रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
प्रथमाननम् १४३
वीरश्चतुर्धा—दानदयायुद्धधर्मैस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् । तत्राद्यो
यथा—
कियदिदमधिकं मे यद्द्विजायार्थयित्रे
कवचमरमणीयं कुण्डले चार्पयामि ।
अकरुणमवकृत्य द्राक्कृपाणेन निर्यद्-
बहुलरुधिरधारं मौलिमावेदयामि ॥
एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान्
सभ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम् । तदुदीरिता स्तुतिरुद्दी-
तत्र रक्ताम्यनेत्रेनेत्यनेनोत्साहात् क्रोधाविर्भावो बोधितः, युद्धवीरे पुनरुत्साहमात्रमिति
भेदोऽनयोस्तात्पर्यविषयीभूतः ।
तदुपाधेरिति । स्थायिभावो रस इति पक्षे ते दानादय उपाधयो यस्येति
विग्रहः । स्थायिभावावच्छिन्ना चिदेव रस इति पक्षे तु स्थायिभावानां रसोपाधित्व-
मिति तस्य प्रकृतस्य वीररसस्योपाधिरिति विग्रहः ।
आद्यः=दानवीरः । कियदि त्यादि । अर्थयित्रे याचकाय द्विजाय विप्ररूपधारिणे
( इन्द्राय ) यदहमरमणीयं क्षुद्रत्वादुपेक्षणीयमात्मनः कवचं कुण्डलद्वयं चार्पयामि तत्
कियदधिकम् ? अपि तु स्वल्पमेव । अधिकं तु तदा भवेद् यदि द्राग् झटिति कृपाणेन
स्वकीयं शिरोऽकरुणमवकृत्य छित्त्वा निर्यन्ती निस्सरन्ती बहुला रुधिरस्य धारा
यस्मात् तच्छिरः तस्मै द्विजाय आवेदयामि । अर्पयामीत्यत्र 'कॢप्ते लिप्सायामिति
लट्, आवेदयामीत्यत्र च वर्त्तमानसामीप्ये स इति बोध्यम् । निर्यद्वहलेत्यादौ
सप्तम्यन्तान्यपदार्थको बहुव्रीहिसमासो रसचन्द्रिकायामुक्तश्चिन्त्यः ।
युक्त पद्य की रचना नहीं कर सका । अतः यह कवि की अशक्ति तो हैं हीं,
साथ साथ इसे रौद्र का उदाहरण देने वाले काव्यप्रकाशकार की भी अशक्ति है ॥
वीररस के चार भेद हैं, क्यों कि दान, दया, युद्ध और धर्म—ये चार इसकी
उपाधियाँ है—ऐसा प्राचीन आचार्यों का मत है ।
इनमें दानवीर का उदाहरण है :—
"एक तो कोई याचना कर रहा हो, वह भी एक ब्राह्मण हो, तो उसे अपना तुच्छ
कवच और ये दोनों कुण्डल दान कर देना मेरे लिए कौन-सी बड़ी बात है ! यथार्थ
दान तो तब होगा यदि मैं निर्दयभाव से अपने खड्ग से झट से काट कर खून की
धारा से लथपथ अपना शिर उसे समर्पित कर दूँ ।"
ब्राह्मण का वेष धारण कर इन्द्र जब कर्ण के पास आये तो कर्ण ने उन्हें अपने
कवच और कुण्डल दे दिये। उस समय कर्ण की दानवीरता को देखकर वहाँ उपस्थित
लोग बहुत हीं विस्मित होकर कर्ण की प्रशंसा करने लगे । उन्हीं के प्रति कर्ण की
१४४ रसगङ्गाधरः
पिका । कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः । मे इत्यर्था-
न्तरसङ्क्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादि-
स्मृतिश्च संचारिणौ । वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृद-
यैकचमत्कारिणी । तथा हि—उत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्व-
अर्थान्तरसंक्रमितेत्यादि । अयम्भावः—अर्पयामीत्यादिक्रियापद उत्तमपुरुष-
सामर्थ्यात् प्रकान्तरत्वाच्चास्मदर्थस्य प्रतीत्या तदभिधानाय 'मे' इतिपदस्य नात्रोपयोग
इति वाच्यार्थमात्रविवक्षायामनुपयोगितालक्षणवाच्यार्थबाधादत्रास्मत्पदं लाक्षणिकं
सत् सकलकोषदातृत्वविशिष्टमस्मत्पदार्थं बोधयति । अविरोधित्वाच्चात्रास्मच्छन्द-
वाच्यार्थस्य लक्ष्यार्थे समावेशोऽपि नायुक्त इत्युपादानलक्षणैवात्र । तत एक
लक्षिताद्धर्मविशिष्टधर्मिणोऽनुपयोगितालक्षणवाच्यार्थबाधस्य निराकरणादर्थान्तरे
गर्वादौ क्षीणसामर्थ्योपादानलक्षणा न तद्धर्मान्तरं प्रतिपादयितुमलमिति व्यञ्जनैवा-
संख्येयार्थद्योतिका तत्प्रतिपादिकाऽगत्या स्वीकर्त्तव्येति भवति गर्वादीनामर्थान्तर-
संक्रमितध्वनिसमुत्थापितत्वमिति । स्वकीयेति । एतच्चास्मदर्थापेक्षया, सहृदयापेक्षया
तु तदीयेति मन्तव्यम् । स्मृतिः सहृदयानामिति शेषः । एषा च स्मृतिः शक्यसम्बद्ध-
त्वादुक्तार्थैकसम्बन्धिज्ञानविधया जायते । ये तु लोकोत्तरपितृजन्यत्वं शक्यता-
वच्छेदकं मन्यन्ते तेषां शक्यार्थस्य प्रकृतानुपयोगित्वलक्षणो बाधो लक्षणाप्रयोजकः
कथमुपपद्यत इति चिन्त्यम् । अतस्तद्व्यक्तित्वमेवात्र शक्यतावच्छेदकमस्मदर्थ इति
यह उचित है । यहाँ याचना करने वाले ब्राह्मण आलम्बन हैं । उन्हीं ब्राह्मण
द्वारा की गयी कर्ण की स्तुति ( जो इस पद्य में निर्दिष्ट नहीं है ) उद्दीपन
विभाव है । कवच और कुण्डलों का दान और उन कवचादि में तुच्छता-बुद्धि
आदि अनुभाव हैं । पद्यस्थ 'मे' पद में अर्थान्तरसङ्क्रमितवाच्य ध्वनि से प्रतीयमान
गर्व ( अहङ्कार ) और लोकोत्तर पिता भगवान् सूर्य से उत्पन्न होने की स्मृति
व्यभिचारिभाव हैं । तात्पर्य यह है कि प्रकृत पद्य में 'अर्पयामि' और 'आवेदयामि'
इन उत्तमपुरुषों की क्रियाओं और प्रसङ्ग से हीं 'मे' पद के बिना भी अस्मच्छब्दार्थ
का बोध हो जाने से वाच्यार्थमात्र का प्रतिपादन करने के लिए 'मे' पद का कोई
उपयोग नहीं है । यही अनुपयोगिता यहाँ अस्मच्छब्द के मुख्यार्थ का बाध--
लक्षणाबीज है । यतः 'समस्त राज्य को समर्पित कर देने वाले मेरे लिए' यह अर्थ 'मे'
पद का प्रकृतानुपयोगी नहीं है अतः यहाँ अस्मच्छब्द में जहत्स्वार्था लक्षणा न मानकर
अजहत्स्वार्था लक्षणा हीं उचित है । एवञ्च 'समस्त ···· मेरे लिए' इस अर्था-
न्तर में संक्रमित हो गया है वाच्यार्थ जिसका उस अस्मच्छब्द में वर्त्तमान व्यञ्जना
(ध्वनि)-अर्थान्तरसंक्रमितवाच्यध्वनि से प्रतीयमान कर्णनिष्ठ गर्व और भगवान् सूर्य
का पुत्र होना--व्यभिचारिभाव कहे गये हैं । प्रतिपाद्य अर्थों के अनुरूप प्रारब्ध
प्रथमाननम् १४५
निरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका । उत्तरार्धे तु
मौलितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता । ततः परं ब्राह्मणे सवि-
नयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वरहित्यं ध्वनयितुं पुनः शिथिलैव । अत
एवावेदयामीत्युक्तम्, न तु ददामि वितरामीति वा ।
इदं तु नोदाहरणीयम्—
यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथा-
माकर्ण्यावनिमण्डलागतवियद्वन्दीन्द्रवृन्दाननात् ।
ईर्ष्यानिर्भरफुल्लररोमनिकरव्यावल्गदूधःस्रवत्-
पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते ॥
विभावनीयं विज्ञैः । न तु ददामीत्यादि । ददामीत्यादौ शब्दशक्तिस्वाभाव्याद-
हङ्कारः कर्तुः प्रतीयते, आवेदयामीत्यत्र तु न तथेति भावः ।
प्रत्युदाहरणमाह—इदं त्वित्यादिना ।
