रव्यत्वमपनुद्यते । एवमेव = असकृत्
संयोग दीर्घ-स्वर से अव्यवहितोत्तरवर्त्ती और भिन्नपदगत हो ही नहीं सकता।
अतः परसवर्णनिष्पन्न संयोग कभी भी अश्रव्य नहीं होता । यह काव्यगत अश्रव्यता
प्राणियों में पाई जाने वाली पङ्गुता ( लंगड़ापन ) के समान है जो रस-प्रवाह को
अवरुद्ध कर देती है । अतः वर्जनीय है ।
पूर्वोक्त अश्रव्यता से अतिरिक्त नियमप्राप्त स्वरसन्धि आदि का न करना भी
अश्रव्यताधायक है । जैसे ---'रम्याणि इन्दुमुखि ते किलकिञ्चितानि' ( अरी
चन्द्रमुखी ! तेरे ये भाव, जो मित्रादि की प्राप्ति से उत्पन्न हर्ष के कारण
मुस्कुराहट, शुष्क रोदन और क्रोध आदि से मिश्रित हैं, बड़े ही आकर्षक हैं ) ।
इस पद्यांश में 'णि' के इकार और 'इन्दु' के इकार के स्थान में प्राप्त सवर्णदीर्घ
न करने से अश्रव्यता आ गई है । इसी प्रकार 'प्रगृह्य-संज्ञा' के कारण
'प्रकृतिभाव' हो जाने पर सामान्यतः स्वर-सन्धियां जहाँ नहीं हो पातीं ऐसे
पदों का अनेक बार एक वाक्य में प्रयोग करने पर भी अश्रव्यता आ जाती ।
उदाहरणार्थ--'अहो अमी इन्दुमुखीविलासाः' (चन्द्रमुखी के ये विलास अद्भुत हैं !)
इस पद्यांश में 'अहो' इस निपात के 'ओत्' ( पा० सू० १।१।१५ ) सूत्रानुसार
और 'अमी' पद के 'अदसो मात्' ( पा० सू० १।१।१२ ) सूत्रानुसार प्रगृह्य-संज्ञक
हो जाने से क्रमशः पूर्वरूप और सवर्णदीर्घ सन्धियां नहीं हो पातीं । अतः व्याकरणा-
नुसार इस प्रयोगों में शुद्धता होने पर भी अश्रव्यता है हीं । इसी तरह यदि किसी
काव्य मे अनेक बार 'लोपः शाकल्यस्य' ( पा० सू० ८।३।१९ ) सूत्रानुसार
यकार अथवा वकार का लोप किया गया हो तो भी अश्रव्यता का अनुभव होता ।
विलासाः' । एवमेव च य-व-लोपप्रयुक्तम्—'अपर इषव एते कामिनीनां
दृगन्ताः'।
कथं तर्हि—
भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण ।
तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः ॥
सन्ध्वकरणम् । अत्र च 'लोपः शाकल्यस्य' इति य-व-लोपानुशासनस्य त्रिपादीस्थत्वेन
सपादसप्ताध्यायीस्थगुणादिविधिं प्रत्यसिद्धत्वाद् भवति सन्ध्वकरणम् । असकृदेवं सत्य-
श्रव्यत्वम् । सकृत्त्वनुशास नानुष्ठानाद्यर्थत्वान्न तथा । अपर इषव इत्यत्रायादेशघटकस्य
इषव एते इत्यत्र च यादेशस्य पूर्वोक्तेन सूत्रेण विकल्पेन लोपः कृतः ।
भुजगेत्यादि । हे अवनीरमण ? भवतो मन्त्रिणः भुजगानां सर्पाणामहिता
प्रकृतिर्येषां ते भुजगाऽहितप्रकृतयो गरुडसम्बन्धिमन्त्रा इव भुजगानां विटानामहिता
जैसे —'अपर इषव एते कामिनीनां दृगन्ताः' ( कामिनियों के ये कटाक्ष दूसरे
बाण हीं तो हैं ) । इस पद्यांश में 'अपरे + इषवः' इस स्थिति में 'रे' के एकार के
स्थान में 'एचोऽयवायावः' ( पा० सू० ६।१।७८) द्वारा विहित अय्-आदेश के अवयव
'य्' का और 'इषवः + एते' इस स्थिति में विसर्गादेश के असिद्ध हो जाने से प्राप्त
रेफ के स्थान में 'भो-भगो-अघो...योऽशि' (पा० सू० ८।३।१७) सूत्र द्वारा विहित
'य्' का पूर्वोक्त सूत्र से लोप किये जाने से अश्रव्यता आ गई है। अब प्रश्न यह है
कि यदि उपर्युक्त य्, व् के लोप से वाक्य मे अश्रव्यता आ जाती है तो फिर
पण्डितराज ने स्वयं हीं—'भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण । तारा
इव तुरगा इव सुखलीना मन्त्रिणो भवतः ॥' इस पद्य का निर्माण कैसे किया,
क्योंकि इसमें भी 'मन्त्राय् इव', 'ताराय् इव', 'तुरगाय् इव' के स्थान पर जो
'... मन्त्रा इव', 'तारा इव', 'तुरगा इव' ये पाठ हैं इनमें 'लोपः शाकल्यस्य'
( पा० सू० ८।३।१९) के अनुसार 'य्' का वारम्बार लोप किया गया है । इसके
उत्तर में पण्डितराज ने यह कहा है कि उक्त पद्य में य् के लोप के बिना हीं 'मन्त्रा-
यिव', 'तारायिव', 'तुरगायिव' पाठ होने से अश्रव्यता नहीं है। यह य्-लोपाभाव उक्त
लोप-विधि के वैकल्पिक—शाकल्यमात्र आचार्य के मत में लोप और अन्य आचार्यों
के मत में उसका अभाव—होने से सम्भव है । 'सुखलीनाय् मन्त्रिणो' के स्थान पर
'हलि सर्वेषाम्' ( पा० सू० ८।३।२२ ) सूत्र से नित्य य्-लोप यद्यपि किया गया है
तथापि इसका बाहुल्य—एक से अधिक बार—न होने से इस अंश में अश्रव्यता
नहीं है । पद्यार्थ निम्नलिखित है—
" हे राजन् ! आपके मन्त्री तो भुजंगों—सर्पों के लिए अहितकर स्वभाव वाले
गरुड़-मन्त्रों के समान भुजंगों—धूर्तों के लिए अहितकर स्वभाव वाले, अच्छी तरह