सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 263, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 263

प्रथमाननम् २३१
रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका। द्वितीयचतुर्थास्तु वर्ग्या
गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया सनिवेशिताश्चेत्।
नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तोऽनुप्रासः। अन्ये तु
वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्यञ्जकतामाहुः ॥
उदाहरणम्—
तान्तमालतरुकान्तिलङ्घिनीङ्गीकृतनवाम्बुदत्विषम्।
स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम्॥
व्यञ्जिका इति। तथा च प्रोक्तानां वर्णानाम् अवृत्तेर्मुदुवृत्तेर्वा वर्णपदपौर्वापर्य्य-
रूपाया आनुपूर्व्या रचना-घटनादिशब्दाभिधेयायाश्च समुदितरूपेण माधुर्यव्यञ्जकत्वम्
इति पर्यवसितोऽर्थः। व्यञ्जकत्वं चात्र ग्रन्थकृन्मते प्रयोजकत्वरूपं तद्विषय-
व्यंजकत्वं वा ग्राह्यम्। वर्ग्या इति। टवर्गभिन्नवर्गस्था इत्यर्थः। अनुप्रास इति।
एतेन नैकट्येनासकृद् द्वितीयानामेकवर्गीणां चतुर्थानां वा प्रयोगे प्रतिकूलत्वं सूचयता
द्वितीयचतुर्थयोर्नैकट्येन सकृत् प्रयोगेऽपि प्रतिकूलत्वाभावः सूचितः। प्रकाशकारा-
दीनां मतमाह—अन्ये त्विति। वर्गस्थानामित्यत्र णकारातिरिक्तटवर्गवर्जिताना-
मित्यदिरनुसन्धेयः। अविशेषेणेति। दूरतया नैकट्येन वा प्रयुक्तानां सर्वेषा-
मित्यर्थः। आहुरित्यस्वरसोद्भावनम्। तद्बीजन्तु नैकट्येन प्रयुक्तानां वर्गस्थद्विती-
यानां चतुर्थानां चानुप्रासस्य सहृदयोद्वेजकत्वेन कटुत्वे प्रसिद्धेऽप्यस्मिन् पक्षे माधुर्य-
व्यञ्जकत्वापत्तिरेव।
तान्तमालेत्यादि। मे स्वान्त ? तमालतरो