यस्योद्दामेत्यादि । दानशोण्डस्य कस्यचिन्नृपस्य स्तुतिरियम् । यस्य
नृपस्य अर्थिषु याचकेषु दिवानिशं विलसत उद्दाम्नोऽप्रतिहतस्य दानप्रवाहस्य
प्रथां प्रसिद्धिम् अवनिमण्डलाद् भूमण्डलादागतानां वियद्वन्दीन्द्राणामुत्तमस्वर्गिय-
स्तुतिपाठकानां चारणानामाननादाकर्ण्य सुरेन्द्रसुरभिरिन्द्रस्वामिका कामधेनुः ईर्ष्या
और परिसमाप्त भिन्न-भिन्न वृत्तियां भी सहृदयों को अत्यन्त आकृष्ट करने वाली
हैं। जैसे—पद्य के पूर्वार्द्ध में कवच और कुण्डलों की तुच्छता का प्रतिपादन,
जिससे कर्ण का दानोत्साह परिपुष्ट होता है, करने के लिए (तुच्छता-प्रतिपादन के)
अनुकूल शिथिला वृत्ति (कोमलपद योजना) है; उत्तरार्द्ध में 'मौलिम्' पद के पहले
(अकरुणम्····················घारम् ) वक्ता कर्ण के गर्व और दानोत्साह का उत्कृष्ट
अभिव्यञ्जन कराने हेतु उद्धता वृत्ति है। तत्पश्चात् 'मौलिमावेदयामि' इस अन्त्य
भाग में याचक ब्राह्मण के प्रति अपनी विनम्रता के प्रकाशन के मूलभूत गर्वशून्यता
की व्यञ्जना के लिए तदनुकूल शिथिला वृत्ति ही है। यही कारण है कि
'ददामि' अथवा 'वितरामि' इत्यादि गर्वप्रकाशक क्रियापद का नहीं अपि तु
'आवेदयामि' इस गर्वशून्यता-सूचक अथवा नम्रता-सूचक क्रियापद का ही प्रयोग
किया गया है ॥
निम्ननिर्दिष्ट पद्य को तो दानवीरध्वनि का उदाहरण नहीं देना चाहिए—
“ये महाराज इतने उदार हैं कि इनके द्वारा दिन-रात याचकों को दिये ज ने
वाले अधिकाधिक दानप्रवाह को भूमण्डल से लौटकर आये स्वर्गीय श्रेष्ठ बन्दियों
के मुख से सुनकर स्वर्गस्थ कामधेनु को भी इनसे ईर्ष्या हो गई है जिससे इसका
सारा शरीर रोमाञ्चित हो उठा है। इसी रोमाञ्च के कारण इसके दुग्धपूर्ण स्तनों
१४६ रसगङ्गाधरः
अत्रे न्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतवियद्-
बन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्तुतपीयूषप्रकरैरनु-
भावितः, असूयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो
राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः ।
अत एवैदमपि नोदाहरणम्—
साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां
सर्वां द्यामपि सस्मितेन हरिणा मन्दं समालोकितः ।
परगुणासहिष्णुतया निर्भरमतिमात्रं फुल्लोऽत्थितो रोम्णां यो निकरस्तस्माद्
व्यावल्गद्ऋत्फुल्लसंकुचिताग्रभागं यदूधः स्तनस्तस्मात् स्रवद्भिः पीयूषाणां प्रकरैः प्रवाहैः
सुरेन्द्रसुरभिः कामधेनुः प्रावृषः पयोद इवाचरति निरन्तरं प्रवहतीत्यर्थः ।
अत्र विभावादिभिः परिपोषितोऽप्युत्साहो राजस्तुतिगुणीभूतत्वान्न रसपदभागि-
त्युपपादयति—अत्रेत्यादिना । एवंविधे स्थल एव रसवदलङ्कारत्वं प्राचामिष्टम् ।
असूयेति। गुणेषु दोषत्वबुद्धिरसूयाऽक्षमारूपा चेर्ष्येति सा भिन्नेवासूयाजन्येति बोध्यम् ।
एतच्च मर्मप्रकाशानुसारेण । वस्तुत एतादृशेर्ष्याऽसूययोर्जन्यजनकभावे विपर्यासो
मर्मप्रकाशकृतः । पण्डितराजेन वक्ष्यमाणाया असूयायास्तु मर्मप्रकाशोक्तेर्ष्याया भेदो न
स्पष्टः । एवञ्चात्रादृष्टकारणभेदकृतो भेदो द्रष्टव्य ईर्ष्यासूययोः । यद्वान्योत्कर्ष-
दर्शनादिजन्यः स्वापकर्षबुद्धिविशेषः तादृशबुद्धिजन्य आक्रोशो वेर्ष्येति मन्तव्यम् ।
अमर्ष एव वा सा ।
साब्धिद्वीपेत्यादि । पदत्रयपरिमितां भूमि वामनाय प्रतिश्रुतवतो दैत्यराजस्य
में जो गुदगुदी लग गई है उसके कारण यह ( कामधेनु ) वर्षाकालिक बादल के
समान दूध की धारा बहा रही है ॥”
यहां इन्द्र की सभा में स्थित सभी सज्जन (देववृन्द) जिनके लिए कामधेनु दूध
की धारा बहा रही है, कामधेनुगत दुग्धदानोत्साह के आलम्बन हैं। भूमण्डल से
लौटकर आये स्वर्गीय प्रतिष्ठित बन्दी-गण के मुख से राजा के अधिकाधिक दान-
प्रवाह का श्रवण उद्दीपन विभाव है। स्तनों से बहने वाली दूध की धारा
अनुभाव है और असूया आदि सञ्चारिभाव हैं । इस प्रकार विभावादि से कामधेनु-
गत उत्साह का अभिव्यञ्जन तो यहाँ होता हीं है किन्तु इसे रसध्वनि नहीं कहा
जा सकता, क्योंकि इस पद्य में राजा की स्तुति के हीं प्रधान रूप में वक्ता
का तात्पर्य्य-विषय होने से उक्त उत्साह प्रधान नहीं है अपि तु वह राज-स्तुति का
अङ्ग है ॥
इसी अङ्गत्व के कारण निम्ननिर्दिश्यमान पद्य में भी बलि का प्रतीयमान
दानोत्साह दानवीरध्वनि का उदाहरण नहीं हो सकता—
प्रथमाननम् १४७
प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं
व्यानम्रीकृतकन्धरोऽसुरवरो मौलिं पुरो न्यस्तवान् ॥
इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः रोमाञ्चा-
दिभिरनुभावितः, हर्षादिभिः पोषित उत्साहो व्यज्यमानोऽपि गुणः ।
बलेर्दानोत्साहव्याजमुखेन स्तुतिरियम् । सस्मितेनेषद्धसता हरिणा वामनेन एकेन
पादेन अब्धिभिः सागरैः द्वीपैरष्टभिश्च कुलपर्वतैः सहितां सप्तान्तरा मन्तर्वर्त्तिसप्त-
प्रकारघटितां वसुमतीम् पृथिवीम्, द्वितीयेन च पादेन सर्वां द्याम् ऊर्ध्वलोकमाक्रम्य
मन्दं समालोकितोऽसुरवरो बलिः भगवत्कृपाकटाक्षपातेन प्रादुर्भूतोऽभिव्यक्तो यः
परमः प्रमोदस्तेन निमित्तेन विदलन् परिस्फुटन् यो रोमाञ्चः स सञ्जातो यस्य तथा
भूतोऽथ च तत्क्षणम् समालोकनकाल एव व्यानम्रीकृतः कन्धरो येन स मौलिं स्वशिरो
वामनस्य पुरस्तृतीयपादविन्यासाय न्यस्तवान् इति पद्यार्थः । यद्वाऽत्र पद्ये सप्तान्तरा-
मिति द्वामित्यस्यैव विशेषणम्, भुव आदीनां षण्णामूर्ध्वलोकानाम् आद्यन्तौ समादाय
सप्तावकाशसम्भवात् । व्यानम्रीकृत्येत्यत्राभूततद्भावार्थकेन च्विप्रत्ययेनेतः पूर्वं
कन्धरस्य व्यानम्रत्वाभावः प्रतिपाद्यते । एतेन स्तुतिप्रकर्षः सूच्यते ॥
अत्र दानोत्साहस्य विभावादिभिर्व्यङ्ग्यत्वेपि प्रकृतबलिस्तुतिं प्रति गुणीभूत-
त्वात्तस्य न रसध्वनित्वमित्युपपादयति—इहेत्यादिना । हर्षादिभिरिति । अत्र
प्रमोदस्य वाच्यत्वेन व्यभिचारित्वाभावाद्व्यभिचारित्वेन निर्दिष्टो हर्षः प्रमोदाद्भिन्न
एवेति स्थितौ 'इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः' इति भावध्वनिप्रकरणे वक्ष्यमाण-
त्वेन विषयजन्यं सुखं हर्ष इति, यच्च विषयाभिव्यक्तं तत् प्रमोद इति भेदोऽनयोर्ज्ञेयः ।
तथा च हर्षस्य चित्तवृत्तिविशेषरूपता, प्रमोदस्य च तल्लिङ्गस्यात्मरूपता सूचिता
भवति । अत एव प्रमोदस्य पर इति विशेषणमप्युपात्तम् । तथा च न हर्षस्य व्यभि-
“जब भगवान् वामन ने एक विक्रम (पग) से सात समुद्रों, सात द्वीपों और सात
