सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 262, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 262

२३० रसगङ्गाधरः
गुणा इति मम्मटभट्टादयः ॥
तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शभिरन्तस्थैश्च घटिता,
नैकट्येन प्रयुक्तैरनुस्वारपरसवर्णैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः
सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता, अवृत्तिर्मृदुवृत्तिर्वा
सत्काव्यरचनाऽसम्भवात्, अर्थालोचनरूपस्य समाधेः मुख्यतया (= समवायेन )
कविनिष्ठतया विषयतायाश्च वृत्त्यनियामकतया तस्य समाधेः काव्यनिष्ठत्वानुप-
पत्तेश्चेति तात्पर्यम् । काव्यकारणस्य काव्यगुणत्वाङ्गीकारे त्वनिष्टापत्तिमाह—
प्रतिभाया अपि इत्यादि । एतावता प्रबन्धेन मम्मटादिसम्मतं मतं निरूपितम् ॥
इदानीं माधुर्यव्यञ्जिकां रचनां विशेषेण निरूपयति—तत्रेत्यादिना । गुणत्रय-
मध्य इत्यर्थः । शभिः = शषसकारैः । अन्तःस्थैः = यवरलैः । नैकट्येन = अव्य-
वधानेनेषद्व्यवधानेन वा । येन व्यवधानमपानपरिहार्यन्तेन व्यवधानमपि पुनरव्यव-
धानमेव मन्तव्यम् । शुद्धानुनासिकैरिति । अनुनासिकेषु शुद्धत्वं परसवर्णद्य-
निष्पन्नत्वम् । तथा च ञमङणनकारैरित्यर्थः । अत्र च टवर्गवर्जितानां वर्गाणा-
मित्यस्य पूर्वोक्तस्य सम्बन्धो न विवक्षितः । अतो णकारस्यापि संग्रहः । अत एव
टवर्गे वर्जनीया आदितश्चत्वार एवेत्यपि बोध्यम् । अवृत्तिरिति । वृत्तिः समासोऽत्र
विवक्षितः। अभावार्थकश्च नञिति समासात्यन्ताभावे माधुर्यव्यञ्जकरचनायां स्वीकृते
तादृशव्यञ्जकत्वस्य निर्विषयत्वं विरलविषयत्वं वापततीतिहेतोर्मृदुवृत्तिरित्यप्युक्तम् ।
मृदुशब्दश्चाल्पार्थकः प्रसिद्धः । तथा चाल्पवृत्तिरिति पर्यवस्यति । तथैवोक्तं
विश्वनाथेनापि । एवं हि वैदर्भीरीतो सम्भवति । मम्मटेन तु मध्यमवृत्तिर्वैत्युक्तवता
पाञ्चाल्यपि संगृहीता । तत्र च द्वित्रिचतुष्पदान्तः समासो गृह्यत इति तद्व्या-
ख्यातारः । परमत्र स्वेदाम्बित्यादिदीर्घसमासमुदाहरतो ग्रन्थकृतः कीदृशं मृदुत्वं
वृत्तौ विवक्षितमिति विभावनीयम् । अपरुषवर्णतत्सम्मूहात्मकपदानि मृदूनित्यर्थो वा ।
ध्वनि में ओर अप्रधानता होने पर रसवदलङ्कार में समाविष्ट है । अतः उनके नौ
गुणों का यथासम्भव उक्तिवैचित्र्यादि में अन्तर्भाव हो जाने से उन्हें स्वतन्त्र अर्थगुण
मानने की आवश्यकता नहीं रह जाती । अब उनका एक समाधि-नामक अर्थगुण
अवशिष्ट है जो वस्तुतः गुण नहीं अपितु काव्य का कविनिष्ठ एक कारण है । यदि
कविनिष्ठ काव्य-कारणों को भी गुण कहा जाय तो प्रतिभा आदि काव्य-कारणों को
भी गुण कहना पड़ेगा । यह तो उन्हें भी इष्ट नहीं है । अतः माधुर्य, ओज और
प्रसाद ये हीं तीन गुण हैं—ऐसा मम्मट आदि आचार्यों का मत है ॥
उक्त तीन गुणों में माधुर्य-गुण का व्यञ्जक रचना—वर्णानुपूर्वी वह है जिसमें
टवर्ग से भिन्न चार व्यञ्जन-वर्गों के प्रथम और द्वितीय व्यञ्जन, शर्-प्रत्याहारान्त-