रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 270, कुल 414 में से
संदर्भ में पढ़ें२३८ रसगङ्गाधरः
एवं भिन्नपदगतत्वेऽपि । यथा---'शुक करोषि कथं विजने रुचिम्'
इत्यादौ । असकृद्भिन्नपदगतत्वे ततोऽप्यधिकम् । यथा---'पिक ककुभो
मुखरीकुरु प्रकामम्' । एवं स्वसमानवर्ण्यानन्तर्यं सकृदेकपद्गतत्वे किंचि-
दश्रव्यम् । यथा---'वितथस्ते मनोरथः' । असकृच्चेदधिकम् । यथा---
'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा---'अथ तस्य
वचः श्रुत्वा' इत्यादौ । असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । यथा---'अथ
तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीयोस्तृतीयचतुर्थयोरान-
प्यानन्तर्यमुक्तम् । अत एवानुपदं गुरुव्यवायेनाश्रव्यत्वव्यतिरेकं वक्ष्यति । पूर्वोक्त-
स्याकारस्य ह्रस्वत्वादिना साजात्यं विवक्षितं चेद् ह्रस्वस्वरमात्रव्यबधानेऽप्यानन्तर्यं
न विघटत