(अथवा आठ) कुलपर्वतों से युक्त सम्पूर्ण पृथिवी का और दूसरे विक्रम से सात
परकोटे वाले स्वर्गलोक का आक्रमण कर तीसरे विक्रम के लिए स्थान पाने की
दृष्टि से मुस्कुराकर बलि की ओर तिरछी नजर से देखा तब बलि को जो
परमानन्द की अनुभूति हुई उससे उसका सारा शरीर रोमाञ्चित हो उठा और
उसने तत्काल अपनी गर्दन झुकाकर भगवान् के सामने उनके तीसरे विक्रम के लिए
अपना शिर समर्पित कर दिया ॥"
इस कथन में बलि के दानोत्साह का आलम्बन विभाव भगवान् वामन हैं,
उनका बलि पर तीसरे विक्रम के स्थान के लिए कटाक्षपात उद्दीपन विभाव है,
रोमाञ्च आदि अनुभाव हैं और रोमाञ्चादि से व्यङ्ग्यमान हर्ष (आनन्दाकारा चित्त-
१२ र०
१४८ रसगङ्गाधरः
प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन
'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलाञ्छनोक्त-
मुदाहरणं परास्तम्, तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणी-
यत्वात् ।
चारिणोऽभिव्यङ्ग्यत्वहानिः । अत एव च तृतीयचरणस्यादौ 'आविर्भूतपरो' इति
पाठः श्रेयान् इति मन्यामहे । प्रागन्येत्यादि । यदा पूर्वोक्ते यस्योद्दामेत्यादिपद्ये
राजभिन्नकामगवगीगतस्योत्साहस्यापि कविकृताया राजस्तुतेरुत्कर्षधायकत्वात्
स्तुत्यङ्गत्वं तदात्र सुतरामसुरराजबलिगतस्य दानोत्साहस्य कविकृतबलि-
स्तुत्युत्कर्षधायकत्वेन स्तुत्यङ्गत्वमिति न तस्य ध्वनित्वमित्यर्थः । एतेन = अन्याङ्ग-
भूतस्य रसस्य ध्वनिव्यपदेश्यत्वाभावेन । त्यागः सप्तेत्यादि । इदं च वीरचरिते
शिवधनुर्भङ्गेन कुपितस्य परशुरामस्य शमनाय रामकृता तत्स्तुतिः । वत्सलाञ्छनः
काव्यप्रकाशादिटीकाकृत् । विश्वनाथेनापीदमेव दानवीरोदाहरणमुक्तम् । पूर्णं च
पद्यमेवं पठ्यते तत्र—
उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः
शौर्यं यत्तु न तद् गिरां पथि ननु व्यक्तं हि तत्कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
ब्रह्मक्षत्रतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥
इति । अत्र चतुर्थपादेन स्पष्टमेव वक्तू रामभद्रस्य परशुरामस्तुतौ तात्पर्याव-
धारणात् प्रतीयमानोऽपि परशुरामगतो दानोत्साहस्तदीयस्तुतौ गुणीभूतत्वान्न ध्वनि-
व्यपदेशार्ह इति सन्दर्भार्थः ।
वृत्ति) आदि व्यभिचारिभाव हैं। इस प्रकार यहां बलिनिष्ठ दानोत्साह व्यज्यमान अवश्य
है, किन्तु यह प्रधान रूप में विवक्षित नहीं है । परन्तु जब पूर्वनिर्दिष्ट 'यस्योद्दाम....'
इत्यादि पद्य में कामधेनु का व्यज्यमान उत्साह प्राधान्येन विवक्षित राज-स्तुति का
अङ्ग है तब यहां तो बलि का दानोत्साह प्रधान रूप में वक्तृ तात्पर्यविषयीभूत
बलि की स्तुति का अङ्ग है हीं । अतः इसे दानवीररस का उदाहरण देना उचित
नहीं ।
इस प्रकार गुणीभूत उत्साह का रसध्वनिपदव्यपदेश्य न होना जब प्रमाणित हो
चुका तब काव्यप्रकाश आदि ग्रन्थों के टीकाकार 'वत्सलाञ्छन' द्वारा जो महावीर-
चरित के द्वितीय अङ्क से दानवीररसध्वनि का उदाहरण दिया गया है वह असङ्गत
सिद्ध हो जाता । उदाहृत पद्य का अर्थ निम्ननिर्दिष्ट है—
(हे भगवन् ? आप ब्राह्मणोचित एवं क्षत्रियोचित दोनों प्रकार के तप के निधान
प्रथमाननम् १४९
ननु 'अकरुणमवकृत्य -' इत्यत्रापि प्रतीयमानस्य दानवीरस्य
कर्णस्तुत्यङ्गत्वत्कथं ध्वनित्वमिति चेत् ? सत्यम् । अत्र कवेः कर्णवचनानु-
वादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वे-
नात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव । परं तु वीररसप्रत्ययान-
न्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे साऽनुमीयते । राजवर्णनपद्ये तु
राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः ।
उदाहरणप्रत्युदाहरणयोर्व्यतिरेकाभावं शङ्कते - नन्विति । अकरुणमवकृत्ये-
त्यादिवचनस्य मूलवक्ता कर्ण एवेति तस्य स्तुतितात्पर्यकत्वे स्वकर्तृकस्तुत्यापत्तेर्महा-
पुरुषत्वहानिः कर्णस्य प्रसज्यते । प्रत्युदाहरणेषु पुनः कवेरेव मूलवक्तृत्वान्न तथेति
तेषां स्तुतितात्पर्यकत्वे न किमप्यनिष्टं प्रसज्यत इति भवत्युभयोर्व्यतिरेक इत्याशयः ।
स्वाधिकरणे = उत्साहाधिकरणे कर्णे । अनुमीयत इति । तथा च स्तुतेरवाक्यार्थत्वान्न
तस्या दानोत्साहं प्रत्यङ्गत्वमिति भावः ।
हैं—आपका कौन-सा गुण लोकोत्तर नहीं ? आपका जन्म महर्षि जमदग्नि से हुआ
है, भगवान् पिनाकपाणि शिव आपके गुरु हैं, आपके पराक्रम की शब्दों में
अभिव्यक्ति नहीं की जा सकती—वह तो आपके वीर-कर्मों से ही अनुमेय है, ) आप
का त्याग भी ऐसा है जिसकी पराकाष्ठा है सात समुद्रों से परिवेष्टित सम्पूर्ण
पृथिवी का निष्छल दान ॥
शिवधनुर्भङ्ग के बाद स्वयम्बरभूमि में उपस्थित अत्यन्त कुपित परशुराम के
प्रति रामचन्द्र की यह उक्ति है । यहाँ ( तृतीय पाद में ) यद्यपि वाच्य-आक्षेप्य
विभावादि से परशुराम का दानोत्साह अभिव्यज्यमान है तथापि वह वक्तृतात्पर्य-
विषयीभूत परशुराम की स्तुति का अङ्ग है । अतः इसे रसध्वनि का उदाहरण देना
अनुचित है ।
अब प्रश्न यह है—'अकरुणमवकृत्य…………' इत्यादि पद्य में भी जब कर्ण
की स्तुति प्रतीयमान है तो फिर कर्ण के दानोत्साह को उसका अङ्ग होना चाहिए;
ऐसी स्थिति में वह रसध्वनि का उदाहरण कैसे माना जा सकता ? इसका यह
उत्तर है—यहाँ स्तुति की दो सम्भावनाएँ हैं—एक कवि द्वारा वह स्तुति की गई हो
और दूसरी यह कि कर्ण स्वयं अपनी स्तुति कर रहा हो । इनमें पहला विकल्प
मान्य नहीं हो सकता, क्योंकि कवि का तात्पर्य-विषय कर्ण के वचन का अनुवाद-
मात्र है, कर्ण की स्तुति नहीं । दूसरा विकल्प भी असंगत हैं, क्योंकि कर्ण जैसे
महापुरुष का आत्मश्लाघा में कभी तात्पर्य हो नहीं सकता । अतात्पर्यविषयीभूत
पदार्थ कदापि वाक्यार्थ का अङ्ग नही होता । अतः अवाक्यार्थ कर्ण-स्तुति को व्यङ्ग्य
मानना असम्भव है । हाँ, वीररस की प्रतीति के पश्चात् वही रसकाष्ठापन्न प्रकृष्ट
१५० रसगङ्गाधरः
द्वितीयो यथा —
न कपोत भवन्तमण्वपि स्पृशतु श्येनसमुद्भवं भयम् ।
इदमद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम् ॥
अथवैवं विन्यासः—
न कपोतकपोतकं तव स्पृशतु श्येन मनागपि स्पृहा ।
इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ।'
दानवीरमुदाहरति — द्वितीयेत्यादिना ।
न कपोतेत्यादि । शिविपरीक्षार्थं कपोतवेषधारिणं धर्मं श्येनवेषधारीन्द्र
आचक्राम । तस्माच्च श्येनाद्विभ्यत् कपोतः शिविशरणमात्मरक्षार्थमाजगाम । तं च
कपोतं प्रति शिवेरियमूक्तिः । हे कपोत ? भवन्तं श्येनसमुद्भवमण्वपि भयं न
स्पृशतु, यतोऽद्येदं भवदायुःकुशलं क्षेमकरं कलेवरं मया तृणीकृतम् तृणवदुत्सृष्टं श्येनाय
क्षुन्निवृत्त्यै । तथा चैतेन मदीयेन शरीरेण पूर्णोदरः श्येनो भवन्तं नेच्छेदिति
पदार्थः ।
अत्र पद्ये श्येनस्य सम्बोध्यत्वाभावात् कपोतमात्रमुद्दिश्य प्रवृत्तः श्येनोऽनवहित-
शिविवचनः सहसैव कपोतं निपतेदिति तस्य भयशङ्कायां सत्यां पूर्वार्द्धमसङ्गतं
स्यादिति हेतोः श्येनाभिमुखीकारकं विन्यासान्तरमाह — अथवेत्यादिना ।
न कपोतकपोतकमिति । कपोतकपोतकयोरुभयत्र 'अल्पे' कन् प्रत्ययः । एतेन
उत्साह कर्ण की आत्म-स्तुति अथवा कविकृत कर्ण-स्तुति का अनुमापक हो
सकता है । इसके विपरीत 'यस्योद्दाम..........' इत्यादि पद्यद्वय में राजा और
बलि की स्तुतियों के वक्तृतातपर्यविषय होने से उनमें स्तुतियों की वाक्यार्थता
स्पष्ट है । अतः यहां तो वाक्यार्थभूत दानोत्साह एवं स्तुतियों में गुणप्रधानभाव का
स्वीकार उचित हीं है ॥
अब दयावीर का उदाहरण प्रस्तुत है—
“अरे कपोत ? इस बाज का भय तुझे जरा भी नहीं होना चाहिए, क्योंकि तेरे
जीवन की रक्षा के लिए मेरा यह शरीर तेरे बदले उस बाज को समर्पित है ।”
इस पद्य में कपोत सम्बोध्य है । किन्तु उसे उक्त आश्वासन देने पर भी उस
आश्वासन को न जानने वाला बाज कदाचित् सहसा हीं उसके ऊपर आक्रमण कर
सकता है । अतः बाज का ही सम्बोधन कर ऐसी रचना करनी चाहिए —
“अरे बाज ! इस क्षुद्र कपोत के बच्चे की तुझे जरा भी स्पृहा नहीं करनी
चाहिए । देख—उसके बदले मेरा यह शरीर, जो उससे स्वाद ओर मात्रा दोनों में
उत्कृष्ट है, तुझे समर्पित है ।”
प्रथमाननम् १५१
एषा शिवेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् ।
तद्गतं व्याकुलीभवनमुद्दीपनम् । तस्य कृते स्वकलेवरार्पणमनुभावः । न
चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम्, श्येनकपोतयो-
र्भक्ष्यभक्षकभावापन्नतवेन शिविशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः । श्येन-
क्षुदस्य कपोतस्य यः क्षुद्रः पोतोऽर्भकः तस्मै स्पृहा कस्यापि न घटते यदि तत्स्थाने
ततोऽधिकं चारु शरीरं प्रत्यर्प्यते केनचिदिति मनाक्स्पृहाऽभावे श्येनगतत्वेनाभिमते
हेतुरुक्तः । पद्यार्थः स्पष्टः ।
कपोतं श्येनं प्रतीति । यथाक्रमं पूर्वमुत्तरं च पद्यमित्यर्थः । कपोत
आलम्बनमिति । पूर्वपद्ये कपोतः साक्षादेवाशम्बनम्, द्वितीयेऽपि कपोतकपोतकस्य
कपोतत्वात्स आलम्बनमित्युक्तम् ।
शरीरदानमित्यतः पूर्वं शिविकर्तृकं श्येनोद्देश्यकमिति योजनीयम् । आपन्नतवे-
नेति । कपोतशरीरस्य दानप्रतीतौ सत्यामपीति शेषः । अर्थिन इति । शिविशरीर-
विषयकार्थित्वसहितस्य श्येनस्याभावादित्यर्थः । अत्र विशेषणाभावप्रयुक्तो
विशिष्टाभावः । तदप्रतिपत्तेः = शिविशरीरकर्मकदानाप्रतीतेः । यमुद्दिश्य
ये दोनों पद्य राजा शिवि की क्रमशः कपोत और बाज के प्रति उक्तियाँ हैं ।
दोनों में हीं शिविनिष्ठ दया का आलम्बन कपोत है । उस कपोत की व्याकुलता
उद्दीपन विभाव है और उसके बदले शिवि द्वारा अपने शरीर का समर्पण अनुभाव है ।
धृति आदि संचारिभाव भी व्यङ्ग्य हैं हीं । अतः यहाँ दयावीर रस है । यद्यपि यहाँ
शिवि द्वारा किए जाने वाले अपने शरीर के दान से शिवि के दानोत्साह की प्रतीति
होती-सी दिखाई पड़ती तथापि इसे दानवीर का उदाहरण नहीं माना जा सकता, क्योंकि
यहाँ शरीर का समर्पण दान है हीं नहीं । दान तो तब सम्भव है जब कोई सम्प्रदान
(= लेने वाला) हो । यहाँ श्येन कपोत-शरीर का अभिलाषी है, शिवि के शरीर का
नहीं । सम्प्रदान वह होता जो देय वस्तु लेना चाहता हो या कुछ देने के लिए दाता
को प्रेरित करता हो । शिवि को श्येन शरीर-दान के लिए न तो प्रेरित करता और न
वह अब तक शिवि का शरीर लेने के लिए अपनी इच्छा हीं व्यक्त कर पाया है। अतः
शिवि के शरीर के समर्पण की दृष्टि से श्येन (बाज) सम्प्रदान हीं नहीं, फिर उसको
दान कैसे किया जा सकता । यदि शिवि को उनके शरीर के समर्पण की प्रेरणा न
देने पर और उस शरीर को खाने के लिए प्राप्त करने की इच्छा से रहित
होने पर भी श्येन को अर्घ्यादिदान में सूर्य आदि की तरह सम्प्रदान मान भी लिया
जाय तो भी यह समर्पण दान नहीं कहला सकता, क्योंकि किसी वस्तु के बदले में
कुछ देना विनिमय है, दान नहीं । दान तो वस्तुतः वह है जो विना कुछ लिए हीं
१५२ रसगङ्गाधरः
शरीरानिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् ।
तृतीयो यथा—
रणे दीनान्देवान् दशवदन विद्राव्य वहसि
प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः ।
ललाटोद्यज्जवालाकवलितजगज्जालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु ॥
किञ्चिद्दीयते स सम्प्रदानम्, तदभावे दानं न सम्पद्यते । अत एव च सम्प्रदानस्यापि
कारकत्वं निर्वहति । तथा च श्येनस्य प्रेरकरूपार्थित्वाभावात्सम्प्रदानत्वाभावे
तदुद्देश्यकदानानुपपत्ते रित्याशयः । अतश्च द्वितीये पद्ये 'भवते' इति न सम्प्रदाने
चतुर्थी, अपि तु 'क्रियार्थोपपदस्य० इत्येव, भवन्तमनुकूलयितुमिति चार्थः । ननु
'स्वशरीरं मह्यं दीयताम्' इत्येवं शिवेरयाचमानस्य श्येनस्य प्रेरकरूपार्थित्वाभावेऽपि
सम्प्रदानत्वं न विघटते, प्रवृत्तिनिवृत्त्यनुकूलव्यापारशून्यस्यापि सूर्यादेरर्घ्यादिकं प्रति
सम्प्रदानत्वस्य 'अनिराकरणात् कर्तुस्त्यागाङ्गं कर्मणेप्सितम्' इत्यादिवैयाकरण-
सम्प्रदायसिद्धत्वादित्यत आह—श्येनशरीरनिवेदनस्येत्यादि । कपोतशरीरत्राणे-
त्यनेन त्रातव्यकपोतशरीरकर्मकश्येनकर्तृकत्यागोऽभिप्रेतः स्वोपकाररूपः । उपकार-
श्चात्र लौकिकोऽभिप्रेतः । तथा च श्येनस्योपकारित्वप्रतीत्या तदुद्देश्यकं समर्पणं न
तात्त्विकं दानमिति सूच्यते ।
युद्धवीरमुदाहरति—तृतीय इत्यादिना । रण इत्यादि । हे दशवदन ? दीनान्
कातरान् देवान् रणे विद्राव्य पराजित्य प्रभावप्रागल्भ्यं शौर्यधृष्टतां वहसि त्वयि
वराके दीनदेवविद्रावणे रावणे मम शौर्यप्रकर्षवतो रामस्यायं परिकरो युद्धोद्यमः
कः ? न कोऽपि, क्षुद्रस्त्वं न मम प्रतिभट इति मम कोदण्डाद्धनुषश्च्युतस्य
विशिखस्य वेगं ललाटादुद्यन्त्या ज्वालया कवलितो भस्मसात्कृतो जगज्जालस्य
ब्रह्माण्डमण्डलस्य विभवो येन स भवो महेश्वरः कलयतु जानातु—इति पद्यार्थः ।
किया जाता । इस प्रकार कपोत के शरीर के बदले शिवि द्वारा अपने शरीर का
समर्पण जब दान हीं नहीं तो शिवि में दानोत्साह की प्रतीति कहाँ. हो सकती ?
अतः इस पद्य में दानवीरध्वनि नहीं मानी जा सकती ॥
अब युद्धवीर का उदाहरण दिया जा रहा है—
"अरे रावण ? युद्ध में दीन-हीन देवताओं को जीतकर तूं अपने पराक्रम की
महिमा बखान रहा है, फिर तेरे जैसे कायर के साथ लड़ने की मेरी तैयारी कैसी !
मेरे धनुष से छूटे बाणों के वेग का आकलन तो एक मात्र जगज्जनक भगवान् भव
(हर = शङ्कर) कर सकते जिन्होंने अपने ललाट से निकलने वाली प्रचण्ड ज्वाला से
इस भवजाल के वैभव को भस्मसात् कर दिया है ॥"
प्रथमाननम् १५३
एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् ।
रणदर्शनमुद्दीपनम् । दशवदनावज्ञाऽनुभावः । गर्वः संचारी । वृत्तिरत्र देवानां
प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव ।
दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि तस्यावज्ञया
रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती ।
भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौ-
जस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता ।
अत्र देवानां दीनत्वविशेषणं तद्विद्रावणे रावणे क्षुद्रत्वं प्रतिपादयद्रामकर्तृकां
तदवज्ञां द्योतयति । अस्मदर्थस्य च प्रसङ्गादेव प्रतीतेरन्यथा तत्प्रयोगादपि तत्प्रती-
त्यभावादुभयत्रास्मच्छब्दोऽर्थान्तरसंक्रमितवाच्यध्वनिना शौर्यप्रकर्षविशिष्टं रामं
प्रतिपादयति, तेन च गर्वो व्यज्यते । पद्येऽत्र भव - शब्दप्रयोगौचित्यं चिन्त्यम् ।
अत्र देवरावणोभयालम्बनकस्य युद्धवीरस्य यथा प्रतीत्यभावस्तदुपपादयति—
वृत्तिरत्रेत्यादिना । प्रस्तावे = वर्णने । प्रकर्षवतीति । प्रकर्षश्चात्र वृत्ते
युद्धभूमि में रावण के प्रति भगवान् राम की यह उक्ति है । इसमें भगवान्
शङ्कर आलम्बन हैं । युद्धदर्शन उद्दीपन विभाव है । दशमुख रावण का तिरस्कार
अनुभाव है । व्यज्यमान रामनिष्ठ गर्व व्यभिचारिभाव है । यहाँ वृत्तियाँ
( वर्णरचना ) भी अर्थानुरूप शिथिल अथवा उद्धत ( प्रौढ़ ) हैं । जैसे—देवताओं
के प्रसङ्ग में ( रणे दीनान् देवान् ) देवों की कायरता के प्रतिपादन में अनुकूल
शिथिला ( कोमला ) वृत्ति है जिससे यह स्पष्ट हो जाता कि कायर देवता
वीररस के आलम्बन नहीं हैं । दशमुख के वर्णन (विद्राव्य············प्रागल्भ्यम्)
में उद्धता वृत्ति अवश्य है जिससे देवता के दर्प को चूर-चूर करने वाले रावण की
वीरता प्रकट होती; किन्तु 'त्वयि तु······' इत्यादि कथन से रावण की उपेक्षा प्रकट
हो जाने से रावण भी रामनिष्ठ युद्धोत्साह का आलम्बन नहीं हो सकता । अतः
रावणालम्बनक वीररस की भी प्रतीति नहीं होती । अत एव इस अंश में वृत्ति
उद्धता तो है परन्तु प्रकृष्टोद्धता नहीं है । यह विवक्षितार्थ के अनुरूप ही है ।
रामनिष्ठ उत्साह के भगवान् भव हीं परम उपयुक्त आलम्बन हैं । अतः उस प्रसङ्ग
में 'ललाटोद्यज्ज्याला·········' आदि में शङ्करालम्बनक वीररस की प्रतीति होने से
प्रकृष्टोद्धता वृत्ति है¹ । 'भव' के स्थान में 'हर' शब्द का प्रयोग उचित है ।
१. यद्यपि वृत्तियों में रसव्यञ्जकता साक्षात् नहीं होती तथापि तत्तद्रसोपयोगी
गुणों के अभिव्यञ्जक होने से वृत्तियों को भी रसाभिव्यञ्जन में सहकारी
माना जाता है ।
१५४ रसगङ्गाधरः
चतुर्थो यथा--
सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ॥
एषाऽधर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः । अत्र
धर्मविषय आलम्बम् । 'न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवित-
स्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम् । शिरश्छेदाद्यङ्गीकारो-
ऽनुभावः । धृतिः संचारिणी ।
इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात् । वस्तुतस्तु
बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते । तथा हि—
प्राचीन एव 'सपदि विलयमेतु' इत्यादिपद्ये 'मम तु मतिर्न मनागपैति
रसप्रत्ययोपकारकत्वमेवेत्येतेन प्रकटम् ।
धर्मवीरमुदाहरति — चतुर्थ इत्यादिना । सपदीत्यादि पद्यार्थः स्फुटः ।
धर्मविषयः शत्रुः, यमुद्दिश्य धर्माचरणं प्रतिज्ञातम् । 'धर्मस्य विषयः सम्बन्ध्य-
नुष्ठानम्, धर्म एव वाऽनुष्ठानोद्देश्यतया विषयः' इति त्वपव्याख्यानम् । प्राचीने =
पूर्वोदाहृते । तदन्तर्गततया = धर्मान्तर्गततया । अत्रार्थे मन्वादिवचनं प्रमाणम् ।
तासां वाचामधिदेवता सरस्वतीत्यर्थः ।
अब 'धर्मवीर' का उदाहरण प्रस्तुत है—
“चाहे मेरी राज्यलक्ष्मी तत्काल हीं विनष्ट हो जाये या मेरे ऊपर तलवारों की
मार पड़े या मेरा शिर (प्राण) यमराज हर ले पर मैं धर्मपथ से जरा भी नहीं
हँट सकता ॥”
'अधर्मपथ पर चल कर भी शत्रु को जीतना चाहिए'—ऐसा कहने वाले व्यक्ति
के प्रति युधिष्ठिर की यह उक्ति है । यहाँ वह शत्रु आलम्बन है जिसके साथ
युधिष्ठिर ने धर्मपथावलम्बन की प्रतिज्ञा की है । 'काम की पूर्ति, भय या लोभ
से, यहाँ तक कि अपने प्राण बचाने के लिए भी धर्म का परित्याग नहीं करना
चाहिए' इत्यादि महाभारतादिप्रोक्त अनुशासनों का स्मरण उद्दीपन विभाव है ।
धर्मानुष्ठान के लिए अपने शिरश्छेदन आदि का स्वीकार अनुभाव है । धृति
सञ्चारिभाव है । अतः इन विभावादि से यहाँ धर्मवीर की व्यञ्जना होती है ॥
इस प्रकार वीर रस के उक्त चार भेदों का निरूपण प्राचीनमतानुसार किया
गया है । किन्तु वास्तविकता यह है कि जैसे शृङ्गार के अनेकानेक भेद हो सकते
उसी तरह वीर रस के भी बहुत भेद सम्भव हैं; केवल पूर्वोक्त चार हीं भेद नहीं ।
उदाहरणार्थ, 'सपदि विलयमेतु .........' इत्यादि पद्य का चतुर्थ पाद यदि 'मम तु
प्रथमाननम् १५५
सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि
संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्या-
प्यन्तर्भाव इति वाच्यम्, दानदययोरपि तदन्तर्गततया तद्वीरयोरपि
धर्मवीरात्पृथग्गणनानौचित्यात् ।
एवं पाण्डित्यवीरोऽपि प्रतीयते ।
यथा—
अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा ।
अयमस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः ॥
अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिर-
स्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते । ननु
चात्र युद्धवीरत्वम्, युद्धत्वस्य वादसाधारणस्य वाच्यत्वाद्, इति चेत् ?
क्षमावीरे किं ब्रूयाः ?
वादसाधारणस्येति । प्रत्यवस्थानं युद्धम् । तच्च वादेऽपि वादिप्रतिवादि-
कथात्मके तुल्यमित्याशयः ।
क्षमेति । प्रतीकारेच्छायां जातायामपि विवेकात् प्रतीकाराकरणं क्षमा
मतिनं मनागपैति सत्यात्' इस रूप में परिवर्तित कर दिया जाय तो यही पद्य
सत्यवीर रस का उदाहरण बन सकता है। धर्माङ्गभूत सत्य के धर्मान्तर्गत होने से
सत्यवीर का धर्मवीर में अन्तर्भाव हो जाने के कारण धर्मवीर से अतिरिक्त सत्यवीर
मानने की कोई आवश्यकता नहीं—यह कहना भी अयुक्त है, क्योंकि तब तो दान
और दया के भी धर्मान्तर्गत होने से दानवीर तथा दयावीर को भी एक-एक भेद
मानना अनुचित हो जाएगा। अतः दानवीर आदि यदि धर्मवीर से भिन्न माने जायँ
तो सत्यवीर को भी उससे भिन्न हीं मानना चाहिए।
इसी प्रकार पाण्डित्यवीर की भी निम्ननिर्दिष्ट पद्य में प्रतीति होती । जैसे—
“लौकिक विद्वानों की तो कोई बात हीं नहीं, यदि बृहस्पति या साक्षात्
वाग्देवता सरस्वती भी मेरे विपरीत पक्ष का आलम्बन करें तो भी मेरे लिए अपने
पक्ष के समर्थन में कोई अन्तर नहीं पड़ने वाला है, क्योंकि भगवान् हयग्रीव के
स्मरण के प्रभाव से मैं सम्पूर्ण वाङ्मय-रूपी समुद्र को पार कर चुका हूँ।।”
यहाँ बृहस्पति आदि आलम्बन विभाव हैं। पण्डितों के वादार्थ आयोजित सभा
तथा उसमें किये गये काकु आदि उद्दीपन विभाव हैं। सभी विद्वानों का तिरस्कार
अनुभाव है और व्यज्यमान गर्व व्यभिचारिभाव है। इन सब से परिपुष्ट वक्ता का
पाण्डित्योत्साह पाण्डित्यवीर की अवस्था को प्राप्त है। घात-प्रतिघातस्वरूप युद्ध में
वाचिक-घात-प्रतिघातात्मक वाद (कथा) के भी समाविष्ट होने से यह
Here is the line-by-line transcription of the text from the image in pure Devanagari script:
१५६ रसगङ्गाधरः
यथा-
अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वाऽसिधारामहमणुमात्र न किंचिदाभाषे ॥
क्षमावत उक्तिरियम् । बलवीरे वा किं समादध्याः ?
यथा-
परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय ।
अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदक्लमं वहामि ॥
पुरुहूतं प्रत्येषा गरुत्मत उक्तिः ।
बहलदहनजालम् = प्रचुरमग्निपुञ्जम् । धमतु = प्रज्वालयतु वायुसंयोगेन ।
फणिप्रवीरः = शेषनागः । अयताम् = प्राप्नोतु । जगदक्लममित्यत्र जगदण्डक-
मिति पाठो मर्मप्रकाशोक्तो न कमपि विच्छित्यतिशयं प्रकाशयति ।
युद्धवीर हीं है-ऐसा यदि कहा जाय तो भी क्षमावीर का अन्तर्भाव कहाँ कर
सकते ? जैसे-
"मेरा शत्रु चाहे मेरे शिर पर लहलहाती आग की भट्टी जलाये या तलवार
बरसाये, मैं तो उसके विरोध में कुछ बोलता तक नहीं, प्रतीकार करने की तो बात
हीं नहीं उठती ॥"
यह किसी क्षमाशील पुरुष की उक्ति है। यहां मूलवक्ता क्षमाशील पुरुष
के प्रति अपराध करने वाला व्यक्ति आलम्बन है। 'क्षमासारा हि साधवः'
इत्यादि क्षमाप्रशंसक शास्त्रवचन उद्दीपन विभाव हैं। शिर पर आग की भट्टी
जलाने आदि को स्वीकार कर लेना अनुभाव है। धृति आदि व्यभिचारिभाव हैं।
इन सबसे क्षमावीर का अभिव्यञ्जन होता हीं है।
इसी तरह बलवीर का समावेश उपर्युक्त चार भेदों में कहाँ किया जाय ?
बलवीर का यह उदाहरण है-
"हे इन्द्र ? शेषनाग इस पृथिवी को धारण करना छोड़ दे, कूर्मावतार भगवान्
भी इसे छोड़कर आनन्द करें। इस सम्पूर्ण जगत् को तो मैं अपने पंख के एक कोने
में ही धारण कर सकता हूँ ॥"
यह इन्द्र के प्रति गरुड़ की उक्ति है। इसमें शेषनाग आदि आलम्बन हैं। उनकी
प्रशंसा का श्रवण उद्दीपन हैं। पृथिवी के धारण के लिए किये गये इच्छादि अनुभाव
हैं। गर्व आदि व्यभिचारिभाव हैं। इन सबसे बलवीर रस की व्यञ्जना होती है।
इस प्रकार स्पष्ट है कि वीररस को पूर्वोक्त चार भेदों में हीं विभक्त करना केवल
प्रथमाननम् १५७
ननु 'अपि वक्ति—' 'परिहरतु धराम्—' इति पद्यद्वये गर्व एव नोत्साहः,
मध्यस्थपद्ये तु धृतिरेवच्छन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत् ?
तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः ? रसध्वनिसामान्यमेव
वा किं न तद्व्यभिचारिध्वननेन गतार्थयेः ? स्थायिप्रतीतिर्दुर्पह्नवा चेत् ?
प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते, दयावीरादिषु प्रतीयत
इति तु राज्ञामा(राजा)ज्ञामात्रम् ।
गर्व इति । पूर्वपद्ये स्वविद्याप्रकर्षज्ञानाधीनं परावहेलनम्, द्वितीये पुनः स्वबलो-
त्कर्षज्ञानाधीनं तदिति विवेकः । उत्साहो वीररसस्थायिरूपेण व्याख्यातपूर्वः । मध्यस्थं
पद्यम् 'अपि बहलदहनजालम्' इत्यादि । धृतिः = शोकभयादिजन्योपप्लवनिवारणक।-
रणीभूतश्चित्तवृत्तिविशेषो धैर्यादिशब्दाभिधेयः । रसध्वनिसामान्यम् = रसध्वनिमात्रम्,
सर्वं रसध्वनिमिति भावः । तद्व्यभिचारिध्वननेन = तत्तद्रसव्यभिचारिणां तत्र तत्र
रसध्वनिस्थाने ध्वननमिति सर्वत्रैव भावध्वनिस्वीकारेण । अनन्तरोक्तपद्ये = पाण्डित्य-
वीराद्युदाहरणत्वेनोपन्यस्ते पद्यसमूहे । उत्साहः पाण्डित्यक्षमाबलोपाधिकः स
क्रमेण । आज्ञामात्रमित्यनेन न युक्तिसिद्धमिति प्रदर्शितम् । तथा च सम्भवत्सु
चतुर्भ्योधिकेष्वपि वीरभेदेषु चतुर्णामेवाङ्गीकारः प्राचामालङ्कारिकाणां प्रौढिवादमात्र-
मित्याशयः सन्दर्भस्य ।
यादृच्छिक है, प्रामाणिक नहीं ।
अब प्रश्न यह है—'अपि वक्ति......' इत्यादि पद्य में पाण्डित्य का दर्प और
'परिहरतु धराम्........' इत्यादि पद्य में बल का दर्प हीं अभिव्यज्यमान है,
पाण्डित्योत्साह और बलोत्साह नहीं; एवमेव 'अपि बहलदहनजालम्' इस मध्यगत
पद्य में भी केवल धृति का अभिव्यञ्जन होता, क्षमोत्साह का नहीं; एवञ्च इन्हें क्रमशः
पाण्डित्यवीर, बलवीर ओर क्षमावीर के उदाहरण मानकर इनके आधार पर वीर
रस के पूर्वोक्त चातुर्विध्य का निराकरण कैसे किया जा सकता ? इसका उत्तर यह
है—यदि पाण्डित्योत्साह आदि के स्थान में पाण्डित्यदर्प आदि भावों की हीं
व्यञ्जना मान्य हो तब तो युद्धवीरादिस्थलों में भी युद्धदर्पादि की हीं प्रतीति मानिये,
युद्धोत्साह आदि की नहीं; एवञ्च युद्धोत्साहादि की व्यञ्जना के आधार पर वीररस
का उक्त चातुर्विध्य भी असंगत हो जाएगा । इस प्रकार सभी रसध्वनियों के स्थलों
में उन उन भावों की हीं अभिव्यञ्जना स्वीकार कर सभी रसध्वनियों का हीं उच्छेद
प्राप्त हो जाता । अतः यदि युद्धवीरादि-स्थलोंमें युद्धोत्साहादि की मुख्यतया व्यञ्जना
इष्ट हो तो पाण्डित्यवीरादि की भी ध्वनि अवश्य मन्तव्य है । युद्धवीरादि इसलिए
मान्य हैं कि इनके पूर्वनिर्दिष्ट उदाहरणों में युद्धोत्साहादि स्थायिभावों की प्रतीति
१५८ रसगङ्गाधरः
अद्भुतो यथा—
चराचरजगज्जालसदनं वदनं तव ।
गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना ॥
कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः ।
अत्र वदनमालम्बनम् । अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम् । हृत-
चेतनत्वम् तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभि-
चारिणः । नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते, व्यञ्जकाभावात् ।
चराऽचरेत्यादि । चराचरात्मकस्य जगज्जालस्य सदनमाश्रयः । अत्र विस्मय-
पोषकत्वादुद्देश्यविधेयभावव्यत्यासो गुण एव । गलद्गगनेत्यादि । गलद् यद्
गगनं तस्य गाम्भीर्यमिव गाम्भीर्यं यत्र । गगनस्योर्ध्ववीक्षणे गाम्भीर्यं प्रसिद्धम्,
तादृशं गगनं यदि निपतेत् तर्हि निपतितेऽपि तस्मिन् तद्गाम्भीर्यं स्यादेवेत्याशयः ।
एवमर्थे तु 'गलद्गगनगम्भीरम्' इति पाठः श्रेयान् स्यात् । अथवा गगनस्य गाम्भीर्यं
गगनगाम्भीर्यम्, तद् गलत्तिरस्कुर्वद्वदनम्, अन्तर्भावितण्यर्थत्वात् ।
का अपलाप नहीं किया जा सकता, परन्तु 'अपि व्यक्ति.........' आदि पद्यों में
पाण्डित्योत्साहादि की व्यञ्जना नहीं होती; अतः पाण्डित्यवीरादि मान्य नहीं हैं—
यह कहना सम्भव नहीं है, क्योंकि ऐसी नियुक्तिक मान्यता तो राजाज्ञा मात्र
में सम्भव है, विवेचकों की दृष्टि में नहीं । अतः पाण्डित्यवीरादि अनेकानेक
सम्भावित भेदों की उपेक्षा कर वीर रस के केवल दानवीरादि चार भेद मानना
असंगत है ॥
अद्भुत रस का उदारण निम्नलिखित है—
“हे कृष्ण ? तुम्हारे मुख को, जिसमें यह चराचरात्मक समस्त जगत् समाहित
है और जो आकाश की भी गम्भीरता को अपमानित कर रहा है, देखकर मेरी तो
चेतना हीं लुप्त हो गई है ।”
किसी समय श्रीकृष्ण के पूर्ववर्णित मुख को देखकर यशोदा की यह उक्ति है ।
यहाँ उपरिर्वाणत मुख आलम्बन है । मुख के अन्दर समस्त जगत् का दर्शन उद्दीपन
विभाव है । चेतना की लुप्तता और इससे प्रतीयमान रोमाञ्च और आंखों का
फैलना आदि अनुभाव हैं । गम्यमान त्रास आदि व्यभिचारिभाव हैं । अतः इन
सबसे अभिव्यज्यमान विस्मय का रसपर्यन्त परिपाक होने से यह अद्भुत रस का
उपयुक्त उदाहरण है । यद्यपि यशोदा की अपने पोष्य पुत्र श्रीकृष्ण में मातृसुलभ
प्रीति है अवश्य तथापि वह यहाँ व्यङ्ग्य नहीं है, क्योंकि उदाहृत पद्य में उसका
प्रथमाननम् १५९
प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते । एवं कश्चिन्महापुरु-
षोऽयमिति भक्तिरपि तस्याः पुत्रे ममायं बाल इति निश्चयेन प्रतिबन्धा-
दुत्पत्तु मेव नेष्टे । अतस्तस्यामपि विस्मयस्य गुणीभावो न शङ्क्यः ।
यच्च सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम्—
चित्रं महानेष तवावतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥ इति,
प्रतीतायामित्यादि । यत्र विद्यमानत्वाद्वस्तुतस्तस्याः प्रतीतिः स्वीक्रियते तत्र
परस्परविरुद्धत्वात्तत्प्रतिबद्धोऽनुत्कटविस्मयो न संगच्छते, यत्र पुनरुत्कटो विस्मयः
स्पष्टं प्रतीयते तत्रैतत्प्रतिबद्धा प्रीतिर्न प्रतीयते इति युगपदुभयोरसम्भवान्न प्रीति-
विस्मययोरङ्गाङ्गिभावः शक्योपपाद इति तात्पर्यम् । प्रकृतपद्ये कथञ्चित् प्रतीय-
मानाऽपि प्रीतिरुत्कटं प्रतीयमानस्य विस्मयस्यात्मगुणीभावं न प्रतिपादयितुं क्षमा,
अनुत्कटत्वादिति मर्मप्रकाशव्याख्यानम् । प्रीतिश्चात्र वात्सल्यरूपा प्रकृष्टविषयिण्याः
परानुरक्तिरूपाया भक्तिपदाभिधेयाया विजातीयैव, अनयोरेव च प्रतिबध्यप्रतिबन्धक-
भावोऽनुभवानुरोधादिति बोध्यम् ।
प्राचीनैः = काव्यप्रकाशकारैः । चित्रमित्यादि । बलिर्वामनमभिधत्ते । तवैष महान्
नवश्चावतारश्चित्रम्, अलोकिकः । आश्चर्यमित्यपव्याख्यानम्, तथा सति स्थायिनो
वाच्यत्वापत्तेः । एषा साक्षात्क्रियमाणा तव कान्तिः क्व ? न कुत्रापीत्यर्थः । तव
अभिव्यञ्जक तत्त्व विद्यमान नहीं है । जहां प्रीति ( वात्सल्य ) व्यङ्ग्य होती वहाँ
विस्मय की प्रतीति होती ही नहीं, क्योंकि उत्कट-अनुत्कट वात्सल्यस्वरूप प्रीति-
विस्मय में विरोध होने से दोनों की एक साथ प्रतीति हो नहीं सकती । अतः उक्त
प्रीति का प्रकृत में प्रतीयमान उत्कट विस्मय कभी गुण (अङ्ग) नही हो सकताः इसी
प्रकार श्रीकृष्ण के प्रति यशोदा का पुत्रभाव होने से श्रीकृष्ण में उनके महापुरुषत्व
के कारण यशोदा की भक्ति भी नहीं हो सकती, क्योंकि पुत्रभाव का निश्चय भक्ति
का प्रतिबन्धक है । भक्ति सर्वदा भक्त की अपेक्षा भजनीय में जिस उत्कर्ष के ज्ञान की
आवश्यकता रखती पुत्र के विषय में तादृश उत्कर्ष का ज्ञान हो नहीं सकता । अतः
यशोदा का विस्मय उनकी श्रीकृष्णविषयक भक्ति का भी अङ्ग नहीं हो सकता ।
सहृदय शिरोमणि प्राचीन आचार्य ( मम्मट ) ने अद्भुत रस का यह
उदाहरण दिया है—
"हे भगवन् ? यह तुम्हारा वामन अवतार अत्यन्त अलौकिक है; तुम्हारी यह
छटा अन्यत्र कहाँ ! यह शरीर-संघटना भी अपूर्व है; तुम्हारा धैर्य; प्रभाव और
आकृति लोकोत्तर हैं; निश्चय ही यह एक नई सृष्टि है ।"
१६० रसगङ्गाधरः
तत्रेदं वक्तव्यम्—प्रतीयतां नामात्र विस्मय; परं त्वसौ कथंकारम्
[अद्भुतरस-]ध्वनिव्यपदेशहेतुः ? प्रतिपाद्यमहापुरुषविशेषविषयायाः
प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षंकत्वेनास्य गुणीभूतत्वात् । यथा महा-
भारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सर्वां-
स्तथा भूतविशेषसङ्घान्' इत्यादौ वाक्यसन्दर्भे । इत्थ चास्य रसालंका-
भङ्गिर्गमनादिक्रियाप्रकारोऽपि अभिनवैव, तव धैर्यमपि लोकोत्तरम्, प्रभावश्च तथा
लोकोत्तर एव, अहो इति हर्षे विस्मये वा, एषा तवाकृतिरपि अलौकिकी, एष सर्गः
शरीरं च नूतनोऽपूर्वः !
अत्र वामनालम्बनः कान्त्यादिदर्शनोद्दीपितो विस्मयो व्यज्यमानो रसो
मुख्यत्वात् ध्वनिपदव्यपदेश्य इत्याशयः काव्यप्रकाशकाराणाम् । तं निराचष्टे—
तत्रेत्यादिना। प्रतीयतामिति । सर्वेषां लोकोत्तरत्ववर्णनाद् व्यज्यतां विस्मयः
कथञ्चिदित्यर्थः । गुणीभूतत्वादित्यस्य भक्तेरिति शेषः । भक्तिर्नैवात्रेत्यत्र अत्रशब्देन
चित्रमित्यादि पद्यं विवक्षितम्, तथा गीतोक्तमपि, प्रकरणात्तत्रापि भक्तिप्रतीतेः ।
दूरेत्यादि । सर्वत्रैव पद्ये वामनस्य लोकोत्तरधर्मवर्णनात्स्तुतिः प्रतीयत
एवेत्याशयः ।
इदमत्र विवेचनीयम्—प्रबन्धकाव्यान्तर्गतम् अङ्गरसाभिव्यञ्जकं पद्यं तत्तद्रस-
ध्वनेरुदाहरणं भवितुमर्हति न वेति । तत्राद्ये निरपेक्षतयैव तस्य तत्त्वं निर्वाह्यम् ।
अन्त्ये तु स्वतः प्राधान्येऽपि अङ्गिरसापेक्षया प्राधान्याभावान्न तद् रसध्वनेरुदा-
हरणम् । तथा च प्रबन्धेऽङ्गिरसाभिव्यञ्जकं वाक्यं तत्तद्रसध्वनेरुदाहरणम्, अन्येषां
चोदाहरणानि यथायथं मुक्तकानि, तत्तद्रसप्रधानकाव्यगतानि तत्तदङ्गिरसाभिव्यञ्ज-
कानि, अङ्गयपेक्षयाऽधिकप्रकर्षवत्त्वादङ्गतयाभिमतान्यप्यनङ्गत्वं प्राप्तानां तत्त-
द्रसानामभिव्यञ्जकानि च वाक्यानीति । यथा तु सम्प्रदायस्तथा पूर्व एव पक्षः
समर्थ्यते ।
यह भगवान् वामन के प्रति बलि की उक्ति है । इस विषय में मेरा यही कथन
है कि यहाँ वामनालम्बनक बलिनिष्ठ विस्मय की प्रतीति भले हीं हो पर वह
अद्भुतरसध्वनिपर्यन्त प्रकर्ष को प्राप्त नहीं है, क्योंकि इसमें तो वामन के
विषय मे बलि में जो महापुरुषत्व-बोध है उससे बलि में उत्पन्न वामन-विषयक
भक्ति (=निरतिशय प्रेम ) हीं प्रधान रूप में अभिव्यक्त हो रही है, प्रतीयमान
विस्मय तो इसी भक्ति का पोषक—अङ्ग है, प्रधान नहीं । अतः इस विस्मय
की स्थिति तो वही है जो गीता में "हे भगवन् ! तेरे शरीर में तो मैं सभी
देवों और भूत-भौतिक पदार्थों को समाहित देख रहा हूँ" ऐसा कहने वाले
रत्वमुचितम्। भक्तिर्नैवात्र प्रतीयत इति चेद् ? दरमुकुलितलोचनं विदां-
कुर्वन्तु सहृदयाः ॥
हास्यो यथा—
श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा।
अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपत्न्याः ॥
तार्किकपुत्रोऽत्रालम्बनम्। तदीया निःशङ्कोक्तिरुद्दीपिका। रदन-
प्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः।
तातपादैः = पितृचरणैः। कथमित्यनेन गर्दभधर्मपत्न्या गर्दभ्या अपि पूर्वाङ्गं
गोपूर्वाङ्गवत् पवित्रम्, चतुष्पदस्त्रीपूर्वाङ्गत्वस्य पवित्रताधिकरणतावच्छेदकत्वेन
तातपादाभिमतस्य तत्रापि तुल्यत्वादिति सूच्यते।
तार्किकपुत्र इति। तार्किकोऽत्रालम्बनमिति युक्तम्, मूलवक्तुरेवालम्बन-
त्वौचित्यात्। अन्यथा सर्वत्र कवेरेवालम्बनत्वापत्तेः। यद्वा श्रोतुस्तार्किकपुत्रवचन-
श्रवणादेव हासो जायत इति यथाश्रुतं संगमनीयम्। तदीया=आलम्बनत्तृका।
रदनेत्यादि। रदनं दन्तः, तस्य प्रकाशादिरनुभावः, उद्वेगादयश्च वक्ष्यमाणलक्षणा
अर्जुन मे श्रीकृष्णालम्बनक विस्मय की है। अतः जैसे अर्जुन में प्रतीयमान
विस्मय अर्जुन की श्रीकृष्ण-विषयक भक्ति का अङ्ग है उसी तरह यह विस्मय भी
बलि की वामन-विषयक भक्ति का अङ्ग है। अत एव 'चित्रं महानेष.........'
इत्यादि पद्य में प्रतीयमान विस्मय अन्यत्र रसपर्यन्त प्रकर्ष को प्राप्त होने पर भी
प्रकृत में भक्ति का अङ्ग होने से अलङ्कार मात्र है जिसे 'ब्राह्मणश्रमण' न्यायानुसार
रसवदलङ्कार या रसालङ्कार कहा जा सकता है, रस नहीं। प्रकृत पद्य में भक्ति की
प्रतीति नहीं होती—यह तो नहीं कहा जा सकता, क्योंकि वामन के सब कुछ के
लोकोत्तरत्व-कथन पर जरा-सा दृष्टिपात करते हीं सहृदयों को बलिनिष्ठ वामन-
विषयक भक्ति की प्रतीति होने में कोई संशय नहीं रह जाता। अतः उक्त उदाहरण
असंगत है ॥
हास्य रस का उदाहरण निम्नलिखित है—
“मेरे पिता जी ने अपने निबन्ध (ग्रन्थ) में एक नई युक्ति बतलाई है कि यदि
चतुष्पद गाय के शरीर का पिछला भाग धर्मशास्त्र के अनुसार पवित्र है तो गर्दभी
के शरीर का पिछला भाग पवित्र क्यों न माना जाय ? अर्थात् वह भी पवित्र
है हीं ॥”
अपने कुतार्किक पिता की बात कहने वाला उसका पुत्र यहाँ हास्य का आलम्बन
है। उसका निःशङ्क उक्त कथन उद्दीपन विभाव है और उसका दांत विचकाना
एवम् उद्वेग आदि व्यभिचारिभाव हैं। इन सबसे हास्य रस की ध्वनि
१६२ रसगङ्गाधरः
अत्राहुः—
आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् ।
आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ।।
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते ।
योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ।।
व्यभिचारिण इति यथासंख्यमन्वयः ।
सम्प्रति हास्यभेदप्रभेदानाह—अत्राहुरित्यादिना । विभावेक्षणमात्रत
इति । विभावो हासजनको विकृतवेषादिः, तस्य दर्शनमात्रादुत्पन्न इत्यर्थः । परस्थं
वर्णयति = हसन्तमपरमित्यादिना । अयमाशयः—यदा विकृतवेषादिविभावज्ञान-
युक्तमेकं हसन्तं पुरुषं दृष्ट्वा परो विभावमपश्यन्नपि हसति तदा परस्थो हास्य-
रसः । तत्र च एक एव विभाव एकत्र हासं प्रसूय परत्र तं संक्रामयति । एतच्च
हासस्याम्लरसादिवत्संक्रमणस्वभावत्वादुपपद्यते । अत्र हसत एकस्य पुरुषस्य हास
एव परस्य विभाव इति रसचन्द्रिकाव्याख्यानमसत्, हासस्य विभावत्वानुल्लेखात्,
अभिनवभारत्यामस्य स्पष्टं निरासाच्च । अतो हास एकस्थो निमित्तमात्रं परस्थ
इति युक्तम् । यद्येक एव हासः संक्रमणशीलः परत्रापि मृगमदवासनावत् प्रसरति,
अतो निमित्तत्वमपि न घटते । अधिकरणभेदाच्च भेदबोध इति मन्तव्यम् ।
अन्यथा संक्रमणस्वभावताभङ्गप्रसङ्गः । यस्य तु हसन्तमपरं दृष्ट्वापि न हासः
स्तत्र पूर्ववासनाया अभावस्तदुद्बोधाभावो वा हेतुः । यदा त्वेकं शोकाद्याविष्टं
दृष्ट्वा परोऽपि शोकादिमान् भवति तदा तत्र परस्य विभावज्ञाने तदुत्थ आत्मस्थ एव
शोकादिर्न परस्थः, तत्रान्यस्यैव शोकादेराविर्भावात् । यत्र तु एकनिष्ठशोकाद्या-
लम्बनविभावाज्ञानेऽपि शोकादिः संक्रान्त इव प्रतीयते तत्रान्यः शोकादिरेवैकशोका-
दिज्ञानजन्य इति न तत्रापि शोकादेः संक्रमणम् । तस्य च परगतशोकादेः शोकाद्या-
विष्टचित्तः पुरुषः एव विभावः । अत एव शोकाद्याश्रयैकपुरुषदर्शनापरनिष्ठ-
शोकाद्योश्चेष्टादिहेतुकैकपुरुषनिष्ठशोकाद्यनुमितिव्यवहितत्वमानुभविकम् । न चैवं
होती है ॥
हास्य रस के विषय में पूर्वाचार्यों ने यह कहा है—
हास्य रस के दो भेद हैं—आत्मस्थ और परस्थ । विकृत वेश-भूषादिस्वरूप
विभाव के अवलोकन-श्रवणादि से सहृदय में उत्पन्न (=अभिव्यक्त ) हास रस
आत्मस्थ है। किन्तु 'हसते हुए किसी व्यक्ति को देखकर हँसने वाले अन्य
व्यक्ति में अभिव्यक्त हास्य रस रस परस्थ है। हास की संक्रमणशीलता ही इस
भेद का कारण है जिसके चलते विभावज्ञान से एक व्यक्ति में अभिव्यक्त हास्य